ॐ ज्योतिश्चरणाभिधानात् ॐ

॥ श्रीः ॥

॥ अथ ज्योतिरधिकरणम् ॥

ॐ ज्योतिश्चरणाभिधानात् ॐ

अद्वैतिनःअथ यदतः परो दिवो ज्योतिर्दोप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु" इति वाक्ये ज्योतिः पदं भूतज्योतिः परमेव । तत्र तस्य रूढत्वात् पूर्वाधिकरणवत् स्ववाक्ये ब्रह्मलिंगादर्शनाच्चेति पूर्वपक्ष: ।।

सिद्धान्तस्तु ज्योतिरिह ब्रह्म ग्राह्यं कुतः चरणाभिधानात् पादाभिधानादित्यर्थः । पूर्वस्मिन् हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टं ।तावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" अनेन मन्त्रेण तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतं संबन्धिरूपं निर्दिष्टं तदेवेह संबन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयातामिति यदाहुः।।

चन्द्रिकानुवाद:_०१

(चं.) तन्न, चरणाभिधानादित्यस्य पादाभिधानादित्यर्थकत्वे लाघवार्थं श्रुत्यनुगमार्थं च पादाभिधानादिति सूत्रं स्यात् । किंच,

पौनरुक्त्यं परमते ज्योतिर्भूतादिसूत्रयोः ।

पादोपदेशादन्या हि नैवास्ति चरणाभिधा |

'पादोस्य सर्वा भूतानि' इति पूर्ववाक्यस्थपादाभिधानादन्यस्य ज्योतिर्वाक्ये पादाभिधानस्याभावात्तस्य च भूतादिसूत्रेणवोक्तत्वाच्चरणाभिधानादित्यस्य पौनरुक्त्यम् । अथ चरणाभिधानादित्यनेन 'पादोस्य सर्वा भूतानि' इति मन्त्रवाक्यस्थं सर्वभूतानामेकपादत्वं अमृतस्य त्रिपात्त्वं चोच्यते । भूतादिपादेत्यनेन तु सैषा चतुष्पदेतिब्राह्मणवाक्यस्थं भूतपृथिवीशरीर हृदयानां पादत्वमुच्यते । ब्राह्मणवाक्ये हि इदं सर्वं भूतमिति भूतं येयं पृथिवीति पृथिवीं, यदिदमस्मिन्पुरुषे शरीरमिति शरीरं, यदिदमस्मिन्नन्तःपुरुषे हृदयमिति हृदयं चोक्त्वा, सैषा चतुष्पदा षड्विधा गायत्रीति भूतादीनां चतुर्णां पादत्वं व्यपदिश्यते । ततो न पौनरुक्त्यमिति चेन्न । चरणाभिधानादित्यनेन पादोऽस्य सर्वा भूतानि त्रिपादस्येति मन्त्रस्थपादाभिधानद्वयस्येव ततोऽधिकार्यस्य ब्राह्मणस्थपादाभिधानस्यापि वक्तुं शक्यत्वेन भूतादिसूत्रवैय्यर्थ्यादिति यदुक्तम्,

रामसुब्ब_०१

(रा.) तन्न, ब्रह्मपर ज्योतिःशब्दसमानाधिकरणयदितिसर्वनामपदपरामर्शयोग्यस्यैव त्रिपाद्ब्रह्मणश्चरणशब्देन ग्रहीतव्यतया भूतपृथि:व्यादीनां बहूनामुक्तैकवनांतयदितिसर्वनामशब्दग्रहणायोग्यतया च चरणशब्देन सौत्रेण तद्ग्रहणायोगात् तद्ग्रहणार्थ 'भूतादिपाद' इति पृथक् सूत्रस्यावश्यकत्वादिति यदुक्तं,

खण्डनं_०१

(खं.) तत्तुच्छं, 'त्रिपादस्यामृतं दिवि' इति उक्तत्रिपाद्ब्रह्मणब्रह्मपरज्योतिः शब्दसमानाधिकरणयदिति सर्वनामपदपरामर्शयोग्यत्वमिव 'सैषा चतुष्पदा षड्विधा गायत्री' इति उक्त भूतादिचतुष्पकब्रह्मणोऽपि तादृशयदिति सर्वनामपदपरामर्शयोग्यत्वेन सौत्रेण चरणशब्देन तस्यापि गृहीतुंशक्यत्वेन भूतादिपादेति सूत्रस्यावश्यकत्वाप्रप्तेः । अङ्गीकृत्येदमुदितं । चरणाभिदानादित्यनेन यत्पदेन परामर्शयोग्यस्यैव ग्रहणमित्यत्र नियामकाभावात् । चरपदेन भूतादिपदानां त्वदीयभाष्यरीत्या ग्राह्यत्वेन त्रिपाद्ब्रह्मणः चरणशब्देन ग्रहीतव्यतयेत्युक्ते भाष्योक्तपदार्थाज्ञानमूलकत्वात् । तथार्थग्रहणे तस्य हेतुत्वायोगाच्च ॥

ॐ ज्योतिश्चरणाभिधानात् ॐ । सिद्धान्ते सूत्रार्थस्तु ज्योतिश्चरणाभिधानादित्यादिचतुसूत्र्या ऐकाधिकरण्यम् ङ्गीकृत्य,

'विमेकर्णा पतयतो विचक्षुर्वीदं ज्योतिर्हदय आहितं यत्' इति ।

'अथ यदतः परो दिवो ज्योतिर्दोप्यते' इति । 

अग्निसूक्तच्छान्दोग्य वाक्यद्वयं विषयं कृत्वा पूर्वपक्ष सिद्धान्तौ वक्तव्याविति।

ज्योतिः सूत्रस्याग्निसूक्तस्थं वाक्यं विषयं कृत्वा पूर्वपक्ष सिद्धान्तौ वक्तव्यौ । त्रिसूत्र्याः छान्दोग्यवाक्यं विषयं कृत्वा पूर्वपक्षसिद्धान्तौ वक्तव्याविति पक्षद्वयं ॥ अत्र ज्योतिरादिशब्दाः उदाहरणम् । प्राणाधिकरणन्यायागोचरत्वप्रदर्शनेन पूर्वपक्षोत्थानात्प्रत्युदाहरणरूपाऽनन्तरसङ्गतिः । तदर्थं कि ज्योतिः अत्र ज्योतिः किमग्निः किं वा विष्णुरिति चिन्ता । श्रुतिप्रसिद्धयनुसारेण कर्णादिविदूरत्वलिङ्गं बाध्यं उत विपरीतमिति तदर्थं श्रुत्यनुग्राहकं सूक्तं निरवकाशमुत सावकाशमिति । पूर्वपक्षस्तु-इदं ज्योतिग्निरेव ज्योतिश्रुतेः अग्निसूक्तस्थत्वाच्च, इति ।

सिद्धान्तस्तु-कर्णादीनां विदूरत्वं विष्णोरन्यत्र नैव हि । अग्नेस्तु श्रुतिसूक्तादिसावकाशं परात्मनि ॥ १॥

अग्निसूक्तस्थं ज्योतिर्विष्णुरेव कर्णादिविचारणाभिधानात् । इयदिति परिच्छेदानर्ह वैभववत्त्वरूपकर्णादिविदूरत्वस्य विष्णोरन्यत्र क्वाप्यसम्भवादिति चन्द्रिकोक्तमनूद्य,

रामसुब्ब_०

(रा.) तन्न, सङ्गतिस्तावदयुक्ता । अत्राग्निसूक्ते ज्योतिषो हृदयाहितत्वमुक्तं, आनन्दमयस्य च गुहाऽऽहितत्वमुक्तम् । तयोश्च भेदात् । हृदयाहितत्वेन गुहाऽऽहितत्वस्याप्रत्यभिज्ञानात् । छान्दोग्यवाक्ये सुतरां तदभावाच्च । "यदिदमन्तःपुरुषेज्योतिः" इति जाठरज्योतिरेक्योपदेशेन तदभावस्यैव ज्ञापनाच्च । योयमन्तर्हृदय' इति गायत्र्यां श्रवणेऽपि पूर्वपक्षे गायत्री ज्योरिषोभिन्नत्वेन ज्योतिर्द्वारा तदाक्षेपायोगाच्च । आनन्दमयाधिकरणस्यात्यन्तव्यवहितत्वेन तेनास्य सङ्गतिकथनस्यानुपयुक्तत्वाच्च इति यदभिहितं,

खण्डनं_०२

(खं.) तत्तुच्छम् त्वदीयतैत्तिरीयशाङ्करभाष्ये हार्दमेव तु परमं व्योमेति न्याय्यं विज्ञानां गत्वेनोपासनांगत्वेन व्योम्नो विवक्षितत्वात् ... "योयमन्तर्हदय" इति श्रत्यन्तरात्प्रसिद्धं हार्दस्य व्योम्नः परमत्वं तस्मिन् हार्दे व्योम्नि या बुद्धिर्गुहा तस्यां निहितं ब्रह्म इति गुहानिहितत्वं हृदयगृहानिहितत्वरूपमिति स्पष्टोक्तेः । आनन्दमयस्यं वतं गुहानिहितत्वं अग्निसूक्ते ज्योतिष उक्तम् । हृदयाहितत्वं चैकरूपमिति हृदयाहितत्वेन गुहानिहितत्वस्य प्रत्यभिज्ञानात् । "यो यमन्तहृदय" इति छान्दोग्य वाक्येऽपि ज्योतिः प्रकरणे हृदयाहितत्वश्रवणात् छान्दोग्यवाक्ये सुतरां तदभावाच्चेत्यस्य छन्दोग्यग्रन्थानवलोकननिमित्तत्वात् । "यदिदमस्मिन्नन्तः पुरुषे ज्योतिः" इति वाक्ये जाठरज्योतिरेक्योपदेशकपदाभावेन जाठरज्योतिरेक्योपदेशेन तदभावस्यैव ज्ञापनादित्युक्तेरयुक्तत्वाच्च । गायत्रीज्योतिषोः पूर्वपक्षे भिन्नत्वानाशनाच्च । चन्द्रिकायां प्राणाधिकरणेन प्रत्युदाहरणरूपसङ्गतिकथनेनानन्दमयाधिकरणेन सङ्गतेरकथनात् अत्यन्तव्यवहितानन्दमयाधिकरण संगत्युक्तत्वोक्ते: चन्द्रिकाऽदर्शनमूलत्वात् । शाङ्करभाष्यरीत्या कम्पनाधिकरणे पूर्वाधिकरणेन संगत्यभावस्य कल्पतरावुक्तत्वेन अद्वैतिभिरप्यव्यवहितपूर्वाधिकरणेन संगतिर्वक्तव्येति नियमस्यांगीकरणासम्भवाच्च ॥

रामसुब्ब_०

(रा.) यत्तु, ऐकाधिकरण्येनाग्निसूक्तस्थवाक्योदाहरणमप्ययुक्तं । तत्र छन्दोभिधानभूतादिपादव्यपदेशोपदेश भेदानामसत्त्वेन "छन्दोभिधानात्" इत्यादिसूत्राणामप्रवृत्तेरिति यदुदितं,

खण्डनं_०३

(खं.) तत्तच्छम्, “ज्योतिहृदय आहितं यत्इति अग्निसूक्तस्थस्यैव ज्योतिषः छान्दोग्येऽपि ज्योतिःश्रुत्यायोयमन्तहृदय" इति हृदयनिहितत्वधर्मेण च शाखान्तराधिकरणन्यायेन प्रत्यभिज्ञायमानत्वेनैकत्वात् । तथाच "छन्दोऽभिधानात्" इत्यस्यायमर्थः । अग्निसूक्तस्थं ज्योतिर्न विष्णुः, अस्यैव ज्योतिषः छान्दोग्ये गायत्रीत्वाभिधानादिति चन्द्रिकायामेव त्वदीयशङ्काया निराकृतत्वात् ॥

रामसुब्ब_०

(रा.) न च दिवः पविश्वोत्तीर्णप्रदेशवृत्तित्वेन श्रुतस्य छान्दोग्योक्तज्योतिषः हृदयाहितत्वेन श्रुताग्निसूक्तस्थज्योतिषः ऐक्यासम्भवात् । अग्निसूक्ते कर्णादिविदूरत्वश्रवणेन छान्दोग्ये तद्विरुद्धस्य "तदेतद्दृष्टं च श्रुतं च" इति कर्णादिगोचरत्वेन श्रुतस्य भेदावश्यंभावेन मासाग्निहोत्र नैय्यमिकाग्निहोत्रयोरिव ज्योतिषोर्नामैवयस्य वस्त्वैक्याप्रयोजकत्वाच्च । अग्निसूक्तस्थज्योतिषः छान्दोग्यज्योतिषा ऐक्यं च न सम्भवातितो वाच्यं,

खण्डनं_०४

(खं.) "तद्दुरे तद्वंतिके" इत्युक्तदूरस्थसमीपस्थत्वयोरिव सर्वव्यापिवस्तुनः दिवः परविश्वोत्तीर्णप्रदेशवृत्तित्वस्य हृदयाहितत्वस्य च संभवाभिप्रायेण वा तदाच्छादनेन वा तयोरैक्यमिति पूर्वपक्षकरणसम्भवात् । नहि पूर्वपक्षिणा उक्तं सर्वं युक्तियुक्तमित्यावयोर्मतम् । तथात्वे सिद्धान्तस्यैवानुत्थानप्रसंगात् । अद्वैतिना सिद्धान्तेऽपि दिवः परत्वद्युस्थत्वयो-"उपदेशभेदात्" इति सूत्र अविरुद्धतया नीतत्वेन तद्वदेव कर्णादिविदूरत्वदृष्टतयोः आकारभेदेन अविरुद्धतया पूर्वपक्षिणा वक्तुं शक्यत्वेन त्वदुक्तशङ्काया एव निर्दलत्वत् ॥

रामसुब्ब_०

(रा.) यत्तु निश्चिते ज्योतिषोरैक्ये आकारभेदनिश्चयः, आकारभेदे च तदैक्यनिश्चय इत्यन्योन्याश्रय इति यदुक्तं,

खण्डनं_०५

(खं.) तत्तुच्छं, इतर लिंगेन उभयोः विष्णुपरत्वे निश्चिते विरुद्वत्वेन भासमानयोर्धर्मयोः आकारभेदेनाविरुद्धतायाः नीतत्वेन परस्परज्ञप्त्यधीनज्ञप्तिकत्वरूपान्योन्यायाश्रयानवकाशात् ॥

रामसुब्ब_०

(रा.) यत्तु, न च "तेजो वै ब्रह्मवर्चसं" इति गायत्र्यां तेजोरूपताश्रवणात् तेजः शब्दाग्निशब्दयोरनतिभिन्नार्थतया अग्नौं गायत्रीपदस्य प्रयोगो न विरुद्ध इति द्वयोरेकार्थतेति शंक्यं ब्रह्मवर्चसलक्षणतेजोहेतौंगायत्र्यां तेजःशब्दस्य 'आयुर्घ्रुतं' इतिवद्गौणव्ययदेशेपि तस्य तेजसोग्निरूपत्वाभावात् : अन्यथा 'यजमानः प्रस्तर:' इति निर्देशात् 'सूक्तवाक्येन प्रस्तरं प्रहरति' इत्युक्तप्रहरणं यजमानस्य स्यादिति यदुक्तं,

खण्डनं_०६

(खं.) तत्तुच्छं, अग्नौ गायत्रीपदस्य गायत्र्यां अग्निपदस्य प्रयोगो न विरुद्ध इति पूर्वपक्षिणा उक्तत्वमात्रेण तस्य गौणव्यपदेशत्वकथनम् । अन्यथा " यजमानः प्रस्तरः इति निर्देशेन यजमानस्य प्रहरणापादनमित्यादीनां अत्यन्तासंबद्धत्वात् ॥

रामसुब्ब_०

(रा.) यत्तु ऐकाधिकरण्ये छान्दोग्यवाक्योदाहरणमप्ययुक्तम् । तत्र विचरणाभिधानरूपहेत्वभावात् । छान्दोग्योक्तज्योतिषः अग्निसूक्तस्थज्योतिषश्चानुपदमैक्यस्य निराकृतत्वादिति यदभिहितं

खण्डनं_०७

(खं.) तत्तुच्छम्, पूर्वन्यायेनैव परिहृतत्वात् ॥

रामसुब्ब_०

(रा.) किंच सूत्रे चरणशब्दस्य विचारणार्थत्ववत् ब्राह्मणार्थवत्वत् क्लिष्टमिति,

खण्डनं_०८

(खं.) इदं वाक्यं अन्वयायोग्यार्थप्रतिपादकत्वादुपेक्ष्यमेवेति ॥

इति अद्वैतखण्डनपूर्वकचन्द्रिकामण्डने ज्योतिरधिकरणं सम्पूर्णम्

इति ज्योतिरधिकरणम् ॥