तत्वनिर्णयवैलोम्यं वादे साक्षात् पराजयः

वादे पराजयहेतुः

कथालक्षणपञ्चिका

(टी.) 'आत्यन्तिकपराजयपर्यन्तो वाद इत्युक्तम् । तत्र को वादे पराजयहेतुः ? इत्यपेक्षायां
आह

कथालक्षणम्

तत्वनिर्णयवैलोम्यं वादे साक्षात् पराजयः ।

पराजयः पराजयहेतुः । स द्विविधो मुख्या मुख्यभेदात् । तत्र वादिप्रतिवादिभ्यां अभिलषि- तस्य तत्वनिर्णयस्य यावत् वैलोम्यं विरुद्धं वचनं आचरणं वा तत्सर्वं वादे मुख्यः पराजयहेतुः, कथाऽवसानकारणत्वात् । इतरोऽमुख्यः, कथाऽवसानाहेतुत्वात् । न च तत्वनिर्णय वैलोम्यस्य कथाsa- सितिहेतुत्वेन साक्षात् पराजयहेतुत्वव्याख्यायां
उद्भावनीयमेव स्यात् न कथाऽवसितिर्भवेत् ।

(टी.) इत्यादिविरोधः । ' सकृत् एकस्य तत्वनिर्णयवैलोम्याऽपत्तिमात्रेण न कथाऽवसानं, यथा जल्पे सकृत् निग्रहप्राप्तौ ' इत्येतदर्थपरत्वात् तस्य । अत्रापि तत्वनिर्णयवैलोम्याऽपत्तौ पुनः तस्य अन्यस्य वा साधनान्तराद्यप्रतीतावेव कथापर्यवसानस्य विवक्षितत्वात् । अन्यथा वादापर्यवसानं स्यात् । न हि तत्वनिर्णयस्य तत्वनिर्णयवैलोम्यापत्तितोऽन्यत् शृङ्गमस्ति । 'साक्षात् ' इति च अत्र व्यर्थं स्यात् । विरोधाऽदिषु च तत्वनिर्णयवैलोम्येतरविवेकं तु करिष्यामः ।

कथालक्षणटीकाभावदीपः

(रा. टि.) एवं निर्णयपर्यन्तं वादे, इत्यादित्रिपाद्याः फलितार्थं अनुवदति ॥ आत्यन्तिकजयपर्यन्त इति ॥ विरुद्धं वचनमिति ॥ हेत्वाभासछलजातिरूपं वचनमित्यर्थः । विरुद्धाऽचरणं नाम कथाचालन प्रतिबन्ध- कोपद्रवकरणम् ॥ इतर इति ॥ वक्ष्यमाणप्रतिज्ञाविरोधादिः इत्यर्थः ॥ इत्यादिविरोध इति ॥ भक्तिपादी- यानुव्याख्यान विरोध इत्यर्थः । यथा जल्पे इति व्यतिरेकदृष्टान्तः । कथाऽवसानं इत्यनुषङ्गः ॥ अत्रापीति ॥ तत्वनिर्णय वैलोम्यम्' इति ग्रन्थेऽपीत्यर्थः ॥ अन्यथेति ॥ तत्वनिर्णयवैलोम्याऽपत्तेः उद्भावनीयमात्रत्वे, कथाऽवसित्यकारणत्वे इति वाऽर्थः । अत्र ' तत्वनिर्णयपर्यन्तं वादे ' इति प्रागुक्तेः कथं तद्वैलोम्याऽपत्तिमात्रेण पर्यवसानम् ? इत्यत आह । न हि तत्वेति ॥ वादिप्रतिवादिनोः अन्यतरस्य प्रमाणतर्काभ्यां स्वाभिमतार्थ- निर्णये सति, अन्यतरस्य अन्यस्य वा कस्यापि साधनदूषणयोः अभावे सत्येव वैलोम्याऽचरणं इति तेनैव तत्व- निर्णयो ज्ञायते, न हि इतोऽन्यत् तस्य शृङ्गं ज्ञापकं अस्ति इत्यर्थः ॥ साक्षादिति चेति ॥ अन्यथेत्यनुवर्तते । वैलोम्याऽपतिमात्रेण 'पर्यवसाने साक्षात् मुख्यः पराजयहेतुः इत्युक्तिः न स्यात् । कथा पर्यवसायकत्वात् अन्यस्य मुख्यत्वस्य अत्र अभावात् इति भावः । ननु विरोधादीनां अमुख्यं पराजयहेतुत्वं, मुख्यमेवाऽस्य पराजयहेतुत्वं कथं ? इत्यत आह || विरोधाऽदिषु चेति ॥ ' किञ्चित् कथाऽवसानिकम् ' इत्यादिना इति भावः ।

कथालक्षणटीकाविवरणं

(वे टि.) तत्वनिर्णयवैलो म्यस्य पराजयरूपत्वाभावात् आह । पराजयहेतुरिति ॥ पराजीयतेऽनेन इति व्युत्पत्तेः इति भावः ॥ विरुद्धं वचनमिति ॥ परोदीरितहेत्वाभासाऽत्मकप्रतिज्ञाविरोधाऽदिवचनं इत्यर्थः ॥ आचरणं वेति ॥ क्रिया न्यायो वा इत्यर्थः । ततश्च निरनुयोज्यानुयोगप्रभेदरूपछलजात्यात्मकस्व क्रियास्वन्याय- विरोधौ तत्व निर्णय वैलोम्याऽचरणरूपत्वेन विवक्षितौ इति द्रष्टव्यम् ॥ कथाऽवसानेति ॥ हेत्वाभासानां निरनुयोज्या- नुयोगस्य च वादकथाऽवसानकारणत्वं अग्रे स्वयमेव विभावयिष्यति । अत्र अनुव्याख्यानविरोधं आशङ्कय परिहरति ॥ न च तत्वनिर्णयेति । सकृदेकस्येति ॥ सकृत् तत्वनिर्णयवैलोम्याऽपत्तिमात्रेण एकस्य तत्वनिर्णयवैलो- म्याऽपत्तिमात्रेण च इत्यर्थः । ननु वादस्य तत्वनिर्णयवैलोम्याऽपत्त्या पर्यवसानाभावेऽपि, तत्वनिर्णयेनैव पर्यवसानं (वे. टि.) स्यात् इत्यत आह । न हित त्वनिर्णयस्येति ॥ वादिप्रतिवादिनोरन्यतरस्य तत्वनिर्णयवैलोम्याऽपत्तिरेव 'तत्वनिर्णय इत्यर्थः ॥ ननु इदं अनुव्याख्यानानुसारेण वादे तत्व निर्णय वैलोम्यं पराजयहेतुतया उद्भावनीयमेव, न कथाऽवसितिकारणं इति कुतो न व्याख्यायते ? इत्यत आह || साक्षादिति चात्रेति ॥ ननु विरोधाऽदिषु षट्सु निग्रहस्थानेषु कस्य साक्षात् तत्व निर्णय वैलोम्यरूपत्वं ? कस्य च न ? इति अपेक्षायां आह ॥ विरोधाऽदि- ष्विति ॥ करिष्याम इति ॥ 'वादे चतुर्धा निग्रहस्थानगतिः' इत्यदिनेति शेषः ।

वादे पराजितस्य कृत्यम्

कथालक्षणपञ्चिका

(टी.) तत्वनिर्णयवलोम्यं प्राप्तवतः किं कार्यं ? इत्यपेक्षायां आह

कथालक्षणम्
संवादे श्लाघ्यतैव स्यात् गुरुत्वमितरस्य च ॥ १८ ॥

तत्वनिर्णयवैलोम्ये………………………………………

वादिनः प्रतिवादिनो वा तत्वनिर्णयवैलोभ्ये प्राप्ते तत्र च तेन संवादे कृते तस्य विमलबोद्ध- तया स्तुत्यतैव स्यात् । न तु पराजितत्वेनापमानः । इतरस्य च तत्वं निर्णीतवतो गुरुत्वं स्यात् । तत्वनिर्णयवैलोम्यं प्राप्तोऽपि यदि मतिमान्द्यादिना तत्र न संवादं करोति तस्य कर्तव्यं आह

कथालक्षणम्

...................................निन्द्यो दण्डयोऽथ वा भवेत् ।

अथ पक्षान्तरे । असंवादे, निन्द्यो भवेत् दोषाधिक्ये दण्डयो भवेत् इति ।

कथालक्षणटीकाभावदीपः

(रा. टि.) ॥ तत्र चेति ॥ तत्र तत्वनिर्णयवलोम्यविषये । तेन तत्वनिर्णयं प्राप्तेन ।
कथालक्षणटीकाविवरणं

(वे. टि.) 'तत्व निर्णय वैलोम्यं इत्यस्य इतरस्य इत्यनेन अन्वयभ्रान्ति निवारयितुं आह ॥ वादिना इत्यादि || पक्षान्तरमेव आह || दोषाऽधिक्य इति ।। अनेन दोषतारतम्येन निन्दादण्डयोः व्यवस्थि विभाषायां वाशब्द इत्युक्तं भवति ।