पृष्टेनाऽगम एवादौ वक्तव्यः

वादजल्पकथयोर्भेदः

कथालक्षणपञ्चिका

(टी.) ननु वादजल्पयोः को भेदः द्वयोरपि सदधिकारित्वात् स्वरूपभेदाभावे अधिकारि- मेदस्यातिप्रसञ्जकत्वाच्च । अत एव तत्वबुभुत्सुत्वख्या। त्यादिकामत्वरूपोऽधिकारिविशेषोऽपि अनुप-(टी.) योगितया परास्त: । वादस्तत्वज्ञानं प्रसूते जल्पस्तु ख्यात्यादिकमिति भेद इति चेन्न । स्वरूप- भेदाभावेऽस्य फलभेदस्यैव अनिर्वाहात् । न हि कथा कल्पलता येन स्वयमविचित्राऽपि सती पुरुषम- नोरथवशेन विचित्रं फलं प्रसुवीत । न च जल्पविण्डयोरिव प्रवृत्तिप्रकारभेदेन फलभेदः । उभय त्रापि स्वपरपक्षसाधनोपालम्भसद्भावेन तदभावादिति । मैवम् । प्रमाणतर्काभ्यामेव वादे खपरपक्ष- साधनोपालम्भौ क्रियेते, जल्पे तु प्रमाणतर्काभ्यां छलादिना च । न चोभयोः प्रमाणतर्कासम्भवः । अभिप्रायनियमस्य विवक्षितत्वात् । तदेवं प्रवृत्तिप्रकारभेदात् युक्तः फलभेदः, कथाभेदश्च सम्भवती: त्याशयवान् वादप्रकारं तावत् दर्शयति
वादिना स्वपक्षसिद्धये आगम एव वक्तव्यः

कथालक्षणम्

पृष्टेनाऽगम एवादौ वक्तव्यः.
वादे, प्रतिवादिना वादिनं प्रति विचार्ये प्रमेये प्रमाणं प्रष्टव्यम् । पृष्टेन च वादिना तावदागम एव वक्तव्यः न तु छलादिना प्रश्नखण्डनं कर्तव्यम् । नाप्यनुमानं दुरागमो वा वक्तव्यः ।
छलादिना प्रश्नखण्डनमकृत्वा कुतो वादिना प्रमाणमभिधेयम् ? इति तत्राह

कथालक्षणम्

..............................................साध्यसिद्धये ॥
वादी हि तत्वनिर्णयं कामयते । न तु परपराभवम् । प्रमाणमेव च तत्वनिर्णयाय प्रभवति । न तु छलादिना प्रश्नखण्डनम् । आगमः कुतो वक्तव्यः इत्यत्राप्येतदेवोत्तरम् । आगमो हि साध्य- सिद्धये कल्पत इति ।
अनुमानस्य साध्यसिद्ध्यनुपयोगित्वम्
अस्त्वागमस्य वक्तव्यता तन्नियमस्तु कुतः ? अनुमानेनापि साध्यसिद्धिसम्भवात् इत्यत आह

कथालक्षणम्

नैषा तर्केणापनेया मतिरीत्याह हि श्रुतिः ॥ ८ ॥
यस्मात् तत्वमतेरनुमानासाध्यतामाह श्रुतिः तसादागमनियमः ॥

प्रतिवादिना वाद्युक्तं प्रमाणं दूषयित्वा स्वपक्षे प्रमाणं वक्तव्यम्

कथालक्षणपञ्चिका

(टी.) वादिना आगमेन खपक्षे साधिते प्रतिवादिना किं कर्तव्यम् ? वाद्युपन्यस्तं प्रमाणं दृषणी- यम् । प्रतिपक्षे तस्मिञ्जागरूके तत्वनिर्णयायोगात् । उभयत्र प्रमाणोपपत्तौ संशयानतिक्रमात् । उपस्थि- तसाधनादूपणे स्वपक्षसाधनस्यानवसरात्|

कथालक्षणटीकाभावदीपः

( रा. टि. ) पृष्टेन इति वाक्यमवतारयितुं आक्षिपति ॥ नन्विति ॥ अतिप्रसञ्जकत्वाच्चेति ॥ एकस्मिन्नपि वादादौ तत्प्रसङ्गादित्यर्थः ॥ अत एवेति ॥ स्वरूपभेदाभावेऽपि अधिकारिभेदस्यातिप्रसञ्जकत्वादेवेत्यर्थः || प्रमाणतर्कासम्भव इति ॥ तथात्वे विप्रतिपन्नप्रमेयस्य द्वैरूप्यापत्तेरिति भावः || अभिप्रायेति ॥ मयोच्य- मानौ प्रमाणतर्कावेवेति द्वयोः अभिप्रायनियमस्येत्यर्थः । जल्पे तु नैवं नियमः छलाद्यपि पाक्षिकजयार्थं मयोच्यत इति कचित् अभिप्रायसत्त्वात् इति भावः । आदौ इत्युक्त्तयभिप्रायोक्तिः छलादिना प्रश्नखण्डनमकृत्वेति । एतदेव 'साध्यसिद्धये' इत्येतदेवेत्यर्थः । शेषोक्त्या शङ्का निरस्येति भावेनाह ॥ कल्पत इति ॥ समर्थो भवतीत्यर्थः ॥ एवकारोक्ति आक्षिपति || अस्त्विति ॥ हिशब्दार्थमाह ॥ यस्मादिति ॥ तत्वमतेः तत्व- ज्ञानस्येति श्रौतमतिशब्दार्थः । एषा तत्वमतिः तर्केण आनेया साध्या न भवति अपनेया बाध्या च न भवति इत्यनुमानासाध्यतामहेत्यर्थः । तर्कशब्दोऽत्र अनुमानमात्रपरो न प्रसञ्जनात्मकदूषणानुमानविशेषपर इति भावः । प्रतिवादिनापि वादिनेव खपक्षे प्रमाणं वक्तव्यम् इत्याह ॥ उभयत्रेति । वादिसाध्ये प्रतिवादिसाध्ये च इत्यर्थः ।

कथालक्षणटीकाविवरणं

(वे. टि.) ॥ अनुपयोगितयेति ॥ स्वरूप भेदाभावे अधिकारिभेदस्यातिप्रसङ्गेन कथा भेदोपयोगाभावा- दित्यर्थः ॥ अभिप्रायनियमस्येति || आभिमानिकनियमस्येत्यर्थः ।
एवकारस्य वक्तव्य एवेत्यन्वयमभिप्रेत्याह । न तु छलादिनेति । अस्मिन् प्रमेये किं मानं ? इति प्रतिवादिना पृष्ठे मानशब्दस्य मर्यादार्थत्वमारोप्य ' इदानीं प्रमेयमर्यादाप्रभोऽसङ्गतः' इति छलेन प्रश्नखण्डनं ज्ञेयम् । आदिपदेन " प्रश्नार्थात् किंशब्दात् जिज्ञासाविषयता अर्थस्य प्रतीयते । जिज्ञासा च ज्ञातुमिच्छा । इच्छा च' न ज्ञाते भवति अतिप्रसङ्गात् । तस्मात् ज्ञातुमिच्छता तत्र खज्ञानं इच्छाकारणीभूतं वक्तव्यम् । तत् यथार्थं अयथार्थं वा स्यात् । यथार्थं चेत् तर्हि तेनैव ज्ञानेन स्वकीयो विषयः प्रमाणमुपस्थाप्यते । विषये प्रमाण- प्रवृत्तिमन्तरेण तदीययथार्थत्वस्य वक्तुं अशक्यत्वात् । तथा च तेनैव प्रमाणेन स्वविषयः सिद्ध एवेति सिद्धोऽस्माकं प्रमेयसिद्धिमनोरथः । अथ अयथार्थं तर्हि तस्मिन् अयथार्थज्ञानविषये यदि अस्माभिरपि अय- थार्थमेव ज्ञानं उत्पादनीयं इति भवतो वाञ्छितं तदा वयं यथार्थज्ञानस्यैव उत्पादयितारो न तत्र कृतिनः । अथ मदीयस्य यथार्थज्ञानस्य यो विषयः स मदीययथार्थज्ञानविषयो भवता क्रियतां इति त्वदीयं वाञ्छितं तदा व्याघातात् ईदृशाऽर्थे प्रवृत्तिरेव अनुपपन्ना " इत्यादिरूपं खण्डनकारोक्तप्रश्नखण्डनं सङ्गृह्यते ।
(वे. टि.) एवशब्दस्य यथाऽवस्थिताऽन्वयं अपि अभिप्रेत्य आह ॥ नाप्यनुमानमिति ॥ अनुमाना- साध्यतामिति ॥ अनेन आ अप इति छेदं अभिप्रेत्य एषा तत्वविषया मतिः तर्केण आनेया उत्पाद्या न इत्यपि श्रुत्यर्थ इति सूचयति । ननु वादिवत् प्रतिवादिनाऽपि आदौ खपक्षे प्रमाणमेव वक्तव्यं किं परपक्षदूषणेन ? इत्यत आह || प्रतिपक्ष इति ॥ ननु अस्तु वाद्युपन्यस्तप्रमाणदूषणं आवश्यकम्, तथाऽपि स्वपक्षसाधनमुपन्यस्य प्रतिवादिना वाद्युपन्यस्तं साधनं दूष्यतां इत्यत आह || उपस्थितेति । प्रतिपक्षतयोपस्थितेत्यर्थः ।

प्रतिवादिना वाद्युक्तस्यागमस्यान्यार्थकथनमेव तद्दूषणम्

कथालक्षणपञ्चिका

(टी.) आगमस्य च दूषणं कीदृशम् ? इत्यपेक्षायामाह

कथालक्षणम्

अन्यार्थ एवागमस्य वक्तव्यः प्रतिवादिना ।
द्वेधा हि प्रमाणदूषणं, सर्वथा निर्विषयत्वापादनं पराभिमतार्थप्रच्यावनं च । तत्रागमस्या- यार्थताकथनेन वाद्यभिमतार्थप्रच्या वनमेव प्रतिवादिना कर्तव्यं, न तु सर्वथा अप्रामाण्यं ।
सदागमाः
कुतो नाप्रामाण्यं वक्तव्यमिति चेत् ? आगमशब्देन हि सदागमा विवक्षिताः । सदागमाश्च श्रुतिस्मृतीतिहासपुराणलक्षणा एव । तत्र श्रुतीनामपौरुषेयत्वेन अप्रामाण्य कारणशून्यानामप्रामाण्य वक्तुं तावन्न शक्यं । स्मृत्यादीनामप्याप्तप्रणीततया श्रुत्यानुकूल्येन च दोषाभावनिश्चयान्नाप्रामाण्यं वक्तुं शक्यते । अतो विषयान्तरोपदर्शनेन वाद्यभिमतार्थप्रच्यावनमेव न्याय्यमित्याशयवानाह

कथालक्षणम्

ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकम् ॥ ९ ॥

मूलरामायणं चैव सम्प्रोच्यन्ते सदागमाः ।

अनुकूला य एतेषां ते च प्रोक्तास्तदागमाः ॥ १० ॥

चकारा अन्योन्यसमुच्चये । एवकारस्त्वेत एव सदागमा इत्यनेन सम्बद्ध्यते । सम्प्रो- च्यन्ते प्रोक्ता इत्यनेन ऋगाद्या भारतं चैव इत्यागमं सूचयति ।

दुराग्रमा वादिना साध्यसिद्धये न प्रयोक्तव्याः

कथालक्षणपञ्चिका

(टी.) ननु यदा वादी परिगणितं वेदादिकं वदेत् तदा प्रतिवादिनाऽन्योऽर्थोऽभिधीयताम् । यदा तु अपरिगणितं पाशुपतादिकमभिदधीत, तदा तु अप्रामाण्यं वक्तुं शक्यत एव । अतः कथं अन्यार्थ एवागमस्य वक्तव्यः इति नियमः इत्यत आह

कथालक्षणम्

अन्ये दुरागमा नाम तैर्न साध्यं हि साध्यते ।

यतः परिगणितेभ्योऽन्ये दुरागमाः प्रसिद्धाः दुरागमास्तदन्य इत्यादौ । अतो वादिना तत्वबुभुत्सुना तैर्न साध्यं साध्यते । साध्यसाधनाय ते न प्रयोक्तव्या एव । तथा च सर्वथा अप्रामाण्यकथनस्य अप्रसङ्गात् उक्तनियमो युक्त एव ।

प्रतिवादिनापि स्वपक्षसिद्धये आगम एव प्रयोक्तव्यः

वादिप्रयुक्तागमस्यार्थान्तरकथनेन किं प्रतिवादी चरितार्थ: : नेत्याह

कथालक्षणम्

स्वपक्ष आगमचैव वक्तव्यः प्रतिवादिना ॥ ११ ॥

साध्यसिद्धेः प्रमाणैकाधीनत्वादिति एवकारार्थः ।

वादिनापि प्रतिवाद्युक्तस्यागमस्य अन्यार्थता समर्थनीया

एवं प्रतिवादिना परपक्षप्रतिक्षेपे स्वपक्षसाधने च कृते वादी किं कुर्यात् ? इत्यपेक्षयामाह

कथालक्षणम्

तस्याप्यन्यार्थता साध्या वादिना

अपिर्वादिनेत्यनेन सम्बध्यते । अर्थान्तरकथनमात्रस्याप्रयोजकत्वात् साध्येत्युक्तं । एवं अन्यार्थ एवागमस्य वक्तव्यः इत्येतदपि साध्यः इति व्याख्येयम् ।
कुतो वादिना प्रतिवाद्युक्तास्यार्थान्तरं साध्यं ? तत्राह

कथालक्षणम्

....................................स्वार्थ सिद्धये ।

न हि प्रतिपक्षप्रमाणे सति स्वप्रमाणमात्रेण वादिनस्तदूपणेन विना स्वसाध्यं सिद्धयति । सप्रतिपक्षस्य प्रमाणत्व एव सन्देहात् । प्रतिवादिप्रमाणदूषणं च प्रागुक्तन्यायेनार्थान्तरकथनमेव ।
वादिना स्वोक्तागमस्य प्रतिवाद्युक्ता अन्यार्थता निरसनीया
किमेतावता जितं वादिना ?

 नेत्याह

कथालक्षणम्

अन्यार्थता निराकार्या स्वागमस्य ! ...

वादिना स्वप्रयुक्तागमस्य या प्रतिवाद्युक्ता अन्यार्थता सा निराकार्या च ।

कुतः ? इत्यत आह

कथालक्षणम्

.....................................विनिश्चयात् ॥ १२ ॥

ल्यब्लोपनिमित्ता पञ्चमी तत्वनिश्चयमुद्दिश्येति । प्रतिवादिना अर्थान्तरकथनेन वाद्यभिमता- र्थात् प्रच्यावित आगमः कथं नाम तत्वनिश्चयाय प्रभवेत् ? कथं च प्रतिपक्षदूषणमात्रेण वादिनो निस्साधनस्तत्वनिश्चयस्स्यात् ? इति ।

कथालक्षणटीकाभावदीपः

(रा. टि.) अध्याहृतैतच्छब्देन अन्वयमाह || एत एवेति ॥ इत्यागममिति ॥ तत्वनिर्णयोक्ताऽगम- मित्यर्थः || हिशब्दार्थमाह || यत इति । नाम इत्यस्यार्थः प्रसिद्धा इति ॥ कुत्र ? इत्यत आह ॥ दुरा- गंमा इति ॥
दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ।
इति तत्व निर्णयोक्ताऽगम इत्यर्थः ॥ उक्तनियम इति ॥ अन्यार्थ एवाऽगमस्य वक्तव्यः इत्युक्तनियमः । वक्तव्य एवेति एवकारान्वयमुपेत्य लब्धार्थं आह ॥ साध्यसिद्धेरिति । इत्येतदपीति ॥ प्रागुक्तवाक्यम- पीत्यर्थः । प्रमाणोत्तयैव सिद्ध्यति इत्यत आह ॥ सप्रतिपक्षस्येति । प्रतिवादिप्रमाणरूपप्रतिपक्षसहि-

वादिना खोक्तागमस्य प्रतिवाद्युक्ता अन्यार्थता निरसनीया

(रा. टि.) तस्येत्यर्थः ॥ किमेतावता जितं वादिना ? इति प्रश्नस्योत्तरं नेत्याहेति ॥ ल्यब्लोपेति ॥ ' कञ्चन - ल्यबन्तशब्दं समभिव्याहृत्य लुप्तं कृत्वा तन्निमित्ता 'पञ्चमीति शाब्दिकैः वाच्या' इत्युक्तत्वात् इहापि तथा ज्ञेयं इत्युपेत्याऽर्थमाह ॥ तत्वनिश्चयमुद्दिश्येति ||

कथालक्षणटीकाविवरणं

(वे. टि.) ॥ प्रमाणैकाधीनत्वादिति ॥ आगमरूपप्रमाणैकाधीनत्वादित्यर्थः । एवकारेति ॥ न च 'वर्णात्कार:' इति वर्णनिर्देशे कारप्रत्ययो विहितः । तत् कथं एवकार इति प्रयोगः इति वाच्यम् "बग्रहणसन्निधानेन कचित् अवर्णादपि सम्भवात् करणं कारः एवकार इति षष्ठीसमासो वेति ॥ ननु वादिना प्रतिवादिप्रयुक्ताऽगमव्यतिरिक्तस्य अन्यार्थताया असाधितत्वात् तस्यापीति अपिशब्दः कथं ? इत्यत आह ॥ अपिर्वादिनाऽपीति ॥ ननु प्रतिवाद्युक्ताऽगमस्य अन्यार्थताकथनेनैव तत्व निर्णयसम्भवे किमर्थं वादिना खाग- मस्य अन्यार्थता निराकार्या ? इत्यत आह ॥ कथं चेति ॥ निस्साधन इति ॥ वाद्यागमस्य प्रतिवादिना तदभिमतार्थात् प्रच्यावितत्वात् विद्यमानमपि साधनं अविद्यमानप्रायं इति भावः ।
उपपत्त्यादियुतस्यैवागमस्यार्थ निर्णायकत्वम्

कथालक्षणपञ्चिका

(टी.) ननु वादिप्रयुक्तागमस्य प्रतिवाद्युक्ता अन्यार्थता वादिना कथं निराकर्तुं शक्या ? मदभिमत एवार्थ:' इत्येवंवादिनि वादिनि ' न त्वदभिमतः किन्तु मदभिमत एव' इति प्रतिवाद्यपि हि वक्तुं शक्नोत्येव । ततश्च कथं वाद्यागमार्थनिर्णयस्स्यात् ? इत्यत आह

कथालक्षणम्

उपपत्त्यवकाशोऽत्र ह्यागमार्थविनिर्णये ।
हि यस्मादागमार्थविनिर्णयार्थमुपपत्तीनामवकाशः तस्मात् वाद्यागमार्थनिर्णयो युक्तः । एतदुक्तं भवति, आगमो हि न वेदादिमात्रं । तस्यार्थप्रमाजननासामर्थ्यात् । किं नाम : श्रुतो गृहीतसङ्गतिकोऽनुसंहितोपक्रमाद्युपपत्तिको वेदादिः । तस्य प्रमित्यव्यभिचारात् । तथा च वादिना स्वप्रयुक्तागमस्य स्वाभिमतार्थे उपक्रमाद्युपपत्त्यानुगुण्यं प्रतिवाद्युक्तार्थे तद्वैगुण्यं व्युत्पादनीयमेव । ततश्च कथं नाम तत्वनिर्णयो न स्यात् ? इति ।
वाद्यागमार्थे निर्णीते प्रतिवाद्यागमार्थस्ताभ्यां मिलिताभ्यां निर्णेयः
एवं वादिना स्वागमस्योपपत्तिवशेन स्वाभिमतार्थे प्रामाण्यं साधितवता स्वपक्षे साधिते, परोप- न्यस्तागमस्य च अर्थान्तरमुक्तवता परपक्षे दूषिते निवृत्तो वाद इति न मन्तव्यं ; किं नाम ?
इत्यत आह

कथालक्षणम्

वाद्यागमार्थे निर्णीत आगमार्थः परस्य तु ॥ १३ ॥

निर्णेयः सहितैः पश्चात् ……………………

कथालक्षणपञ्चिका

(टी.) परस्य इत्येतत् सामर्थ्यात् आगमशब्देन सम्बद्ध्यते । उपपत्त्यानुगुण्येन वाद्यागमस्य तद- भिमतार्थपरत्वे निर्णीते, तेन च तस्य च खपक्षसाधनसम्पत्तौ सत्यां, पश्चात् परप्रयुक्तागमस्य उपपत्ति- वशेनैव प्रतिवाद्यभिमतार्थनिरासपुरस्सरं वाद्यभिमतार्थविषयता समर्थनीया ।
इयांस्तु विशेषः, यथा वाद्यागमार्थनिर्णये वादिभावेन उपपत्तिचिन्ता क्रियते, न तथा प्रति- वाद्यागमार्थनिर्णये । किन्तु ? सहितैः सुहृद्भावेन सङ्गतैः । कुत एतत् ? वादिना स्वपक्षस्य सुदृढतरं साधितत्वात् तत एव प्रतिवादिनः परपक्षप्रतिक्षेपाक्षमत्वात प्रतिपक्षसाधनस्य 'चार्थान्तरकल्पनेन प्रामाण्य सन्देहात्, प्रबल दुर्बलयोश्च वादिप्रतिवादिभावायोगादिति।
प्रतिवाद्यागमस्य अर्थनिर्णये सत्येव निःशेषनिर्णयः

ननु पुनः प्रतिवाद्यागमार्थमीमांसानुष्ठानं किंनिबन्धनं : उक्तरीत्या वादिपक्षप्राबल्यस्य प्रतिवा - दिपक्ष दौर्बल्यस्य च निश्चितत्वात् इत्यत आह

कथालक्षणम्   

....... ततो निश्शेषनिर्णयः ।

वादिना उपपच्यानुगुण्यवैगुण्याभ्यां स्वागमस्य स्वामिमतार्थ समर्थन पराभिमतार्थनिरसनानुष्ठानेन स्वपक्षसाधने विहिते, प्रतिवादिप्रयुक्तागमस्यार्थान्तरकल्पनेन तत्पक्षे दूषितेऽपि तत एव प्रतिवादिनः परपक्षोपालम्भखपक्षसाधनाक्षमत्वेऽपि प्रतिवाद्यागमस्य वादिप्रतिवाद्युक्तार्थयोरुपपत्त्यानुगुण्यवैगुण्य'- समर्थन एव तत्व निर्णयो भवति नान्यथेति तदनुष्ठेयमेव ।
ननु परस्परविरुद्धयोर्वादिप्रतिवादिपक्षयोः वादिपक्षे प्रबले सति कथं तत्वनिर्णयो स्यात् ? इति चेन्न । वादिना प्रतिवाद्यागमस्यार्थान्तरे अभिहिते, परमार्थतः को न्वर्थः स्यात् : इति संशयस- द्भावेन वादिपक्षे प्राबल्य एव शङ्काशुकसद्भावात् । न च सति तस्मिन् वादसाध्यस्तत्व निर्णयः । तदिदमुक्तं ॥ निश्शेषेति ॥
वाद्यागमस्योपपचिवशेन वाद्यभिमतार्थपरत्वे अवधारिते तदानुगुण्येन प्रतिवाद्यागमस्यापि वाद्यभिमतार्थपरत्वनिश्वयेन सन्देह एव कुतः सावकाशस्य निरवकाशविरोधेन बाधितत्वादिति चेन्न ।

प्रतिवाद्यागमस्य अर्थनिर्णये सत्येव निःशेषनिर्णयः

(टी.) वाद्यागमस्य प्रतिवाद्यागमार्थविचारे अव्यापारितत्वात् । व्यापारितत्वे वा को नाम पुनर्युक्त्यनु- सरणं विदध्यात् ? इति ।

क्वचित् प्रतिवादिपक्षस्यापि प्राबल्यम्
अनेनैव न्यायेन प्रतिवादिपक्षप्राबल्यमपि व्युत्पादनीयम् । न हि वादिन एव जयोऽपरस्य पराभव इति नियतिरस्ति|

कथालक्षणटीकाभावदीपः

(रा. टि.) ॥ एववादिनि वादिनीति | वादित्वेन अभिमते पुंसि एवंवादिनि सतीत्यर्थः । निमित्त- सप्तमी इत्युपेत्याह । आगमार्थविनिर्णयार्थमिति । एवं हि आगम एव वक्तव्यः इत्ययुक्तं इत्यतोऽभिप्राय- माह ॥ एतदुक्तमिति ॥ आगमपदस्य अर्थपदेन समस्तस्य परस्य इति भिन्नपदेन आकाङ्क्षाविरहात् तेन अन्वयो न युक्त इत्यत आह || परस्येत्येतदिति ॥ योग्यताबलात् 'देवदत्तस्य गुरुकुलं ' इत्यादाविवेति भावः । कथं निर्णयः इत्यतो व्याचष्टे ॥ उपपत्तीति ॥ तेन चेति ॥ स्वाभिमतार्थपरत्वनिर्णयेनेत्यर्थः ॥ कुत एतदिति ॥ सहृद्भावेन सङ्गतैः, न तु वादिप्रतिवादिभावेन इत्येतत् कुत इत्यर्थः । तद्व्यनक्ति ॥ वादिनेति ॥ प्रतिपक्ष- साधनस्येति ॥ प्रतिवाद्यक्ताऽगमस्य वादिकृतार्थान्तरेणेत्यर्थः । शङ्कते ॥ वाद्यागमस्येति ॥ युक्त्यनुसरण- मिति ॥ प्रतिवाद्यागमार्थविनिर्णय इति योज्यम् ॥ अनेनेति ॥ वादिप्राबल्यन्यायेनेत्यर्थः ।

कथालक्षणटीकाविवरणं

(वे. टि.) || आगमो हीति || आगमरूपं अनुप्रमाणं इत्यर्थः । श्रुतत्वाऽदिवत् उपपत्त्यनुसन्धान- स्यापि अङ्गत्वं आवश्यकं इति सूचयितुं श्रुत इत्यादिकं उक्तं इति ज्ञातव्यम् ।। प्रमित्यन्यभिचारादिति ॥ अनुप्रमाणशरीरान्तर्गत साधनत्वस्य अविलम्बेन प्रमोत्पादकत्वरूपस्य अन्यत्र उक्तत्वात् इति भावः । ननु आग- मार्थेन सम्बन्धाभावात् कथं परस्य इति षष्ठी इत्यत आह || परस्येत्येतदिति ॥ नन्वेवं सापेक्षस्य आगमशब्दस्य कथं अर्थशब्देन समासः? इत्यत उक्तं ॥ सामर्थ्यादिति ॥ ' देवदत्तस्य गुरुकुलम् ' इतिवत् नित्यसापेक्षत्वेन सामर्थ्यानपगमात् समासोपपत्तिः इति भावः । सामर्थ्यात् योग्यताबलात् इति वा अर्थः ॥ सङ्गतैः इति बहुवचनं सखिप्रभृत्यनेककर्तृकवादविषयं जातिविषयं वा ज्ञेयम् ॥ निर्णीत इति निमित्तसप्तम्युक्तं साहित्ये हेतुं प्रपञ्चयितुं पृच्छति ॥ कुत एतदिति ॥ ननु वादिना खपक्षस्य साधितत्वेऽपि प्रतिवादिना परपक्षप्रतिक्षेपस्य करणात् कथं सङ्गतत्वं ? इत्यत आह ॥ तत एवेति ॥ ननु तथाऽपि प्रतिवादिप्रमाणे प्रतिपक्षसाधके सति कथं वादिना स्वपक्षः सुदृढतरं साधितः? इत्यत आह । प्रतिपक्षसाधनस्येति ॥ समर्थनत एव चेति ॥ तत इत्येतत् सावधारणं इति भावः ।
ननु भवतु यत्र ब्रह्मसगुणत्वाऽदिरूपं तत्वं वादिनः पक्षः तत्र अयं वादप्रवृत्तिप्रकारः । यत्र तु उक्तरूपं तत्वं प्रतिवादिन एव पक्षः । तत्र कथं ? उक्तरीत्या वाद्यागमार्थनिर्णयासम्भवात् इत्यत आह ॥ अनेनैव न्यायेनेति ॥ प्रतिवादिना पृष्टेन वादिना खाभिमते ब्रह्मनिर्गुणत्वाऽद्यर्थे आगमे अभिहिते, प्रतिवादिना च
(वे. टि.) तस्य अन्यार्थतावर्णनपूर्वकं खपक्षे आगमे अभिहिते, पुनः वादिना स्वाऽगमस्य परोक्तान्यांर्थता निरासपूर्वकं प्रतिवाद्यागमस्य अन्याऽर्थता वर्णनीया । तत्र यदि प्रतिवादी वाद्यागमस्य स्वोक्ताऽर्थे उपक्रमाद्यानुगुण्यं वाद्यभिम- तार्थे च तद्वैगुण्यं प्रदश्यं स्वप्रयुक्ताऽगमस्य स्वोक्तार्थी उपक्रमाद्यानुगुण्यं परोक्तार्थे च तद्वैगुण्यं प्रदर्शयति, तदा प्रतिवादिपक्षः प्रबलः, प्रतिवादिना स्वपक्षस्य सुदृढतरं साधितत्वात् तत एव वादिनः परपक्षप्रतिक्षेपासामर्थ्यात् वाद्युक्तप्रमाणस्य च अन्यार्थताकथनेन प्रामाण्यसन्देहात् इति प्रतिवादिपक्षप्राबल्यं व्युत्पादनीयं इत्यर्थः ।


केवलस्य साक्षिणः प्रत्यक्षस्य वा विषये तयोरेव प्रमाणतया वक्तव्यत्वम्

कथालक्षणपञ्चिका

(टी.) ननु यदि परश्चक्षुराद्येकप्रमाणके साक्ष्येकविषये वा अर्थ प्रमाणं पृच्छेत् तदा परेण किं तूष्णीमासितव्यं ? प्रत्यक्षादिकं वा वक्तव्यं ? आधे साध्यासिद्धिः । द्वितीये तु आगम एव वक्तव्यः इति नियमभङ्गः । न च प्रत्यक्षसिद्धेऽर्थे विप्रतिपत्तिरेव न सम्भवति तत्प्रामाण्यासम्प्र तिपत्त्यभिप्रायेण तदुपपत्तेरिति । तत्राह

कथालक्षणम्

प्रत्यक्ष सिद्धेष्वर्थेषु प्रश्ने मामक्षजं वदेत् ॥ १४ ॥

ज्ञानं वा ज्ञानसिद्धेषु................................|
प्रत्यक्षसिद्धेषु चक्षुराद्येकविषयेषु । प्रश्ने प्रमाणस्येति शेषः । मां प्रमाणं । ज्ञानं साक्षिणं ।
तर्ह्यगमनियमभङ्ग इति चेन्न । 'आगम एव ' इति नियमस्य अनुमाननिरासपरत्वेन प्रत्यक्षा- निरासादिति भावेनाह

कथालक्षणम्

........नानुमां प्रथमं वदेत् ।
प्रत्यक्षागमविषये अनुमानस्य प्रथममप्रयोक्तव्यत्वम्
नन्वेतदपि नास्ति ' उपपच्यवकाशोऽत्र' इत्युक्तत्वात् इत्यत उक्तं ॥ प्रथममिति ॥ अङ्गतया आनन्तरिकप्रयोग निषेधोऽनुमानस्य न नियमफलत्वेनाभिप्रेयत इति । ननु केवलानुमान- विषये कथं ? अनुमानं वक्तव्यम् । न चोक्तविरोधः । यत्रागमः प्रत्यक्षं वा सम्भवति तत्र तद्धानेन प्रथममनुमानं न वक्तव्यमित्यस्यार्थस्य नियमफलतया विवक्षितत्वेन अनुमानैकगम्ये तदुपन्यासस्य अनिराकरणात् । तदिदमुक्तं नानुमां प्रथमं वदेत् इति ।

प्रतारकवाक्यस्यापि वादिप्रतिवादिसम्मतप्रामाण्यकत्वे आगमत्वम्

(टी.) ननु यदि ' नदीतीरे पञ्च फलानि सन्ति' इत्यादिना लौकिकवाक्येन अवगतेऽर्थे परः प्रमाणं पृच्छेत्, तदा किं वक्तव्यं ? न तावत्तद्वाक्यं वक्तुं युक्तं, ऋगादिषु अपरिगणितत्वेन अनागमत्वात् । प्रमाणान्तरं तु नास्तीति चेत्, तत् किं वाक्यमुभयोः प्रमाणतया सम्मतं ? उत असम्मत: अस- ममतावपि शक्यप्रामाण्योपपादनं ? अन्यथा वा ? अन्यथेति पक्षे तूष्णीमासितव्यम् । उपाया- भावात् । प्रथमद्वितीययोस्तदेव वक्तव्यं प्रामाण्यं चोपपादनीयम् ।
ननु तत् उक्तेषु अपरिगणितत्वात् न आगम इत्युक्तं इत्यत आह

कथालक्षणम्

परतुष्टिकरं वाक्यं वदेतां यदि वादिनौ ॥ १५ ॥

स एवात्रागमो ज्ञेयः.......................................
वदत इति वादिनौ वादिप्रतिवादिनाविति यावत् । यदि प्रामाण्यसम्मत्या उपपादनेन वा परस्य वादिनः प्रतिवादिनो वा तुष्टिकरं मनस्समाधानकरं लौकिकं वाक्यं वदेतां, तर्हि अत्र तदेकप्रमाणकेऽर्थे स एवागमो ज्ञेयः । तत्र तद्वाक्यमागमत्वेनाङ्गीक्रियत इति यावत् ।
कथं ? इत्यत आह

कथालक्षणम्

..............................................................................परतुष्टिर्हि तत्फलं ।

ऋगाद्यागमो वक्तव्य इत्यभ्युपगमस्यापि परतुष्टिरेव हि प्रयोजनं । तत्प्रामाण्यस्य सम्मत- त्वात् । सा चेत् परतुष्टिः प्रामाण्यसम्प्रतिपत्या तदुपपादनेन वा यदि लौकिकवाक्येऽपि स्यात्, कथं तस्य नागमत्वं ? कथं च न वक्तव्यत्वं ? इति ।

वादे तत्वनिर्णयपर्यन्तं बहूनामपि प्रतिवादित्वम्

नन्वेवंविधस्य वादस्य किं अवसानं : तत्राह

कथालक्षणम्

एवं निर्णयपर्यन्तं वादे सुबहवोऽपि हि ॥ १६ ॥

घटेयुः......................................
हिशब्दो वादस्य तत्वनिर्णयार्थत्वं हेतुं द्योतयति । एवं प्रमाणतर्काभिमतैरेव स्वपरपक्षसाध- नोपालम्भभ्यां वादे निर्णयपर्यन्तं तत्वनिर्णयाय प्रयतेरन् । न तु वादिप्रतिवादिनोरन्यतरपरा-
(टी.) जयमात्रेण वादावसानं । तत्वनिर्णयार्थत्वाद्वादस्य । एकपराजयमात्रेण कथानिवृत्तौ पुनस्तस्यैव साधनान्तरादिस्फुरणे सन्देहावस्कन्दनात् ।

यदि साधनान्तरादिम्फुरणेन पुनर्जायमानः पराजितस्यापि संशयो जयिना वारणीयः तर्हि पुरुषान्तरस्य तत्रैव तत्स्फुरणे पुनः सन्देहप्राप्तौ तन्निवारणमपि करणीयं स्यात् समानत्वात् । तथा च एक एवं वादी प्रतिवादी चेति न स्यादिति चेत् ? सत्यं, इत्याह सुबहवोऽपि इति ।

एवं चेत् कथैक्यं किन्निबन्धनं ? इति चेत् फलैक्यात् इत्यवेहि

बादपर्यवसानाभावशङ्कानिरासः
तर्हि वादस्य अपर्यवसानं स्यात् इत्यत आह

कथालक्षणम्

........चिरकाल च..|

चशब्दोऽवधारणे । साधनदूषणयोः परिमितत्वेन पुरुषान्तरप्राप्त्यनियमाच्च सर्वशङ्कोद्धारेऽपि विलम्ब एव स्यात्, न तु अपर्यवसानमिति ।

कथालक्षणटीकाभावदीपः

(रा. टि.) ॥ ' न च प्रत्यक्षसिद्धेऽर्थे' इत्यादिशकोत्तरमाह ॥ तत्प्रामाण्येत्यादि ॥ इत्युक्तत्वा दिति ॥ आगमार्थनिर्णये उपपत्तीनामस्त्यवकाशः' इत्युक्तत्वादित्यर्थः । नियमफलत्वेनेति ॥ पृष्टेनाऽगम एवाऽदौ वक्तव्यः इति नियमफलत्वेनेत्यर्थः ॥ तदिदमुक्तमिति ॥ प्रत्यक्षमागमो वा यत्र सम्भवति तत्र तद्धानेन प्रथममनुमानं न वदेत् इति तदर्थ इति भावः । शक्यप्रामाण्योपपादनमिति बहुव्रीहिः । तत् वाक्यमित्यर्थः उक्तेषु ऋगादिष्वित्यर्थः । वादिशब्दोऽत्र न रूढः । अपि तु यौगिक इत्याह ॥ वदत इति ॥ द्विवच - नान्तेन वक्तृत्वयोगेन द्वयोः अत्र ग्रहणमित्यर्थः । यदि इति श्रवणात् आह तहींति ॥ अत्र इत्यनुवादः तदे- केत्यादि व्याख्या || तदुपपादनेन वेति ॥ प्रामाण्यासम्मतौ तदुपपादनेन वेत्यर्थः । एवं इत्यनुवादः प्रमाणतर्फेत्यादि व्याख्या । द्वयोः वास्तवप्रमाणतर्कासम्भवात् अभिमतैः इत्युक्तम् । सापेक्षितशेषमाह ॥ तत्व निर्णयायेति || घटेयुः इत्यस्यार्थः प्रयतेरन् इति ॥ तस्यैवेति ॥ पराजितस्य अभिमतार्थ एव साधनान्तर- स्फुरण इत्यर्थः ॥ समानत्वादिति ॥ प्रतिवादिसाधन निमित्त संशयस्येव पुरुषान्तरसाधननिमित्तसन्देहस्यापि तत्व- निर्णयप्रतिबन्धकत्वाविशेषेण तन्निरासस्य साम्यादित्यर्थः ॥ तथा चेति ॥ पुरुषान्तरनिमित्तसन्देहस्यापि वारणी- यत्व इत्यर्थः । एक एव इत्येतत् उभयत्राप्यन्वेति ॥ एवं चेदिति ॥ बहुकर्तृकत्व इत्यर्थः ॥ इत्यवेहि इति ॥

वाद पर्यवसानाभावशङ्कानिरासः

(रा. टि.) एकारपाठः न तु एैकारपाठ: । अव इहि इति स्थिते 'आद् गुणः' इति भाव्यत्वात्, आङ्पूर्वकत्वे ज्ञाना- र्थालाभाच्च ' एङि पररूपम् ' इति पररूपेण भाव्यत्वाच इति । अवधारणे इत्युक्तं । तदर्थं वदन् व्यावर्त्य आह || विलम्ब एवेत्यादि ॥ तत्र हेतुद्वयं ॥ साधनेत्यादि ।
कथालक्षणटीकाविवरणं

(वे. टि.) विप्रतिपत्तिरेव न सम्भवतीति ॥ तथा च संशमूलकः प्रश्नो न युक्त इति भावः ॥ तत्प्रामाण्यासम्प्रतिपत्यभिप्रायेणेति ॥ नन्विति स्वारसिकसंशयायोगेऽपि प्रामाण्यसंशयाऽहितसंशयसम्भ वात् तन्मूल: प्रश्नो युज्यत इति भावः । 'प्रत्यक्षासिद्धोऽप्यर्थो यत्राऽगमसिद्धः तत्र आगम एव कल्प्यः, अतः कथं एतत् ? इत्यत आह ॥ चक्षुराद्येकेति ॥ नियमफलत्वेनेति ॥ आगम एव वक्तव्यः' इति एवशब्दव्यावर्त्यत्वेन इत्यर्थः । तथा च प्रधानतया अनुमानस्य प्रथमप्रयोगनिषेध एव अवधारणफलं इति भावः ॥ तदिदमुक्तमिति ॥ प्रथमं इति वदता अनुमानविषये आगमाऽदिप्रमाणान्तरसद्भावः सूचित इत्यर्थः । अन्यथा प्रथममित्यस्य प्रयोजनाभावात् इति ज्ञातव्यम् || प्रथमद्वितीययोरिति ॥ प्रथमपक्षे तदेव वक्तव्यं, द्वितीयपक्षे तदेव उक्त्वा तत्प्रामाण्यं उपपादनीयं इत्यर्थः ॥ ननु वादिन एकत्वात् द्विवचनं अनुपपन्नं इत्यत आह । वदत इतीति ।। तत्फलं इत्यत्र तच्छब्देन अङ्गीकारपरामर्शाय आह । अङ्गीक्रियत इति बाव- दिति ॥ उभयत्र वास्तवप्रमाणतर्कयोः असम्भवात् आह । प्रमाणतर्काभिमतैरिति ॥ अन्यतरपराजयेति ॥ एकस्य साधनस्य दूषणस्य वा स्थितिमात्रेण भङ्गमात्रेण वा इत्यर्थः ।