ॐअथातो ब्रह्मजिज्ञासा ॐ

जिज्ञासाधिकरणम्

ॐअथातो ब्रह्मजिज्ञासा ॐ

चन्द्रिकानुवाद:_१

(चंद्रिकानुवादः) तत्र भामत्युक्तमधिकरणं "प्रत्यगात्मन एव ब्रह्मत्वात् तस्य चाहमितिप्रकाशमानत्वेनासंदिग्धत्वात् न विषयत्वं ॥ नाप्यविद्यानिवृत्तिः प्रयोजनं । उक्तरीत्या आत्मनि भासमानेऽपि तदनिवृत्तेः । न च वाच्यं, अहंप्रत्ययः, स्थूलोऽहं कर्ता भोक्ता दुःखीति गृह्णाति, तद्विपरीतश्च वेदांतप्रतिपाद्यः संदिग्ध इति, विषयादिसिद्धिरिति । वेदांतानां अध्ययनविध्यापादितप्रयोजनवदर्थावबोधानामपि प्रबलाहंप्रत्यय बाधितत्वेन जपमात्रोपयोगित्वेनाविवक्षितार्थत्वादुपचरितार्थत्वाद्वा । तथाच वेदांतविचारो नारब्धव्य इति पूर्वपक्ष: । सिद्धांतस्तु वेदांत-वाक्यैः ज्ञानानंदेकरसाद्वितीयोदासीनस्वभाव आत्मा उक्रमादिभिः प्रतिपाद्यते ॥ न च क्रियासमभिहारेणेदृगात्मतत्वमभिदधति तत्पराणि सन्ति युक्तमुपचारितार्थानीति वक्तुं ॥ प्रत्यक्षं तु संभावितदोषं अपौरुषेयेण निर्दोषणागमेन बाध्यते । तेन वेदांतवेद्यः शुद्धोऽहं प्रत्यये न भातीति विषयादिसिद्धिरिति ॥

तन्न । तथाहि । शुद्धो न भातीति कोऽर्थः । किमात्मस्वरूपे किंचिद्भाति किचिन्न भातीति । किंवाssत्मस्वरूपमेव न भातीति । यद्वा अनात्मापि भातीति । आद्येऽभासमानोंशः शरीरादिभ्यो भेदो वा, कर्तृत्व भोक्तृत्वाद्यभावो वा, ब्रह्मात्माभेदो वा, द्वितीयमात्राभावो वा । आत्मभिन्नः सत्यश्चेदपसिद्धांतः । अभावद्वैतं त्वन्यत्र निरस्तं । मिथ्याचेन्न तत्वावेदकशास्त्रवेद्यः । आत्ममात्रत्वे तु द्वितीयपक्षांतर्भावः ॥ तथाऽपि कल्पितेन भेदेनागृहीत इव भातीति चेन्न । तत्वतो गृह्यमाणेऽधिष्ठाने भेदकल्पनायाः अगृहीतत्वारोपस्यचायोगात् ॥ न च मिथ्याभूतेनापि तेनोपलक्षित आत्मा शास्त्रवेद्यः, स च सत्य इति वाच्यं । स्वप्रकाशत्वेन नित्यसिद्धात्मावबोधनार्थमुपलक्षणोक्त्ययोगात् । उपलक्षण एव तात्पर्ये चाप्रामाण्यापातात् । अत एव न द्वितीयः । तस्य स्वप्रकाशस्याप्यविद्यावशादभाने अविद्यादेर्दुःखादेश्च प्रकाशो न स्यात् । तस्य चैतन्य प्रकाशाधीनप्रकाशत्वोपगमात् ॥

एतेन स्वप्रकाशत्वात् स्फुरति चैतन्यं, अविद्यावृतत्वाच्च-न स्फुरति । न च विरोधः । स्फुरणस्य तात्विकत्वात् अस्फुरणस्यातात्विकत्वात् । एवंच न कोऽपि दोषः । स्फुरत्वादज्ञानादि साधकत्वस्य अस्फुरत्वाद्विषयस्य च संभवादिति निरस्तं । स्फुरत्यस्फुरणारोपायोगस्योक्तत्वात् । न च स्वरूपचितः प्रकाशेपि तस्या अज्ञानाविरोधित्वात् विरोधिन्याश्च वृत्तेरभावेनाविद्यावृतत्वात् संदिग्धत्वमिति युक्तं । स्वरूपचितोऽज्ञानाविरोधित्वे तद्वेद्ये दुःखादावज्ञानप्रसंगात् । त्वन्मते अयं घट इत्याद्यपरोक्षवृत्तेरपि घटाद्यवछिन्नचिद्विषयत्वाच्च । श्रवणादिजनितसंस्कारसहितांतःकरणवृत्तिनाश्यत्वे च मिथ्यारूप्यादौ तददर्शनात् सत्ये भ्रमरादिध्यान निवर्त्यकीटत्वादौ च तद्दर्शनादज्ञानस्य सत्यत्वं स्यात् ॥ न तृतीयः । अनात्मनोऽधिकस्य भानेपि आत्मनोऽसंदिग्धत्वेनाविषयत्वतादवस्थ्यात् । अधिष्ठाने तत्वतः स्फुरत्यनात्मारोपायोगाच्च ॥

एतेन यथा षड्जादयो गांधर्वशास्त्राभ्यासात्प्रागपि स्फुरंतस्तद्रूपेणानुल्लिखिता न श्रोत्रेण व्यज्यंते । व्यज्यंते तु शास्त्र वासितेन तेन । एवं वेदांतवाक्यजन्यब्रह्मैक्याकार वासनावासितांतःकरणेन तद्भावाभिव्यक्तिर्नप्रागिति भामत्युक्तं निरस्तं । तत्र प्रागस्कुरतः पश्चाच्च स्फुरतः षड्जत्वादि जातिभेदस्येव प्रकृते तस्याभावात् ॥ एतेनैव तत्त्वमसीति वाक्यात् यद्यप्यात्मनो ब्रह्मत्वं ज्ञातं । तथापि वादिविप्रतिपत्त्या संशयात् तत्र जिज्ञासेति भामत्युक्तं निरस्तं । चिन्मात्रे धर्मिणि निश्चिते तन्मात्रैक्ये संशयायोगात् ॥ युक्तं चापौरुषेयस्याप्यागमस्य शङ्किततात्पर्य भ्रमरूपदोषस्य यजमानः प्रस्तर इत्यादेरिव प्रत्यक्षविरोधेन प्रतीतार्थप्रच्यावनं । उक्ता च त्वयापि तत्त्वमसि-वाक्ये प्रत्यक्षाविरोधाय लक्षणा ।। तस्मात्परमते स्वरूपमात्रस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् अन्यस्य चाज्ञान कल्पितत्वेनाज्ञानविषयत्वायोगेन ज्ञानासंभवात्, अज्ञातो विषयः अज्ञाननिवृत्तिः फलं अज्ञानी चाधिकारी न युक्त इति शास्त्रमनारंभणीयमेवेति भामतीमतं तावदयुक्तमिति ॥

रामसुब्ब_

( रामसुब्ब ग्रंथानुवादः ) तन्न । शुद्ध इत्यस्य अविद्यातत्प्रयुक्तान्यतरभिन्नचिद्रूप इत्यर्थकत्वेन तस्याहं प्रत्यये मानाभावेन त्वदुक्तविकल्पदूषणानां शुद्ध शब्दार्थाबोधविलसितत्वादिति ॥

खण्डनं_

( खंडनं) तत्तुच्छं । 'शुद्धो न भातीति कोऽर्थः । किमात्मस्वरूपे किंचिद्भाति किचिन्न भाती'ति प्रथमकल्पे अभासमानोंशः शरीरादिभ्यो भेदो वा कर्तृत्यभोक्तृत्वाद्यभावो वेति कृते अवांतर विकल्पे, य: देहादिभिन्नचिद्रूपः शुद्ध इति पक्षः । तस्मात् पक्षात् 'देहादीनां अविद्यातत्प्रयुक्तान्यतरत्वेन अविद्यातत्प्रयुक्तान्यतरभिन्नचिद्रूपः शुद्धः' इति त्वदीयपक्षस्याबहिर्भावेन तद्दूषणेन दूषितत्वात् ॥ अद्वैत्यभिमतशुद्धपदार्थान् सम्यक्विज्ञायैव दूषितवतां शुद्धशब्दार्थावबोधोक्तेरेवाशुद्धत्वाच्च ॥

रामसुब्ब_१२

(रा) 'स्वरूप चैतन्यस्याज्ञानाविरोधित्वे' इत्यादि चंद्रिकोक्तदोषपरिहारार्थं, तन्न । यस्य घटादेः न जानामीत्यनुभवः तद्विषयकमज्ञानं । सुखादेर्हि न जानामीत्यनुभवाभावात् तत्राज्ञानप्रसक्त्यभावात् । घटाकारवृत्त्या, घटावच्छिन्नस्य विशिष्ट चैतन्यस्य विषयीकरणेऽपि शुद्धस्याविषयीकरणात् शुद्धाज्ञाननिवृत्त्यभावात् इति यदुक्तं ॥

खण्डनं_१२

( खं) तत्तुच्छं । सुखं न जानामीत्यनुभवाभावादेः अस्मदुक्त-तर्कांगसाकल्यसंपादकत्वेन तर्कबाधकतया त्वदीयवर्णनस्य तर्काङ्गाज्ञानमूलकत्वात् । तथाहि । तर्के हि आपाद्यस्यानिष्टत्वमंगं । अनिष्टत्वं च प्रामाणिकपरित्यागः, अप्रामाणिककल्पनं चेति द्विविधं । प्रकृते सुखं न जानामीत्यनुभवाभावोक्तेः सुखादिविषयकाज्ञानमप्रामाणिकमितिज्ञापनद्वारा सुखादावज्ञानप्रसंग इत्यापादनस्य अनिष्टविषयत्वरूपांगसंपादकत्वं । एवं घटाकारवृत्त्या शुद्धाज्ञाननिवृत्त्यभावोक्तेः शुद्धाज्ञाननिवृत्त्यापादनस्य अनिष्टविषयत्वरूपांगसंपादकत्वमेवेति ॥

घटावच्छिन्नचितः विषयीकरणे शुद्धचितोऽपि विषयीकृतत्वात्, शुद्धस्याविषयीकरणादित्युक्तेरयुक्तत्वात् । अन्यथा दंडी देवदत्त इतिज्ञानस्य देवदत्ताविषयकत्वप्राप्त्या तेन देवदत्तविषयकाज्ञानसंशयनिवृत्त्यभावापातात् ॥

"र्वं प्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते ।

प्रपंचस्य प्रविलयः शब्देन प्रतिपाद्यते ॥ "

इति शुद्धब्रह्मणः सर्वप्रत्ययविषयत्वस्य द्वैतिभिरङ्गीकाराच्च ॥

चन्द्रिकानुवाद:_

(चं) एतेन, 'न प्रत्यक् ब्रम्हैक्यं विषयः । कर्तृत्वादेविरुद्ध-धर्मस्य सत्यत्वेनैक्यायोगात् । नापि तन्निवृत्तिः प्रयोजनं । ज्ञानस्याज्ञानमात्रनिवर्तकत्वेन सत्यस्य ज्ञानान्निवृत्त्ययोगादिति प्राप्ते सत्यं । कर्तृत्वादि प्रपंचस्य सत्यत्वे विषयादिर्न सिध्यतीति । प्रपंचस्तु मिथ्यैव । अत एव भाष्ये अध्यासवर्णनं ' इति विवरणाभिप्रेतमधिकरणं निरस्तं । कर्तृत्वादिविशिष्टस्य संभावित दोषेण तत्वावेदकेन प्रत्यक्षानुमानादिना मिथ्याभेदे गृहीतेऽपि तात्विकाभेदे मानांतर विरोधाभावेन तत्त्वंपदमुख्यार्थत्वा, तल्लक्षिते चिन्मात्रे भेदाप्रसक्त्या तत्त्वमसिवाक्यावैय्यर्थ्याय च, विशिष्टस्यैव निर्दोषया श्रुत्या तात्विकाभेदबोधनसंभवेन, विषयार्थमध्यासस्यावक्तव्यत्वात् ॥ न च विरुद्धधर्मस्य सदा सत्वे भेदस्तात्विकः स्थादिति वाच्यं । अस्याप्यनुमानस्य श्रुतिविरुद्धत्वेनातात्विकविषयत्वात् ॥ नापि प्रयोजनार्थं तदुक्तिः । सेत्वज्ञानाकार्यस्यापि पापस्य सेतुज्ञानान्निवृत्तेः । विस्तृतं चैतन्न्यायामृते । तस्मान्न विवरणमतमपि युक्तमिति ।।

रामसुब्ब_

रा) तन्न "एकमेवाद्वितीयं" "तद्धास्यविजज्ञौ" इत्युपक्रमोपसंहाराभ्यां अद्वितीयब्रह्म निर्विशेष विषयाभ्यां तन्मध्यपतितस्य निर्विशेष-विषयत्वावगमेन तद्धटक 'तत्त्वमसि' इत्यादेरपि जीवत्व ब्रह्मत्वोपलक्षितचिन्मात्रे तात्पर्यावगमात् ॥ विशिष्टयोर्भेदे तत्त्वमसिवाक्य तात्पर्यस्यैवाभावात् । सेतुज्ञानस्य पापनाशं प्रति हेतुत्वेऽपि उपादानेन सह कार्य निवृत्तिरूपबाधं प्रति अप्रयोजकत्वात् ॥ बाधितस्य तु अध्यासवर्णनं । न तु नाशमात्रप्रतियोगिन इति विवरणाचार्याभिप्रायादिति ॥

खण्डनं_

(खं) तत्तुच्छं । "तम आसीत् । तमसागूहूलमग्रे " इति तमआदीनां सत्त्वश्रवणात् ॥

"जीवईशो विशुद्धाचित् भेदस्तस्यास्तयोर्द्वयोः ।

अविद्यातच्चितोर्योगः षडस्माकमनादयः ॥ "

इत्यद्वैतिभिः अनादीनां जीवादीनामङ्गीकाराच्च । त्वत्कृते शांकरभाष्यगांभीर्यनिर्णयाख्येग्रंथे, “क्षरश्चाक्षर एव च" इति गीताश्लोकव्याख्यानपरभाष्ये 'न क्षरतीत्यक्षरः' इत्येतादृशैर्बहुभिः शांकरवाक्यैः मायायाः अविनाशित्वं शांकराभिमतमिति त्वदुक्तयैव मायाया नित्यत्वसिद्धेश्च ॥ आत्मा वा इदमेक एवाग्रआसीत् । नान्यत्किंचनमिषत्' इति श्रुत्या ब्रह्मातिरिक्तव्यापारविशिष्ट द्वितीयवस्तुनो निषेधेन व्यापाररहित द्वितीयवस्तुसद्भावस्यावगमात् । तथैव शंकरादिभिर्व्याख्यातत्वाच्च । अग्र इति आसीदिति आत्मेति च पदैः काल सत्ता जगत्कर्तृत्वादिगुणानां प्रतिपादनात् । विद्यारण्यादिभिः 'कालादीनां प्रतिभासो भवति' इत्युक्तत्वाच्च ॥ "नैवेह किंचनाग्र आसीत् । मृत्युनैवेदमावृतमासीत्" इति श्रुत्यापि अग्र इतिपदेन कालस्य आवृतमित्यनेनावरणीय वस्तुनः सत्वबोधनात् ।

शाङ्करभाष्ये "यदिहि किंचिदपि नासीद्येनाव्रियते यच्चाव्रियते तदा नावक्ष्यत् मृत्युनैवेदमावृतमासीत्" इति । न हि भवति 'गगनकुसुम छन्नो वंध्यापुत्रः' इति । ब्रवीति च मृत्युनैवेदमावृतमासीदिति । तस्माद्येनावृतं कारणेन यच्यावृतं कार्यं प्रागुत्पत्तेः तदुभयमासीत् । श्रुतेः प्रामाण्यात् अनुमेयत्वाच्च" इत्यादिना आवरकार्वीयमाणवस्तुद्वय सद्भावपरतया व्याख्यानाच्च । अर्थान्तरासंभवाच्च । प्रलयकाले द्वितीयवस्त्वभावस्यैवासिद्धेः । ब्रह्मणः अद्वितीयत्वस्यानुपपन्नत्वात् ।

"एको गोत्रे " इति पाणिनिसूत्रव्याख्यानावसरे कैय्यटे " एक शब्दोऽयं अन्यः प्रधानासहाय संख्या, प्राथम्य, समानवाची" इत्युक्तत्वेन "एकः " सुपर्णः" इति मंत्रव्याख्यावसरे, “एक: असहायः " इति विद्यारण्योक्त्या च "एकमेवाद्वितीयं" इति श्रुतिगतस्य एकपदस्य प्रधानाद्यनेकार्थत्वसंभवात्, द्वितीयशब्दस्य 'असिद्वितीय इति असिसहायः' इति महाभाष्ये सहायपरतया व्याख्यानात्, "अस्य गोः द्वितीयोन्वेष्टव्य इत्युक्ते गौरेव द्वितीयोऽन्विष्यते नाश्वः पुरुषो वा" इति शांकरभाष्ये महाभाष्ये च सजातीयद्वितीयवस्तु परतया उक्तत्वाच्च श्रौताद्वितीयपदस्य सहकारिवस्तुरहितः सजातीय द्वितीय वस्तुरहित इत्याद्यर्थकत्वसंभवेन, 'एकमेवाद्वितीयं' इति श्रुतेः सामान्यतः द्वितीय वस्त्वभावपरत्वस्यानिर्णयात् तथा ब्रह्मणः अद्वितीयत्वासिद्धेः ॥

'एकमेवाद्वितीयं' इति वाक्यव्याख्यावसरे-'एकमिति स्वकार्यपतितं अन्यन्नास्तीत्येकमेवेत्युच्यते' इति ब्रह्मातिरिक्तब्रह्मकार्यभूत वस्त्वभावबोधस्य अद्वितीयमिति, मृद्व्यतिरेकेण मृदोयथान्यत् घटाकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वंतरं प्राप्तं निषिध्यते । अद्वितीयमिति इति सहकारिभूत द्वितीयवस्त्वभावबोधस्य च एकाद्वितीयपदाभ्यां जायमानतया शंकराभ्युपगतत्वेन द्वितीयवस्तुसामान्याभावस्य तद्व्याख्यारीत्याप्यसिद्धेश्च ॥

'सदेव सौम्येदमग्र आसीत्' इति पूर्ववाक्ये अग्र इति पदेन कालस्य बोधनात्, अद्वितीयमित्यादिपदेन त्वदुक्तरीत्यैव द्वितीयस्त्वभावसत्त्वबोधनात् सामान्यतः द्वितीयवस्त्वभावबोधनासंभवाच्च ! | एकमिति प्राधान्यादिधर्माणां आसीदिति सत्तारूपविशेषस्य, ऐक्षतेति ईक्षणक्रियायाः असृजतेति सर्जनक्रियायाः अनुप्रविश्येति प्रवेशस्य चोक्त्या निविशेषब्रह्मपरत्वस्याप्यसंभवात् ॥ " तद्धास्य विजज्ञौ" इत्युपसंहारवाक्यस्यापि 'तत् ब्रह्म विजज्ञौ-ज्ञातवान्' इति ब्रह्मविषयकज्ञानमात्रप्रतिपादकत्वेन ब्रह्मणोऽद्वितीयत्वनिर्विशेषत्वाप्रतिपादकत्वात् प्रत्युतविजज्ञाविति ज्ञानकर्मत्वरूपविशेषस्य ज्ञातृज्ञेयभावेन जीवब्रह्मभेदस्य च तत्पदेन सर्वज्ञत्वादि रूपविशेषस्य च प्रतिपादितत्वेन ब्रह्मणोऽद्वितीयत्वनिर्विशेषत्वयोः प्रतिकूलत्वाच्च ॥

'एकमेवाद्वितीयं' 'तद्धास्य विजज्ञौ' इत्युपक्रमोपसंहारयोरेव अद्वितीय ब्रह्मनिर्विशेषविषयकत्वासंभवेन तत्प्रतिकूलत्वेन च तन्मध्यपतितस्य निर्विशेषविषयत्वावगमस्य दूरापास्तत्वात् ॥ "स आत्मातत्त्वमसि " इतिवाक्यस्य जीवत्वब्रह्मत्वोपलक्षितचिन्मात्रे तात्पर्यासिद्धेः । जीवब्रह्मैक्यप्रमाणभंगे अस्मदुक्तरीत्या जीवस्य ब्रह्माधारत्वब्रह्मजन्यत्वादी जीवब्रह्मणोर्भेदे च तात्पर्य सिद्धेश्च ॥ भेदग्राहक प्रत्यक्षस्यातत्वा वेदकत्वेन तेन मिथ्याभेदे गृहीतेऽपि तात्विकाभेदे मानांतरविरोधाभावेन विशिष्टयोर्भेदगीक्रियमाणे श्रुतेर्मुख्यार्थत्वप्राप्तेः चिन्मात्रे भेदस्याप्रसक्त्या चिन्मात्रयोरभेदकथने उक्तश्रुतेः अप्रसक्तनिषेधकत्व प्राप्तेश्च निर्दोषया श्रुत्या विशिष्ठयोरेव जीवेश्वरयोः तात्विकाभेदबोधनसंभवेन अध्यासवर्णनमंतरापि ऐक्यरूपविषयसिद्ध्या 'यतः कर्तृत्वादेर्मिथ्यात्वे विषयादिसिद्धिः अत एव भाष्ये अध्यासवर्णनं इति विवरणाभिप्रायोसंगत इति चन्द्रिकोक्तदूषणस्य विशिष्ठयोरभेदे तात्पर्याभावोक्त्याऽनिवारणात् ॥

यदुक्तम् सेतुज्ञानस्य इत्यादि तदपि तव विवरणकारस्य च श्रुति सूत्रार्थाज्ञानकल्पकमेव ॥ " तमेवं विद्वानमृत इह भवति " " तरति शोकमात्मवित्" इत्यादि श्रुतौ " अथातो ब्रह्मजिज्ञासा" इति सूत्रे ब्रह्मज्ञानेन बंधसंबंधवियोगरूपमोक्षस्य प्रतिपादनेऽपि उपादानेन सह कार्यनिवृत्तिरूपबाधस्याप्रतिपादनात् अप्रामाणिक निवृत्ति सिद्धयर्थं अध्यासवर्णनोक्तेरयुक्तत्वात् ॥ दाहात् उपादानकारणीभूततंतुनासह पटरूपकार्य नाशदर्शनेन ज्ञानादपि उपादानेन सह सत्यभूतकार्यस्यापि निवृत्तौ बाधकाभावेन तदर्थं अध्यासवर्णनोक्तेरसंगतत्वाच्च ॥ अद्वैतिनां मते ब्रह्मणो निर्विशेषत्वेन अद्वितीयत्वेन च लोके अध्यासकारणतया दृष्टानां सामान्यधर्मविशेषधर्मारोप्यमाण सादृश्यतद्ज्ञानाज्ञानतदाश्रयाणामसंभवेन अध्यासायोगाच्च ।। " विस्तरस्तु अद्वैतखण्डनभागे द्रष्टव्यः ॥

रामसुब्ब_२२

( रा. ८१.) यदुक्तं विवरणमतानुवादावसरे प्रपञ्चस्तु मिथ्यैव । अत एव भाष्ये अध्यासवर्णनं । मिथ्यात्वंतु आरंभणाधिकरणे स्फुटी भविष्यति' इति ॥

खण्डनं_२२

( खं . ) तत्तुच्छं | अद्वैतिनां मते अध्यासस्यासंभवेन प्रपञ्चस्य मिथ्यात्वासंभवात् ॥ "नेह नानास्ति किञ्चन" 'अतोऽन्यदातं' इत्यादि श्रुतीनां अन्यार्थत्वेन विश्वं मिथ्या दृश्यत्वात् इत्याद्यनुमानानां दुष्टत्वेन प्रपञ्च मिथ्यात्वविषये प्रमाणाभावात् । प्रत्युत प्रपञ्चसत्यत्वग्राहकाणां " यथा वृक्षोवनस्पति: तथैव पुरुषोऽमृषा” “विश्वं सत्यं" " याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः " " तदेतत्सत्यं" इत्यादि श्रुतीनां 'घटः सन् पटः सन्' इत्यादि प्रत्यक्षाणां विश्वं सत्यं अर्थक्रियाकारित्वात् इत्याद्यनुमानानां च सत्यात् ॥

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।

राजन् कार्यस्य मिथ्यात्वं नैर्गुण्यं परमात्मनः || "मायावादम सच्छास्त्रं"

इत्यादिषु जगन्मिथ्यात्वनिंदाश्रवणाच्च ॥ आरंभणाधिकरणस्य

(* अध्यासवाद मंगे, 1 बृहदारण्योपनिषच्छांकरभाष्य ( ३०८-१) 'अमषा सत्यं' इति व्याख्यातम् ॥ )

जगन्मिथ्यात्वाप्रतिपादकत्वात् ॥ यथा आरंभणाधिकरणस्य न मिथ्यात्वप्रतिपादकत्वं तथोपपादितमद्वैतखण्डनभागे ॥ १ ॥

चन्द्रिकानुवाद:_

( चं ३१. ) अत्र वेदार्थनिर्णायकन्यायग्रथनात्मकमिदं शास्त्रं अनारंभणीयमुतारंभणीयमिति चिंता । तदर्थं न्यायानुन्धानरूपविचारो न कर्तव्य उत कर्तव्य इति । तदर्थं विचारविधेः विषयादिकं न संभवत्युत संभवतीति ॥ तदर्थं विषयीभूतं ब्रह्म किं प्रत्यगर्थभूतजीव एव उत तदन्यदिति ॥ यदि ब्रह्म प्रत्यगर्थ एव तदा तस्य निश्चितत्वेन विषयाद्यसंभवात् शास्त्रमनारंभणीयमिति पूर्वपक्षे फलफलिभावः । यदि तु ब्रह्म प्रत्यगर्थादन्यत् तदा प्रत्यगर्थस्य जीवस्य निश्चितत्वेऽपि ब्रह्मणो विषयत्वसंभवाच्छास्त्रमारंभणीयमिति सिद्धांते फल-फलिभाव: पूर्वपक्षस्तु ॥

( पूर्वपक्षसंग्रहः ) जीवान्यब्रह्मणोऽभावात्तस्य च स्वप्रभत्वतः । तद्ज्ञानान्मुक्त्यभावाच्च जिज्ञासा नावकल्पते इति न शास्त्रमारंभणीयं न्यायानुसंधानात्मक विचाररूपजिज्ञासाया एवाकर्तव्यत्वात् । तदकर्तव्यत्वंच निर्विषयत्वादिहेतुभ्यः ॥ तत्र तावद्विषयत्वेनाभिमतं ब्रह्म न जीवचैतन्याद्भिन्नं मानाभावात् । कर्मकांडस्य कर्मपरत्वात् । वेदांतश्चोपक्रमादिभिः अद्वैतिरीत्या अखंडप्रत्यगात्ममात्रप्रत्यायनात् । तस्य चाहमिति स्वप्रकाशतया भासमानत्वात् । अन्यस्य च सत्यस्याभावात् ॥ नापि जिज्ञासायाः प्रयोजनमस्ति । प्रत्यग्रूपे ब्रह्मणि अहमिति ज्ञायमानेऽपि मोक्षानुपलंभात् ॥ विषयाद्यभावादेव नाधिकारी ॥ नापि संबंध अतः तद्विजिज्ञासस्व इत्यादि वेदांता न विचारविधायकाः । अप्रमाणम् चेति ॥ एवं पूर्वपक्षे प्राप्ते सिद्धांतितं भगवता सूत्रकारेण ॥

ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥

(१. जगन्मिथ्यात्वनिराकरणप्रकरणे, )

इति सिद्धांतस्तु --

जिज्ञास्यं ब्रह्मशब्देन गुणपूर्त्यभिधायिना ।

अपूर्णत्वेनानुभूताज्जीवद्भिन्नं प्रतीयते ॥

जिज्ञास्यमेव ब्रह्म । " तद्विजिज्ञासस्य तद्ब्रह्म" इत्यादि श्रुतेः श्रीब्रह्मशब्दोक्त्या गुणपूर्त्या अल्पगुणत्वेनानुभूयमानाज्जीवाद्भिन्नत्वेन संदिग्धत्वाच्च ॥

निर्दोषश्रुतिसाक्षिभ्यां प्रमिते ब्रह्मजीवयोः ।

गुणवर्त्यल्पगुणते मिथ्येति च न युज्यते ॥

न केवलं "अथ कस्मादुच्यते ब्रह्मेति बृहंतो ह्यस्मिन्गुणाः" इति श्रुत्या गुणपूतिर्ब्रह्मशब्दार्थः । किंतु ब्रह्मशब्दावयवशक्त्याऽपि । अपरिछेदे हि तस्यावयवशक्तिः परस्यापि संमता । गुणापरिछेदोऽपि चापरिछेद एव । न च संकोचे हेतुरस्ति । अन्यथा कालमात्र परिच्छेदस्तदर्थ स्यात् ॥ तथाच ब्रह्मणो जीवाद्भिन्नत्वेन अहमिति ज्ञानस्य ब्रह्माविषयकतया ब्रह्मज्ञानत्वाभावेन तेन मोक्षानुपलंभेऽपि ब्रह्मज्ञानमोक्षयोः 'तमेवं विद्वानमृत इह भवति' इत्यादि श्रुतिसिद्ध कार्यकारणभावस्य निर्बाधत्वेन ब्रह्मज्ञानेन मोक्ष संभवात् विषयप्रयोजनयोः सतोः प्रयोजनेच्छया विषयजिज्ञासोरेवाधिकारित्वात् यथायोग्यं संबन्धस्य च विद्यमानत्वात् ब्रह्म जिज्ञास्यं । तद्विजिज्ञासस्व इत्यादि विचारविधायका वेदान्ताः प्रमाणमिति ॥

रामसुब्ब_

रा ( ८२ . ) तन्न | मध्यमते पूर्वपक्षो नोपपन्नः । तत्र हि वेदान्तानां जीवब्रम्हैक्यपरत्वं मिथ्यावाद्युक्तरीत्या निश्चित्य शास्त्रानारंभ उपपादितः ॥

(१. चं ४२.)

तत्राद्वैतस्य " सिद्धत्वे न वेदांतस्य गोचरः ।

सिद्धोऽपि यदिवेदांतगोचरस्तर्हि गोचरः ॥

विचारस्य कथं न स्यादद्वैते न च सिद्धता ।

नितांतन्तु विचारस्य गोचर स्याद्यथातथम् ॥

अद्वैतवाक्यनिचयः कर्मशेषो भवेत्तदा ।

निष्प्रत्यूहैर्भेदवाक्यं स्तदाभेदः सुनिष्ठितः ॥ इति ॥

खण्डनं_

(खं) तत्तुच्छम् । अस्मदीयपूर्वपक्षे ब्रम्हण एव विचाराविषयत्ववेदांतविषयत्वयोः कथितत्वेन अद्वैतस्य विचाराविषयत्ववेदांतविषयत्वयोरनुक्त्वा अद्वैतस्य सिद्धत्वासिद्धत्वपक्षयोः दूषणोक्तेः अस्मदीय पूर्वपक्षाज्ञानविज्रुंभितत्वात् ॥ किंच एतदधिकरणपूर्वपक्षस्य वेदांताप्रामाण्यपर्यन्ततया वेदांतानां पूर्वपक्षिणा अप्रामाण्यप्रयोजक सिद्धजीव ब्रह्मैक्यविषयकत्वांगीकारसंभवेऽपि असंदिग्धे न्यायानवतारेण न्यायानुसंधानात्मक विचारस्य सिद्धजीवब्रह्मैक्यविषयत्वांगीकारासंभवेन सिद्धोऽपि यदि वेदांतगोचरस्तर्हि गोचरः । विचारस्य कथं न स्यात् इत्याक्षेपस्यात्यंतमसंगतत्वात् ॥ एतेन सिद्धब्रह्मणः वेदांतविषयत्वे विचाराविषयत्वासम्भवशङ्कापि परास्ता || 'अद्वैतवादयनिचय: कर्म शेषो भवेत्तदा । निष्प्रत्यूहैर्भेदवाक्यंस्तदाभेदः सुनिष्ठितः । इति वाक्यं तु स्वप्रतिज्ञातपूर्वपक्षानुपपन्नत्वासाधकत्वात् असंबद्धप्रलपनरूपमेवेति ।

रामसुब्ब_३२

( रा. ८२ . ) सिद्धांतोऽप्यनुपपन्नः । सर्वेषां वेदांतवाक्यानां निविशेष चैतन्यरूपे ब्रह्मणि तात्पर्यमाश्रित्य कृतस्य पूर्वपक्षस्य निरासाय 'तद्विजिज्ञासस्वे 'ति विचारविधिवाक्यगतो ब्रह्मशब्द: मध्वमते स्थापितः । नचैको ब्रह्मशब्दः सर्वानपि वेदांतान् उपक्रमादिदृढन्यायैः निर्णीताद्वैत: तात्पर्यात् प्रच्यावयितुं शक्तः ॥ 'विप्रतिषेधे भूयसां स्यात् स्वधर्मत्वं' इति प्रसङ्गलक्षणन्यायात् अद्वैते उपक्रमाद्यभाव एव सिद्धांतहेतुर्वाच्यः । तमनुक्त्वा ब्रह्मशब्दस्य हेतुत्वकथनमयुक्तमिति ॥

(तत्पुस्तके 'स्यासिद्धत्वे' इतिस्यवर्णः दीर्घो मुद्रितोऽस्ति । स चात्यंतासंगत इति स्थवर्णो ह्रस्वोऽनूदितः ॥)

खण्डनं_३२

( खं. ) तत्तुच्छं अल्पगुणत्वपूर्ण गुणत्वरूप विरुद्धधर्माधिकरणत्वरूयुक्त्या जीवब्रह्मणोर्भेदस्य साधितत्वेन अद्वैते उपक्रमादिषु बलिष्टतमयुक्तिविरोधस्य अर्थात् तदभावस्य च सिद्धांतिभिः प्रदर्शितत्वेन अद्वैते उपक्रमाद्यभावरूपत्वकथनोक्तेः चन्द्रिकावाक्यतात्पर्याज्ञानविजृंभितत्वात् उक्तं हि चन्द्रिकायां ॥

जिज्ञास्यब्रह्मशब्देन गुपूर्त्यभिधायिना ।

अपूर्णत्वेनानुभूताज्जीवद्भिन्नं प्रतीयते ॥ इति,

अखण्डे ब्रह्मणि अद्वैते वा तात्पर्यप्रत्यायकतया अद्वैतिप्रदर्शितोपक्रमादेश्च तत्तात्पर्यव्यवस्थापकत्वाभावस्य प्रत्युत तत्प्रतिकूलतायाः जीवब्रह्मैक्यप्रमाणभंगे उपपादितत्वेन अखण्डे ब्रह्मणि अद्वैते वा वेदान्तानां तात्पर्यस्य अनिर्णयात् एकोऽपि निरवकाशः ब्रह्मशब्दः अद्वैत्युत्पादितभ्रम विषयात् तात्पर्यात् वेदांतान् प्रच्यावयितुं समर्थः किम् ब्रह्मशब्देन उपलक्षतया सूत्रकृद्भिर्गृहीतानि प्रत्यक्षानुमानकर्मकांडसृष्ठ्यादि प्रतिपादक भेदग्राहकाणि प्रमाणानि । स्वीकृतञ्च कर्मकांडानां सृष्ठ्यादिप्रतिपादकोपनिषदां प्रत्यक्षानुमानानाञ्च भेदग्राहकत्वं त्वद्भाष्यकर्त्रा १ "शास्त्राणां भेद एव श्रुतिशिखरगिरामागमानां च निष्ठा साकं सर्वैः प्रमाणः स्मृतिनिकर महाभारतादि प्रबंधै: ॥ तत्रैव व्याससूत्राण्यकुटिल विधयाभान्ति तात्पर्यवन्ति प्रत्नैराचार्यरत्नैरपि परिजगृहे शङ्करार्यै: स चापि इति विष्णुतत्वरहस्यविवरणे त्वया सर्वेषां प्रमाणानां भेदतात्पर्यकत्वं तथा शाङ्कराभिप्रेतत्वञ्च उपपादितं च निपुणतरं भेदसाधकत्वं तस्मिन्नेव ग्रन्थे । एवञ्च अमेदग्राहकप्रमाणस्यैव त्वन्मतरीत्याऽभावात् इतराद्वैतिमरीत्या अभेदप्रतिपादकतयाङ्गीकृतानां तत्वमस्यादि पञ्चषाणां भेदप्रतिपादकवाक्यापेक्षया अल्पत्वात् विप्रतिषेधे भूयसां स्याद् सधर्मत्वं इति प्रसंगलक्षणन्यायः त्वत्प्रतिकूल एवेति ॥

चन्द्रिकानुवाद:_

( चं. २८ . ) एतेन प्रथमसूत्रस्य समन्वयाद्यशेषविचार-

(बृहदारण्ये २०, १२० : मे मंत्रव्याख्याने.)

हेतुत्वात् ॥ शास्त्रप्रथमाध्यायप्रथमपादसङ्गतय इति कल्पतरूक्तं निरस्तं द्वितीयाध्यायतो व्यावृत्तस्य शास्त्रसङ्गत्यतिरिक्तस्य प्रथमाध्यायादिना सङ्गतिविशेषस्यानुक्तत्वेनाध्यायपादपीठत्वमात्रस्य न्याय्यत्वादिति ॥

रामसुब्ब_

( रा. ७४ . ) तन्नप्रथमाध्यायवत् द्वितीयाध्यायादिसंगतत्वास्याधिकरणस्य द्वितीयाध्याये संघटनापत्तिः" इति भवदभिप्रायो वक्तव्य: । सचासङ्गतः । संगतैः साधारणत्वेऽपि प्रथमातिक्रमे कारणाभावात् प्रथमाध्याय एव संगत्या एतदधिकरणसंघटनस्य युक्तत्वादिति ॥

खण्डनं_

(खं . ) तत्तुच्छं । चंद्रिकानभिमतं वाक्यादप्रतीयमानं चाभिप्रायं कल्पयित्वा दूषणोक्तेः छलोत्तरत्वात् । तथाहि चंद्रिकाभिप्रायः । समन्वयाद्यशेषविचार हेतुत्वात् शास्त्र प्रथमाध्यायप्रथमपादसंगतयः इति प्रकृतचतुरध्यायात्मकशास्त्रं प्रति अस्य सूत्रस्य प्रयोजकत्वोक्त्या उपोद्धात संगतेरेव भवता उक्तप्रायत्वेन शास्त्रारंभे सिद्धे प्रथमाध्यायो मास्तु प्रथमपादो मास्तु इति विशेषाशङ्कायाः प्रथमसूत्रेणानिवृत्तेः । शास्त्रत्वेन रूपेण प्रथमाध्यावादोनामपि संगत्युक्तो द्वितीयतृतीयसूत्राणां शास्त्रत्वेन रूपेण संगतविद्यमानत्वात् शास्त्रप्रथमाध्यायप्रथमपादद्वितीय-तृतीय सूत्र संगतयः इत्यपि वक्तव्यत्वापातात् इति । नतु द्वितीयाध्याये संघटानापत्तिरिति । उपोद्घातसंगतेः संघटनां प्रत्यप्रयोजकत्वात् ॥

चन्द्रिकानुवाद:_

( चं. २८.) एतेनैव " श्रोतव्यादिवाक्यानां स्वार्थे समन्वयस्य तद्वारेण विचार्यमाणवेदांतवाक्यानामपि ब्रह्मणि समन्वयस्य च निमित्तत्वादाद्यसूत्रं समन्वयेन संगतं " इति विवरणोक्तं निरस्तं । तद्वाक्यस्य स्वार्थे समन्वयप्रतिपादनमात्रेण समन्वयाध्यायसंगतौ तृतीयाध्यायादेरपि समन्वय संगतिप्रसंगात् । विचार कर्तव्यताप्रतिपादनेन ब्रह्मणि समन्वयनिमित्तत्वस्येवाविरोधादिनिमित्तत्वस्यापि सत्वेन द्वितीयादितो व्यावृत्तस्य प्रथमेन संगतिविशेषस्यासिद्धेश्च ॥ पादसंगत्यनुक्तेश्चेति ॥

रामसुब्ब_

( रा. ८४ .) तन्न । द्वितीयाध्यायादेः ब्रह्मणि वेदांत समन्व हेतुभूतसमन्वयपरत्वाभावेन तदीयाधिकरणानां समन्वयाध्यायसंगतत्वाभावात् । जिज्ञासाधिकरणस्य येन समन्वयेन द्वारभूतेन अविरोधहेतुत्वं तत्रैव संगतत्वेन अविरोधाध्याय संगतत्वाभावात् । उपोद्घातरूपस्याधिकरणस्य स्पष्टब्रह्मलिंगवाक्यविचाररूपत्वस्यातिस्फुटत्वात् प्रथमपाद-संगत्यनुक्तिरित्यलमिति ॥

खण्डनं_

(खं. ) तत्तुच्छं । वाक्यप्रतिपाद्येऽर्थे भासमानबाधक परिहारेण तादृशार्थपरत्वसमर्थनं हि श्रोतव्यादिवाक्यानां स्वार्थे समन्वयः । तस्य चाद्यसूत्रे क्रियमाणत्वात् तत्सूत्रं यथा समन्वयाध्यायसंगतं तथा 'आत्मन आकाशः संभूतः इत्यादि वाक्यानामपि तत्प्रतिपाद्येऽर्थे बाधकपरिहारेण स्वार्थपरत्वसमर्थनरूपसमन्वयस्य द्वितीयाध्यायीयाधिकरणः क्रियमाणतया विरोधनिरासद्वारा ब्रह्मणि वेदांतसमन्वय हेतु समन्वयपरत्वेन तेषामधिकरणानामपि समन्वयाध्याय संगत्यापत्तेरवारणात्। स्वार्थे समन्वयस्य ब्रह्मणि वेदांतसमन्वयं प्रतीव अविरोधं प्रत्यपि हेतुत्वेन समन्वयपरे अध्याये संगतिः न त्वविरोधपरे अध्याये संगतिरित्यस्यार्धजरतीयन्यायेनानुपपत्तेः ॥ श्रोतव्यादिवाक्यानां स्वार्थे समन्वयद्वारा विचार्यमाण-वेदांतवाक्यानां ब्रह्मणि समन्वयहेतुत्वोक्त्या अत्र ब्रह्मणि पदानां समन्वयाप्रतिपादनस्य भवता अंगीकृतत्वेन समन्वेतव्य पदस्यैवाभावेन श्रोतव्यादिवाक्यानां आनंदमयाधिकरणे भवता परिष्क्रियमाणेन जडजीवमात्रधर्मतया झटिति प्रतीयमानसमन्वेतव्यपदार्थवृत्तिधर्मासमभिव्याहृतत्वरूस्पष्टत्वेनोपेतब्रह्मलिंग वाक्यरूपत्वस्यैवाभावेन स्पष्टब्रह्मलिंगवाक्यविचाररूपत्वस्यातिस्फुटत्वादित्युक्तेः अज्ञान मूलत्वाच्च ।।

चन्द्रिकानुवाद:_

( चं ५९.) अत्र परेषां भाष्यंतत्राशब्द आनंतर्यार्थः परिगृह्यते । नाधिकारार्थः । ब्रह्मजिज्ञासाया अनधिकार्यत्वात्" इति।तन्न। इच्छाया आरभ्यत्वासंभवेऽपि विवरणरीत्याजिज्ञासाशब्दस्य विचारलक्षकत्वेन तस्यारभ्यत्वसंभवादिति

रामसुब्ब_

( रा. ८५ . ) तन्न । लक्ष्यार्थस्यारभ्यत्वेऽपि शक्यार्थवादायैवाचार्यैरनारभ्यत्वोक्तेरिति ॥

खण्डनं_

(खं. ) तत्तुच्छं । लक्षणया वा शक्त्या वा पदतात्पर्यविषयीभूत एव पदार्थांतरान्वययोग्यतायोग्यते नित्ये । नतु तात्पर्याविषयभूते शक्य एवार्थे पदार्थांतरान्वययोग्यता विचारणीया । अन्यथा गंगायां घोष इति वाक्येऽपि घोषपदार्थभूतायाः पत्याः, तात्पर्याविषयीभूते गंगापदशक्ये प्रवाहे अन्वययोग्यताभावात् घोषपदार्थता न स्यात् । तथा च प्रकृते विवरणरीत्या जिज्ञासापदलक्ष्ये विचारे आरभ्यत्वान्वययोग्यतायाः संभवात् ब्रह्मजिज्ञासाया अनधिकार्यत्वादिति शांकरभाष्यस्य विवरणव्याख्यानरीत्या अयुक्तताया अपरिहारात् ॥

चन्द्रिकानुवाद:_

(चं. ६४.) अन्येषां भाष्येतु-"मंगळस्य च वाक्यार्थे समन्वयाभावात्" इत्युक्तं । तन्न । अपदार्थत्वहेतौ समन्वयाभावे भामत्यां " पदार्थ एवहि वाक्यार्थे समन्वीयते । स च वाच्यो लक्ष्यो वा । न चेह मंगलमथशब्दस्य वाच्यं लक्ष्यं वा " इत्युक्तस्यापदार्थत्वस्य हेतुत्वेनान्योन्याश्रयापातादिति ॥

रामसुब्ब_

( रा. ८५ ) तन्न । वाक्यार्थानन्वितस्यापि घट इत्येकपदमात्र प्रयोज्यस्मृतिविषयस्य घटरूपार्थस्य पदार्थत्वसंप्रतिपत्या अन्योन्याश्रयासंभवादिति ॥

खण्डनं_

(खं. ) तत्तुच्छं । नहि चंद्रिकाकृतां वाक्यार्थानन्वितस्य पदार्थत्वमेव नास्तीत्यभिप्रायः । किंतु 'मंगळस्य च वाक्यार्थे समन्वायाभावादिति' शांकरभाष्येण 'मंगलस्य वाक्यार्थे समन्वयाभावात् पदार्थ एवहि वाक्यार्थे समन्वीयते स च वाच्यो लक्ष्यो वा न चेह मंगलं अथशब्दवाच्यं लक्ष्यं वा । किंतु मृदंगशंखध्वनिवत् अथ शब्दश्रवणमात्रकार्यं । न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शब्दव्यवहारे दृष्ट इत्यर्थ" इति भामत्या च "मंगळं अथशब्दार्थो न भवति वाक्यार्थसमन्वयाभावात् ।, "मंगलं वाक्यार्थे समन्वयाभाववत् अथशब्दवाच्यलक्ष्यान्यतरत्वाभावात् इत्यनुमाने सूचिते भवतः । तत्र अथशब्दवाच्यलक्ष्यान्यतरत्वाभावरूपहेतु सिद्धौ वाक्यार्थसमन्वयाभावरूप हेतुसिद्धि: वाक्यार्थे समन्वयाभावरूपहेतु सिद्धौ अथशब्दार्थत्वाभावरूप हेतुसिद्धिरिति परस्परज्ञप्त्यधीनज्ञप्तिकत्वेन अन्योन्याश्रय इति । एतादृशान्योन्याश्रयस्य वाक्यार्थानन्वितस्य घटरूपार्थस्य पदार्थत्वसंप्रतिपत्तिकथनमात्रेणापरिहारात् । वाक्यार्थानन्वितस्यापि घट इत्येकपदमात्र प्रयोज्यस्मृतिदिषयस्य घटरूपार्थस्य पदार्थत्वसंप्रतिपत्येतिदता त्वयैव वाक्यार्थसमन्वयाभाव पदार्थत्वाभावयोः घट एव व्यभिचारस्य दर्शितत्वेन समन्वयाभावरूपहेतुनाऽपदार्थत्वं साधयतो भाष्यकारस्याकौशल्यख्यापनाच्च ॥

चन्द्रिकानुवाद:_

( चं ६० ) नापि "नतावज्जिज्ञासायां मंगळं कर्त्रादिभावेन वैय्यधिकरण्येनान्वेति कर्त्रादिभावे मानाभावात् कर्त्राद्यंतरभावाच्च । नापि सामानाधिकरण्येन जिज्ञासामंगळमित्यर्थवादत्व प्रसंगा"दिति विवरणोक्तो हेतुः सधूमो गिरिः साग्निक इतिवत् ईक्षतेर्नाशब्दमित्यत्र त्वत्पक्षेऽशब्दमितिवच्च मंगळत्वात्कर्तव्येति हेतुत्वेनान्ययोपपत्तिरिति ||

रामसुब्ब_

( रा. ८६ ) तन्न जिज्ञासाया मंगळकरत्वेऽपि मंगळत्वाभावेन तस्य तत्र हेतुत्वेनान्वयासंभवात् । मंगळकर एवाथशब्दार्थ इति चेन्न लक्षणापत्तेरिति ॥

खण्डनं_

(खं) तत्तुच्छं विवरणकारेणैव जिज्ञासामंगळमित्यन्वये अर्थवात्वप्रसंगादिति वदता जिज्ञासाया मंगळरूपत्वमंगीकृतं । शांकरसूत्र-भाष्यव्याख्यात्रा आनंदगिरिणाsपि 'नच ब्रह्मजिज्ञासा मंगळमितिसामानाधिकरण्यं प्रशंसात्वेन सूत्रस्यार्थवादत्वापत्तेः तन्मांगल्यस्य च प्रसिद्धत्वादिति स्पष्टं जिज्ञासाया मंगळरूपत्वमंगीकृतमिति ॥ जिज्ञासायाः मंगळ करत्वेऽपि मंगळवाभावेनेत्युक्तेः विवरणादिस्वीयग्रन्थानवलोकनिबन्धनत्वात् तथाच मंगळस्य वाक्यार्थे समन्वयाभावादिति शांकरभाष्यं विवरणरीत्या अयुक्तमेवेति चंद्रिकाकृदुक्तदूषणं वज्रलेपायितमेवेति ॥

चन्द्रिकानुवाद:_

(चं ६५) पूर्वप्रकृतापेक्षायाश्च फलतआनंतर्याव्यतिरेकात् इति परेषां भाष्यं तस्य भामत्यनुसारेणाथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वाशंकानिरासायानंतर्यार्थ इव पूर्वप्रकृतापेक्षार्थत्वेऽपि जिज्ञासाहेतुभूतस्य पूर्वप्रकृतस्य लाभात् फलाभेदाव्यर्थ आनंतर्यार्थेत्वाग्रहोऽस्माकमिति यद्यर्थः तर्हि भाष्ये आनंतर्यार्थ इत्युक्त्ययुक्तिः । सूत्रे कल्पांतरानुपन्यासेन पूर्वप्रकृतापेक्षार्थत्वमशक्यशंकंच । किंच किं नित्यः शब्दोऽथानित्य इत्यादि कल्पांतरोपन्यासेऽपि सामानाधिकारण्यार्थमनुषक्तस्य धर्मिणोऽनित्य इत्यत्रापेक्षायामपि नासावथशब्दार्थः अन्यथा उतानित्य इत्यादावुतादेरपि पूर्वप्रकृतापेक्षार्थत्वं स्यादिति ।

रामसुब्ब_९१

( रा. ८६ ) तन्न आनंतर्यार्थ इति व्याख्यानपदस्य पूर्वप्रकृतापेक्षार्थ इति व्याख्यानपदापेक्षया अल्पाक्षरत्वलाघवात् आनंतर्यार्थः परिगृह्यते इत्युक्तेः सुसंगतत्वात् इति ॥

खण्डनं_

( खं) तत्तुच्छं " कल्पांतरोपन्यासे पूर्वप्रकृतापेक्षा नचेह कल्पांतरोपन्यास " इति भामत्यां पूर्वप्रकृतापेक्षार्थत्वस्य सयुक्तिकं निरासात् पूर्वप्रकृतापेक्षार्थत्वमंगीकृत्य पूर्वप्रकृतापेक्षार्थ इति व्याख्यानपदापेक्षयाल्पाक्षरत्वलाघवात् इति कथनस्य भामत्यनवलोकननिबंधनत्वात् भामतीग्रन्थमनवलोक्य तद्व्यवस्थापनाय प्रवृत्तस्य साहसमुपहासास्पदमिति ॥

किंच पूर्वप्रकृतापेक्षार्यानन्तर्यार्थयोरविशेषेऽपि स्वोक्तौ शब्दलाघवगौरवमात्रस्य भाष्यकृतोऽभिप्रेतत्वे 'पूर्वप्रकृतापेक्षायाश्च फलत आनंतर्याव्यतिरेकात्' इति अथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वांगीकारसूचकाग्रिमगुरुभूतवाक्यापेक्षया अथशब्दः आनंतर्यार्थः परिगृह्यत इत्यत्रैव आनंतर्यार्थः पूर्वप्रकृतापेक्षार्थी वा इति लघुभूतवाक्यविन्यासस्याकरणेनाकुशलत्वापत्तेश्च । चंद्रिकोक्तानां दूषणांतराणामपरिहाराच्च ॥

रामसुब्ब_९२

( रा. ८६) सूत्रे कल्पांतरानुपन्यासेनेत्युक्तिरसंगता नित्यानित्यवस्तुविवेकादिमुमुक्षुत्वतस्य तद्यथेह कर्मचितः इत्यादि वेदसित्धस्यब्रह्मजिज्ञासापदघटकीभूत परब्रह्मार्थकब्रह्मशब्देन वेदस्तत्वं तपोब्रह्म इति रीत्या उपस्थापित वेदस्यापि परामर्शिना सौत्रातः शब्देन तद्यथा इत्यादि विवेकादिबोधक वेदेन पूर्वमुपस्थापितत्वात् अथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वोपपत्तेः भामती कल्पतरूपतातः शब्दार्थरीत्या सिद्धत्वादिति ॥

खण्डनं_९२

(खं.) तत्तुच्छं भामत्यामेवकल्पांतरोपन्यासे पूर्वप्रकृतापेक्ष न चेह कल्पांतरोयन्यास इति पारिशेष्यादनंतर्यार्थं एवेति युक्तमिति स्पष्टं कल्पांतरोपन्यासाभावस्योक्तत्वेन अथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वोपपत्तेर्भामतीकल्पतरुक्तातः शब्दार्थरीत्या सिद्धत्वादित्युक्तेः भामतीग्रन्थानवलोकननिमित्तत्वात् अथशब्दानंतरवर्तिना अतः शब्देन त्वदुक्तरीत्या नित्यानित्यविवेकादिमुमुक्षांतस्य उपस्थितत्वेऽपि कल्पांतरोपन्यासाभावेन पूर्वमुपस्थितत्वाभावेन च 'पूर्वमुपस्थितत्वात् अथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वोपपत्तेः भामतीकल्पतरूक्तातः शब्दार्थरत्या सिद्धत्वात् इत्यस्यात्यंतमयुक्तत्वाच्च ॥

चन्द्रिकानुवाद:_१

(चं. ६५) नापि प्रकृतादर्थादर्थातरत्वाशंकानिरासाय अर्थातरत्वं हि यतः कुतश्चित्प्रकृताच्चेद्व्यर्थं पुष्कळ कारणाच्चेदानंतर्याभिधानं विना कारणत्वासिद्धि: आनंतर्याभिधाने च प्रकृतादर्थात् अर्थांतरत्वस्यांतर्णीततया सिद्धिरिति विवरणोक्तोऽभिप्रायः आनंतर्याभिधानेऽपि वैय्यर्थ्यपरिहारार्थमेव प्रकृतस्य हेतुत्वसिद्धे: अन्यथा आनंतर्यार्थत्वे तत्प्रतियोगिनो हेतुत्वासिद्धि: पूर्वप्रकृतादर्थांतरत्वाभिधानेप्यानंतर्यार्थस्यांतर्णीततया सिद्धेश्चेति ॥

रामसुब्ब_१०

( रा. ८७.) तन्न परमानंददो मोक्षः ज्ञानं तु संपादनीयं इत्यत्र ज्ञानात्पूर्वं प्रकृतस्य ज्ञानजन्यत्वसंप्रतिपत्तेः वैय्यर्त्यपरिहारार्थं प्रकृतस्य हेतुत्वसिद्धिरिति भवद्वचनस्य तत्र व्यभिचारात् आनंतर्याभिधाने तु आनंतर्यप्रतियोगिनः प्रकृतस्य फलत्वासंभवेन हेतुत्वं सिध्यतीति विवरणाभिप्रायात् इति ॥

खण्डनं_१०

(खं. ) तत्तुच्छं ॥ यत्र यत्र पूर्वप्रकृतत्वं तत्र तत्र वैय्यर्थ्यानुपपत्या हेतुत्वमिति नियमोनाभिप्रेतश्चंद्रिकाकृतां किंतु प्रकृतादर्थादर्थांतरस्याथशब्दादिना बोधने पूर्वप्रकृतार्थस्य वैय्यर्थ्यानुपपत्या हेतुत्वं बोध्यते इत्येवाभिप्रेतं परमानंदो मोक्षः ज्ञानं तुसंपानीयमित्यत्र पूर्वप्रकृतादर्थादर्थातरत्वबोधकपदाभावात् परमानंदो मोक्ष इत्यस्य ज्ञानफलबोधकतया सार्थक्येन वैयर्थ्याभावाच्च तत्र व्यभिचाबोदनस्य चंद्रिकार्थाज्ञानविजृंभितत्वात् ॥

चैत्रागमनांतरं नेत्रो गतः कृत्तिकोदयानन्तरं रोहिण्युदय इत्यादौ अकार्यकारणयोरपि आनन्तर्यतत्प्रतियोगित्वयोः दृष्टत्वेन आनन्तर्यप्रतियोगितयोक्तस्यापि वैय्यर्थ्यानुपपत्यैव कारणत्वस्य वक्तव्यतया समानयोगक्षेमत्वेन पूर्व प्रकृतस्य हेतुत्वबोनार्थं आनन्तर्यार्थत्वमेवाथशब्दस्य वक्तव्यं नतु पूर्वप्रकृतादर्थांतरत्वमिति विवरणकृतः शांकरभाष्याभिप्राय वर्णनस्यायुक्तत्वाच्च ॥

चन्द्रिकानुवाद:_

( चं ६२) भामती रीत्या जिज्ञासाशब्दस्येच्छा वाचकत्वेप्याथिकार्थेन विचारेणात्ध्याहृतकर्तव्यपदस्येव श्रुतस्याधि कारार्थाथशब्दस्याप्यन्वयोऽस्तु यथोक्तं कल्पतरौ आर्थिकेयचास्मिन्नर्थे कर्तव्यपदाध्याहार इतीति ।।

रामसुब्ब_

( रा. ८७.) तन्न श्रूयमाणस्य श्रूयमाणजिज्ञासापदेनान्वये सम्भवति तत्परित्यज्याक्षिप्तेनान्वयापादनस्यायुक्तत्वात् । कर्तव्यत्वस्य जिज्ञासायामन्वेतुमयोग्यत्वेन आक्षिप्तविचारान्वयः स्वीकृतो भामत्यां इति ॥

खण्डनं_

(ख) तस्तुच्छं अथ शब्दः आनन्तर्यार्थः परिगृह्यते नाधिकारार्थ ब्रह्मजिज्ञासाया अनधिकार्यत्वादिति शांकरभाष्ये अथ शब्दस्याधिकारार्थत्वाभावे ब्रह्मजिज्ञासाया अनधिकार्यस्वरूपो हेतुः प्रतिपादितः स चायुक्तः विवरणरीत्या जिज्ञासापदस्य विचारार्थत्वेन विचारस्यचारभ्यत्वरूपाधिकार्यत्वसम्भवेन हेतोरसित्धेः ॥

भामतीरीत्या जिज्ञासपदबोध्येच्छाया अनारभ्यत्वेऽपि जिज्ञासाक्षिप्तविचारेऽध्याहुतकर्तव्यपदस्येषाधिकारार्थकाथशब्दस्याप्यन्वय संभवेन अथ शब्दस्याधिकारार्थत्वाभावे जिज्ञासाया अनारभ्यत्वरूपोक्त हेतोरप्रयोजकत्वान्न तेन अथशब्दस्याधिकारार्थत्वाभावसिद्धिरित्येव च चंद्रिकाकृतामभिप्रेतत्वेन तैः आक्षिप्त विचारेऽन्वयस्यानापादित्वात् इत्थंच तद्दृषणमाशयानवबोधनिमित्तमेवेति ॥

यस्त्वित्यादिना चन्द्रिकानुवादावसरे 'आनन्तर्यार्थिक श्रुताथशब्दस्याप्याक्षिप्तविचारान्वयः स्यात्' इत्यनुवादस्तु प्रमादमूल एवेति ॥

चन्द्रिकानुवाद:_१

(चं ६८.) नापि परेषां भाष्योक्तात् 'नित्यानित्यवस्तुविवेक इहामुत्रार्थ फलभोगविरागः शमदमादिसंपत्तिर्मुमुक्षुत्वंचे ' ति साधनचतुष्टय सम्पद्रूपादधिकारात् । तथाहि । नित्यानित्यविवेको नाम किं ब्रह्मैव नित्यमन्यदनित्यमिति विवेकः

किंवात्मानात्मसमुदाये नित्यत्वानित्यत्वे स्तो धर्मै तयोश्च धर्मिभ्यां भवितव्यमिति निश्चयः यद्वाऽनित्यस्य सम्सारस्य किचिदधिष्ठानमस्तीति निश्चयो नतु ब्रह्मेति । नाद्यः ज्ञातव्यस्य प्रागेव ज्ञाततया विचारवैफल्यात् । नच सगुण निर्गुणविवेकाखण्ड समन्वयाद्यर्थं शास्त्रमितियुक्तं । भामत्यां नित्यानित्यशब्दयोः सत्यानृतपरत्वेनोक्ततया ब्रह्मैव सत्यमन्यदनृतमिति विवेकस्य प्रागेव सिद्धौ तदर्थस्य सगुणनिर्गुणविवेकादेरप्यनपेक्षितत्वात् । नहि श्रुतितात्पर्यधीः स्वरूपेणापेक्षिता । किंतु ज्ञेयनिश्चायकतया न चोक्तादन्यन्मुमुक्षुज्ञेयमस्ति । जीवब्रह्मभेदस्यापि ब्रह्मातिरिक्ततया तन्मिथ्यात्वस्य तदभेदस्यापि ब्रह्ममात्रतया तत्सत्वस्यापि तेनैव निश्चितत्वाच्च । न द्वितीयः तन्मात्रेणानात्मग्रहाणेनात्मविचारे प्रवृत्ययोगात् । ऐहिकामुष्मिकभोगविरागायोगाच्च । नांत्य: ब्रह्मशब्दार्थत्वादेः प्रकारस्याज्ञानेऽपि वस्तुतो ब्रह्मणोऽनात्माधिष्ठानस्य शास्त्रवेद्यस्य ज्ञातत्वेन शास्त्रवैय्यर्थ्यात् इति ॥

रामसुब्ब_१२

( रा . ) तन्न प्रथम विकल्पस्य भामतीकल्पतर्वोरनुक्तत्वात् अनात्मानां प्रायेणानित्यत्वविकारवत्वादिदोषवत्वदर्शनेन तत्प्रहाणेनात्म विचारप्रवृत्तेरुचितत्वात् वैषयिकफलवैराग्यस्य सम्भवेन द्वितीयविकल्पस्य दोषविकलत्वात् जीवत्वोपलक्षितज्ञानेश्वरत्वोपलक्षितज्ञानोत्तरकालीनजीवत्वेश्वरत्वोभयोपलक्षिताखंडचैतन्यज्ञानस्य शास्त्रतात्पर्यविषयत्वेन तस्य जीवेश्वरस्वरूपविचारमन्तरेणालब्धसत्ताकतया संसाराधिष्ठानं किचिदस्तीति वज्जीवेश्वरविचारमन्तरेणाप्युत्पद्यमानं ज्ञानं तद्विलज्ञणतया च तृतीयपक्षे दोषाभावात् इति ॥

खण्डनं_१२

(खं) तत्तुछं भवदभिमत द्वितीयतृतीयपक्षयोरुक्तदोषाणां त्वयाऽनुत्धारात् । तथाहि । आत्मानात्मसमुदाये नित्यत्वानित्यत्वे स्तो धर्मौ तयोश्च धर्मिभ्यां भवितव्यमिति निश्वयः इति हि द्वितीयः पक्षः एतादृनिश्चये वैषयिकले वैराग्यायोगः एवं अनात्मप्रहाणेनात्मविचारे प्रवृत्तेरप्ययोग इति नच अनात्मनां प्रायेणानित्यत्वविकारवत्वादिदोषदर्शन सहकृतत्वस्य तादृशनिश्चये विशेषणदानेऽपि अनित्यत्व विकात्वादि दोषविषयीभूत अनात्मनि वैराग्यं स्यात् नतु सर्वेष्वनात्मसु आत्मविचारे प्रवृत्तिस्त्वसंगतैव तत्कारणीभूतस्यात्मज्ञानफलनित्यताज्ञानस्याभावात् चंद्रिकानुक्ते किंवा नित्यत्वतदाश्रययोरनित्यत्वतदाश्रययोश्च धर्मधर्मिणोः परस्परं विवेक इति त्वदुक्तद्वितीयविकल्पेऽपि पूर्वोक्तदोषाणामनपगमात् ॥

जीवत्वोपलक्षितेश्वरत्वोपलक्षितज्ञानोत्तरकालीन जीवत्वेश्वरत्वोभयोपलक्षिताखण्ड चैतन्यस्याप्रामाणिकत्वेन तद्ज्ञानस्य शास्त्रतात्पर्य विषयत्वासंभवात् त्वया तस्य शास्त्रतात्पर्यविषयत्वे प्रमाणानामनुदाहृतत्वात् अभावाच्च । शास्त्रेण शक्यतावच्छेदकलक्ष्यतावच्छेदकाद्यन्यतमाविषयकधर्मिविषयक ज्ञानस्याजननाच्च । तादृशज्ञानस्य शास्त्रतात्पर्यविषयत्वकल्पनं शास्त्रप्रयोजनत्वकथनमत्यंतासङ्गतमेव । अनित्यस्य संसारस्य किचिदधिष्ठानमस्तीति ज्ञानेन संसारे वैराग्योत्पत्तावपि आत्मविचारे प्रवृत्ययोगश्च ॥

चन्द्रिकानुवाद:_१

(चं ६९) न च विवरणरीत्या ध्वंसप्रतियोग्य प्रतियोगिपरौतथाच ब्रह्मज्ञानफलं स्थायि कर्मादिफलंत्वस्थायीति विवेको नित्यानित्यविवेक इति युक्तम् । प्रतिपन्नोपाधावत्यंताभावप्रतियोगित्वरूपबाध्यत्ववतोऽनात्मनो ध्वंसप्रतियोगित्वायोगात् । पारमार्थिकत्वाकारेणात्यंताभावः स्वरूपेण तु ध्वंस इति चेन्न । पारमार्थिकत्वस्याबाध्यत्वरूपत्वेनान्योन्याश्रयात् । तथात्यंताभावस्य निराकारे ब्रह्मण्यपि संभवाच्च । अतात्विके शुक्तिरूप्यादावनित्यत्वाव्यवहाराच्च । 'गौरनाद्यंतवती एषोश्वत्थः सनातन' इत्यादि श्रुत्यनुसाराय मोक्षेप्यतात्विकी अनुवृत्तिनिवृत्तिस्तु तात्विकी इति ॥

रामसुब्ब_१३

( रा ८८) तन्न पारमार्थिकत्वाकारेणात्यंताभावप्रतियोगित्वस्य स्वरूपेण ध्वंसप्रतियोगित्वेनाविरोधात् पारमार्थिकत्वं तु ज्ञानानिवर्त्यत्वं न तुक्तात्यंताभावाप्रतियोगित्वमिति नान्योन्याश्रयः इति ॥

खण्डनं_१३

(खं.) तत्तुच्छं प्रतिपन्नोपाधावत्यंताभावप्रतियोगिनः ध्वंसप्रतियोगित्वासम्भव इति दूषयित्वा पुनः पारमार्थिकत्वाकारेणात्यन्ताभाव: स्वरूपेण तु ध्वंस इति तत्परिहारमाशंक्य पारमार्थिकत्वस्याबाध्यत्वरूपत्वेन अबाध्यत्वेनात्यन्ताभावप्रतियोगित्वम् बाध्यत्वमित्युक्तं स्यात् तथाच बाध्यत्वशरीरे अबाध्यत्वस्य प्रवेशेन अबाध्यत्वज्ञानमन्तरा बाध्यत्वज्ञानं न संभवति अबाध्यत्वस्य बाध्यत्वाभावरूपतया बाध्यत्वज्ञानमन्तरा अबाध्यत्वज्ञानं न सम्भवतीति परस्परज्ञप्त्यधीनज्ञप्तिकत्वेनान्योन्याश्रयदोषोऽभिहितः तत्परिहारार्थं पारमार्थिकत्वस्य ज्ञानानिवर्त्यत्वरूपत्वकथनमयुक्तमेव तथाहि ज्ञाननित्यत्वस्य ज्ञानजन्यध्वंसप्रतियोगित्वरूपत्वेन कर्मफलादेः ध्वंसप्रतियोगित्वेन ध्वंसाप्रतियोगित्वाभावात् ध्वंसाप्रतियोगित्वेन अत्यन्ताभावप्रतियोगित्वं संभवतीत्यत्र पर्यवसानेन ध्वंसप्रतियोगित्वं प्रति ध्वंसप्रतियोगित्वस्य प्रयोजकत्वादात्माश्रयापातात् । ज्ञाननिवर्त्यत्वस्यापित्वन्मते मिथ्यात्वरूपतया तत्घटितगुरुभूतमिथ्यात्वनिर्वचनायास वैय्यर्थ्याच्च शाङ्करभाष्यगाम्भीर्य निर्णयाख्यग्रन्थे ब्रह्मसाक्षात्कारान्नमायायाः नापि तत्प्रयुक्तानां स्वरूपतो नाशः किन्तु मायाकार्यस्य मनुष्योहमित्यध्यासस्येत्यादिना महता प्रबन्धेन तत्तदधिकरणीयशांकरभाष्यमुल्लिख्य मायादीनां ज्ञाननाश्यत्वाभावस्य शङ्कराभिमतत्वं त्वयैवोपपादितमिति पारमार्थिकत्वप्राप्त्या अप्रसिद्धान्ताच्चेति ॥

रामसुब्ब_१३२

( रा. ८८) पारमार्थिकत्वेनात्यन्ताभावप्रतियोगित्वस्य निराकारे ब्रह्मण्यपि सम्भवाच्चेति चन्द्रिकोक्तदोषपरिहारार्थं यदुक्तं निराकारे उक्तात्यन्ताभावप्रतियोगित्वरूपाकारस्याप्यसम्भवादिति ||

खण्डनं_१३२

i ) तत्तुच्छं निराकारत्वरूप हेतुः प्रतियोगित्वाभावरूप साध्यभावाभावाभ्यां व्याघातप्राप्तेः तथाङ्गीकर्तुमशक्यत्वात् ॥

चन्द्रिकानुवाद:_१

(चं. ७० ) अतात्विके रूप्यादावनित्यत्वाव्यवहाराच्चेति ॥

रामसुब्ब_१४

( रा . ) तन्त्र मूलाज्ञानाकार्यशुक्तिरूप्यादेरुत्तरावस्थाभावेन स्वरूपेण ध्वंसप्रतियोगित्वं नास्ति मूलाज्ञानरिणामरूपे प्रपञ्चे तदस्त्येव अतो घटादावनित्यत्वव्यवहार: न तु शुक्तिरूप्यादाविति विवेक इति ॥

खण्डनं_१४

(खं.) तत्तुच्छं असदेव रजतं प्रत्यभादित्यनुभवेन रजतस्यासत्व सिद्धेः कार्यत्वाभावात् त्वन्मतरीत्या मूलाज्ञानकार्यत्वस्य मूलाज्ञानपरिणामित्वातिरिक्तस्य दुर्वचत्वेन मूलाज्ञामपरिणामिघटादिप्रपञ्चस्य स्वरूपेण ध्वंसः शुक्तिरूप्यस्य तु नेति विशेषस्य वक्तुमशक्यत्वेन घटादाविव शुक्तिरूप्यादावप्यनित्यत्वव्यवहारापत्तेर्दुर्वारत्वात् ॥

चन्द्रिकानुवाद:_१

(चं. ७०) गौरनाद्यन्तवती एषोऽश्वत्थः सनातन इत्यादि श्रुत्यनुसाराय मोक्षेप्यतात्विकी अनुवृत्तिः निवृत्तिस्तु तात्विकीमुक्तेर्बंधाद्वैषम्यं तात्विकनिवृत्तिमत्तामात्रेणेत्यापाताच्चेति ।।

रामसुब्ब_१५

( रा. ८८ ) नन्न सनातनपदस्यापेक्षिकनित्यत्वपरत्वेन मोक्षदशाभावित्वागमकत्वात् अन्यथा अतोन्यदार्तमिति श्रुतिविरोधापत्तेरिति ॥

खण्डनं_१५

(खं.) तस्तुच्छं आर्तशब्दस्य दुःख्यर्थकत्वेन योगरूढयन्यतरवृत्यापि अनित्यार्थत्वाभावेन 'अतोन्यदार्त' इति श्रुतिविरोधाभावात् सनातनपदस्यापेक्षिक नित्यत्वरूपगौणार्थंगीकारस्यानुचितत्वात् ॥

शाङ्करभाष्यगांभीर्य निर्णयाख्यग्रन्थे त्वयैव प्रकृत्यादीनां मायाया मुख्यनित्यत्वस्योक्तत्वेन अपसिद्धान्ताच्च ॥

चन्द्रिकानुवाद:_१

(च) विवेको भेदस्य तद्व्याप्तस्य वा ज्ञानं तस्य च भ्रमत्वे ब्रह्मविचारो न नित्यफलकस्स्यात् प्रमात्वे तु भेदः सत्यः स्यात् तस्मात्परमते नित्यानित्यवस्तुविवेको न युक्त इति ॥

रामसुब्ब_१६

( रा . ) तन्न ब्रह्मज्ञानबाध्यार्थविषयकत्वरूप भ्रमत्वस्य व्यवहारदशाऽबाध्य विषयकत्त्वरूपप्रमात्वाविरुद्धत्वेन ब्रह्मविचारस्य नित्य फलकत्वोपपत्तेरिति ॥

खण्डनं_१६

(खं.) तत्तुच्छं वस्तुनः अतात्विकत्वे बाध्यत्वमात्रस्य प्रयोजकत्वेन इदानोंतनबाधविषयत्वस्य तदानींतनबाधाविषयत्वस्य वाऽप्रयोजकत्त्वेन ब्रह्मज्ञानफलं नित्यं अन्यफलमनित्यमित्यादि ज्ञानरूपस्य विवेकस्य ब्रह्मज्ञानबाध्यार्थ विषयकत्वरूप भ्रमत्त्वांगीकारे ब्रह्मज्ञानफलनिष्ठनित्यतायाः बाध्यत्त्वेनातत्त्वतया तद्विरुद्धब्रह्मज्ञानफलानित्यतायाः तत्त्वताप्राप्त्या ब्रह्मविचारः अनित्त्यफलकः स्यात् इतिदोषस्यापरिहारात् अन्यथा इदं रजतमिति ज्ञाननिष्ठस्यापि नेदं रजतमितिज्ञानबाध्यार्थविषयकत्वरूप भ्रमत्त्वस्य इयं रजतमिति भ्रमदशाऽबाध्यार्थविषयकत्वरूपप्रमात्वाविरुद्धतेन रजतस्य घटादिवत् सत्यत्वं तद्ज्ञानाज्जायमानप्रवृत्तेः सफलत्त्वञ्च स्यादिति ॥

चन्द्रिकानुवाद:_१

(च) विवरणे विषयैरपि नित्यमात्मस्वरूप सुखमेवाभिव्यज्यते नतु जन्यसुखमस्तीति वैषयिकसुखस्य ब्रह्मरूपत्वोक्त्या तस्यैव प्राप्यत्त्वेन तत्र वैराग्यायोगात् स्वरूपसुखरूपमोक्षे रागवतः तत्त्वतः ततो भेदहीनभोगे विरागायोगाच्चेति इहामुत्रार्थ भोगविरागस्य परमते अधिकारिविशेषणत्वपक्षे दूषणमुक्तम् ||

रामसुब्ब_१७

( रा . ) तन्न शिखी ध्वस्त इत्यादाविव विषयविनाशेन विषयाभिव्यक्तत्वविशिष्ठ ब्रह्मरूपसुखस्य स्वरूपतोऽनाशिनोऽपि विशिष्टरूपेण विनाशसंभवेन तत्र वैराग्योपपत्तेरिति ॥

खण्डनं_१७

(खं. ) तत्तुच्छं विवरणकृता विषयः नित्यसुखं ब्रह्मवाभिव्यज्यत इत्युक्तम् न तु विषयाभिव्यक्तत्व विशिष्ट ब्रह्मरूपसूखमिति तस्मात् विशिष्टसुखस्याभिव्यक्त्यनङ्गीकारात् विशिष्टरूपेण विनाशसंभवेन तत्र वैराग्योपपत्तेरिति समाधानस्यायुक्तत्वात् । किंच विशिष्टरूपेण नाशेऽपि अपेक्षितस्य स्वरूपसुखस्य स्वरूपतोऽनाशिनोपीति त्वयैव नित्यत्वेनाङ्गीकृतत्वात् तत्र वैराग्यायोगः अन्यथा अपेक्ष्यमाणात्मस्वरूपरूप मोक्षस्य पूर्वमेव सिद्धत्वेऽपि अविद्यानिवृत्त्युपलक्षितात्मस्वरूप मोक्षस्यासिद्धत्वेन तत्रेच्छायाः सम्भवादिति त्वदुक्ते: असाङ्गत्यापत्तेः अविद्या निवृत्युपलक्षितत्वविशिष्टात्मस्वरूपरूपमोक्षस्य स्वरूपतोऽनाशिनोऽपि विशिष्ट रूपेण नाशसम्भवेन तत्रापि वैराग्यापत्तेः दुर्वारत्वात् ॥

चन्द्रिकानुवाद:_१

(चं . ) परमते शमदमादिरित्यत्रादिशब्दो न युक्तः तेन तितिक्षादेरेव ग्रहणं नतु विवेकादेरिति नियम हेतोः तितिक्षाद्य नुगतस्य विवेकादिव्यावृतस्य चोपसंग्राहकधर्मस्याभावादिति ग्रन्थेन तितिक्षावत् विवेकादेरपि आदिपदेन गृहीतुं शक्यत्वात् विवेकादेः स्वशब्देन ग्रहणम् तितिक्षायाः आदिपदेन ग्रहणमयुक्तमिति दूषणमुक्तम् ॥

रामसुब्ब_१८

( रा . ) तन्न पदानुपात्तस्यैव आदिपदग्राह्यत्वेन विवेकादेस्तत्पदेनैव गृहीतत्वेन तस्यादिपदेन ग्रहणापादनासाङ्गत्यादिति ॥

खण्डनं_१८

(खं.) तत्तुच्छं विवेकादेः स्वशब्द गृहीतत्वेन आदिपदेन ग्रहणापादनासांगत्यकथनस्य आदिपदेन तितिक्षादेर्ग्रहणमिव विवेकादेरपि गृहीतं शक्यत्वेन विवेकादेः स्वशब्देन ग्रहणं कुत इति चंद्रिकोक्ताक्षेपापरिहारकत्वात् तदाक्षेपाज्ञानज्ञापकत्वाच्च ॥

चन्द्रिकानुवाद:_१

(चं) मुमुक्षा च परमते न युक्ता मोक्षस्य नित्यसिद्धात्ममात्रत्वेन तत्रेच्छाsयोगात् वृत्त्युपलक्षितस्याप्यात्मनो वृत्तेः पश्चादिव पूर्वमपि सत्वाच्चेति ॥

रामसुब्ब_१९

( रा . ) उन्न अविद्यानिवृत्त्युपलक्षितात्मस्वरूपरूपमोक्षस्यासिद्धत्वेन तत्रेच्छायाः सम्भवात् न चाविद्यानिवृत्तेः पूर्वं आत्मनोऽविद्यानिवृत्त्युपलक्षितत्वं सम्भवति भूतस्योपलक्षणत्वसंप्रतिपत्तिवत् भाविनः उपलक्षणत्वस्य क्वाचित्कतया सार्वत्रिकत्वासंप्रतिपत्तेरिति ॥

खण्डनं_१९

(खं.) तत्तुच्छं तदुपलक्षितत्वं नाम यदाकदाचित् तद्विशिष्टत्वं अविद्यानिवृत्तेः इदानीं अभावेऽपि उत्तरकालभावितया इदानीं यदाकदाचित् अविद्यानिवृत्तिविशिष्टत्वरूप तदुपलक्षितत्वस्य च सिद्धत्वात् "भाविनः उपलक्षणत्वस्य क्वाचित्कतया सार्वत्रिकत्वासंप्रतिपत्तेरि" ति त्वयैव भाविनोऽपि उपलक्षणत्वस्य अङ्गीकृतत्वाच्च भाविनः उपलक्षणत्वव्यवहारस्य क्वाचित्कत्वेऽपि उपलक्षणतायाः सार्वत्रिकत्वेन तत्रासंप्रतिपत्त्युद्भावनस्यासङ्गतत्वाच्च अविद्यानिवृत्त्युपलक्षितत्वविशिष्टात्मनः मोक्षरूपत्वे विशिष्टरूपेण विनाशित्वप्राप्त्या त्वद्रीत्या विशिष्टरूपेण विनाशिनि विषयाभिव्यक्तत्व विशिष्टात्मस्वरूपसुख इव रागानुदयापाताच्च ॥

Load More