ॐ शास्त्रयोनित्वात् ॐ
॥ अथ शास्त्रयोनित्वाधिकरणम् ॥
ॐ शास्त्रयोनित्वात् ॐ
चन्द्रिकानुवाद:_१
(चं.) अत्र परेषां भाष्ये शास्त्रस्य योनिरिति विग्रहमाश्रित्य ऋगादिकारणत्वं ब्रह्मण इहोच्यते पूर्वसूत्रेऽर्थलब्धसार्वज्ञ्यस्य स्फोरणार्थमित्युक्तम् । तन्न, लक्षणानन्तरमवश्यापेक्षितप्रमाणपरत्वसम्भवेऽन्यपरत्वायोगात् । त्वदभिमतभ्रमाधिष्ठानत्वरूपकारणत्वेन सार्वज्ञालाभाच्च । पूर्वसूत्रेऽर्थलब्धसर्वशक्त्यादित्यागेन सार्वज्ञस्यैव स्फोरणे निमित्ताभावाच्च । सांख्याभिमताचेतनकारणतायाश्च चेतनत्वमात्रेण निषेधसम्भवात्, सांख्यानङ्गीकृतेन शास्त्रयोनित्वेन सार्वज्ञस्य साधनायोगाच्च । श्रुत्या शास्त्रयोनित्वं तेन सार्वज्ञं प्रसाध्य तेन प्रधानस्य कारणतानिषेधाद्वरं श्रुत्यैव तन्निषेधः । जगन्निर्माणेनास्फुटीकृतस्य सार्वज्ञ्यस्य तदेकदेशशास्त्र निर्माणेन स्फुटीकरणायोगाच्च इति यदुक्तं,
रामसुब्ब_११
(रा.) तन्न, अपेक्षित प्रमाणपरत्वेनाप्यस्य सूत्रस्य द्वितीयवर्णकमाश्रित्य द्वैतभाष्यकृद्भिरेव योजितत्वात् । वस्तुतस्तु योनिशब्दस्य " भूतयोनिम् परिपश्यन्ति धीराः, यथोर्णनाभिः" इत्यादौ 'ऊर्णनाभिः" इत्यादिसमभिव्याहारानुरोधेन कारणपरत्वाश्रयणात्, 'जन्माद्यस्य यतः' इति सुत्रमभिव्याहारानुसारेण शास्त्रयोनिसूत्रस्थयोनिशब्दस्य कारणपरत्वमेवाश्रयणीयमिति शास्त्रयोनिपदस्य शास्त्रकारणत्वार्थत्वमाश्रितम्। तदेव च युक्तम्, योनिशब्दस्य कारणे प्रयोगवत् प्रमाणे क्वाप्यप्रयोगात् प्रमाणपरत्वे लक्षणा वक्तव्या । शास्त्रप्रमाणकत्वादिति सूत्रमकृत्वा शास्त्रयोनित्वादिति सूत्रकरणेनैव शास्त्रयोनिशब्दशक्यार्थवेदकारणत्वमपि ब्रहणो वक्तव्यमिति सूत्रकाराशय इत्यवगम्यते । अत एव शंकरभगवत्पाद: योनिशब्दस्य मुख्यार्थमाश्रित्य प्रथमं कारणत्वमाश्रितं पश्चात् प्रमाणप्रदर्शनस्यापेक्षिततया योनिशब्दस्य लक्षणया प्रमाणपरत्वमप्याश्रितमिति यत्पेरणोक्तं,
खण्डनं_११
(खं.) तत्तुच्छम्, अपेक्षित प्रमाणपरत्वेनाप्यस्य सूत्रस्य योजितत्वादिति त्वदीयोक्तेः लक्षणकथनानन्तरं सार्वज्ञस्फोरणस्यानावश्यकतया तत्स्फोरकशास्त्रकर्तृत्व कथनस्यानावश्यकत्वादिति चन्द्रिकोक्तदोषापरिहारकत्वात् । त्वन्मते जगज्जन्मादिकारणत्वे प्रमाणमपि नापेक्षितमेव । त्वदीयभाष्ये " पूर्वसूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानात्, जन्मादि-केवलमनुमानमुपन्यस्तमित्याशंक्येत । तामाशंकां निवर्तयितुं इदं सूत्रं प्रवर्तते शास्त्रयोनित्वादिति" इति वाक्येन तद्वाख्यानरूपायां भामत्यां च " तस्यैव लक्षणस्यानेनानुमानत्वाशङ्कामपाकृत्यागमोपदर्शनेन ब्रह्मणि शास्त्रप्रमाणमुक्तं " इति वाक्येन च कारणत्वस्यानुमानतामुपमर्द्य आगमतोपदर्शनार्थमेव शास्त्रयोनिसूत्रं, नत्वतिव्याप्त्यादिपरिहारप्रयोजकमित्यवगत्या जगत्कारणत्वस्यानुमानिकत्वे वा शास्त्रप्रमाणकत्वे वा विशेषाभावात् । शास्त्रयोनित्वादित्यस्य शास्त्रप्रमाणकत्वादित्यर्थकत्वे कारणसामान्यवाचकयोनिशब्दस्य कारणविशेषप्रमिति कारणरूपार्थकत्वस्वीकारप्राप्तावपि कारणरूपार्थस्यात्यागात् । कारणमात्रवाचकशब्दं परित्यज्य 'योनिशब्द: प्रकृतिवचनः' इत्यादि शांकरभाष्योक्तरीत्योपादानकारणस्थानादिवाचकयोनिशब्दप्रयोगेण सूत्रकर्तुः घटादीनां मृदादिवत् ब्रह्म वेदोपादानमित्यपि अभिप्रेतम्, अन्यथा कारणमात्रवाचिशब्दं प्रयुञ्जीत इत्यपि वक्तुं शक्यत्वाच्च ।
चन्द्रिकानुवाद:_२
(चं.) भवदभिमतभ्रमाधिष्ठानत्वरूपकारणत्वेन ब्रह्मणः सार्वद्ज्ञ्यासिद्धेश्च इति यत्,
रामसुब्ब_२१
(रा.) तन्न, अद्वैत सिद्धान्ते उपहित ब्रह्मणः कृत्स्रजगदुपादानगोचरा परोक्षाज्ञानचिकीर्षाकृत्यात्मकमायावृत्त्याश्रयत्वरूपजगत्कारणत्वस्य विवरणग्रन्थादौ स्वीकृतत्वेन तद्घटकसार्वज्ञस्य तेनार्थसिद्धिसम्भवात् । न च अद्वैतिमते निर्विशेषस्य प्रथमसूत्रे जिज्ञास्यत्वोक्त्या तस्यैव जन्मादिसूत्रे लक्षणस्य वक्तव्यतया तल्लक्षणस्य कथं कारणत्वरूपत्वमिति शंक्यं, 'ब्रह्म च वक्ष्यमाणलक्षणं 'जन्माद्यस्य यतः' इति इति जिज्ञासा-सूत्रस्थ 'ब्रह्म' शब्दव्याख्यानरूपश्रीमदद्वैत भाष्यग्रन्थेन उपहितस्यैव ब्रह्मणो जिज्ञास्वत्वोक्तेः । निर्विशेषस्य जिज्ञास्यत्वं तु आर्थिकम् । 'सर्वशक्तेः ' इति जन्मादिसूत्र श्रीमद्वैतभाष्यग्रन्थेन सर्वज्ञत्व सर्वशक्तित्वाद्युपहितस्यैव कारणत्वमित्यवगम्यते । तस्मान्निर्विशेषस्यैव जिज्ञास्यत्वमद्वैतिमत इत्येतत् अद्वैतभाष्यग्रन्थापरिशीलनप्रयुक्तम् इति यत्परेणोक्तं,
खण्डनं_२१
(खं.) तत्तुच्छम्, "दोपगता प्रकाशनशक्तिः यथा तदुपादाने वन्हौ, तथा वेदगता सर्वप्रकाशनशक्तिः तदुपादाने ब्रह्मणि, कार्योपादानयोरेकशक्तित्वात्" इति विवरणे वेदब्रह्मणोरुपादानोपादेयभावोक्त्या तेन सार्वज्ञासिद्धेः । कृत्स्नजगदुपादानगोचरापरोक्षज्ञानचिकीर्षाकृत्यात्मा कमायावृत्त्याश्रयत्वरूपजगत्कारणत्वस्य श्रुतिस्मृत्यादिप्रमाणासिद्ध तया शशविषाणायितत्वेन त्वदङ्गीकृतत्वमात्रेण तेन सार्वज्ञासिद्धः ।
जीव ईशो विशुद्धा चिद्भेदस्तस्यास्तयोर्द्वयोः ।
अविद्यातच्चितोर्योगः षडस्माकमनादयः ॥
इति त्वदीयानामुक्त्या अनादितया सिद्धनिरुपादानजीवादिविषयकज्ञानासिद्धया सार्वजासिद्धेश्च । ब्रह्मणः त्वन्मते उपहितत्वासम्भवाच्च । तथा हि उपाधेः सत्यत्वाङ्गीकारेऽद्वैतभङ्गः । ' ब्रह्म सत्यं जगन्मिथ्या' इति तव मते अध्यासवादनिरासोक्तरीत्या अध्यासकारणत्वेन लोकसिद्धानां सामान्यधर्मविशेषधर्मतज्ज्ञानाज्ञानादीनां जगदध्यासेऽसम्भवेनापितत्वरूपमिथ्यात्वं अङ्गीकर्तुमशक्यं चेति उपाधेरेवासम्भवः । तुष्यत्विति न्यायेनोपाध्यंगीकारेऽपि 'असंगो हायं पुरुष:' इति श्रुतेः त्वन्मते ब्रह्मण सामान्यतः सर्व संबन्धाभावार्थकत्वस्वीकारेणोपाधिसंबन्धस्य ब्रह्मण्यसम्भवः । संबन्धांगीकारेऽपि ब्रह्मणः अखण्डत्वेनैकदेशाभावात् एकदेशेनोपाधिसंबन्धानुपपत्तिः । कात्स्न्येन सम्बन्धांगीकारे उपहितानुपहितवस्तुद्वयासिद्धिरिति ।
किञ्च "अथातो ब्रह्मजिज्ञासा" इति जिज्ञासासूत्रे " तद्विजिज्ञासस्व" इति श्रुतौ च जिज्ञास्ये वस्तुनि ब्रह्मशब्दः श्रूयते । स च त्वन्मतरीत्या त्रिविधपरिच्छेदाभावबोधकतया निर्विशेषपर एव न तु सगुणोपहितब्रह्मपर इति निर्विशेषस्यैव जिज्ञास्यताया वक्तव्यत्वेन तस्य त्वदुक्तजगत्कारणताया असंभवात् अतः कुत्र चिज्जिज्ञास्यत्वं सगुणनिर्गुण योरुभयो:, कुत्र चित्सगुणस्यैकस्यैव जिज्ञास्यत्वं, निर्विशेषस्यार्थिकमित्यादित्वदुक्तेरेव त्वद्भाष्यकारीय ब्रह्मशब्दार्थापरिशीलन निबन्धमत्वमिति ॥
चन्द्रिकानुवाद:_३
(चं.) पूर्व सूत्रेऽर्थलब्धसर्वशक्त्यादित्यागेन स्फोरणे निमित्ताभावाच्चेति यदुक्तं,
सार्वज्ञस्यैव
रामसुब्ब_३१
( रा . ) तन्न, सर्वज्ञत्वदृढीकारे तत्समनियतसर्वशक्तित्वस्यापि दृढीकृतप्रायत्वात् तदर्थं सूत्रान्तरानपेक्षणात् । अत एवाद्वैतभाष्ये शास्त्रयोनित्वसूत्रे सर्वशक्तिमत्त्वं चेति निगमितमितियदुदितं,
खण्डनं_३१
(खं.) तत्तुच्छम्, यद्यपि "सर्वशक्तिमत्त्वं चेति" इति निगमितं भाष्ये, परं तु सर्वज्ञत्वे "शास्त्रयोनित्वात्" इति सूत्रेण शास्त्रकर्तुत्वरूपो हेतुरुक्तः न सर्वशक्तिमत्त्वे हेतुरुक्तः । किंतु " शास्त्रयोनित्वात् " इति सूत्रेण ध्वनितया नामरूपात्मकप्रपञ्चस्य निश्वसितवदप्रयत्नसाध्यब्रह्मकार्यत्वबोधिधकया "अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः" इत्युपक्रम्याधीतया "अयं च लोकः परश्च लोकः सर्वाणि च भूतानि अस्यैवैतानि सर्वाणि निश्वसितानि” इति श्रुत्या ज्ञापित इत्येवाभिप्रेतं त्वद्भाष्यकर्तुः इति, " न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः संभवोस्ति" इति सर्वज्ञत्वविषयकप्रतिज्ञाकरणेन, " यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुष विशेषात्संभवति, यथा व्याकरणादि पाणिन्यादेर्ज्ञेयैकदेशार्थमपि स ततोप्यधिकतरविज्ञान इति प्रसिद्धं लोके इति सार्वज्ञयविषयकप्रतिज्ञायामेव व्याप्त्यादिप्रदर्शनेन, तथा भामत्यां कल्पतरौ च सार्वज्ञविषयकप्रतिज्ञाहेत्वाद्युपन्यास परतयैव भाष्यस्य व्याख्यानेन च ज्ञायते । स्पष्टं चैतत् कल्पतरुपरिमले "न तु पूर्वसूत्रे ब्रह्मणः सर्वज्ञत्ववत्सर्वशक्तिकत्वमप्यर्थ लब्धम् । तत्किमिति केन चिद्धेतुना न दृढीकृतं; तदपि त्द्युक्तं शंका निवर्तनक्षमं सत्यं तदपि निश्वसितश्रुत्युदाहरणेन तस्यां नामरूपात्मकस्यापि प्रपञ्चस्य निश्वसितपदप्रयत्नसाध्यब्रह्म कार्यत्वोक्तेः" इति वाक्येभ्यः । तया च जगत्कर्तृत्वेन सार्वज्ञयस्यैव सर्वशक्तेरप्युपक्षिप्तत्वात् समकक्ष्यतयोपक्षिप्तयोर्मध्य एकस्य सार्वज्ञयस्य साधकं शास्त्रयोनित्वादिति हेतुकथनं सर्वशक्तिमत्वस्य सूत्रध्वनितया श्रुत्या समर्थनं इत्यस्मिन् वैषम्ये निमित्ताभावादित्यत्रैव चन्द्रिकाचार्याणां अभिप्रायात् । " शास्त्रयोनित्वात्" इति सूत्रेण वेदकर्तृत्वबोधिकाया नामरूपात्मकप्रपञ्चस्य निश्वसितवत् अप्रयत्नसाध्यब्रह्मकार्यत्वाबोधिकायाः श्रुतेरपि ध्वनिसम्भवेन "शास्त्रयोनित्वात् " इति सूत्रेण ध्वनितश्रुतिद्वाराऽपि सर्वशक्तित्वज्ञापनासम्भवाच्च । कृत्स्नजगतः कारणत्वबोधकेन " जन्माद्यस्य यतः" इति सूत्रेणैव ध्वनितया नामरूपात्मकप्रपञ्चकारणत्वबोधिकया श्रुत्या ज्ञापनसम्भवे जगदेकदेशभूतशास्त्रकर्तृत्वबोधकेन "शास्त्रयोनित्वात्" इति सूत्रेण ध्वनितया वेदकर्तृत्वबोधिकया श्रुत्या जगत्कारणत्वबोधकपदघटितत्वमात्रेण सर्वशक्तिमत्त्वसाधनस्यायुक्तत्वाच्च ।
चन्द्रिकानुवाद:_४
(चं.) सांख्याभिमताचेतनकारणतायाश्च चेतनत्वमात्रेण निषेधसम्भवात् सांख्यानङ्गीकृतेन शास्त्रयोनित्वेन सार्वज्ञयस्य साधनायोगाच्च । श्रुत्या शास्त्रयोनित्वं तेन सार्वज्ञं प्रसाध्य तेन प्रधानस्य कारणतानिषेधाद्वरं श्रुत्यैव तनिषेध इति यदुक्तं,
रामसुब्ब_४१
(रा.) तन्न, “जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तम् ।तदेव द्रढयन्नाह-शास्त्रयोनित्वात्" इति अवतरणाद्वैतभाष्येण शास्त्रयोनित्वसूत्रस्य सार्वज्ञयदृढीकरणार्थं प्रर्वतत्वावगमेन प्रधानकारणनिरसार्थत्वमात्रकल्पनस्य अस्मद्भाष्यरीतिविरुद्धत्वात् इति यदुक्तं,
खण्डनं_४१
(खं.) तत्तुच्छम् इदं सूत्रं सार्वज्ञसाधनाय प्रवृत्तमित्यद्वैत्युक्तमसङ्गतम् । सार्वज्ञयसाधनस्य प्रकृतानुपयुक्तत्वादिति दूषणनिरासाय जगत्कारणत्वं प्रधानादिव्युदासेन ब्रह्मण्येव साधयितुं हेतुत्वेन सार्वज्ञं वक्तव्यं तत् सार्वज्ञं शास्त्रयोनित्वेन साध्यत इति सार्वज्ञ साधनस्य प्रयोजनमुक्तं विवरणकृता । तस्य दूषणाय इयं चन्द्रिका प्रवृत्तेति, प्रधानकारणत्वनिरासार्थत्वमात्र कल्पनस्य अस्मद्भाष्यरीतिविरुद्वत्वादित्युक्तेः विवरणग्रन्थानवलोकन निमित्तत्वात् ॥
चन्द्रिकानुवाद:_५
(चं.) जगन्निर्माणेन स्फुटीकृतस्य सार्वज्ञस्य तदेकदेशशास्त्रनिर्माणेन स्फुटीकरणायोगाच्चेति यदुदितम्,
रामसुब्ब_५१
(रा.) तन्न, जगन्निर्माणेन शास्त्रयोनित्वं न स्फुटीकृतं, किंतु शास्त्रनिर्माणेनेत्यस्यास्मद्भाष्यकारादिभिरनुक्तत्वात्, जगनिर्माणसिद्धसार्वज्ञदाढर्यार्थत्वस्यैवोक्तत्वात् । शास्त्रस्य जगदेकदेशत्वेऽपि कृत्स्नस्य जगतो ब्रह्मणश्च सपरिकरस्वरूपस्य शास्त्रेणैवावगमनीयतया तादृश-शास्त्रनिर्मातृत्वस्य जगन्निर्माणेनास्फुटीकृत सार्वज्ञस्फुटीकरणप्रयोजनकत्वोपपत्तेश्च इति यदभिहितं,
खण्डनं_५१
(खं.) तत्तुच्छम् शास्त्रनिर्माणेन ज्ञाप्यमाने सार्वज्ञयनिष्ठदार्ढे निबिडावयवसंयोग विशेषादिरूपताया असम्भवात् स्कुटरूपताया एव वक्तव्यत्वेन "जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तम्, तदेव द्रढयन्नाह" इति त्वदीयभाष्ये द्रढयन्नितिपदेन सार्वज्ञे पूर्व अस्फुटत्वस्य शास्त्रनिर्मांणेन स्फुटत्वरूपदाढर्यस्य चोक्तेः । स्फुटीकरणदाढर्यानुक्त्युक्त्योः त्वदीयभाष्याभिप्रेतदाढर्यपदार्थाज्ञानविजृंभितत्वात् । घटपटादिविषयकापरोक्षं विना तत्तत्पदार्थविषयकपरोक्षज्ञानेनापि शास्त्रप्रणयनसम्भवेन तेन शास्त्रप्रणयनेन सकलपदार्थविषयकापरोक्षज्ञानवत्त्वरूपसार्वज्ञस्यैव सिद्धयसम्भवेन तद्दाढर्यस्य सुतरामसम्भावितत्वाच्च ॥
चन्द्रिकानुवाद:_६
(चं.) अत्र भामतीविवरणयोः जगत्कारणत्वेन सिद्धे सार्वज्ञे शास्त्रयोनित्वं हेत्वन्तरमुच्यते । वेदः स्वविषयादधिकविषयकज्ञानवत्प्रणीतः वाक्यप्रमाणत्वात् पाणिन्यादिशास्त्रत्वदित्युक्तं तन्न, एकार्थमात्रज्ञेन प्रयुक्तस्थानेकार्थकस्य शब्दस्याबाधितानेकार्थबोधकत्वदर्शनात् । नन्वन्योऽर्थो न तात्पर्यविषय इति चेत्तर्हि प्राशस्त्यपरार्थवादप्रतीतवायुक्षेपिष्ठादिसंसर्गज्ञं ब्रह्म न स्यात् । पदार्थज्ञानं विना पदप्रयोगायोगेऽपि संसर्गज्ञानासिद्धेः । मानांतर प्राप्ते संसर्गेऽवान्तरतात्पर्यस्याप्यभावात् किंच वेदस्यातत्त्वे तात्पर्ये प्रामाण्यायोगात्तत्वे चिन्मात्रे तात्पर्यात् ब्रह्मापि तन्मात्रज्ञं स्यात् । किंच प्रत्यक्षादिसिद्धस्य घटादेनिष्प्रयोजनस्य गङ्गावालुकेयत्तादेश्च शास्त्राविषयत्वात्तज्ज्ञं ब्रह्म न स्यादिति ।।
रामसुब्ब_६१
( रा . ) तन्न, एकार्थमात्रज्ञप्रयुक्तः शब्दः किं पदरूपः, किंवा वाक्यरूपः । नाद्यः, तत्र प्रमाणवाक्यत्वहेत्वसिद्धेः । नांत्यः, अनेकार्थकानेकपदघटितं वाक्यप्रयोक्तुः तद्वाक्यविषययावदर्थविषयकप्रतीतेरविप्रतिपन्नत्वात् । एतेन " न चान्योर्थो न तात्पर्यविषयः" इत्यादिः " तज्ज्ञम् ब्रह्म न स्यात्" इत्यन्तो मध्यचन्द्रिकाग्रन्थः परास्तः, अनुक्तोपालम्भनत्वादिति यत्,
खण्डनं_६१
(खं. ) तत्तुच्छम्, द्वितीयपक्षस्यैवास्मदभिप्रेतत्वेन एकार्थमात्रज्ञपुरुष प्रयुक्तेषु अनेकार्थकगवक्षादिपदघटितेषु गौरस्ति, अक्षमस्ति इत्यादि वाक्येषु प्रमाणवाक्यत्वसत्वेऽपि स्वविषयादधिकविषयकज्ञानवत्प्रणीतत्वाभावस्याऽऽपामरमनुभवसिद्धत्वेन व्यभिचारानुद्धारात् । अनेकार्थकपदघटितवाक्यप्रयोक्तृणां सर्वेषामपि तद्वाक्यविषययावदर्थविषयक प्रतीतेरभावनिश्चयेनाविप्रतिपन्नत्वोक्ते राग्रहमात्र मूलत्वात् । स्वतात्पर्यविषयादधिकविषयकज्ञानदत्प्रणीतत्वं साध्यते, अनेकार्थकपदघटितवाक्य स्यतात्पर्यविषयीभूतैकद्वित्रादिरूपार्थादधिकविषयकज्ञानवत्प्रणीतत्वं वर्तते इति व्यभिचाराभावशङ्कायां वेदतात्पर्यविषयीभूतचिन्मात्रज्ञं ब्रह्मस्यात् । अतत्वे तात्पर्ये वेदस्याप्रामाण्यापत्या तत्र तात्पर्यस्य वक्तुमशक्यत्वेन अतत्त्वभूतजगज्ज्ञं ब्रह्म न स्यादित्यादिदूषणस्य चन्द्रिकाकारैरुक्तत्वात्साध्यकोटौ स्वतात्पर्यविषयादधिकविषकत्वाद्यनिवेशे व्यभिचारदोषेणैवानुमानस्य दुष्टत्वात् ॥
चन्द्रिकानुवाद:_७
(चं.) अपि च न तावदर्थमुपलभ्य रचयितृत्वं प्रणेतृत्वं, पौरुषेयत्वापातात् । नाप्यध्यापकवदुच्चारयितृत्वमात्रं तेन सार्वज्ञासिद्धेः । किञ्च स्वव्यतिरिक्तोपदेश्यपुरुषगोचरस्य भ्रमस्य भ्रान्तिसिद्धशरीरादेश्चाभावे उच्चारणायोगात् तस्य चासार्वज्ञं विनाऽसम्भवाच्छास्त्रयोनित्वमसार्वज्ञ एव हेतुरिति यदुक्तं,
रामसुब्ब_७१
(रा.) तन्न, तत्तदर्थोपलब्धिपूर्वक पूर्वपूर्वकरूपीयवर्णपदवाक्यक्रम-स्वरादिसजातीयवर्णपदवाक्यक्रमस्वरादिमत्या शास्त्रं प्रति रचयितृत्वं शास्त्रप्रणेतृत्वमिति भामती कल्पतर्वोर्देवताधिकरणे निर्णीतत्वात् मायाकार्य सर्व वस्तुविषकमायावृत्तिरूपज्ञानवत्त्वात्मकसर्वज्ञत्वस्य तत्प्रयुक्तशब्दोच्चारणस्य च मायाख्योपाधिमात्रेण निर्वाहे तदर्थं शरीराद्यनपेक्षात् । अपेक्षणेऽपि साक्षान्मायैव भगवच्छरीराकारेण वर्तत इत्यस्यार्थस्य अन्तस्तद्धर्माधिकरणभाष्ये शंकरभगवत्वादेरुक्तत्वात् । मायाकार्य सर्व विषयकमायावृत्तिरूपज्ञानत्वात्मक सार्वज्ञयवति ब्रह्मणि तदभावरूपासार्वज्ञापादानासंभवात् । तूलाविद्यापरिणामरूपवृत्तेः सिद्धान्ते भ्रमत्वांगीकारवन्मायावृत्तेस्तत्वानङ्गीकारात् । बाधितार्थविषयकत्वरूप भ्रमत्वं तु सर्ववस्त्वपरोक्षावभासरूपवृत्तेरपि इष्यत एव। न ह्येतावता जीववद्ब्रह्मणोऽपि भ्रान्तत्वं, तूलाविद्यापरिणामरूपभ्रमाख्य वृत्तिमत्वस्यैव भ्रान्तत्वप्रयोजकत्वादिति यदुक्तं,
खण्डनं_७१
(खं.) तत्तुच्छम्, तत्तदर्थोपलब्धिपूर्वकं पूर्वपूर्वकल्पीयवर्णपदवाक्यक्रमस्वरादिसजातीयवर्णपदवाक्यक्रमस्वरादिवत्तया शास्त्रं प्रति रचयितृत्वं शास्त्रप्रणोतृत्वमिति भामतीकल्पतर्वोर्देवताधिकरणेऽनुक्तत्वात्, निर्णीतत्वस्य तु दूरोत्सारितत्वात् । लोके कालिदासादिवत् अर्थोपलब्धिपूर्वकं रचयितृत्वं, अध्यापकवत् पूर्वपूर्ववाक्य सजातीय वाक्योच्चारणकर्तृत्वमिति प्रणेतृत्वं द्वेधा दृष्टम् । त्वदुक्तस्य अर्थोपलब्धिपूर्वकं पूर्वपूर्वकल्पीयेत्यादिरूपस्य प्रणेतृत्वस्य लोकविलक्षणत्वेन अप्राणिकत्वेन चाङ्गीकारानर्हत्वाच्च ।
मायायाः ईश्वररूपत्वाङ्गीकारपक्षे वा ईश्वरशरीरत्वमनङ्गीकृत्य उपाधित्वस्वीकारे वा उच्चारणादिनिर्वाहेऽपि मायाया अद्वैतभङ्गभिया कल्पितत्वस्यैवाङ्गीकार्यत्वेन मायाविषयकभ्रान्तेरपि शरीरादिभ्रान्तिवत् विशेषाज्ञाननिबन्धनत्वेन मायया शब्दोच्चारणाद्यङ्गीकर्तापि विशेषज्ञानस्यावश्यमभ्युपगमनीयत्वेन घट्टकुट्टीप्रभातन्यायेन पुनः असार्वज्ञापत्तेर्दुर्निवारत्वात् । अन्तस्तद्धर्माधिकरणशाङ्करभाष्ये तु "स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम्,
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि ॥
इति स्मरणात्" इति वाक्येन ईश्वररूपस्य मायामयत्वं प्रतिपादितम् । तदप्यत्यन्तमसङ्गतमेव । तथा हि-प्रमाणतयोदाहृतं तु वाक्यं भारत-शान्तिपर्वगम् ।
एवं स्तुतः स भगवान् गुह्यैस्तथ्यैश्च नामभि: :
तं मुनिं दर्शयामास नारदं विश्वरूपधृक् ॥
इति अध्यायप्रथम लोके एव पूर्वाध्यायेषु वर्णितानां विश्वरूपादीनां "तथ्यैर्नामभि:" इति पदेन पारमार्थिकसत्यत्वस्य कथनेन,
एवं स भगवान्देवो विश्वमूर्तिर्धरोऽव्ययः ।
एतावदुक्त्वा वचनं तत्रैवान्तर्दधे पुनः ।
इति अन्तर्धानोक्त्या च,
वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम् ।
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः ||
इति विश्वरूपस्य देवकारणत्वाव्ययत्वाद्युक्त्या च अज्ञानकल्पितत्वासम्भवात् । "माया ह्येषा मया सृष्टा" इत्यादिश्लोकस्यान्यार्थत्वात् ।
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ।
इमं देशमनुप्राप्ता मम दर्शनलालसाः ॥
न च मां ते ददृशिवे न च द्रक्ष्यति कश्चन ।
ऋते हयैकान्तिकश्रेष्ठात्त्वं चैवैकान्तिकोत्तमः ॥
इति श्लोकाभ्यां मम दर्शनं एकान्तभक्तिसाध्यमित्युक्त्वा, रूपवद्वटादिपदार्थदर्शने भक्तेरनपेक्षितत्वेन तवापि रूपवत्त्वात् त्वद्दर्शनं कुतो भक्तिसापेक्षमिति हार्दशङ्कापरिहाराय,
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ॥ ४४ ॥
इच्छन्मुहूर्तान्नश्येयं ईशोहं जगतां गुरुः ।
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ॥ ४५ ॥
इति श्लोलोकाभ्यां परमात्मा रूपवानिति घटादिवत् दृश्यत इति त्वया न विज्ञेयम् । यदि त्वत्दृष्टिविषयो न भवेयं इति इच्छा, तत्क्षण एव 'नश्येयं' अदृश्यो भवामि, अहमदर्शनविषये समर्थः सर्वजगतोऽपि गुरुः।
मां पश्यसीति यत् एषा सर्जनविषयीभूतादृशिः 'माया' इच्छाधीना किंवा मन ज्ञानाधीना इति ईश्वरदर्शनस्य ईष्वरेच्छाधीनत्वमेवोच्यते । न तु अविद्याकल्पितत्वमिति । विष्णुतत्वरहस्य विवरणग्रंथे “तवेतद्भगवच्छरीरं ज्ञानमयं न भूतगुणयुक्तम्,
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि ।"
इति मोक्षधर्मे नारदं प्रति ज्ञानमयत्वस्य भूतगुणादिशून्यत्वस्य च भगवता प्रतिपादनात् । 'माया ह्येषा' इति मायाशब्दः ज्ञानवचनः "माया वयुनं ज्ञानं" इति नैघंटुकवचनप्रामाण्यात् । न तु मायाशब्दः गुणत्रयसाम्यावस्थामूलप्रकृतिवचनः, "न तस्य प्राकृता मूर्तिः" इति भगवच्छरीरस्य प्राकृतत्वनिराकरणात्" इति वदतस्तव ईश्वरशरीरस्य अविद्याख्यमायामयत्वस्वीकरणं स्वोक्तिविरुद्धं चेति सर्वविषयकज्ञानस्यैव सार्वज्ञपदार्थतया मायाकार्य सर्व विषयकमायावृत्तिरूपज्ञानवत्त्वस्य सार्वज्ञपदार्थत्वाभावात् । स्वदीयसङ्केतमात्रस्याप्रयोजकत्वाच्च । त्वत्कल्पितशशविषाणायितसार्वज्ञाभावस्य ब्रह्मणि सिद्धत्वेन तादृशसार्वज्ञाभावस्थास्माभिरनापादनाच्च । सर्ववस्त्वपरोक्षावाभासरूपमायावृत्तेर्बाधितार्थविषयकत्वरूपभ्रमत्वमङ्गीक्रियते, परं तु तदाश्रयस्य परमात्मनः भ्रांतत्वं नाङ्गीक्रियत इति वक्तुं दृश्यतां मतिवैषम्यम्, भ्रान्तत्वं नाम भ्रान्त्याश्रयत्वं भ्रान्तिर्नाम भ्रमः, भ्रमाश्रयत्वमङ्गीकृत्य भ्रान्तत्वं नाङ्गीक्रियते इत्युक्ते में माता वन्ध्येतिवत् स्वव्याहतत्वात्। तूलाविद्यापरिणामरूपभ्रमा प्यवृत्तिरेवाप्रामाणिकी, तस्या भ्रान्तत्वप्रयोजकत्वं सुतरामप्रामाणिकमेव, पदार्थानां प्रमाणमंतरा तत्तत्पुरुषीयकल्पनामात्रेणाङ्गीकारानर्हत्वात् । अन्यथापामराङ्गीकृतानां शशविषाणादीनामप्यङ्गीकार प्रसङ्गादिति ॥
चन्द्रिकानुवाद:_८
(चं.) विवरणे तु यथा दीपगताप्रकाशनशक्तिस्तदुपादाने वह्नौ, तथा वेदगता सर्वप्रकाशनशक्तिस्तदुपादाने ब्रह्मणि, कार्योपादानयोरेकशक्तित्वादिति उक्तं तन्न कारणेऽदृष्टस्यापि शक्तिविशेषस्य कार्ये दर्शनात् । किंच त्वन्मतेऽन्धकार दहनादेरपि ब्रह्मोपादानकत्वात्तद्गताप्रकाशनदाहादिशक्तिमद्ब्रह्मस्यात् । अविद्यापि शास्त्रोपादानमिति साऽपि सर्वज्ञा स्यात् । किंच परिणामिपरिणामयोरेकशक्तित्वेपि कथमधिष्ठानाध्यस्तयोस्तत् । एतेनाधिष्ठानस्य ब्रह्मणो विज्ञानशक्तिविवर्तरूपं शास्त्रमिति निरस्तम् | अविद्याकाशादेरपि तद्विवर्तत्वेन शास्त्रवत्सर्वप्रकाशकत्वापातात् । रज्ज्वामपि भयकम्पादिशक्तेः ब्रह्मण्यप्यावरगविक्षेपादिशक्तेः प्रसङ्गाच्च । बाह्यागमानामपि ब्रह्मविवर्ततया तदर्थज्ञत्वे ब्रह्मणो भ्रान्तत्वप्रसङ्गाच्च । अपिच त्वया कार्योपादानयोरेकशक्तित्वस्योक्तत्वाद्वेदः स्वयमज्ञ एव जीवान् प्रति प्रकाशक इति ब्रह्मापि तथा स्यात् । तथा च सार्वज्ञार्थंयत्नेऽत्यन्ताज्ञत्वमेवापन्नमिति चंद्रिकोपरि,
रामसुब्ब_८१
(रा.) विवरणे 'दीपगता शक्तिः यथा तदुपादाने वह्नौ, तथा वेदगता सर्वप्रकाशनशक्तिस्तदुपादाने ब्रह्मणि, कार्योपादानयोरेकशक्तित्वात्' इति ग्रन्थे हेतुभागे कार्यपदस्य प्रकाशत्वव्याप्यधर्मावच्छिन्न कार्यमर्थ:, न तूपादेयभूतकार्यसामान्यं, एवं तद्भागे उपादानपदस्य प्रकाशत्वव्याप्यधर्मावछिन्नोपादानमर्थः, न तूपादानसामान्यं, दीपवह्नयोः प्रकाशद्रव्ययोरेव कार्योपादानयोरेकशक्तित्वविषये निदर्शनतया गृहीतत्वात् । ब्रह्मणश्च प्रकाशद्रव्यत्वं” तस्य भासा सर्वमिदं विभाति" इति श्रुतिसिद्धम् । एतेन कारणेऽदृष्टस्यापि शक्तिविशेषस्य' इत्यादि: 'ब्रह्मापि तथा स्यात्' इत्यन्तो मध्वचन्द्रिकाग्रन्थः परास्तः इति यदभिहितं,
खण्डनं_८१
( खं. ) तत्तुच्छम् । “ कार्यपदस्य प्रकाशत्वव्याप्यधर्मावच्छिन्नकार्यमर्थः, न तूपादेय भूतयार्थ सामान्यं, एवं तद्भागे उपादानपदस्य प्रकाशत्वव्याप्यधर्मावच्छिन्नोपादानमर्थः, न तूपादानसामान्यं" इत्युक्त्या ब्रह्मप्रकाशनशक्तिमत्, प्रकाशत्वव्याप्यधर्मावच्छिन्नत्वे सति प्रकाशत्वव्याप्यधर्मावच्छिन्न कार्यभूतवेदोपादनत्वात्, यत् प्रकाशत्वव्याप्यधर्मावच्छिन्नत्वे सति प्रकाशत्वव्याप्यधर्मावच्छिन्न कार्योपादानं, तत् तादृशकार्यगतशक्तिमत्, यथावह्निरित्यनुमानमभिप्रेतं भवति । तच्चायुक्तं, हेत्वप्रसिद्धेः, कार्यभूतवेदस्यार्थप्रकाशकत्वेऽपि प्रकाशरूपत्वाभावेन प्रकाशत्वव्याप्यधर्मावच्छिन्नत्वाभावात् । यथोपादानान्तराणामुपादेयगत शक्त्यभावेऽपि निर्वाह:, तथा प्रकाशरूपोपादानस्यापि प्रकाशरूपोपादेयगत शक्त्यभावेऽपि निर्वहणाप्रयोजनकत्वाच्च । अविद्याया एव परिणाम्युपादानत्वं न तु निर्विकारस्य ब्रह्मणः, किंतु विवर्तोपादानत्वमिति त्वन्मतस्थितेः । ब्रह्मणः परिणाम्युपादानत्वे यथाकथंचित् परिणममाननिष्ठशक्तेः परिणमे सद्भावशङ्कायामपि, अधिष्ठानाध्यस्तयोरेकशक्तिकत्वाङ्गीकारे रज्ज्वामपि भयकंपादिशक्तेः ब्रह्मण्यावरण विक्षेपादिशक्तेश्च प्रसङ्गाच्चेत्यादिदूषणगणानां जागरूकत्वाच्च । तथा च चन्द्रिकोक्तानां दोषाणां मध्ये एकस्याप्यपरिहारात् मध्वचन्द्रिकाग्रन्थः परास्त इत्युक्तिरुन्मादमूलैवेत्युपेक्ष्यते ॥
चन्द्रिकानुवाद:_९
(चं.) किंच जन्मादिकारणत्वेनैवोपलक्षणेनोपलक्ष्यस्वरूपसिद्धेः किं निर्विशेषत्वप्रतिकूलसार्वज्ञस्फोरणादिनेति यत्,
रामसुब्ब_९१
(रा.) तन्न, निर्विशेष स्वरूपोपलक्षक सर्व जगत्कारणत्वोपपाद्यसार्वज्ञस्यापि कारणत्ववत् निर्विशेषत्वोपलक्षकतया तत्प्रतिकूलत्वाभावादिति यत्परेणोक्तम्,
खण्डनं_९१
(खं.) तत्तुच्छं, जन्मादिकारणत्वेनैवोपलक्ष्यस्वरूप सिद्धेः किं सार्वज्ञस्फोरणेन प्रयोजनम् । न हि जगत्कारणत्वेनानुपलक्षितं किमपि सार्वज्ञेनोपलक्ष्यमाणं त्वन्मते विद्यते इति प्रथमाक्षेपस्य परिहारकथनात् । सार्वज्ञं निर्विशेषत्वप्रतिकूलमेव, सार्वज्ञरूप विशेषस्य विशेषसामान्याभाववत्त्वरूपनिर्विशेषत्वविरुद्धत्वात् । कारणत्ववदिति दृष्टान्तोपादानमप्यसङ्गतमेव । न हास्माभिः कारणत्वं निर्विशेषत्वानुकूलमित्यङ्गीकृतं, तस्यापि विशेषसामान्याभावप्रतियोगिरूपत्वेन निर्विशेषत्वप्रतिकूलत्वात् । कारणत्वादिधर्माणां मिथ्यात्वाङ्गीकारे तत्प्रतिपादवेदस्याप्रामाण्यापत्तेः । विष्णुतत्त्वरहस्यविवरणे त्वयैव ब्रह्मधर्माणां सत्यत्वस्य, ब्रह्मणः सगुणत्वस्य च निर्णीतत्वेन कारणत्वसर्वज्ञत्वादिधर्माणां मिथ्यात्वकथने स्वोक्तिविरोधापाताच्च ॥
चन्द्रिकानुवाद:_१०
(चं . ) ननु तर्हि पूर्वसूत्रोक्त्यसर्वकारणत्वाक्षेपे तत्समाधानार्थमिदमस्तु । उक्त्यं हि कल्पतरौ
अथवा वेदनित्यत्वाद्ब्रह्मणो विश्वयोनिता ।
नेति शङ्कामपाकर्तुं शास्त्रयोनित्वमुच्यते ॥
इतीति चेन्न, अस्य श्रुतीनां परस्परविरोधपरिहारेण " यावद्विकारं" इत्यादिसूत्रोक्तभिन्नत्वादिसाधारणहेतुभिर्ब्रह्मेतर सर्वानित्यत्वप्रतिपादके वियत्पादे वक्तव्यत्वात् । किं चाध्यापकेपि पूर्व पूर्व सदृशानुपूर्वीरचयितृत्वस्य भावादभिनवानुपूर्वी रचयितृत्वादेश्च ब्रह्मण्यप्यभावादध्यापकादधिकस्य शास्त्रयोनित्वस्य ब्रह्मण्यसिद्धिः । ननु बहुकालविरतसम्प्रदायस्य वेदस्य सर्गादावकस्मान्निःसरणं ब्रह्मण्यधिकमिति चेन्न, जन्मादिसूत्रेऽस्येऽत्यनेन शास्त्रस्यापि विवक्षायां घटादिकं प्रति प्रसिद्ध कर्तृत्वस्याकाशादीन् प्रतीव लौकिकप्रमाणवाक्यं प्रति प्रसिद्ध कर्तृत्वस्य शास्त्र प्रति वक्तव्यतया निःसरणावधित्वस्यानुक्तत्वेनेह तत्समर्थनायोगात् इति यत्,
रामसुब्ब_१०१
( रा . ) तन्न, अवश्यापेक्षितप्रमाणोपन्यासार्थ सूत्रे शास्त्रस्य वक्तव्यत्वे तस्मिन्नेव सूत्रे प्रमाणत्वादिति वक्तव्यस्थाने योनित्वादिति निर्देशेन वेदनित्यत्वप्रयुक्तजगत्कारणत्वासम्भवशङ्का निराकरणसम्भवे वेद नित्यत्वार्थं वियत्पादे पृथक् सूत्रं कृत्वा वेदनित्यत्वं विचार्यमित्यापादनस्य लाघवगौरवादितर्काप्रतिभासमूलत्वात् । श्रुतीनां परस्परविरोधपरिहारेणानित्यत्वं वक्तव्यं चेत् वियत्पादे सङ्गतिः स्यात् । शास्त्रनित्यत्वेन ब्रह्मणि कृत्स्नजगत्कारणत्वलक्षणासम्भव आपाद्यमाने लक्षणकथनानन्तरमेव लक्षणासम्भव परिहारस्य वक्तव्यतया तस्यात्रैव सङ्गतत्वेन वियत्वादे तत्संगतिकथनस्यात्यन्तासंगतत्वाच्च । ब्रह्मणः शास्त्रकारणत्वं च शास्त्रप्रतिपाद्य सर्वार्थपरिज्ञानपूर्वकं कल्पान्तरीयशास्त्रगतवर्णपदवाक्यक्रमस्वरार्थादिसदृशवर्णपदादिमत्त्वेन शास्त्ररचयितृत्वं न तु भारतादिकर्तृत्ववत् अपूर्ववर्णपदवावयक्रमत्वेन वेदरचयितृत्वम् । एतेन 'अध्यापक इत्यादि: मध्वचन्द्रिकाग्रन्थः परास्तः । इति यदुक्तं,
खण्डनं_१०१
ब) तत्तुच्छम् त्वन्मतरीत्या जगत्कारणत्वे प्रमाणकथनावश्यकत्वस्य एतदधिकरणोपक्रम एवोक्तत्वात् ।
शास्त्रयोनित्वादित्युदितमात्रेण वेदस्येश्वरजन्यत्वे प्रमाणोक्ति विना वेदनित्यत्वप्रयुक्तजगत्कारणत्वासम्भवशङ्कानिराकरणासम्भवाच्च । अन्यथा " आनन्दमयोभ्यासात्, अन्तस्तद्धर्मोपदेशात्" इत्यादि सूत्रेषु प्रमाणकथनं व्यर्थमापद्येत । 'आनन्दमयः अन्तस्थः' इत्येवोक्तिः स्यात् । वियदादे नित्यत्वादीश्वरकार्यत्वाभावमाशंक्य, "प्रतिज्ञाहानिरव्यतिरेकाच्छन्देभ्यः" इति त्वदीयसिद्धान्तसूत्रे आकाशोत्पतौ प्रमाणोक्तेश्च । तथा च " शास्त्रयोनित्वात् " इत्युक्त्या वेदनित्यत्वप्रयुक्तजगत्कारणत्वासम्भवशङ्ककानिवृत्तेः तदर्थं पृथक् सूत्रस्यावश्यं वक्तव्यत्वात् लाघवभ्रमवति त्वय्यैव लाघवं न तु सूत्रेष्विति । श्रुतीनां परस्परविरोधपरिहारस्यापि स्वतोऽनपेक्षितत्वेन श्रुतीनां परस्परविरोधे जगत्कारणत्वादीनामसम्भवे प्राप्ते विरोधपरिहारद्वारा वियदाद्यदीनामनित्यत्वं व्यवस्थाप्य ब्रह्मणः कारणत्वव्यवस्थापनार्थत्वात् वियदाद्यधिकरणानां वा अत्रैव समावेशः, अस्याधिकरणस्य वा तत्र समावेश इति प्रसङ्गस्य दुष्परिहारत्वात् ॥
शाङ्करबृहदारण्यभाष्यादौ शास्त्ररचयितृत्वे बुद्धिपूर्वकत्वाभावस्योक्तत्वेन शास्त्रप्रतिपाद्यसर्वार्थपरिज्ञानस्य कल्पान्तरीयशास्त्रगतवर्णपदवाक्यक्रमस्वरार्थाविसदृशवर्णपदादिमत्त्वेन शास्त्ररचयितत्वं प्रति अप्रयोजकत्वेन च शास्त्रप्रतिपाद्य सर्वार्थपरिज्ञानकार्येण शास्त्र रचयितृत्वेन अध्यापक इव ब्रह्मणि शास्त्रप्रतिपाद्य सर्वार्थविषकज्ञानानुमानस्यायोगात् । शास्त्रप्रतिपाद्यार्थपरिज्ञानपूर्वकं शास्त्ररचयितृत्वेऽङ्गीकृते पौरुषेयत्वापातापरिहारात् ॥
चन्द्रिकानुवाद:_११
(चं.) एतेनैव "अस्य महतो भूतस्य" इत्यादिवेदवाक्यं ब्रह्मणो वेदकर्तृत्वेन सर्वज्ञत्वं न साधयति, वेदस्य सापेक्षत्वप्रङ्गादिति पूर्वपक्षे, साधयति, अर्थमुपलभ्य रचयितृत्वस्याभावात्, उच्चारयितृत्वमात्रस्य च सापेक्षत्वानापादकत्वादिति परेषामधिकरणमपास्तं, "अस्य महतः" इत्यादेरनुमानरूपत्वाभावाच्चेति यदुदितं,
रामसुब्ब_१११
( रा . ) तन्न, सर्वज्ञत्वव्याप्यवेदकर्तृत्वप्रतिपादकत्वेनास्य वाक्यस्यानुमानरूपत्वे बाधकाभावादिति यत्परवचनं,
खण्डनं_१११
(खं.) तसुज्छन्, वेदस्य स्वप्रतिपाद्यवेदकर्तृत्वस्य सर्वज्ञत्वव्याव्यत्वमात्रेणानुमानरूपत्वे सर्वस्याप्यर्थस्य यत्किचिद्याप्यत्वेन सर्वस्यापि वाक्यस्यानुमानरूपत्वापत्तेः । अनुमानत्वप्रयोजक व्याप्त्यादिमल्लिङ्गविषयबोधजनकत्वस्यास्मिन् वाक्येऽभावात् ब्रह्मनिष्ठ वेदकर्तृत्वस्य उच्चारयितृत्वमात्ररूपत्वेन सर्वज्ञत्वाव्याप्यत्वात् ॥
इति अद्वैतिमते शास्त्रयोनित्वाधिकरणानुपपत्तिः
ॐ शास्त्रवोनित्वात् ॐ ॥ अत्र जगज्जन्मादिकारणत्वं किमन्यस्यापि किं वा विष्णोरेवेति चिन्ता । तदर्थं कारणत्वं किमनुमानादि विषयस्वयोग्यमुतायोग्यमिति ॥ पूर्वपक्षस्तु --
आगमादनुमानाद्वा कर्तृत्वं विष्णुभिन्नगम् ।
अतिव्याप्तमतो नैतत् विष्णोरेव स्वलक्षणम् ॥
इति । शिवो जगज्जन्मादिकर्ता सर्वज्ञत्वादिति व्यतिरेकिणा वा, महाकल्पत्वं कल्पत्वव्याप्यधर्मेण स्वाश्रयसमानजातीय कल्पवृत्त्यादिकर्तृभिन्नकर्तृकादिकार्यवद्वृत्ति, कल्पत्वव्याप्यत्वात्, अवान्तर कल्पत्ववत् इत्याद्यन्वयिना वा पाशुपताद्यागमेन वा रुद्रादीनां कारणत्वसिद्धेरतिव्याप्तं कारणत्वं न ब्रह्मलक्षणं भवितुमर्हतीति ॥
सिद्धान्तस्तु-जगत्कारणस्य शास्त्रस्य च विष्णोरेव जगत्कारणत्व प्रतिपादकत्वात् विष्णुरेव जगज्जन्मादिकारणं, न तु तथानुमीयमानोऽपि रुद्रः, रुद्रजगत्कारणत्वानुमानस्य "एको नारायण आसीन्न ब्रह्मा न च शङ्करः" इत्यागमबाधितत्वात् । केवलानुमायाः कामगामित्वेन शशादीनां विषाणित्वादौ च कर्तुं शक्यतया प्रामाण्यस्याङ्गीकर्तुमशक्यत्वाच्च । "औपनिषदः पुरुषः" इत्यादिश्रुत्या जगत्कारणे अनुमानप्रामाण्यनिषेधाच्च ।
चक्षुरादि यथाशक्तं रसगन्धादिवस्तुषु ।
अनुमापि तथाऽशक्ता धर्मब्रह्मादिवस्तुषु ||
ननु तथापि पाशुपताद्यागमेन रुद्रादीनां जगत्कारणत्वं सेत्स्यतीति चेन्न,
ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम् ।
मूलरामायणं चैव शास्त्रमित्यभिधीयते ||
यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् ।
अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत् ॥ इति स्कान्दे,
सांख्यं योगः पाशुपतं वेदारण्यकमेवच ।
इत्यादिना भारतेऽपि पाशुपतादेः अशास्त्रत्वाप्रामाण्ययोरुक्त्या तेनापि रुद्रादीनां जगत्कारणत्वसिद्धसम्भवेन अतिव्याप्त्यसम्भवाद्युक्तं जगज्जन्मादिकारणत्वं विष्णोर्लक्षणमिति चन्द्रिकोक्ताधिकरणोपरि,
रामसुब्ब_११२
( रा ) तन्न भवद्भाष्ये पदे पदे प्रमाणतयोदाहृते भागवते तृतीयचतुर्थस्कंधयोः ब्रह्मादयो यत्कृत सेतुपाला यत्कारणं विश्वमिदं हि माया । आज्ञाकरी यस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम् ॥ इत्यादिना रुद्रस्यापि जगत्कारणत्वप्रतिपादनात् इति यदुक्तं,
खण्डनं_११२
( खं) तत्तुच्छम् जन्माधिकरणे श्रीकण्ठभाष्य निराकरणप्रस्तावे विष्णुतत्त्वरहस्यविलासे च रुद्रादीनां जगत्कारणतापरतया आपाततः प्रतीयमानानां श्रुतीनां यथा ब्रह्मपरता त्वया व्यवस्थापिता, यथा ब्रह्ममीमांसाशास्त्रे सिद्धान्तानभिमतार्थपरतया प्रतीयमानानां श्रुतिस्मृत्यादीनां उपक्रमादिवशेन अन्यार्थता भाष्यकारैरुच्यते, अन्यथा मीमांसाया वैयर्थ्यप्रसङ्गात्, तथा आपाततः रुद्रकारणताप्रतिपादकतया प्रतीतमपि भागवतवाक्यं “एको रुद्रो न द्वितीयाय तस्थे" इति श्रुतिवाक्यात्,
पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः ।
प्रीते हरौ भगवति प्रीयेऽहं सचराचरः ॥
इत्यादीनां विष्णोः सर्वोतमत्वप्रतिपादकानां रुद्रवाक्यानां सत्त्वेनान्यार्थताया वर्णनीयत्वात् । एतच्छोकार्थस्तु ब्रह्मादयः यत्कृतसेतुपालाः येन हरिणा कुतं धर्मसेतुं पालयन्ति इति यत्कृत सेतुपालाः, इदं विश्वं मायया स्वेच्छया यत्कारणं हरिकारणकं रुद्रसंबंधिपिशाचचर्या तस्य हरेः आज्ञाकरी, विभूम्नः पूर्णस्य हरेः विडंबनं लोकानुकरणरूपं चरितं अहो आश्चर्यकरमिति । पद्मपुराणादौ हर्याज्ञया ईश्वरः पिशाचचर्या करोतीत्युक्तत्वात् पिशाचचर्याया रुद्रसंबंधित्वेन रूद्राज्ञाकारित्वव्यवहारायोगात् । न हि रुद्रस्य चर्या रुद्राज्ञाकरीति लोके व्यवहारो दृष्टः । तस्मात् रुद्रसंबंधिपिशाचचर्याया हर्याज्ञाकारित्वमेव युक्तम् ॥
रामसुब्ब_११३
(रा. ) किं च मध्वभाष्ये--
"साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।
इत्यारभ्य वेदपञ्चरात्रयोरैक्याभिप्रायेण पञ्चरात्रस्यैव प्रामाण्यमुक्तं इतरेषां भिन्नमतत्वं प्रदर्श्य मोक्षधर्मेष्वपि " इति ग्रन्थेन पञ्चरात्रस्य वैदिकत्वं पाशुपतादीनामवैदिकत्वमुक्तमिति प्रतीयते तन्न संगच्छते, भारतकोशे मुद्रिते अमुद्रिते दाक्षणात्ये औत्तरे वा सर्वत्र,
साङ्ख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा ।
ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥
इत्याकारमेव वचनं मोक्षधर्मे दृश्यते, न तु,
साङ्खयं योगः पाशुपतं वेदारण्यकमेव च ।
इत्याकारकम् । तथा च कोशदृश्यमानवचनरीत्या पशुपतयत् पाञ्चरात्रस्यापि वेदप्रस्थानात्प्रस्थानान्तरत्वमविशिष्टं भासते । तत्रैवं सति पञ्चरात्रस्य वैदिकत्वं पाशुपतस्यावैदिकत्वमित्यभिधानं साहसमिति यदुक्तं,
खण्डनं_११३
(खं.) तत्तुच्छम्,
वेदश्चतुर्भि: समितं कृतं मेरौ महागिरौ ।
इति मोक्षध नयनारायणीये पञ्चरात्रस्य वेदमूलकत्वस्य,
अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायम्भुवः स्वयम् ।
इति वचने वेदमूलकत्वेन संप्रतिपन्न मानवधर्मशास्त्रं प्रति पञ्चरात्रस्य मूलत्वोक्त्या पञ्चरात्रस्य वैदिकतायाः,
कथितो हरिगीतासु समासविधिकल्पितः ।
इति तदीयवचनेन भगवद्गीतामूलत्वस्य च सिद्धतायाः स्वीकारेण,
'पञ्चरात्रस्य कृत्स्नस्य वक्ता तु भगवान् स्वयम् ।
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।
एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥ ७३ ॥
इत्यादिभारतश्लोकेषु नारायणस्य पंचरात्रार्थवक्तृत्वस्य, पंचरात्रार्थज्ञानिनां मोक्षस्य च उक्तत्वेन पंचरात्रस्य प्रामाण्यसिद्धेः, पंचरात्रस्य वैदिकत्वकथनस्य साहसत्वोक्तेरुन्मादमूलत्वेनोपेक्षणीयत्वात् ॥
रामसुब्ब_११४
(रा.) उभयविधदर्शनेन तर्हि वैदिकत्वस्य संदिग्धतया तन्निश्चयायोगादिति यत्,
खण्डनं_११४
(खं.) तत्तुच्छं, निरवकाशानां पंचरात्रप्रामाण्यसाधकानामनेकेषां वाक्यानामनुसारेण तथाऽनेक लिखितपुस्तकपाठानुसारेण त्वदीयपाठस्यैव कल्पितत्वाङ्गीकारस्योचितत्वात् । अन्यथा परस्परविरुद्धार्थप्रतिपादकत्वेन भारतस्याप्रामाण्यापत्तेरित्यलं व्याहतप्रक्रियानिरासप्रपञ्चेन ॥
॥ इति शास्त्रयोनित्वाधिकरणम् ॥