जल्पे यावत् परो जितः
अथ जल्पकथाप्रवृत्तिप्रकार:
(टी.) एवं वादप्रवृत्तिप्रकारं अभिधाय जल्पप्रवृत्तिप्रकारं सूचयति
कथालक्षणम्
. ………………………………..जल्पे यावत् परो जितः ॥ १७ ॥
तावत् घटेतां इति सम्बन्धः । अयं इह जल्पप्रवृत्तिप्रकारः, सभ्यसभापतिप्राश्निकाऽदिसंवर- णपुरस्सरं कथानियमबन्धे कृते, प्राक् प्रसक्त प्राश्निकोपक्षिप्ते 'प्रतिवादिना च पृष्ठे प्रमेये प्रतिवादि- पर्यनुयुक्तेन वादिना प्रमाणं अभिधातव्यम् । प्रतिवादिना च ' अनुक्तोच्यमानग्राह्यनिग्रहाप्राप्तौ आभास बहिरुक्तग्राह्यनिग्रहालाभे च तद्वचनार्थं अवगम्य दूषयित्वा स्वपक्षे प्रमाणं अभिधानीयम् । वादिनापि उक्तोच्यमानाऽभा सब हिरुक्तग्राह्यनिग्रहालाभे तद्वचनार्थं अवगम्य दूषयित्वा स्वपक्षसाध- नदूषणं उद्धरणीयम् । साधनदूषणे च प्रमाणाभिमतैः, तदलाभे 'नियतपराभवात् वरः पाक्षिकः'
(टी.) इति छलादिना च 'क्रियते जयैकार्थत्वात् जल्पस्य । अत एव वादिप्रतिवादिनोः अन्यतरो यावत् स्वपरपक्षसाधनोपालम्भयोः अन्यतरावसरेऽपि जीयेत तावदेव उभाभ्यां प्रयतितव्यम् । न तु वाद इव परसाधनपर्यन्तमिति।
तदेवं वाद जल्पयोः प्रवृत्तिप्रकारभेदात युक्तो भेद इति ।
कथालक्षणटीकाभावदीपः
(रा. टि.) ॥ घटेयुः इत्यस्य विपरिणामेन अन्वयं आह || तावद्वटेतामिति सम्बन्ध इति ॥ प्रागिति ॥ समयबन्धात् पूर्वमित्यर्थः । उपक्षिते तैः उपोद्घाटिते, प्रतिवादिना 'वादिना वा कथं विश्वसत्य- त्वाऽदि ? इति पृष्टे सत्यत्वाऽदिप्रमेये, प्रतिवादिना पृष्टेन वादिना प्रमाणमभिधातव्यमित्यर्थः । ग्राह्यपदं अनु- क्तेत्यत्राप्यन्वेति । आभासो हेत्वाभासो वाक्याभासो वा । अज्ञान अननुभाषणाऽदि अनुक्तग्राह्यम् । अर्था- न्तराप्राप्तकालादि उच्यमानप्राह्यम् । प्रतिज्ञाहानिन्यूनाधिक्यादि उक्तग्राह्यम् । तयोः अप्राप्तौ, हेत्वाभासेभ्यो बहिर्भूत प्रतिज्ञाहान्यादिनिग्रहाला भे चेत्यर्थः । साधनदूषणे चेति द्विवचनान्तं ॥ नियतेति ॥ नियमेन प्राप्तपरा- जयात् पाक्षिकः वादिनो भ्रान्तत्वपक्षे अपराभवात् पाक्षिक: वर इत्यर्थः ॥ अत एवेति ॥ जयैकार्थत्वादे वेत्यर्थः ॥ अन्यतरावसर इति ॥ साधनसमये दूषणसमये वाऽपि जीयेत इत्यर्थः । एतेन 'यावत् परो जितः तावदेव घटेताम् ' इत्येतत् विवृतं भवति ।
कथालक्षणटीकाविवरणं
(वे. टि.) प्राश्निकादीत्यत्र आदिपदेन लिपिकरणाय लेखकपरिग्रहः ॥ प्राक् प्रसक्त इति ॥ प्राश्नि- कादिवरणात् प्राक् ' मया प्रपञ्चमिध्यात्वं साध्यत' इति वादिवाक्यात् प्रसक्त इत्यर्थः । प्रतिवादिना वेति ॥ भवदभिमतं प्रपञ्चमिथ्यात्वं कथं उपपदनीय ? इति प्रतिवादिना पृष्ठे इत्यर्थः ॥ प्रतिवादिपर्यनुयुक्तेनेति ॥ ' इतः परं त्वया वक्तव्यं' इति प्रतिवादिना पर्यनुयुक्तेनेत्यर्थः । प्रतिवादिनः अनवधानशङ्कापरिहराय इथं प्रतिवादिपर्यनुयोगापेक्षा इति ज्ञेयम् ।
॥ प्रमाणमभिधातव्यमिति ॥ ननु अत्र प्रमाणाभिधानानन्तरं 'नायं आभासः तल्लक्षणरहितत्वात् ' इति सामान्यतो वा' नायं आमासः असिद्धयादितत्साधकानुपलम्भात्' इति विशेषतो वा कण्टकोद्धारः कर्तव्यः । तं अनुक्त्वा कथं प्रतिवादिकर्तव्य उच्यत ? इति चेत् उच्यते, आभासशङ्कापरिहारार्थो हि कण्टकोद्धारः प्रयो- जनान्तराभावात्। आभासशङ्का च पक्षधर्मत्वाऽदिरूपप्रदर्शकैः अवयवैरेव अपास्ता । न हि पञ्चरूपोपपन्नो हेतु: आभास इति शङ्का भवितुं अर्हति व्याहतत्वात् । किञ्च दूषणोपक्रमप्रतियोगिनि अनेककर्तृके कथानाम्नि विचारे, परेण दूषणे अभिहित एव तदुद्धारः कर्तव्यः । न स्वयमेव आशङ्कय परिहर्तव्यः अप्राप्तकालत्वाऽदिप्रसङ्गात् । अतः ' प्रमाणाऽभिधानाऽनन्तरं कण्टकोद्धारः कर्तव्यः' इत्येवं वदतां असुज्ञत्वं प्रदर्शयितुं अत्र तदप्रदर्शनं इति । नन्वेवं
(वे. टि.) कण्टकोद्धारस्य अकर्तव्यत्वे प्रमाणलक्षणटीकायां 'वादिना प्रमाणमभिधाय आभासोद्धारः कर्तव्यः इति कथं उक्तं ? इति चेत् तस्य परमतानुवादत्वात् ॥ उच्यमानेति ॥ इह उद्भावनकालभेदेन त्रिविधानि निग्रह- स्थानानि । अनुक्तग्राह्याणि उच्यमानग्राह्याणि उक्तग्राह्याणि च इति । तत्र अननुभाषणं अज्ञानं अप्रतिभा इति- त्रीणि अनुक्तग्राद्याणि अवचनरूपत्वात् । अर्थान्तरं निरर्थकं अपार्थकं अप्राप्तकालं इति चत्वारि उच्यमान ग्राह्याणि अभिधानदशायामेव निर्णेतुं शक्यत्वात् । शेषाणि उक्तग्राह्याणि इति विवेकः । यद्यपि न्यूनाधिक- पुनरुक्तापसिद्धान्तानां उच्यमानदशायामेव निर्णयः सम्भवति, तथाऽपि न्यूने पूरणस्य अधिके विकल्पस्य पुनरुक्ते प्रयोजनवत्त्वस्य, अपसिद्धान्ते फलाऽदिनिरूपणस्य च निवर्तकप्रकारस्य शङ्कया प्रयोगोपसंहारप्रतीक्ष- णस्य आवश्यकत्वेन उक्तग्राह्यपक्षनिक्षेपः । एवं च उच्यमानदशायां सम्भावितं निग्रहस्थानचतुष्कं विचार्य तदलाभे सति इत्यर्थः । तल्लाभे तु तदुद्भावनेनैव कथापरिसमाप्तिः इति भावः । एवं उत्तरत्रापि द्रष्टव्यम् ।
|| आभासबहिरिति ॥ हेत्वाभासव्यतिरिक्तेत्यर्थः । तथा च यदि उक्तग्राह्यं न्यूनादिकं वा प्रतिज्ञावि- रोधाऽदिकं वा प्राप्तं तदा हेत्वाभासान् विहाय तदेव उद्भाव्यं । तस्य हेत्वाभासापेक्षया साक्षात् पुरुषवचनदोष- तया अत्यन्तापकर्षोन्नायकत्वात्, तदलाभे तु हेत्वाभासावसर इति भावः । अत एव दूषयित्वा इत्यत्र 'हेत्वा- भासेन' इति शेषः । तद्वचनार्थं अवगम्य इत्यस्य अज्ञानाऽपत्तिभयेन वादिवचनार्थं सावधानतया अवगम्य इत्यर्थः । अत्र अवगम्य इत्यनन्तरं ' तत्साधनमनूद्य ' इत्यपि ग्राह्यम् । अन्यथा अननुभाषणप्रसङ्गात् । अत एव प्रमाणलक्षणटीकायां वादिसाधनमनूद्य इत्युक्तम् ॥ वादिनापीति ॥ अनुक्तग्राह्यत्रिकस्य द्वितीयाऽदिक- क्ष्यायामेव सम्भावितस्य प्रथमकक्ष्यायां असम्भवात् पूर्वं तदलाभ इति नोक्तम् । शेषं पूर्ववत् ।
॥ दूषयित्वेत्यादि ॥ न च प्रथमोपस्थितत्वात् स्वपक्षानुरागेण तद्दोषासहिष्णुतया तदुद्धारस्य अभ्यर्हितत्वाच्च प्रथमं स्वपक्षदोषोद्धार एव तृतीयकक्ष्यास्थितेन वादिना कर्तव्यो न परपक्षदूषणं इति शङ्कनीयम् । प्रथमोपन्यस्तस्वपक्षदोषोपस्थितेः परपक्षसाधनोपन्यासेन व्यवहितत्वात्, अव्यवधानेन उपस्थितस्य स्वपक्षपरि- पन्थितया विद्वेषविषयस्य प्रतिसाधनस्यैव प्रथमं दूष्यत्वात् इति । स्वपक्षरक्षणस्यापि अभ्यर्हितस्य अनेन प्राप्त्या स्वपक्षरक्षणाऽनुकूल्यस्यापि सत्त्वात् । अन्यथा द्वितीयकक्ष्यास्थेन प्रतिवादिनाऽपि परपक्षं अदूषयित्वा आदौ स्वपक्षानुरागेण स्वपक्षसाधनं कर्तव्यं स्यात् । अत एव 'कर्तव्यतया न पौर्वापर्यनियमः । किन्तु ? स्फुरणमेव नियामकम् ' इति निरस्तम् । तथा सति कथाव्यवहारस्य अव्यवस्थाप्रसङ्गात् । अत एव भगवान् आचार्य:| ।
तस्याऽप्यन्यार्थता साध्या वादिना स्वार्थसिद्धये ।
अन्यार्थता निराकार्या स्वाऽगमस्य विनिर्णयात् ।
इति तदीयकक्ष्यास्थितवादिकर्तव्यौ परपक्षसाधनदूषणस्वपक्षसाधनदूषणोद्धारौ क्रमेण आह ।
कथैक्यवादिमतनिरासः
कथालक्षणपञ्चिका
(टी.) एवं असङ्करेण कथामार्गत्रयं प्रतिपादितवता कथैक्याऽदिमतानि अपहस्तितानि विज्ञातव्यानि । अधिकार्यङ्गप्रवृत्तिप्रकारफलभेदे सति किनिबन्धनं कथैक्यं स्यात् ।
जल्पकथायाः पार्थैक्यम्
जल्पस्य न तावत् स्वरूपमेव हातुं शक्यम्, वादादिसंमानयोगक्षेमत्वात् । अन्यतरान्तर्भा- वस्तु भेदोपपादनेन परास्त:।
वादवितण्डायाः पार्थक्यनिरासः
वादवितण्डा च यदि तत्वनिर्णयार्था स्वपरपक्षसाधनोपालम्भवती तदा वाद एव । विजिगी- पावतोः इति चेत् तर्हि तत्वनिर्णयार्थताव्याघातः । अन्यतरमात्र पर्यवसानेऽपि एवमेव ।
जल्पवितण्डायाः पार्थक्यनिरासः
विजयार्थत्वे, जल्पवितण्डायाः अन्यतरत्वाऽपातः । तत्वबुभुत्सावतोः इति व्याहतम् । न च तत्वनिर्णय विजयाभ्यां फलान्तरम् । नाऽपि तदर्थिव्यतिरिक्तोऽधिकारी । न च साधनोपालम्भो- भयान्यतरमात्रव्यतिरिक्तप्रवृत्तिप्रकारो, यद्वशात् वादवितण्डा परा कल्पेत इति ।
कथालक्षणटीकाभावदीपः
(रा. टि.) ॥ अधिकारीति ॥ गुरुशिष्यौ अधिकारिणौ वादे, सन्तौ अधिकारिणौ जल्पे, सदसन्तौ अधिकारिणौ वितण्डायाम् इति अधिकारिभेदः । तत्वबुभुत्सुत्वं वादे, जल्पे ख्यात्याद्यर्थित्वं, वितण्डायां परपक्ष प्रतिक्षेपमात्र अङ्गं । 'जल्पादौ खपरसाधनदूषणे त्विति प्रवृत्तिप्रकारभेदः । तत्वज्ञानाऽदि विजयाऽदि फलभेदः इति ज्ञातव्यम् । ननु ' कथामार्ग एक एव ' इति प्रागुक्तबौद्धमते 'वादवितण्डे द्वे एव ' इति श्रीहर्षमते च जल्पादिखरूपमेव नास्ति, कुत्र अधिकार्यादिभेद: ? इत्यत आह || जल्पस्येति ॥ चतस्रः कथाः' इति प्रागुक्तगौडनैयायिकमतं निराह ॥ वादवितण्डा चेति ॥ अन्यतरेति । वादिप्रतिवादिनोः अन्यतरमात्रे तत्वनिर्णयार्थादेः पर्यवसानेऽपि एवमेव व्याघात एवेत्यर्थः ॥ विजयार्थत्व इति । वादवितण्डाया इति योज्यम् ॥ तत्वबुभुत्सावतो: विजयार्थकथा वादवितण्डा इति भावेन आशङ्कय निराह ॥ तत्वेति ॥ तत्व निर्ण- यविजययोः अन्यफलार्था वा अधिकार भेदवती वा वादजल्पप्रवृत्तिप्रकारान्यप्रकारा वा वादवितण्डा अस्तु इत्यत आह || न च तत्वेति ॥ उभयाऽन्यतरमात्रेति ॥ उभयव्यतिरिक्ता अन्यतरमात्रव्यतिरिक्तेत्यर्थः ।
कथालक्षणटीकाविवरणं
(वे. टि.) कथैक्यवादिबाह्यनिराकरणं तावत् दर्शयति ॥ अधिकार्यङ्गेति ॥ अङ्गं सभ्याऽदिसंवरणरूपं । इदानीं ' वादवितण्डे द्वे एव ' इति श्रीहर्षमतनिराकरणं दर्शयितुं किं जल्पस्य स्वरूपमेव न अङ्गीक्रियते ? उत तदङ्गीकृत्य, उभयपक्षस्थापनावत्वात् वादे वा, विजिगीषुकथात्वात् वितण्डायां वा, अन्तर्भावः इत्युच्यते ? इति विकल्पं मनसि निधाय आद्यं दूषयति || जल्पस्येति ॥ द्वितीयं दूषयति । अन्यतरेति ॥
वादवितण्डायाः पार्थक्यं वदन् प्रष्टव्यः, सा किं तत्वनिर्णयार्था ? उत विजयार्थी ? यद्वा फलान्तरार्था ? इति । आद्येऽपि सा किं वादवत् वादिप्रतिवादिनोरुभयोः स्वपरपक्षसाधनोपालम्भवती ? उत वितण्डावत् प्रति- वादिनः परपक्षोपालम्भवती ? इति विकल्पं मनसि विधाय आद्यं दूषयति । वादवितण्डा चेति ॥ तत्वनिर्ण- यातेति ॥ तत्वनिर्णयोद्देशितान्याघात इत्यर्थः । तेन सदुपायजल्पस्य तत्वनिर्णयहेतुत्वेऽपि न व्याघात इति ध्येयम् । विजिगीषावत्त्वे छलाऽदेः अपि प्रसक्त्या तत्वनिर्णयोद्देश्यता व्याहन्येत इति भावः । द्वितीयं दूषयति । अन्यतरमात्रेति ॥ एवमेवेति ॥ तत्वनिर्णयार्थताव्याघात एव इत्यर्थः । प्रतिवादिना स्वपक्षे प्रमाणानभिधाने वादिपक्षप्रतिक्षेपमात्रेण तत्वनिर्णयासम्भवात् इति भावः । द्वितीयेऽपि किं उभयोः स्वपरपक्ष- साधनोपालम्भवती ? उत अन्यतरमात्रवती ? आद्ये जल्प एव स्यात् । द्वितीये वितण्डैव स्यात् इत्याह विजयार्थत्व इति ॥ अनेन जल्पवितण्डाया अपि पार्थक्यं निरस्तं इति ज्ञातव्यम् । ननु विजयार्थत्वेऽपि तत्वबुभुत्सावदधिकारिकत्वात् न जल्पवितण्डयोरन्यतरत्वाऽपत्तिः इत्यत आह ॥ तत्वबुभुत्सेति ॥ तृतीयं दूषयति । न च तत्वनिर्णयविजयाभ्यामिति ॥ एवं विकल्पेन दूषणस्य अत्र अभिप्रेतत्वात्, कथाचातु- विध्यवादिना वादवितण्डायाः तत्वनिर्णयमानफलकत्वस्य जल्पवितण्डायाः जयमानफलकत्वस्य च उक्तत्वेन फलान्तरादेरनुक्तत्वात् अनुक्तोपालम्भोऽयं, इति शङ्का न इति ध्येयम् || फलान्तरं इत्यादौ कथायाः इति शेषः ॥ यद्वशात् वादवितण्डा इत्यत्र जल्पवितण्डाऽपि ग्राह्या ।