वादजल्पवितण्डानां इति शुद्धं स्वलक्षणम्
कथालक्षणपञ्चिका
(टी.) कथालक्षणोपसंहारद्वारेण, न एतत् वाद्यन्तरोक्तवत् असाधु प्रतिपत्तव्यं इत्याह
कथालक्षणम्
वादजल्पवितण्डानां इति शुद्धं स्वलक्षणम् ॥ २४ ॥
यद्यपि कथा सामान्यलक्षणं च उक्तम्, तथापि तत् आर्थिकं इति वादाऽदिविशेषोपसंहार एव कृतः । वादाऽदीनामेव व्यवहाराङ्गत्वं न तु कथासामान्यस्य इत्यतो वा । यस्मात् स्वलक्षणं स्वरूपलक्षणं तस्मात् शुद्धं अव्याप्त्याऽदिशून्यम् । न हि तत्स्वरूपं तत् न व्याप्नोति व्यभिचरति च इति ।
कथालक्षणटीकाभावदीपः
(रा. टि.) || सामान्यलक्षणं चोक्तमिति ॥ कथापदाऽवृत्त्यादिना स्वकृतव्याख्याऽनुरोधेन इति भावः ॥ आर्थिकमिति ॥ विभागोक्त्या तस्य सामान्यलक्षणपूर्वकत्वनियमेन आक्षेपलब्धस्यैव अस्माभिः व्याख्यातत्वेन कण्ठतोऽनुक्तत्वात् इति भावः ॥ इत्यतो वेति ॥ वादादिविशेषोपसंहारः कृत इत्यनुकर्षः । व्याचष्टे ॥ यस्मा- दित्यादिना || अव्याप्त्यादिहीनतां व्यनक्ति ॥ न हीति । तत् इति ॥ तत् वादाऽदिलक्ष्यं न व्याप्नोति न हि इति असम्भवाव्याप्ती निरस्ते । न हि व्यभिचरति च इति अतिव्याप्तिः निरस्ता ।
कथालक्षणटीकाविवरणं
(वे. टि.) ॥ वाद्यन्तरोक्तवदिति ॥ वाद्यन्तरोक्त फलाऽधिकारिभेदगर्भलक्षणवत् इत्यर्थः ॥ आर्थिक- मिति ॥ विशेषविभागोद्देशान्यथानुपपत्त्या सूचितयोजनया लब्धं इत्यर्थः ॥ शुद्धं स्वलक्षणं इत्यनयोः एकार्थत्व भ्रान्तिनिरासाय आह || यस्मादिति ॥ हेतुसद्भावं उपपादयति । न हीति ॥ उक्तानां प्रवृत्तिप्रकारभेदगर्भ- लक्षणानां वादाऽदिस्वरूपत्वाभावात् इति भावः । यद्यपि अधिकारिभेदगर्भाण्यपि लक्षणानि पूर्वं उक्तानि, तथाऽपि तानि पररीतिं आश्रित्य उपलक्षगत्वेन उक्तानि इति अदोषः । अत एव अधिकारिभेदस्तु उपलक्ष- णत्वेन उक्तः इत्युक्तम् ।
ग्रन्थस्य साधुतासमर्थनम्
कथालक्षणपञ्चिका
(टी.) न केवलं एतत् कथालक्षणं उपपच्या साधु प्रतिपत्तव्यम् । किं नाम : परमाप्रोक्त- त्वात् आगमान्तरसिद्धत्वाच्च इति दर्शयन् उक्तस्य विनियोगं आह
आशास्ते
कथालक्षणम्
आनन्दतीर्थमुनिना ब्रह्मतर्काऽनुसारतः ।
कथालक्षणमित्युक्तं प्रीत्यर्थं शार्ङ्गधन्वनः ॥ २५ ॥
भक्त्यतिशयवशात् भगवान् आचार्यः प्रकरणनिर्माणफलत्वेन परमेश्वरप्रशंसा पुरस्सरं तत्प्रसादं
ग्रन्थफलाशंसनम्
कथालक्षणम्
सदोदितामितज्ञानपूरवारितहृत्तमाः ।
नरसिंहः प्रियतमः प्रीयतां पुरुषोत्तमः ॥ २६ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु दशप्रकरणेषु कथालक्षणं सम्पूर्ण ॥ सदोदितं अनादित आविर्भूतं प्रलयेऽपि अविलुप्तं । अमितं आलोचने सर्वविषयम् । सदो- दिताऽमितज्ञानपूरेण तं दत्वा इति यावत् । वारितं अस्मदीयं हृत्तमः अज्ञानं अनेन इति तथोक्तः । तस्मात् परमोपकारित्वात् स्वभावेन परमप्रेमविषयत्वाच्च तत्प्रसादाऽशंसनमेव युक्तम् इति ।
कथालक्षणटीकाभावदीपः
(रा. टि.) ॥ आनन्दतीर्थमुनिना इत्यस्य अभिप्रायः परमाप्तोक्तत्वात् इति । ब्रह्मतर्क इत्यादेः तात्पर्यं आगमान्तरेति ।
प्रकरण निर्माणफलत्वेन इत्यस्य तत्प्रसादं आशास्ते इत्यन्वयः । अनेन उत्तरार्धार्थ उक्तो भवति । पूर्वार्धार्थं आह । परमेश्वरप्रशंसापुरस्सरमिति ॥ तं दत्वेति ॥ तादृशज्ञानप्रवाहं दत्वा इत्यर्थः । अस्मदीयं भगवत्पादीयम् । तद्विशेषणतात्पर्य परमेत्यादि । प्रियतमपदतात्पर्यं स्वभावेनेत्यादि ।
कथालक्षणटीकाविवरणं
(वे. टि.) ॥ उपपच्येति ॥ स्वलक्षणरूपया इत्यर्थः ॥ परमातेति ॥ मुनिना इत्यनेन आप्तत्वस्य, आनन्दप्रदशास्त्रकर्तृत्वार्थकेन आनन्दतीर्थ इत्यनेन तत्परमत्वस्य च लाभात् इति भावः ॥ आगमान्तरेति ॥ परमाप्तभगवत्पादोक्तेः आगमत्वात् तदपेक्षया ब्रह्मतर्कस्य आगमान्तरत्वं इति ज्ञातव्यम् । तथा च स्वभावाभिज्ञं प्रति स्वोक्तेरेव आगमत्वं तदनभिज्ञं प्रति ब्रह्मतर्कस्य इति भावः । शार्ङ्गधन्वन इत्यत्र शार्ङ्गं धनुः यस्य इति विग्रह: । ' धनुषश्व' इति समासान्तोऽङ ।
सदोदितामितज्ञानस्य ईश्वरीयत्वे तस्य अज्ञानाभावेन न तन्निवर्तकत्वोक्तिः युक्ता । ज्ञानस्य स्वसमा- नाधिकरणाऽज्ञान निवर्तकत्व स्वाभाव्यात् इत्यतो यथावत् व्याचष्टे ॥ सदोदितमित्यादिना ॥ ' आलोचने सर्वविषयं ' इत्यत्र ' ईशादन्यत्र ' इति ग्राह्यम् । सदोदित इति विशेषणस्य प्रियतम इति विशेषणस्य च प्रयोजनं क्रमेण दर्शयति ॥ परमोपकारित्वादिति । स्वभावेनेति ॥ उपकारित्वप्रयुक्तं न प्रेम, येन पृथगुक्ति: व्यर्था इति भावः ।
कथालक्षणपञ्चिका
(टी.)
श्रीमदादनन्दतीर्थार्यहृदयामलमन्दिरा । इन्दिराऽचितपादाब्जा देवता पातु नः सदा ॥
इति श्रीमदानन्दतीर्थभगवत्पादाऽचार्यविरचितकथालक्षणविवरणं जयतीर्थभिक्षुणा विरचितं सम्पूर्णम् ।।
कथालक्षणटीकाभावदीपः
(रा. टि.) 'सदेहमानिहरये प्रणमेत्' इत्युक्तरीत्या मुख्याधिष्ठानाऽनन्द करग्रन्थकर्तृहृतं भगवन्तं ग्रन्थान्ते प्रार्थयते ॥ श्रीमदिति ॥ इन्दिरेत्यादिना प्रशंसा ।
कथालक्षणटीकाया भावदीपो यथामति ।
राघवेन्द्रेण यतिना कृतः प्रीत्यै रमापतेः ॥
इति श्रीमत्सुधीन्द्रतीर्थ गुरुपादशिष्यराघवेन्द्रतीर्थयतिकृतः कथालक्षणटीकाभावदीपः सम्पूर्ण:
कथालक्षणटीकाविवरणं
(वे. टि.) समापितग्रन्थः अन्तेऽपि मङ्गलं आचरति || श्रीमदानन्देति ॥
रघूत्तमगुरुप्रोक्तो भावो जयमुनेरिह ।
वेदेश भिक्षुणा बालबोधायाऽल्पतयेरितः ॥ माध्वीयशुद्धहृदयाम्बुरुहस्थो रमापतिः ।
व्यासोऽस्त्वनेन सुप्रीतः कथानिर्णीत सद्गुणः ||
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितकथा लक्षण पञ्चिकायाः श्रीमज्जयतीर्थ भिक्षुविरचितायाः विवरणं रघूत्तम शिष्यवेदेश भिक्षुविरचितं सम्पूर्णम् ।