ॐ ईक्षतेर्नाशब्दम् ॐ
॥ अथ ईक्षत्यधिकरणम् ॥
ॐ ईक्षतेर्नाशब्दम् ॐ
चन्द्रिकानुवाद:_१
(चं.) अन्ये तु "सदेव सोम्येदमग्र आसीत्" इत्यादि कारणवाक्यं साङ्ख्यादिस्मृतिसिद्धाचेतनकारणानुवादीति प्राप्ते, ईक्षणेन चेतनकारणताप्रापकमिति सिद्धान्त इत्याहुः । तत्र किं विशिष्टस्य परिणामित्वमेतद्वाक्यबोध्यमिति सिद्धान्त्यते, किं वा कर्तृत्वं बोध्यमिति, यद्वा शुद्धस्य भ्रमाधिष्ठानत्वं बोध्यमिति । नाद्यद्वितीयौ, विशिष्ट 'सदेव' इत्यादिवाक्योक्तसत्त्वाद्ययोगात् । पूर्वसूत्रेऽखण्डे समन्वयस्यैव प्रतिज्ञातत्वेनात्राखण्डस्यैव वक्तव्यत्वाच्च । द्वितीये वैयधिकरण्यं च । न हि प्रधानं परिणामीति प्राप्ते ब्रह्म कत्रिति सिद्धान्तो युक्तः । अत एव न तृतीयः, प्रधानं परिणामीति प्राप्ते ब्रह्माधिष्ठानमित्यस्य व्यधिकरणत्वात्। कथंचिदवैयधिकरण्येsपि "तदैक्षत, सेयं देवतैक्षत, नामरूपे व्याकरोत्" इत्यादिकमयुक्तं स्यात्, तस्य लक्षणया चिन्मात्रपरत्वे च सर्वमपि लक्षणया प्रधानपरं स्यात् । सूत्रे ईक्षतेरित्यादिहेतुक्तिश्च न स्यात् । न च तात्पर्याविषयेणेक्षणेन प्रधाननिरासः इति चन्द्रिकाग्रन्थः ॥
( पूर्व सूत्रेऽखंडे समन्वयस्यैव प्रतिज्ञातत्वेनात्राखंडस्यैव वक्तव्यत्वाच्च" इति चन्द्रिकोक्तदोषपरिहारार्थं ) यदुक्तं,
रामसुब्ब_११
(रा.) "सर्वेषां वेदान्तवाक्यानां ब्रह्मात्मैकत्वप्रतिपत्तिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानां अन्तरेणापि कार्यानुप्रवेशं ब्रह्मणिपर्यवसानमुक्तम् । ब्रह्म च सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणमित्युक्तम्” इतीक्षत्यधिकरणोपक्रम शाङ्करभाष्येण पूर्वाधिकरणोक्तसमन्वयस्य सर्वज्ञ सर्वशक्त्याद्युपहित ब्रह्मवृत्तित्वस्याप्यवगमेनोपहितस्यास्मिन्नधिकरणे परिणामित्वोक्तेः सुसङ्गतत्वादिति,
खण्डनं_११
(खं.) तत्तच्छन्, अद्वैतिमते ब्रह्मणः उपाध्युपहितत्वासंभवस्योक्तत्यात् । शाङ्करभाष्ये क्वचिदुपहितपराणि वाक्यानि क्वचिदनुपहितपराणि वाक्यानि दृश्यन्ते इत्यङ्गीकृत्यैवोपहितानुपहितोभयपरतया सूत्राणां योजनमसङ्गतमिति वक्तारं प्रति भाष्ये उपहितानुपहितपराणि वाक्यानि दृश्यन्ते इत्युक्तेरयुक्तत्वात् । उपहितस्य परिणामित्वं विशेषणस्य परिणामित्वनिमित्तं, किं वा विशेष्यस्य चैतन्यस्य । न द्वितीयः, तस्याविकारित्वात् । आद्ये तु उपाधिभूतमायाया एव परिणामित्वं न तु ब्रह्मणः इति मायापरपर्यायप्रधानपरिणामवादनिराकरणस्यासङ्गतत्वापत्तेश्च ॥
रामसुब्ब_१२
(रा.) इदमधिकरणं अचेतनस्य स्वातन्त्र्येण जगदाकार परिणामित्वं नास्ति, किंतु अचेतनं प्रधानं न स्वतन्त्रं, तदुपहितब्रह्मैव स्वतन्त्रमित्येतत्परमिति तु,
खण्डनं_१२
(खं.) न वाच्यम्, अद्वैतिभिः मायाऽविद्यादिशब्दवाच्य प्रधानस्यैव परिणामित्वाङ्गीकारात् । शुद्धब्रह्मणो वा तदुपहितब्रह्मणो वा तन्नियामकत्वतदधिष्ठातृत्वादिधर्माणामनङ्गीकारात् । एतत्सूत्रेण तादृशार्थस्याप्रतिभासाच्च । उपहितब्रह्मणः नियामकत्वाद्यङ्गीकारेऽपि विशेष्यस्य शुद्धस्य नियामकत्वाद्यसम्भवात्, विशेषणे मायाद्युपाधावेव नियामकत्वादीनां वक्तव्यत्वेन ब्रह्मणः स्वातन्त्र्यासिद्धेश्च ॥
रामसुब्ब_१३
(विशिष्टे 'सदेव' इत्यादिवाक्योक्तसत्त्वाद्ययोगादिति चन्द्रिकोक्तदोषपरिहारार्थं) यदुक्तं,
(रा.) "सदेव सोम्येदमग्र आसीत्" इति श्रुत्युक्तं सत्त्वमुपहितस्यापि सम्भवति, विवरणव्याख्याने तत्त्वदीपने निविशेषचैतन्यं पारमार्थिकसत्त्वं मायोपहितचैतन्यं व्यावहारिकसत्त्वं तुलाविद्यावच्छिन्न चैतन्यं प्रातिभासिक मित्युक्तत्वादिति.
खण्डनं_१३
(खं.) तत्तुच्छं, सत्वत्रैविध्ये प्रमाणाभावात् । मायावादिकृतस्य तत्त्वदीपनस्यान्यान् प्रति प्रमाणतयोदाहरणस्यायुक्तत्वाच्च । बाध्यत्वाविशेषात् व्यावहारिक प्रतिभासिक वैलक्षण्यकल्पनाया अयुक्तत्वात् । बाधकज्ञानभेदेन वैलक्षण्ये शुक्तिज्ञान रज्जुज्ञानरूपबाधकभेदेन रजत सर्पयोरपिवैलक्षण्यापाताच्च। “सदेव सोम्य, सत्यं ज्ञानमनन्तं" इत्यादिश्रुत्योक्तानां सत्त्वादीनां व्यावहारिकसत्त्वरूपत्वांगीकारे त्वदीयनिर्विशेषह्मणोऽपि पारमार्थिकत्वं न सिध्येत् । तथा च शून्यवादापापत्तेः । श्रीमच्चन्द्रिकोक्तानां बहूनां दोषान्तराणामनिवारणाच्च ॥
चन्द्रिकानुवाद:_२
(चं.) अपि चात्र "सदेव" इत्यादिवाक्यसमन्वयोक्तिश्चेत् "आनन्दमयोऽभ्यासात्" इत्यादिवत् 'सदीक्षतेः' इति सूत्रं स्यात् । प्रधानस्य शाब्दत्वनिरासमात्रं चेदिदमधिकरणं तन्निरासके चतुर्थपादे स्यादिति यच्चन्द्रिकोक्तम्,
रामसुब्ब_२१
(रा.) तन्त्र, प्रधानवादिभिः परिनिष्ठितत्वाद्ब्रह्मणः प्रमाणान्तरगम्यतया न तत्र श्रुतितात्पर्यरूपसमन्वयः सम्भवति, किं तु श्रुत साङ्ख्यानुमानसिद्धप्रधानानुवादित्वमेवेति ब्रह्मसमन्वयोपरि आक्षेपे कृते तत्परिहारमुखे नास्याधिकरणस्य ब्रह्मणि श्रुतिसमन्वयदाढर्यार्थतया प्रवृत्तत्त्वात् । तदेतत्स्फुटीकृतं "साङ्ख्यादयस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः" इतीक्षत्यधिकरणशाङ्करभाष्येण । अत एवास्याधिकरणस्य समन्वयदृढीकारार्थतया समन्वयाधिकरणाव्यहितोत्तरमेव सङ्गतिः, न चतुर्थपाद इति यदुक्तं परेण,
खण्डनं_२१
(खं.) तत्तुच्छत् चतुर्थपादीयाधिकरणानामपि प्रधानस्य जगत्कारणत्वबोधकशब्दप्रतिपाद्यत्वाभावसमर्थनद्वारा समन्वयदाढयर्थितया एतदधिकरणोत्तरत्वं स्यात् । अन्यथा समन्वयदाढयर्थकं ईक्षणीयत्वकरणमपि तत्पादे स्यात् ।
साक्षात्समन्वयपरत्वे 'सदीक्षते:' इति स्यादिति चन्द्रिकोक्तदोषस्यापरिहारात् ॥
रामसुब्ब_२२
(रा.) सूत्रार्थस्तु-अनुमानादिप्रमाणान्तरसिद्धं जगत्कारणं न वेदान्तैरनूद्यते, अशब्दं हि तत्, मुख्यवृत्त्योपनिषद्गतसदादिकारणवाचिशब्दाप्रतिपाद्यत्वादिति यावत् । कुतोऽशब्दत्वं, ईक्षते: “तदैक्षत" इति सद्रूपस्य कारणस्येक्षणश्रवणादिति यत्परोक्तं,
खण्डनं_२२
(खं.) तत्तुच्छम्, अद्वैत्यभिमतं जगत्कारणं ब्रह्म न वेदान्तैरनूद्यते, अशब्दं हि तत् मुख्यवृत्त्योपनिषद्गत सदादिकारणवाचिशब्दाप्रतिपाद्यत्वादिति यावत् इत्यद्वैत्यभिमतब्रह्मणोऽपि वेदान्तवेद्यत्वनिराकरणपरतया त्वदुक्तरीत्या योजयितुं शक्यत्वात् । उपहितब्रह्मणः कारणत्वांगीकारे मुख्यवृत्त्या त्रिकालाबाध्यत्वाद्यर्थ कसदादिशब्दाप्रतिपाद्यत्व हेतुस्तत्र सिद्धः । निर्विशेषब्रह्मणः कारणत्वांगीकारेऽपि तस्यावाच्यत्वात् कारणवाचिसदादिशब्दाप्रतिपाद्यत्वं हेतुः सिद्ध एव न च लक्षणया सदादिशब्दप्रतिपाद्यत्वाद्धेतुरसिद्ध इति वाच्यं, प्रधानस्यापि लक्षणया सदादिशब्दप्रतिपाद्यत्वेन कारणवाचिसदादिशब्दाप्रतिपाद्यत्वादिति हेतुः प्रधानेऽप्यसिद्ध एव । ईक्षणकर्तृत्वरूपहेतुना प्रधानस्याशाब्दत्वसाधनं निविशेषब्रह्मणोऽपि समानं, ईक्षणरूपस्य तस्येक्षणकर्तृत्वायोगात् । गौणमीक्षणकर्तृत्वं प्रधानेऽपि समं इत्युपहितब्रह्मण्यपि ईक्षण कर्तृत्वस्य सत्यभूतस्याभावात् आरोपितमेवांगीकरणीयम् । प्रधानेऽपि तदारोपितमीक्षणकर्तृत्वमस्तीति ईक्षणकर्तृत्वेनाशब्दत्व साधनं उपहितब्रह्मणोऽपि समानमेव । प्रधानोप,- हितब्रह्मणो: ईक्षण कर्तृत्वस्यारोपसाम्ये प्रधाने प्रातिभासिकं उपहितब्रह्मणि व्यावहारिकमित्यद्वैतिमनीषोत्थ भेदस्य साध्यसाधनेऽप्रयोजकत्वात् । अस्मदुक्तरीत्याऽध्याहारं विना सूत्रार्थसंभवे बह्वध्याहारेण सूत्रार्थवर्णनस्यायुक्तत्वात् ॥
रामसुब्ब_२३
(रा.) यत्तु आनुमानिकप्रधानानुवादिनो वेदान्ता न ब्रह्मणि तात्पर्यलक्षण समन्वयमर्हन्तीति पूर्वपक्षिणः साङ्ख्यस्य प्रत्यवस्थानेन तन्निरासार्थेक्षतिसूत्रस्योक्ताध्याहारं विना पूर्वपक्ष्यभिप्रायनिवारकत्वासम्भवात्, 'अशब्द' इत्यस्य तादृशसाध्यानुगुणहेत्वाभिधायित्वेन प्रथमांतस्यापि हेतुपरत्वाश्रयणात्, उक्तहेतोः स्वरूपासिद्धिवारणार्थं सूत्रे ईक्षतेरिति निर्देशः । "देवात्मशक्ति स्वगुणैर्निरूढां" इति श्रुत्या सत्त्वादिगुणत्रयरूपमायायाः शक्तित्वं प्रतिपाद्यते । शक्तिश्च शक्तिमत्परतन्त्रेति शक्तेरस्वातत्रम् । साङ्कयानुमानेन तु प्रधानस्य स्वातन्त्र्यं तैरङ्गीकृतम्। तच्च स्वतन्त्रं प्रधानं न श्रुतिभिः मुख्यवृत्त्या प्रतिपाद्यते इति सुष्टुक्तं अशब्दत्वं शाङ्करभाष्यइति,।
खण्डनं_२३
(खं.) तत्तुच्छम्, अस्य सूत्रस्य त्वदुक्तरीत्या साङ्ख्यस्यैव पूर्वपक्षित्वमित्यत्र ज्ञापकाभावेन तस्य पूर्वपक्षित्वमारोप्य तत्पूर्वपक्ष्यभिप्राय निराकरणार्थं बह्वध्याहारस्यान्याय्यत्वात् । एवं रीत्या सूत्रार्थवर्णनस्याद्वैत्यभिमतब्रह्मणि जगत्कारणत्वनिषेधपर्यवसायितया त्वन्प्रतिकूलत्वाच्च सुत्रे साध्यस्यैवानुक्तत्वेन अशब्दमित्यस्य तादृशसाध्यानुगुणहेत्वभिधायित्वोक्तेरसंगतत्वेन हेतुपरत्वाश्रयणस्यान्याय्यत्वात् । स्वदुक्ताशब्दत्वस्य वेदान्ताप्रतिपाद्यस्वरूपसाध्यं प्रति अप्रयोजकत्वात् । सदादिकारणवाचिशब्दाप्रतिपाद्यत्वेऽपि उपनिषद्गतेतरशब्देन प्रतिपाद्यत्वसम्भवेन वेदान्तप्रतिपाद्यत्वसम्भवात् । कल्पितस्येक्षणकर्तृत्वस्य प्रधानेऽपि सम्भवेनेक्षणकर्तृत्वस्य प्रधानेऽशब्दत्वासाधकत्वात् । सत्यस्यच तस्योपहितानुपहितब्रह्मणोरभावेन तयोरप्यशब्दत्व प्राप्त्या वेदान्ताप्रतिपाद्यत्वप्राप्तेः। ईक्षतेरिति हेतु निर्देशस्त्वद्वैतिमते न युक्तः । एतत्सूत्रे "देवात्मशक्ति" इति श्रुतिसूचनद्वारा वा साक्षाद्वा प्रधानस्यास्वातन्त्र्यं नोक्तमिति तथा वर्णने उत्सूत्रितत्व प्राप्तेः त्वद्भाष्यकारीयं प्रधानस्य वेदान्तप्रतिपाद्यत्वाभावसाधकतया ईक्षतेरित्यस्य वर्णनं च स्वव्याधातकरमिति ॥
चन्द्रिकानुवाद:_३
(चं.) किंच्चाशब्दत्वं अवाच्यत्वं वा शब्दमात्राविषयत्वं वा वेदासिद्धत्वं वा । कारणत्वेन वेदासिद्धत्वं वा । चतुष्टयमपि ब्रह्मण एव, त्वन्मते शास्त्रप्रतिपाद्यस्य शुद्धस्यावाच्यत्वात्,अवाच्ये च वृत्त्यन्तरायोगात् । न तु प्रधानस्य, सांख्यमते तस्य वाच्यत्वात् । कारणत्वेनैव "अजां" इत्यादि श्रुतिसिद्धत्वाच्च । त्वयापि त्रिगुणस्योपादानतया "मायां तु प्रकृति" इत्यादिश्रुतिसिद्धत्वांगीकाराच्च । त्रिगुणस्य पारमार्थिकत्वादावेव हि तव विवाद इति चन्द्रिकोपरि,
रामसुब्ब_३१
(रा.) यत्तूक्तं 'तत्र तत्र किचिद्भेदकल्पनेनोपहितं शुद्धमिति ब्रह्मणी प्रतिपादिते । तत्रोपहित इव शुद्धेऽपि "तत्त्वमसि' इति श्रुतिगततत्पदवाच्यत्वमिष्टमेव । "गौरनित्या" इत्यादावनित्यत्वरूपविशेषणान्वयानुपपत्त्या गोत्वरूपविशेषणत्यागेन गोशब्दस्य विशेष्यीभूतव्यक्तिपरत्वेऽपि शक्तत्वव्यपदेशवत् सर्वज्ञत्वादिविशेषणप्रहाणेन विशेष्यचैतन्य-'गौनित्या' मात्रपरस्य सब्रह्मतदादिशब्दस्यापि शक्तत्वसम्भवात् । इत्यादौ नित्यत्वरूपविशेषणान्वयानुरोधेन गोशब्दस्य जातिपरत्वात् विशेष्यप्रहाणाच्च लक्षणा । न च तर्हि निविशेषे ब्रह्मणि ब्रह्मादिपदानां लक्षणोक्तिः प्राचीनानां कथं संगच्छत इति शङ्कचं विशेषणीभूतसार्वज्ञाद्यंशप्रहाणेन लक्षणोक्तिरौपचारिकीति बिन्दुटीकायां गौडब्रह्मानन्दस्वामिभिरुक्तत्वादिति,
खण्डनं_३१
(खं.) तत्तुच्छम्, अद्वैतिमते ब्रह्मणः उपहितत्वासम्भवस्य उपहितत्वांङ्गीकारेऽपि तस्मिन्सदादिशब्दवाच्यत्वाभावस्याद्वैतिभिः शुद्धब्रह्मणः अवाच्यत्वांगीकारेण वाच्यत्वोक्तेरपसिद्धान्तकरत्वस्य विष्णुतत्त्वरहस्य विवरणादौ त्वया "न च तत्त्वमसि" इति वाक्यमेव विशेषणांशत्यागेन विशेष्यैक्ये प्रमाणमिति शङ्कयं, तत्त्वंपदयोर्द्वयोविशेष्यलक्षणापत्तेः " इत्यादिना विशेषणांशत्यागेन विशेष्यमात्रबोधने लक्षणाया आवश्यकत्वाङ्गीकारेण विशेष्यांशस्य वाच्यत्वोक्तेः स्वोक्तिविरुद्धत्वस्य च तस्मिन्नेव ग्रन्थे ब्रह्मणः सगुणत्वस्वीकारेणोपहित शुद्धभेदकल्पनायाः स्वोक्ति-'विरुद्धत्वस्य च 'गौरनित्या' इत्यादौ लक्षणानावश्यकत्वस्य च जिज्ञासादिकरणादावुक्तत्वात् । मधुसूदनगौडब्रह्मानन्दादिभिरद्वैतसिद्धिब्रह्मानन्दीयग्रन्थे,-
ब्रह्मण्यवाच्ये यो विद्वान् वाच्यतामधिगच्छति ।
स निस्त्रपो निमित्तानां विरहैः प्रतिबोध्यताम् ॥
इत्यादिग्रन्थेन स्पष्टं ब्रह्मणोवाच्यत्वनिषेधेन विशेषणीभूतसार्वज्ञाद्यंश प्रहाणेन लक्षणोक्तिरौपचारिकीति कल्पनायाः स्वव्याहतिकरत्वात् ।
रामसुब्ब_३२
(रा.) यद्यपि जगत्कारणत्वाद्युपलक्षित निविशेषब्रह्मज्ञानादेवाज्ञाननिवृत्तिः । तथापि उपलक्ष्यज्ञानस्योपलक्षणधर्मविशिष्टब्रह्मज्ञानं विना असम्भवात् उपहितज्ञानस्याऽऽवश्यकत्वात् उपहितज्ञानस्य मोक्षप्रयोजकत्वात् उपहितब्रह्मणि जगत्कारणत्वलक्षणप्रमाणशास्त्र समन्वयानामवश्यवक्तव्यतयाऽस्मद्भगवत्पादीयचतुःसूत्रीभाष्ये उपहितेऽपि ते प्रतिपादिताः । अतः शुद्धज्ञानस्य मोचकत्वं, उपहितज्ञानस्य शुद्धज्ञाननिष्पादकतया मोक्षप्रयोजकत्वं, अविद्यादेस्तु मोक्षप्रोजकज्ञानविशेष्यत्वाभावान्मोक्षाप्रयोजकत्वं अतएव "गौणश्चेन्नाशब्दात्" इत्यात्मशब्द: उपहतात्मपरः, " तन्निष्ठस्य" इति सूत्रे तत्पदमीक्षितृत्वविशिष्टब्रह्मपरं, उपहितब्रह्मनिष्ठाया अपि ब्रह्मप्राप्तिप्रयोजकत्वात् इति यत्परेणोक्तम्
खण्डनं_३२
(खं.) तत्तुच्छं, त्वन्मते शुद्धब्रह्मज्ञानस्यैव मोक्षसाधनत्वेन तादृशज्ञाने जगत्कारणत्वादीनामुपलक्षकाणामविषयत्वात् उपलक्षकपदार्थज्ञानस्यानावश्यकत्वात् । जगत्कारणत्वादिविशिष्टब्रह्मज्ञानस्य तु सूतरामनावश्यकत्वात् । जगत्कारणत्वादिविशिष्टब्रह्मणि वेदांत समन्वयस्यासंगतत्वात् । यथा कथंचित् विशिष्टज्ञानस्य मोक्षप्रयोजकत्वेन तस्मिन्त्समन्वयस्यावश्यकत्वे प्रधानस्य ज्ञानमपि मोक्षप्रयोजकमिति तत्रापि वेदान्तानां समन्वयस्य वक्तव्यत्वापत्तेः । न चोपहितस्य मोक्षप्रयोजकज्ञानविशेष्यत्वं, न तु प्रधानादेरिति वाच्यं, प्रधानं मिथ्या-ब्रह्माधीनं ब्रह्मव्यतिरेकेणासत् इत्यादिज्ञानस्य त्वन्मते मोक्षप्रयोजकतया प्रधाने मोक्षप्रयोजकज्ञानविशेष्यत्वस्यापि सम्भवात् । समन्वयकरणं प्रति तादृशज्ञानविशेष्यत्वस्याप्रयोजकत्वाच्च । उपहितात्मनिष्ठस्येव प्रधाननिष्ठस्यापि परम्परया मोक्षसम्भवेन “तन्निष्ठस्य मोक्षोपदेशात्" इति सूत्रेण प्रधानस्य वारणासम्भवाच्च । '- 'तत्त्वमसि श्वेतकेतो' इति चेतनस्य मोक्षयितव्यस्य श्वेतकेतोः तन्निष्ठामुपदिश्य " तावदेव चिरं" इति मोक्षोपदेशात्" इति शाङ्करभाष्ये सूत्रस्यतच्छब्देन 'तत्त्वमसि' इति श्रुतिघटकतच्छब्दार्थस्य ग्रहणात् तस्य च शुद्धपरत्वस्याद्वैतिभिरङ्गीकारेण तत्पदमीक्षितृत्वविशिष्टपरमित्यस्य त्वद्भाष्यविरुद्धत्वाच्चेति चन्द्रिकोक्तदोषाणां मध्ये एकस्याप्यपरिहारात् ॥
॥ इति अद्वेतिमते ईक्षत्यधिकरणमयुक्तम् ॥
चन्द्रिकानुवाद:_४
ॐ ईक्षतेनशब्दम् ॐ । अत्र ब्रह्मणि समन्वयो न युक्तो युक्तो वेति चिन्ता । तदर्थं शुद्धं ब्रह्मावाच्यं वाच्यं वेति । तदर्थमवाच्यत्वश्रुतिः वाच्यत्वाभावाभिप्रायोत साकल्येनाप्रसिद्धत्वाभिप्रायेति । तदर्थं शुद्धं ब्रह्मावाच्यत्वाभावाभिप्रायत्वे बाधकं नास्त्युतास्तीति । नोक्षणीयमुतेक्षणीयमिति तदर्थं "तमेवैकं जानथ आत्मानं, आत्मन्येवात्मानं पश्येत्" इत्यादावोक्षणीयत्वेन श्रुत आत्मा सगुणो निर्गुणो वेति । तदर्थं आत्मशब्द: किं गौणात्मनि मुख्यः किं वा निर्गुण एवेति । तदर्थं "यस्यानुवित्तः" इत्यादि श्रुत्युक्तमात्मनिष्ठस्य मोक्षोपदेशादिकं गौणात्मनि युक्तमयुक्तं नेति । पूर्वपक्षस्तु-न समन्वयो युक्तः, तस्य "यतो वाचः" इत्यादिश्रुत्याआवाच्यत्वावगमात् इति । सिद्धान्तस्तु-"स एतस्मा'ज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते" इत्यादिश्रुतिभिः ईक्षणीयत्वस्य ब्रह्मणि प्रतिपादितत्वेन तस्य च वाच्यत्वं विनाऽनुपपत्तेर्वाच्यमेव ब्रह्मातस्तत्र समन्वयो युक्त एवेति । विशेषस्त्वाकरे द्रष्टव्यः इति चन्द्रिकासम्मताधिकरणोपरि,
रामसुब्ब_४१
(रा.) तन्न, अवाच्यमिति पूर्वपक्षे वाच्यत्वसाधकश्रुतेरेव सिद्धांत-हेतुतयोपव्यसनीयत्वेन ईक्षते: हेतुत्वेनोपन्यसनस्य, तस्य हेतुत्वप्रसाधनस्य च शिरोवेष्टनेन नासिकास्पर्शतुल्यत्वादिति यदुक्तम्,
खण्डनं_४१
(खं.) तत्तुच्छम्, “यद्यपि वाच्यत्वे श्रुतिरस्ति" इत्यादिना त्वदुक्तमाशंक्य "तथापि" इत्यादिना अवाच्यत्वेऽपि श्रुतेः सद्भावात् वाच्यत्वश्रुतिविशिष्टविषया न तु शुद्धविषयेति शङ्कोदयाच्च न श्रुत्यादिमात्रेण वाच्यत्वनिश्चय इति सूत्रे प्रसिद्धश्रुत्यनुग्राहकन्याय एवोक्त इति समाहितत्वात् ॥
||इत्यद्वैतखण्डनपूर्वकचन्द्रिकामण्डने ईक्षत्यधिकरणम् ||