ख्यात्याद्यर्थ स्पर्धया वा सतां जल्प इतीर्यते
कथालक्षणपञ्चिका
(टी.)क्रमप्राप्तंजल्पंलक्षयति
जल्पकथालक्षणम्
कथालक्षणम्
ख्यात्याद्यर्थ स्पर्धया वा सतां जल्प इतीर्यते ॥
कथेत्यनुवर्तते । केवलं स्पर्धया स्पर्धानिमित्तपरपराभवोद्देशेन ॥ सतामिति ॥ तत्व- ज्ञानयोग्यानां । जातौ चेदं बहुवचनं । ननु ख्यातिलाभपूजा परखिलीकरणानि समस्तानि व्यस्तानि वा उद्देश्यानि जल्पे विवक्ष्यन्ते : नाद्यः, एकैकोद्देशेन प्रवृत्तौ अध्यापनात् । न द्वितीयः, परस्परा- व्याप्तेः । मैवम् । तत्वनिर्णयातिरिक्तफलोद्देशेन सत्कथा जल्प इति लक्षणार्थत्वात् । फलान्तरं च ख्यात्यादिकमिति तद्ग्रहणम् । सत्कथा वादोऽपि भवतीति तद्व्युदासाय ख्यात्याद्युक्तिः । वादविशे- षोऽप्यानुषङ्गिकख्यात्यादिहेतुर्भवतीति तद्व्यवच्छेदार्थ उद्देशग्रहणं । वितण्डा व्यवच्छेदाय सत्ता- मिति । इतीर्यत इत्यनेनाऽगमसम्मतिकथनेन जल्पनिराकरणोपपत्तेराभासतां दर्शयति । आगमश्च 'वादो जल्पो वितण्डा' इत्यादिः अन्यत्रोदाहृतः ॥
कथालक्षणटीकाभावदीपः
(रा. टि.) ॥ लक्षयति ॥ लक्षणयुक्ततया दर्शयतीत्यर्थः । प्रागुक्ताविपलम्भकत्वादिगुणयुताः चेत् सन्तोत्रे विवक्षिताः तदा असम्भवि लक्षणं स्पर्धिनां तादृशविशेषणाभावात् अत आह ॥ सतामिति तत्वज्ञानयोग्या- नामिति ॥ व्यस्तानीति ॥ एकैकानीत्यर्थः ॥ सत्कथेति ॥ सत्कर्तृककथेत्यर्थः ॥ वादविशेष इति ॥ अन्य- तर जय हेतु र्वाद इत्यर्थः ॥ जल्पनिराकरणोपपत्तेरिति ॥ वाद एक एवेति वदतां बाह्यानां वादवितण्डे द्वे एवेति वदतः श्रीहर्षस्य च जल्पनिरासे या उपपत्तिः तस्या इत्यर्थः ॥ अन्यत्रेति ॥ बृहदारण्यकभाष्ये पञ्चमेऽध्याये गार्गिब्राह्मणे वादो जल्पो वितण्डा इत्यारभ्य इत्यादि ब्रह्मतर्फे इत्यन्त आगम उदाहृत इत्यर्थः ।
कथालक्षणटीकाविवरणं
(वे. टि.) ॥ कथेत्यनुवर्तत इति ॥ अन्यथा अनन्वय इति भावः । ननु स्पर्धानिमित ख्यात्यादेरुद्देश्यत्वात् कथं वाशब्दः इत्यत आह ॥ स्पर्धानिमित्तेति ॥ उद्देशेनेत्युक्त्या आनुषङ्गिकख्यात्या- दिहेतुवादविशेषे अतिव्याप्तिः परिहृतेति ज्ञातव्यम् । ननु यत्र परपराभवोद्देश्यत्वं तत्र परपराभवकरणे निमित्ततया ख्यात्यादेरुद्देश्यतासम्भवेन कथं वाशब्दः इत्य उक्तं ॥ केवलमिति ॥ परपराभवोद्देशे स्पर्धेव निमित्ततया अत्र विवक्षिता न ख्यात्यादिकमपीत्यर्थः । ननु स्पर्धावतामदुष्टमनस्कत्वरूपं सत्त्वमसम्भवीत्यत आह । तत्वज्ञानेति ॥ ख्यात्याद्यर्थम् इति मूलगत आदि शब्दार्थप्रदर्शनाय लाभादिग्रहणम् || तत्वनिर्णयातिरिक्तेति ॥
नन्वेवं तत्वबुभुत्साविजिगीषाभ्यां प्रवृत्ते जल्पविशेषे अव्याप्तिः । न च तत्वबुभुत्स | विजिगीषे एकत्र एकदा विरुद्धे इति वाच्यम् । विरोधेऽपि सतो विजिगीषेोर्विद्या परीक्षार्थं प्राश्निकैस्तत्वबुभुत्सामुत्पाद्य कथायाः कारितत्वात् । न च सा कथा वाद एव न जल्प इति वाच्यं ।
जल्प इत्यपि नाम स्याद्वादस्यतादृशस्य तु ।
इत्यनुव्याख्याने जल्पत्वस्यापि तत्र कथितत्वादिति चेत् उच्यते, न ह्यत्र तत्वनिर्णयातिरिक्तपदं तत्व- निर्णयस्यानुद्देश्यत्वार्थं । किन्तु ? ख्यात्यादीनामुद्देश्यानामनुगमार्थमेव । अन्यथा तत्व निर्णयानुद्देशेत्यव - क्ष्यत् । तच्च तत्वनिर्णयोद्देश्यत्वेऽप्यस्तीति न कश्चिद्दोष इति ॥ वादविशेष इति ॥ समिति- प्रार्थितादुष्टमानसाभ्यां विदिततत्वाभ्यां क्रियमाणो वाद इत्यर्थः ॥ सतामितीति ॥ न चात्र बहुवचनस्य जात्यर्थकत्वेन वितण्डायां चैकस्य सत्त्वेन कथं तद्वयवच्छेदसिद्धिरिति वाच्यम् । जातिवाचकेन सतामित्यनेन लक्षणया सतोरिति विवक्षितत्वात् || जल्पनिराकरणोपपत्तेरिति ॥ जल्पस्त्वेका कथा न भवत्येव वितण्डा- द्वयशरीरत्वात् । अन्यथा जल्पद्वयमपि कथान्तरं स्यादिति जल्पनिराकरणोपपत्तेरित्यर्थः । एकैकस्यैव खपक्ष साधनपरपक्षप्रतिक्षेपकशक्तिककथान्तरस्य अवश्यं स्वीकार्यत्वात्, वितण्डालक्षणाऽयोगाच्च उभयपक्षस्थापनावत्त्वात् । जल्पद्वये तु नोक्तजल्पलक्षणं पक्षचतुष्टयस्थापना वत्त्वेनोभयपक्षन त्रिस्थापनावत्त्वाभावात् । अतो न अतो न कथान्तराप- त्तिरित्यागमाभिप्रायः ॥ अन्यत्रेति ॥ बृहदारण्यकभाष्य इत्यर्थः ।