तत्वनिर्णयमुद्दिश्य केवलं गुरुशिष्ययोः
कथालक्षणपञ्चिका
(टी.) तत्र यथोद्देशं वादलक्षणमाह
वादकथा लक्षणम्
कथालक्षणम्
तत्वनिर्णयमुद्दिश्य केवलं गुरुशिष्ययोः ॥ २ ॥
कथाsन्येषामपि सतां वादः………
अत्र केवलं तत्वनिर्णयमुद्दिश्य कथा वाद इत्येकं लक्षणम् । तत्र तत्वं प्रमाणसिद्धं व निर्णय: अज्ञातस्य ज्ञानं संशयविपर्ययव्युदासः अभ्यनुज्ञानेन दृढीकरणं चेति त्रिविधः ।
वादकथालक्षणे उद्दिश्यपदकृत्यम्
यदा हि ख्यात्यादि अर्थयमानौ विजिगीषू सङ्ख्यामेव साधनदूषणाभ्यां स्वपरपक्षसाधनोपाल- भौ कुते स जल्पोऽपि भवति तत्वनिर्णयहेतुः । न ह्यसदेव जल्पे वक्तव्यमिति नियमः । प्रतीय- मानसदतिक्रमे कारणाभावात् । किन्नाम : सदपरिस्फूर्ती 'ऐकान्तिकपराभवात् वरः पाक्षिकः' इति मन्वानोऽसद प्युपादत्ते । न च तत्साधन तत्त्वनिर्णय न करोतीति सम्भवति । व्याघातात् । 'तत्वनिर्णयहेतुः कथा वादः' इत्यभिहिते जल्पविशेषेऽपि गतत्वादुद्दिश्येत्युक्तम् । न हि तत्वनिर्णय- हेतुरपि जल्पस्तदुद्देशेन क्रियते ।
कथालक्षणटीकाभावदीपः
( रा. टि.) ॥ यथोद्देशमिति ॥ उद्देशमनतिक्रम्येत्यर्थः । उद्दिश्येति पदकृत्यं वक्तुं उपोद्धातं आह ॥ यदा हीत्यादिना व्याघातात् इत्यन्तेन ॥ ऐकान्तिकः नियमेन प्राप्तः पराभवः । असदुत्त- रोक्तौ यदि तेन भ्रान्तो वादी पराभूतः तदा मम जयः, अन्यथा तु 'प्राक् प्राप्तः पश्चादस्तु' इति पाक्षिकः 'वादिनान्तत्वपक्षे प्राप्तोस्तु' इति मन्वान इत्यर्थः ॥ अस्तु सत्साधनादिना जल्पकथा । तावता तत्वनिर्णय- हेतुत्वं कुतः ? इत्यत आह ॥ न च तत्साधनमिति ॥ व्याघातादिति ॥ साधनत्वव्याघातादित्यर्थः ॥ न हीति ॥ विजिगीषुत्वव्याहतेरित्यर्थः ।
कथालक्षणटीकाविवरणं
(वे. टि.) ननु यदि ' तस्य भावस्तत्त्वं इति तत्वशब्दार्थः तदा धर्मिभृते तत्वे अध्याप्तिः, यदि च अनारोपितं तत्वमिति धर्मिविवक्षा तदा कूर्मरोमादिके अतिव्याप्तिः । अत आह ॥ तत्वं प्रमाणसिद्धमिति ॥ त्रिविध इति । तथा च सामान्यस्यैव विवक्षितत्वात् न प्रत्येक समुदायोद्देश्यविकल्पेन परस्पराव्याप्त्यसम्भवयोः प्रसङ्ग इति भावः ।
(वे. टि.) उद्दिश्येत्यस्य कृत्यं वक्तुमाह ॥ यदा हीत्यादि ॥ ननु 'स च छला दिसम्भिन्नो जल्पः ' इति परीक्षकैरुक्तत्वात् कथं सङ्ख्यामेवेत्युक्तं ? इत्यत आह । न ह्यसदेवेति ॥ पाक्षिक इति । विभक्ति- परिणामेन पराभव इत्यनुवर्तते ॥ व्याघातादिति ॥ सच्छब्दस्य तत्वनिर्णयजनकत्वार्थकत्वादिति भावः ।
वादकथालक्षणे केवल पदकृत्यम्
कथालक्षणपञ्चिका
(टी.) यदा च स्वयमध्यवसितार्थः कारुणिकतया पाषण्डप्रसञ्जितौ लोकस्य संशयविपर्ययौ पराकर्तुं तज्जिगीषुर्यां वितण्डामारभते साऽपि तत्वनिर्णयमुद्दिश्य कथा भवत्येव । तत्र प्रसङ्गपरिहाराय केवलमित्युक्तम् । भवेत् या वितण्डा लोकसंशयविपर्यासनिरासं ख्यात्यादिकं चोद्दिश्य प्रवर्तते तस्या अनेन व्युदासः । या तु केवलं 'संशयाद्यपकरणायैव, कथं ततो व्यावृत्तिः ? इति चेन्न । केवलशब्दस्य साक्षादर्थत्वात् । न हि काsपि वितण्डा साक्षात्तत्वनिर्णयं करोति । किन्तु ? परपरा - भवद्वारैव ।
एतेनैतदपि निरस्तं, केवलं तत्वनिर्णयहेतुरित्येतावतैव सदुपायजल्पव्यवच्छेदसिद्धौ उद्देश- ग्रहणमतिरिच्यत इति । विवक्षितकेवलार्थस्य तत्रापि गतत्वात्
ननु कथकगततत्वनिर्णयविवक्षया लक्षणे व्याख्याते वितण्डायां प्रसङ्ग एव नास्ति । न हि विनिश्चितार्थः स्वात्मीयतत्वनिर्णयाय तत्र प्रवर्तते, प्राप्तत्वादेव । अभ्यासार्थमिति चेन्न । तथा सति सत्प्रयोगनियमप्रसङ्गात् । नापि पाषण्डिनस्तत्वनिर्णयाय, अनुपयोगात् असत्साधनैस्तदयोगाच्च । सोऽपि संसदि पराभूतः तत्वजिज्ञासुर्भविष्यतीति चेन्न । प्रायो विद्वेषस्यैव सम्भवात् । अतः केवल- ग्रहणमनर्थकमिति । सत्यम् । यथा नैवं व्याख्यातुं शक्यं तथा वक्ष्याम इति ।
वादकथालक्षणान्तरम्
टीका
सतां कथा वाद इत्यपरं लक्षणम् । तर्हि जल्पेऽतिव्यापकमित्यतः सन्तो व्याख्याताः गुरुशिष्ययोरन्येषां सखिसब्रह्मचार्यादीनामपीति । अदुष्टमनसस्सन्तः । ते च प्रकृतोक्तिका अवि- प्रलम्भका यथाकालस्फूर्तिका अनपेक्षकाः प्रमाणसिद्धसम्प्रत्या यिनश्चेत्यादयः । एवम्भूताश्च गुरु- शिष्यादय एव प्रायेणेति त एव दर्शिताः ।
कथालक्षणटीकाभावदीपः
(रा. टि.) केवल पदकृत्यं वक्तुं आह ॥ यदा च स्वयमिति ॥ प्रसङ्गेति ॥ वादत्वप्रसङ्गेत्यर्थः I 'केवलं' इत्युक्तया तद्युदासप्रकारमनुवदन्नेव शङ्कते ॥ भवेदित्यादिना ॥ अनेनेति ॥ 'केवलं तत्वनिर्णयमुद्दिश्य' त्यनेनेत्यर्थः । व्युदासो व्यावृत्तिः ॥ परपराभवद्वारैवेति ॥ पाषण्ड निरासः पूर्वं ततः संशयादिव्युदास:, तंत: तत्व निर्णय इति परपराभवद्वारैवेत्यर्थः
(रा. टि.) ॥ सदुपायेति ॥ सत्साधनेत्यर्थः ॥ नापि पाषण्डिनस्तत्वनिर्णयायेति । प्रवर्तत इत्यनुषज्यते ॥ वक्ष्याम इति ॥ वा समितेः शुभा इति चतुर्थपादव्याख्यानाऽवसरेऽनुपदमेव वक्ष्याम इत्यर्थः । ' कथक- गततत्वनिर्णयोद्देशेन प्रवृत्ता कथा वादः' इत्युक्ते समितेः तत्वनिर्णयोद्देशेन प्रवृत्तवादकथायामव्याप्त्यापत्तेः इति भावः । ॥ त एवेति ॥ गुरुशिष्यान्यसखि सब्रह्मचार्यादय इत्यर्थः ।
कथालक्षणटीकाविवरणं
(वे. टि.) भवेत् इत्यस्य वक्ष्यमाणेन व्युदास इत्यनेन सम्बन्धः । तत्वनिर्णयं संशयविपर्ययनिरा सरूपं ॥ परपराभवद्वारैवेति ॥ पाषण्ड्युदीरितखपक्षसाधकप्रमाणनिरासद्वारैवेत्यर्थः । पूर्वं वेदादिप्रमाणेनैव निश्चित- तत्वानां सज्जनानां खलु पाषण्डघुदीरितस्वपक्षसाधकप्रमाणोपलम्भेन संशयविपर्ययौ प्रसक्तौ । तौ च न तन्निरासं विना साक्षादेव वैतण्डिकेन निराकर्तुं शक्येते तस्य स्वपक्षस्थापनाऽभावात् । वादे तु परपक्षसाधकप्रमाणे दूषिते निष्परिपन्थिना खपक्षसाधकप्रमाणेनैव साक्षात् संशयादिव्युदासः । पाषण्डिप्रमाणनिरासे तु सज्जनानां निष्परिपन्थिना स्वावगतप्रमाणेनैवेति विशेष इति भावः ॥ सदुपायजल्पेति ॥ तस्य ख्यात्यादेरपि हेतुत्वेन केवलतत्वनिर्णयहेतुत्वाभावादित्यर्थः ॥ विवक्षितेति ॥ साक्षादित्येवंरूपस्येत्यर्थः । तथा च साक्षातत्व निर्णय- हेतुत्वस्व वाद इव जल्पविशेषेऽपि सत्वात्तत्रातिव्याप्तिपरिहारार्थं उद्देश्यग्रहणं सार्थकमेवेति भावः ।
यद्यपि केवलशब्दस्य अवधारणार्थत्वेऽपि आनुषङ्गिकजया दिफलकवाद विशेषाव्याप्तिपरिहारार्थत्वेन उद्देशग्रहणं न व्यर्थ, तथाऽपि वितण्डाविशेषे अतिव्याप्तिपरिहाराय केवलशब्दस्य साक्षादर्थत्वे अवश्यं विवक्षणीये अवधारणात्वाभावेोक्त व्याप्तिशङ्काया एवाऽभावादित्याशयात् ।
॥ ननु कथकेति ॥ उक्तवितण्डाया लोकगततत्वनिर्णयमुद्दिश्यैव प्रवृत्तत्वादिति भावः ॥ अनुपयो- गादिति ॥ सतावैण्डिकेन परपक्षनिराकरणमेव वितण्डायां क्रियते न खपक्षसाधनमपि । ततश्च प्रतिवादिनः स्वपक्षसाधनाभावात् परपक्षनिराकरणमात्रस्य पाषण्डितत्वनिर्णयेऽनुपयोगात् न वैतण्डिकः पाषण्डितत्वनिर्णयाय प्रवर्तत इत्यर्थः । ननु तत्र प्रतिवादिसाधनाभावेऽपि स्वप्रयुक्तमेव साधनं स्वकीयतत्व निर्णयोपयुक्तं भविष्यति इत्यत आह || असत्साधनैरिति ॥ जाताविदं बहुवचनं । तत्साधनस्यासत्त्वं च प्रतिवाद्युद्धावितदूषणैर्ज्ञात- व्यम् || तत्वजिज्ञासुरिति ॥ तथा च वितण्डायाः पाषण्डितत्वनिर्णये साक्षादुपयोगाभावेऽपि तदुपयुक्तजिज्ञा- साजनकत्वेन तत्रोपयोगः प्राप्त इत्याशयः । असत्पक्षावलम्बिनस्तस्यासुरस्वभावत्वेन तत्वज्ञाने द्वेष एव भविष्यति नेच्छेति भावः । स्वरूपसतः सज्जनस्यापि कथाचिदसत्समागमादिना असत्पक्षावलम्बिनः संसदि पराभूतस्य क्वचित् तत्वजिज्ञासुत्वसम्भवात् प्रायः इत्युक्तं ।
अभ्युपेत्य चेदमुदितं । वस्तुतस्तु वादिनः तत्र तत्वजिज्ञासामा त्रोत्पत्तावपि न तत्वनिर्णयोत्पत्तिः सम्भवति प्रतिवादिना प्रमाणस्यानुपन्यस्तत्वादिति द्रष्टव्यम् ॥ यथा नैवमिति ॥ विदिततत्वौ अदुष्टमनसौ परप्रार्थितौ परार्थमेव यां कथां कुरुतः तस्मिन् वादविशेषे अव्याप्तिप्रसङ्गेन नैवं व्याख्यातुं शक्यमित्यर्थः ॥ वक्ष्याम इति ॥
(वे. टि.) वा समितेश्शुभा इत्येतद्वयाख्यावसर इति शेषः । तत्र विदिततत्वयोः कथायाः समितितत्वनिण- यार्थतावचनेन कथकगततत्वनिर्णयविवक्षया न वादलक्षणं व्याख्येयमित्यर्थात् सूचितमिति भावः ।
सब्रह्मचार्यादीनां इत्यत्र आदिपदेन तत्वज्ञानार्थी कश्चिदन्योऽपि ग्राह्यः || अदुष्टमनस इति ॥ जल्पाधिकारिणस्तु यद्यपि तत्वज्ञानयोग्यतया सन्तः तथाऽपि स्पर्धादिना दुष्टमनस इति तद्व्यवच्छेद इति भावः । अदुष्टमनस्त्वेन लब्धमर्थं दर्शयति । ते चेति ॥ प्रकृतोक्तिका इति ॥ प्रकृतोपयुक्तवक्कार इत्यर्थः ॥ अनपे- क्षका इति ॥ तत्वनिर्णयातिरिक्तख्यात्याद्यपेक्षारहिता इत्यर्थः ॥ अत्र आदिपदेन तत्वबुभुत्सव इत्यस्य ग्रहणम् ॥
वादकथालक्षणस्यातिव्याप्त्यव्याप्तिनिरासः
कथालक्षणपञ्चिका
(टी.) ननु यदा विदिततत्वौ अदुष्टमनसौ परप्रार्थितौ कथां कुरुतः स वादो न वा ? आधे अव्यापकमाद्यं लक्षणं, द्वयोरपि तत्वज्ञानितया तदुद्देशिताऽभावात् । द्वितीयमतिव्यापकम् । सेयमु- भयतःपाशा रज्जुः इत्यत आह
कथालक्षणम्
………………'वा समितेश्शुभा ।
न केवलमय वादकथा कथकगततत्वनिर्णयार्था विवक्षिता । किन्नाम ? यदा गुरुशिष्यौ तदा शिष्यस्य, यदा सखिप्रभृतयः तदा सर्वेषां यदा तु विदितत्वौ तदा कृतप्रार्थनायाः समितेः शुभा शुभस्य तत्व निर्णयस्य हेतुः । सामान्यं चात्र विवक्षितं । न च सामान्येनोक्तस्य विशेषावलम्बेन दोषावकाश इति ।
कथालक्षणटीकाभावदीपः
(रा. टि.) वक्ष्याम इत्युक्तं । तत् शङ्कोत्तराभ्यां व्यनक्ति ॥ नन्वित्यादिना । द्वयोरपीति ॥ तथा च कथकतत्वज्ञानविवक्षायां तत्राऽव्याप्त्यापत्तेः न तथा व्याख्यातुं शक्यत इत्यर्थ इत्युक्तं भवति ॥ उभयत इति ॥ पाशपदस्य अत्र ग्रन्थिविशेषोऽर्थः । उभयतः पार्श्वद्वये पाशो यस्याः सा उभयतःपाशेत्यर्थः । वाद् इति वा
'नवा इति वा द्वेधाऽपि वक्तुं अशक्यमिति भावः । शुभा इति स्त्रीलिङ्गनिर्देशानुरोधात् आह || इयं वाद- कथेति ॥ गुरुशिष्याविति ॥ कुर्वाते इत्यादि क्रियापदं ध्येयम् || समितेरिति ॥ जनसमूहस्येत्यर्थः ॥ शुभ इत्यनुवादः । शुभस्य इत्यादिका व्याख्या ।
ननु शिष्यगतशुभोद्देशेन प्रवृत्ता वादकथा चेत् सख्यादिकृतवादकथायां अन्याप्तिः । संख्यादिगतशुभो - द्देशेन प्रवृत्ता सा इति चेत् समित्यर्थकृतायां गुरुशिष्यवादकथायां अव्याप्तिः इत्यत आह ॥ सामान्य चेति अत्र वादलक्षण इत्यर्थः । शिष्यगतेति वा सख्यादिगतेति वा विशेषं अविवक्षित्वा साक्षात्तत्वनिर्णयौद्देश्य-
(रा. टि.) ककथा वाद इति वा, प्रकृतोक्तिकत्वादिप्रागुक्तधर्मोपेतपुरुषकर्तृककथा वादकथेति वा विवक्षितम् । समान्येनोक्तस्य विशेषावलम्बेन दोषोत्तौ प्रमाकरणं प्रमाणमित्यादावपि चैत्र मैत्रादिप्रमाविशेषमादाय परस्प- राऽव्याप्तः वक्तुं शक्यत्वात् न तद्दोषावकाश इत्यर्थः ।
कथालक्षणटीकाविवरणं
(वे. टि.) ननु शिष्यादिगताः तत्वनिर्णयाः सर्वेऽप्युद्देश्यतया विवक्षिताः उत प्रत्येकं ? नाद्यः एकै कग त तत्व निर्णयोद्देशेन प्रवृत्तकथायामव्याप्तिप्रसङ्गात् । न द्वितीय: परस्पराऽव्याप्तेः । अत आह || सामान्यं चेति । शिष्यादिरूपाश्रयविशेष। विशेषितं तत्वनिर्णयमात्रमत्रोद्देश्यतया विवक्षितमित्यर्थः ।