वादोजल्पोवितण्डेतित्रिविधाविदुषांकथा

कथा सामान्यलक्षणविभागौ

कथालक्षणपञ्चिका

(टी.)अथकथांविभागेनोद्दिशति

कथालक्षणम्

वादोजल्पोवितण्डेतित्रिविधाविदुषांकथा ।
तत्व निर्णयैकप्रयोजनत्वेन अभ्यर्हितत्वात् वादस्य प्रथममुद्देशः । उभयसाधनवत्तया सदधि- कारितया च वादसाम्यात् तदनन्तरं जल्पस्य । परिशेषतो जल्पानन्तरं वितण्डायाः । कथकभेदेन कथानन्त्यात् तत्तल्लक्षणोपाधिक्रोडीकृत राशिविवक्षया त्रित्वमिति दर्शयितुं त्रिविधेत्युक्तं ।
ननु सामान्यलक्षणा गाभिधानेन विना कथं विभागोद्देशावसरः? अवच्छेदकैक्येनैक्यमापन्नं हि वस्तु विभज्योद्देष्टव्यम् । अथ कथाशब्दं वाक्यप्रबन्धे व्युत्पादितं सिद्धवत्कृत्य न पृथक् सामान्य- लक्षणमुच्यते तर्हि भारतादीनामपि वाक्यप्रबन्धत्वेन कथात्वात् कथं कथा त्रैविध्यं : नहि तानि- वादादिष्वन्तर्भवन्तीत्यतो योगरूढिसमाश्रयणेन सामान्यलक्षण सूचयति ॥ विदुषामिति ॥ जाताविदं बहुवचनं । तेन अनेकविद्वत्कर्तृको विचारगोचरो वाक्यप्रबन्धः कथा । सा वादादिभेदेन त्रिविधेत्युक्तं भवति । वैदुष्यं च कथामहावाक्यस्य निर्वाहकत्वम् । ततः स्वस्थः सर्वजनप्रत्ययाव- लम्बी सावधानोऽकलहकारश्चेत्यादयः कथका दर्शिताः । पूर्वोत्तरपक्षबलाबलचिन्ता विचारः । अत्रानेककर्तृकत्वोक्त्या एककर्तृकेभ्यो मीमांसावाक्येभ्यो व्युदासः । वैदुष्योक्त्या कलहादिभ्यः विचारगोचरत्वेन विदुषामन्योन्य सुखव्यवहारेभ्यः ।
कथा याथात्म्यविदुषां मतेन त्रिविधेति वा । तेन एक एव कथामार्ग इति बाह्याः वादवितण्डे द्वे एवेति श्रीहर्षः । वादो जल्पो वादवितण्डा जल्पवितण्डा चेति चतस्रः कथा इति गौडनैयायिकाः । ते समस्ता निरस्ता भवन्ति । उपपत्तिं तूत्तरत्र प्रदर्शयिष्यामः ।

कथालक्षणटीकाभावदीपः

(रा. टि.) अथेति प्रतिज्ञानन्तरमित्यवसर सङ्गतिं सूचयति । त्रिविधेति विभागः । वादः इत्यादिरुद्देशः । अतो विभागेन निमित्तेन त्रिविधेति विभागकरणाद्धेतोः उद्दिशति विशेषनाम्ना निर्दिशतीत्यर्थः । ननु कथास्तिस्र इति वा अनेकधेति वा वक्तव्यं, त्रिविधेत्युक्तया कथानामनेकावान्तरभेदेन तदानन्त्यप्रतीतेः । 'सङ्ख्याया विधार्थे धा' इत्यवान्तरभेद एव धाप्रत्ययोक्तेः । इत्यत आह || कथकेति ॥ तत्तल्लक्षणेति ॥ 'तत्वनिर्णये कोहे- श्यकत्वस्य अर्थिमात्राधिकारिकत्वादिरूपेण वक्ष्यमाणदिशेति भावः ।
अथेत्युक्तावसरसङ्गतिमाक्षपति ॥ नन्विति ॥ विभागेति ॥ विभागोद्देशयोरित्यर्थः । तटस्थरशङ्कते ॥ अथेति ॥ 'कथ वाक्यप्रबन्धे' इत्यतः 'चिन्तिपूजिक थि कुम्बिचर्चश्च' इत्यङ्प्रत्यये टापि कथेति पाणि- निसूत्रे व्युत्पादितमित्यर्थः ॥ योगरूढिसमाश्रयणेनेति ॥ योगं रूढिं च समाश्रित्येत्यर्थः ॥ जाताविति ॥ विद्वत्त्वरूपजातिविषयं बहुवचनमित्यर्थः । 'जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यां' इति एकत्वसङ्ख्यावत्यपि बहुवचनविधानादिति भावः । प्रत्ययप्रकृत्योरर्थानुवादोऽनेकविद्वत्कर्तृक इति । विचारगोचर इति शेषोक्तिः ॥ वाक्यप्रबन्धः कथेति ॥ कथेति मूलपदमावर्तनीय कथा कथेति । तत्रैकं यौगिकं अपरं रूढं । यौगिकं कथेति पदं कर्त्रर्थकषष्ठयन्त विद्वत्पदान्वितं सत् लक्षणार्थकं, अन्यत् रूढं कथापदं लक्ष्यार्थकं इति भावेन प्रबन्धार्थक यौगिक कथा पद लब्धं लक्षणमुक्त्वा कथेति लक्ष्यपदमनूदितमिति ज्ञेयम् । विशेषणकृत्यानि अनुपदमेव व्यक्तानि । वैदुष्यमर्यादाया अनिर्णयात् असम्भवि लक्षणं इत्यत आह ॥ वैदुष्यं चेति ॥ स्वस्थः अव्याकुलः । प्रत्ययो विश्वासः । सर्वहृदयङ्गमवचन इत्यर्थः । सावधानः अप्रमादः । व्युदासो व्यावृत्तिः लक्षणस्येत्यर्थः ॥ वैदुष्योक्त्येति ॥ " अनेकवक्तृकेत्येतावदेव अनुत्तत्वा तेषां वैदुष्यविशेषणोत्तयेत्यर्थः । व्युदासपद सर्वत्रान्वेति ।

'विदुषां इति सम्बन्धसामान्यार्थकषष्ठयन्तं सत् अध्याहृतमतपदेन अन्वेतीत्युपेत्य पक्षान्तरमाह ॥ कथा याथात्म्यविदुषां मतेन त्रिविधेति वेति ॥ तेनेति ॥ विद्वन्मतविरोधेनेत्यर्थः ॥ उपपत्तिं त्विति ॥ विद्वन्मत इति योज्यम् । मतान्तर निरासपक्षे उपपत्त्यन्तराणीति व्याख्येयम् । तेनेत्येको पपत्तेरुक्तत्वात् ॥ उत्तरत्रेति ॥ इतीर्यत इत्यागमसिद्धत्वरूपोपपत्ति इत्यर्थः । तथा वितण्डा तु सतामन्यैः इत्येत- व्याख्याऽवसरे जल्पवितण्डयोर्भेदे, पृष्टेन इत्येतद्व्याख्याऽवसरे जल्पे यावत्परो जितः इत्येतद्व्याख्याऽवसरे च वादजल्पयोर्भेदे उपपत्तिम् इत्यर्थः ।

कथालक्षणटीकाविवरणं

(वे. टि.) ॥ अथेति ॥ ग्रन्थोपयुक्तदेवताप्रणत्यादिप्रदर्शनानन्तरमित्यर्थः ॥ विभागेनेति ॥ हेतौ तृतीया । विभागाभावे विशेषोद्देशस्य कर्तुमशक्यत्वात् । तथा च विभज्योद्दिशतीत्यर्थः सम्पद्यत इति द्रष्टव्यम् ।
(वे. टि.) ॥ सदधिकारितयेति ॥ सन्मात्राधिकारिकतयेत्यर्थः । तिस्र इत्यनुत्तवा त्रिविधेति प्रकारत्रैविध्य किमर्थमुक्तं ? इत्यत आह ॥ कथकेति ॥ तथा च विभाजकोपाधिभेदादेव भेदो न व्यक्तिभेदादिति भावः ।

कथा इत्युक्त्तयैव सामान्योद्देशस्य लब्धत्वात् तल्लक्षणानुत्तयैव कथाविभागविशेषोद्दशौ आक्षिपति ॥ नन्विति ॥ अवच्छेदकेति । सामान्यलक्षणरूपावच्छेदकैक्येन एकीकृतमित्यर्थः । अन्यथा ऐक्याप्रसत्तत्या विभेदरूपविभागस्योत्थानमेव नेति भावः ॥ व्युत्पादितमिति ॥ 'कथ वाक्यप्रबन्ध' इति धातोः स्त्रियां भावे अप्रत्ययविधायकेन चिन्तिपूजीत्यादिसूत्रेण व्युत्पादितमित्यर्थः ।
॥ योगरूढीति ॥ योगार्थस्य अतिप्रसक्तत्वेऽपि अनेक विद्वत्कर्तृकविचारगोचरवाक्यप्रबन्धविशेष एव तान्त्रिकाणां कथाशब्दस्य बहुलप्रयोगेण अनतिप्रसक्ततादृशयोगरूढ्यर्थमेव कथासामान्यलक्षणं सिद्धवत् कृत्वा न पृथक् तल्लक्षणं कथ्यत इति विदुषां कथा इत्यनुवादेन सूचयतीत्यर्थ इत्याहुः ।
वस्तुतस्तु न सामान्यलक्षणानुक्तिर्मूलेऽभिप्रेता । तथा हि कथाशब्दस्य आवृत्तिरभिप्रेता । यौगिकस्य लक्षणपरत्वं, रूढस्य लक्ष्यपरत्वं । विचारगोचरेत्यादिकं तु योग्यताबलादुपस्कर्तव्यम् । अतो न भारतादावतिव्याप्तिरिति भावः । अत एव सूचयतीत्युक्तं । सामान्यलक्षणाभावे विभागादेरेव कर्तुमशक्यत्वेन उक्तां योजनां आचार्यस्सूचयतीत्यर्थः ।
ननु कथकयोर्द्वित्वात् कथं बहुवचनं ? इत्यत आह ॥ जाताविति ॥ नात्र 'बहुषु बहुवचनं इत्यनेन बहुवचनं । किन्तु ? 'जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्यां' इत्यनेनैवेत्यर्थः । नन्वेवं विद्वत्त्वजातेः कथकत्वासम्भवात् कथं कर्त्रर्थकषघुष्ठपपत्तिः ? इत्यत आह ॥ तेनानेकविद्वत्कर्तृक इति । तथा च मुख्यार्था- सम्भवात् जात्यवच्छिन्नव्यत्तयोरेवात्र लक्षणया ग्रहणमिति भावः ।
॥ महावाक्यस्येति ॥
अनेकवक्तृकत्वेऽपि एकप्रयोजनकतया मिथस्साकाङ्क्षतया च ऐक्यं विव- क्षितमिति कथाया महावाक्यत्वमुपपन्नमित्यवधेयम् ॥ सर्वजनेति ॥ सर्वजनप्रत्ययसिद्धमेवावलम्बत इत्यर्थः आदिपदेन श्रवणधारणपटुरित्यस्य ग्रहणम् || मीमांसावाक्येभ्यो व्युदास इति ॥ नन्वेवमपि देवमीमां- सायामतिव्याप्तिः तस्यानेकवक्तृकत्वात् । यथाऽहुः ।
देवमीमांसकाद्यन्तं स्वयं भगवता कृतं ।
मध्यं तदाज्ञया शेषपैलाभ्यां कृतमञ्जसा ॥ इति ।
इति चेन्न । वादिप्रतिवादिभावापन्नाने कविद्वत्कर्तृकत्वस्य विवक्षितत्वात् । कलहादिभ्य इत्यत्र आदिपदेन गौतमोक्षट् कक्ष्यादिरूपकथामास सङ्ग्रहः ॥ एक एवेति ॥ सर्वस्यापि कथामार्गस्य वादिप्रतिवादिसाधनदूष- णाभिधान सन्दर्भरूपत्वेन ऐक्यमेव वक्तुं युक्तमिति तेषामाशयः । वादवितण्डे इति ॥ जल्पस्यान्यतरान्तर्भाव- (वे. टि.) सम्भवात् वादवितण्डे द्वे एव कथे इति श्रीहर्षाशयः । तत्वनिर्णयमात्रमुद्दिश्य प्रवृत्तायामपि वादकथायां उभयैकपक्षस्थापनावत्त्वेन भेदसम्भवात् वादवितण्डा त्वन्या । एवं विजयमात्रमुद्दिश्य प्रवृत्तायां जल्पकथायामपि उभयैकपक्षस्थापनावत्त्वेन भेदसम्भवात् जल्पवितण्डाप्यन्येत्याशयः ॥ उत्तरत्रेति ॥ एवमसङ्करेण कथामार्गत्रय प्रतिवादितवता' इत्यादावित्यर्थः ।