परिशिष्टप्रकरणम्
अद्वैतखंडनपूर्वकचंद्रिकामंडने परिशिष्टप्रकरणम्
रामसुब्ब_०१
( रा . ) यत्तु " इदं तु बोध्यं माध्वमते ब्रह्मण इव ज्ञानानंदादि गुणैर्जीवस्यात्यंताभेदस्वीकारान्मुक्तिदशायां ज्ञानानंदादिगुणानां मुक्तस्य चाश्रयाश्रयिभावानुपपत्या ब्रह्मवन्मुक्तोपि निर्गुणः स्यात् इति ।
खण्डनं_०१
(खं. ) तन्न गुणगुणिनोरभेदपक्षे घटोपलंभे शुक्लाद्यनुपलंभार्थ, भेदाभेदपक्षे तयोरविरोधार्थं, कालः, सदास्ति, देशः सर्वत्रास्ति, इत्यबाधितव्यहारार्थं त्वदंगीकृततत्तदसाधारणस्वरूपस्यैव स्वभावविशेषापरपर्यायविशेषतयास्मदंगीकृतत्वेन तेनैव ज्ञानादिगुणाभिन्नस्यापि मुक्तस्य ज्ञानाद्याश्रयत्वरूप सगुणत्वोपपत्तेः । अपरिच्छेद्यत्वस्य ब्रह्मानन्यत्वमेव बृहधातूत्तरप्रत्ययस्यापि आश्रय एवार्थः अत्यन्ताभेदे आश्रयाश्रयिभावः "स्वे महिम्नि प्रतिष्ठित" ( छां. ७।२४।१ ) इत्यादाविव संभवतीति सित्धांते दोषाभावादिति जिज्ञासाधिकरणे अभेदेऽप्याश्रयाश्रयिभावस्य त्वया खंडनाख्यग्रंथे ९५ तमे पत्रे स्वीकृतत्वाच्च । अनुभवरूपेपि मुक्ते अनुभवितृस्वरूपगुणाश्रयत्वस्य "एवं मुक्तस्य निरतिशयानंदाविद्यानिवत्युपलक्षित-शुद्धचित्घनकैवल्यरूपात्मरूपत्ववत् उक्तकैवल्यरूपात्मानुभवितृत्वमपि भाष्यकृदभिमतं न तु मूककल्पं आनंदानुभवितृत्वशून्यं कैवल्यात्मकानंदत्वं यथासौ सविता सहस्रयुगपर्यंतं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति यथा च वर्तमाना ब्रह्मविदः आरब्धभोगक्षये कैवल्यमनुभवति इति यावदधिकाराधिकरणभाष्यप्रामाण्यात् ननु निर्दुःखनिरतिशयानंदात्मककैवल्यस्य तदनुभवस्य मुक्तस्यात्यंताभेदात् । स्वरूपातिरिक्तस्य कैवल्यानुभोगसाधनस्याभावाच्च तादृशकैवल्यानुभवितृत्वं मुक्तस्य न संभवतीति चेन्न " स्वयमेवात्मनात्मानं वेत्थत्वं पुरुषोत्तम" इति गीतातद्भाष्ययोरेकस्येव स्ववेतृत्व, स्ववेद्यत्व, स्ववेदन साधनत्यनिर्देशदर्शनेन प्रकृतेपि तथा संभवात् कर्मकर्तव्यपदेशाच्चेति सूत्रं तु ज्ञानाक्रियाव्यतिरिक्त क्रियानिरूपितकर्तृकर्मणोर्भेदपरं अन्यथोदाहृतगीतातद्भाष्यविरोधापत्तेरित्यलमिति त्वत्कृतशांकरभाष्यगांभीर्य नि. र्णयाख्यग्रंथे उपपादितत्वाच्च । नहि द्रष्टृर्द्ष्टेविपरिलोपोविद्यते ( ब. ४- ३ - २३ ) इत्युपनिषद्व्याख्यानावसरे "तथायमप्यात्मा" विपरिलुप्तया स्वभावया दृष्ट्या नित्यदृष्टेत्युच्यत इति ज्ञानस्वभावस्यापि ज्ञानाश्रयत्वव्यवहारस्य शांकरभाष्ये स्वीकृतत्वाच्च । अद्वैत सित्धावपि कालः सदाऽस्ति इत्यादिव्यवहारस्य स्वभावविशेषरूपास्मदंगीकृतविशेषेण निर्वाहस्योक्तत्वाच्च । यत्तु विशेषस्यांगीकारेणास्मन्मत ( श्रीमन्मध्वमत) प्रवेशमाशंक्य तत्तदसाधारणस्वरूपस्यैव स्वभावविशेषशब्दार्थत्वेन त्वदुक्तविशेषानुक्तेरिति अस्मदंगीकृतविशेषास्वीकारकथनं तत् अस्मत्सिद्धांताज्ञानविजृमितमेवेति उपेक्षणीयमेव । एतेन धर्मरूपस्य भवत्कल्पितविशेषस्य " एवं धर्मानि"ति श्रुत्या जीवात् पृथक्त्वासिध्या जीवाभिन्नतया जीवस्वरूप वदेवाश्रयाश्रयिभावव्यहाराप्रयोजकत्वादित्येतन्निरस्तं त्वम्मत इव तत्तदसाधारणस्वरूपापरपर्यायविशेषेणैव व्यवहार निर्वाहोपपत्तेः । " एवं धर्मानिति" श्रुतेर्जीव विषयत्वाभावाच्च ॥ न च "एवंधर्मानिति" श्रुतेर्जीवविषयत्वाभावे आनंदादिगुणानां जीवेनाभेदे प्रमाणाभाव इति वाच्यम् । "योविज्ञाने तिष्ठन् (बु) बलमानंद ओजश्च सहोज्ञानमनाकुलं । स्वरूपाण्येव जीवस्य व्यज्यते परमाद्विभोः प्रज्ञान घनः " (बु) इत्यादि श्रुति-स्मृतिभिर्ज्ञानादीनां जीवस्वरूपत्वावगतेः ।
एतेन "
रामसुब्ब_०२
( रा ) किंच तन्मते आनंदानुभवितृत्वानुपपत्तिः आनंदानुभवरूपधर्म प्रति मुक्तस्याश्रयत्वाभावात् मध्वमते आनंदानुभवस्य मुक्तरूपत्वस्वीकारादित्युक्तं प्रत्युक्तम् ।
खण्डनं_०२
(खं.) "स्वे महिम्नि प्रतिष्ठितः " ( ) इत्यादाविव विशेष बलादेव अभेदेपि आश्रयाश्रयिभावोपपत्तेरुक्तत्वात् । आनंदानुभवरूपेपि मुक्ते आनंदानुभवाश्रयत्वरूपानंदानुभवितृत्वस्य त्वयैव शांकरभाष्यगांभीर्य निर्णयाख्यग्रंथे अंगीकृतत्वेन आनंदानुभवितृत्वानुपपत्युक्तेः स्वव्याघातकरत्वाच्च ।"
रामसुब्ब_०३
रा.) यदुक्तं, " न च वृत्तिज्ञानस्य जीवाद्भिन्नतया तस्य मोक्षदशायां आनंदानुभवरूपत्वं स्वीकृत्य तदाश्रयत्वरूपानंदानुभवितृत्वमुपपादनीयमिति वाच्यं । वृत्तिज्ञानस्य मनः परिणामत्वेन मुक्तौ मनोनाशेन वृत्तिज्ञानासंभवस्य भवद्भिरेवोक्तत्वात् प्रमातृस्वरूपज्ञानस्यैव भवद्भिस्तदंगीकारादिति
खण्डनं_०३
(खं.) तन्न अनुक्तोपालंभनत्वेनोपेक्षणीयत्वात्
रामसुब्ब_०४
(रा.) यत्तु किंच माध्वमते मुक्तानां तारतम्योक्तिरप्ययुक्ता किं तत् तारतम्यं प्रस्थमितव्रीह्याढकपरिमितव्रीह्योरिव संख्यातारतम्यकृतं ? उत शौर्यपराक्रमगुणद्वययुक्त देवदत्तशौर्यपराक्रमगांभीर्यादिगुणयुक्त विष्णु-मित्रयोरिव गुणतारतम्यकृतं ? आहोस्वित् कपालघटयोरिव परिमाणतारतम्यकृतं ? अथवा घटपटयोरिव स्वरूपकृतं ? | नाद्यः मुक्तानां प्रत्येकमेकत्वसंख्याश्रयत्वात् । न द्वितीयः मुक्तानां भवद्रीत्या आनंदादिगुणात्यंताभिन्नतया निर्गुणत्वात् । न तृतीयः मुक्तानां प्रत्येकमणुत्वेन परिमाणतारतम्याभावात् । न चतुर्थः तस्य परस्परभेदरूपत्वेन तस्मिन् तारतम्यव्यवहारासिद्धे: । सर्वैरपि मुक्तानां परस्परभेदस्य स्वीकृतत्वेन तत्साधनवैफल्याच्चेति ।
खण्डनं_०४
(खं.) तन्न आनंदादिगुणाभिन्नस्यापि मुक्तस्यानंदाश्रयत्वरूपसगुणत्वस्योपपादित्वेन द्वितीयपक्षस्यादुष्टत्वात् इतरपक्षाणां चानंगीकारपराहतस्वात् । मुक्तानां परस्परभेदस्य त्वयैवानंगीकृतत्वेन 'सर्वैरपि मुक्तानां परस्परभेदस्य स्वीकृतत्वेन तत्साधनवैफल्याच्चेति' चतुर्थपक्षोक्तदोषस्यात्यंतासंगतेश्च ।
रामसुब्ब_०५
(रा.) इक्षुक्षीरगुडादिरसानां मधुरमधुरतरमधुरतमानामिव-मुक्तजीवस्वरूपाणां तारतम्यमाशंक्य उक्तरसानां मध्ये यस्य क्षीरप्रियस्य क्षीररसे मधुरतमत्वबुद्धि: तत्र तु अन्यस्य मधुरत्वबुद्धि: इत्याद्यनुभव-सिद्धं तथाच तेषु मधुरत्वमधुरतरत्वमधुरतमत्वानां अनियततया स्वरूपतारतम्यनियमाभावेन तदृष्टांतबलेन मुक्तानंदनियमस्य वक्तुमशक्यत्वादिति यदधूषणमुक्तं
खण्डनं_०५
(खं. ) तन्न यथेक्षुरसेष्वेवैकोमधुरः एको मधुरतर एको मधुरतमः यथा वा समानपरिमाणेष्वपि दीपेषु एकः प्रकाशतरः एकः प्रकाशतमः यथा वा समपरिमाणेष्वेव रत्नेषु एकः प्रकाशतरः एकः प्रकाशतम यथा वा क्षीरेषु एकं क्षीरं मधुरं अपरं मधुरतरं अन्यच्च मधुरतममित्येकस्यैव पुरुषस्यानुभवसिद्धमित्येकजातीयेष्वेव मधुरमधुरतरमधुरतमत्वादीनां नियततया तद्दृष्टांतबलेन मुक्तानामानंदादिनियमस्य वक्तुं शक्यत्वात्
रामसुब्ब_०६
( रा . ) यत्तु किंच माध्वमते "तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनंदः । ते ये शतं मानुषा आनंदाः । स एको-मनुष्यगंधर्वाणामानंदः" इत्यादिश्रुतौ " श्रोत्रियस्य चाकामहतस्य" इति प्रतिपर्यायमकामहतशब्देन तत्तन्मुक्तं गृहीत्वा आनंदतारतम्यं बोध्यते इत्येतदनुपपन्नं एकमेवमुक्तं तत्तत्पर्यायवगताकामहतशब्देनानूद्य तस्य तत्तत्पर्यायोक्तानां मनुष्यादारभ्य हिरण्यगर्भपर्यंतं मुक्तानंदानां बोधनेन मुक्तभेदेनानंदभेदस्य तच्छूत्या स्वरसतः प्रतीत्यभावात् इति ।
खण्डनं_०६
( खं . ) तन्न श्रोत्रियस्य अकामहतस्येति विशेषणद्वयस्य वचनव्यत्यासेन मनुष्यगंधर्वादिभिरन्वये ताभ्यां तेषां मुक्तत्वप्रतीत्या मुक्तमनुष्यानंदापेक्षया मुक्तमनुष्यगंधर्वानंदस्य शतगुणितत्वं एवं मुक्तमनुष्यगंधर्वापेक्षया मुक्तदेवगंधर्वानंदस्य शतगुणितत्वमित्येवं अन्यान्यमुक्तनां चतुर्मुखपर्यंतानां बोधनेन मुक्तभेदेनानंदभेदस्य तच्छूत्या प्रतीतेरविकलत्वात् अन्यार्थस्यासंभवाच्च ।
रामसुब्ब_०७
( रा . ) यत्तु वस्तुवस्तु नेयं श्रुतिर्मुक्तविषया तस्मिन्नबद्धजीवत्वव्याप्य श्रोत्रियत्वधर्मादिभावात् शतगुणितप्रकृतानंदस्य तत्तत्कामहतश्रोत्रिये असंभवात् अकामहतत्वं विशेषणं जडस्य घटादेरेव स्वतोsकामहतत्वात् तत्रानंदाप्रसक्त्या श्रोत्रियत्वविशेषणं अकामहतत्व समुचितं श्रोत्रियत्वमेवोक्तशतगुणनंदस्य प्रयोजकमिति सिध्यर्थं श्रोत्रियत्वाकामहतत्वयोस्समुच्चयार्थश्चकार इति ।
खण्डनं_०७
(खं . ) तत्र कामहतत्वं नाम तत्तत्कामनायां जातायां तद्विषयालाभप्रयुक्तत्र्यथावत्वं तदभावः अकामहतत्वं किंवा तृष्णा (कामा ) भावः एतदुभयात्मकाकामहतत्वस्य बदध्जीवसंसारिणि काम्यमानवस्तुनः अलाभेन कामानामवर्जनीयत्वेन च असंभवेन बृहदारण्योपनिषदि आनंदतारतम्यप्रकरण एव श्रोत्रियोऽवृजिनोऽकामहत इति अवृजिनत्व विशेषेण " साधु युवाध्यायक" इति श्रोत्रियत्वावृजिनत्वे गृह्येते इति तैत्तिरीयशांकरभाष्ये श्रोत्रियत्वावृजिनत्वे द्वे (१०) इति सुरेश्वरकृततैत्तिरीयभाष्यवार्तिकेपि अस्मिन्नपि प्रकरणे अवृजिनत्वं स्वीकर्तव्यमित्युक्तत्वेन च अवृजिनत्वस्यापि अकामहतत्वादिवत् विशेषणत्वावगतेः सर्वपापाभावार्थकावृजिनत्व विशेषणस्य बद्धजीवे कथंचिदपि असंभवेन च अवृजिनत्वादिविशेषणानां मुक्तत्वव्याप्यतया बद्धजीवत्वविरोधितया चास्याः श्रुतेर्मुक्तविषयत्वात् शतगुणितप्रकृतानंदस्य तत्तत्कामहतश्रोत्रियेऽसंभवात् अकामहतत्व विशेषण' मिति वाक्येन श्रोत्रियत्वस्यैव शतगुणितप्रकृतानंदप्रयोजकत्वांगीकारे तत्तत्कामहतश्रोत्रियस्यापि तत्तदानंदप्रसंगवारणार्थं अकामहतत्व विशेषणमिति प्रयोजनकथनमसंगतमेव इंद्रराजादिपदकामनारहितश्रोत्रियस्यापि इंद्रराजादिसंबंधिसुखानुभवस्यादर्शनेन तद्विपरीतदर्शनेन च अकामहतत्वसंहितश्रोत्रियत्वस्य उक्तशतगुणानंदं प्रति प्रयोजकत्वासंभवात् ।
रामसुब्ब_०८
( रा . ) " अक्षण्वंतः कर्णवंतः सखायो मनोजवेष्वसमा बभूवुः ' (ऋ. ८-२-२४) इति श्रुतौ मनोजवशब्दितमोक्षहेतु ब्रह्मोपासनानां तारतम्यकथनेन तत्साध्यमुक्तावपि तारतम्यमस्तीति प्रतीयत इति अस्म् दुक्त मित्याशंक्य मनोजवशब्दस्य मनोवेगपरत्वेन मोक्षहेतु ब्रह्मोपासनपरत्वस्य विनाकारणमभ्युपगंतुमशक्यत्वादिति यदुक्तं दूषणम् ।
खण्डनं_०८
(खं . ) तन्न मनोजवाः प्रज्ञाद्यास्तेष्वसमाः अतुल्या बभूवुः - भवंतीति अतुल्यत्वमुक्त्वा आदध्नासः उपकक्षासः स्नात्वा-हृदा इत्यादिपदेन केषांचित् मध्यमप्रज्ञत्वं केषांचित् अल्पप्रज्ञत्वं केषांचित् महाज्ञानित्वं उक्तमिति वेदभाष्यकारेणापि व्याख्यातत्वेन उपासनायाज्ञानरूपत्वेन अस्याः श्रुतेरूपासना तारतम्यबोधनपरत्वस्य निर्विवादत्वेन मनोवेगपरत्वकथनस्य वेदभाष्याद्यनवलोकन निमित्तत्वात् प्रकृतेः मनोवेगरूपार्थस्य अनुपयुक्तत्वाच्च ।
रामसुब्ब_०९
( रा . ) किंच माध्वमते मुक्तेश्वरावुभावप्यप्यंधौ निर्गुणत्वेन दर्शन-रहितत्वात् उभावपि समौ न्यूनाधिक भाव समर्प कगुणरहितत्वात् । न चेश्वरस्य महत्वं मुक्तस्याणुत्वमित्यसाम्वमिति वाच्यं । तन्मते महत्वस्यापि ब्रह्मात्यंत्ताभिन्नतया ब्रह्मरूपत्वात् अणुत्वस्यापि मुक्ताभिन्नतया तद्रूपत्वात् महत्वाणुत्वयोरेव तयोरभावात् साम्यापत्तेर निवार्यत्वादिति ।
खण्डनं_०९
( खं . ) तन्न मुक्तेश्वरयोरुभयोरपि आनंदानुभवितृत्वादिरूपगुणवत्वस्य साधितत्वेन त्वयाप्यंगीकृतत्वेन च निर्गुणत्वाभावात् । "सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ( पुरु. ) यदात्मको भगवान् तदात्मिका व्यक्तिः किमात्मको भगवान् ज्ञानात्मकः शक्त्यात्मकः ऐश्वर्यात्मक " इत्यादिश्रुत्या ईश्वरस्य " स तत्र पर्येति जक्षन् क्रीडन् रममाणः" ( छां०) "एतत्सामगायन्नास्ते" ( तै० ) इत्यादिश्रुत्या मुक्तजीवस्य इंद्रियवत्वोक्तेर्दर्शनत्वस्योपपादितत्वाच्च । सर्वज्ञत्वा सर्वज्ञत्वाल्पशक्तिपूर्णशक्त्यादिभिविशेषत्वेन मुक्तेश्वरौ न सर्वांशेन समौ अणुत्वमहत्वयोर्जीवेश्वराभिन्नत्वेपि विशेषबलेन जीवेश्वरधर्मतया ताभ्यामपि विशेषवत्वसंभवात् । इदं तु बोध्यं संकरमते एव ब्रह्मणो निर्गुणत्वेन अंधत्वं (न) खरेश्वरयोरुपहितचैतन्यत्वेन साम्यं ईश्वरः खरचैतन्याभिन्नश्च । संकराभिमतब्रह्मणः 'निविशेषं स्वयंभातं निर्लेपमजरामरं । शून्यं तत्वमविज्ञेयं मनोवाचामगोचरं इत्यादि बौद्धाभिमतशून्यलक्षणोपेतत्वेन शून्याभेदः शून्यवाद्यभिमतस्य जगतः अज्ञानकल्पितत्वस्य शून्यापरपर्याय ब्रह्मज्ञाननिवर्त्यत्त्वस्य अहं तुच्छं अहं ब्रह्मेत्यादिशून्यापरपर्याय ब्रह्मैक्योपासनायास्तया च ब्रह्मापरपर्यायशून्यभावरूपमोक्षस्य च शून्यवाद्यभिमतव्यावहारिक सत्वादीनां चांगीकृतत्वेन मायावादी शून्यवाद्यभिन्नश्चेति ।
रामसुब्ब_१०
(रा.) किंच जगत्स्रष्टृत्वगुणः ब्रह्मत्यंताभिन्न इति तैः स्वीकृतः स चानुपपन्नः । " तत्तेजोऽसृजते " ति स्रष्टृत्वस्यागंतुकत्वोक्त्या नित्य सिद्धब्रह्मरूपत्वासंभवात् इति यदुक्तं ।
खण्डनं_१०
तन्न नित्यप्रकाशरूपस्यापि सवितुः "सविता प्रकाशते " इति व्यवहारविषयत्वात् जगत्सर्जनक्रियारूप ( जगत्स्रष्टृत्वरूप ) स्यापि ब्रह्मणः क्रियायाः व्यक्त्यभिप्रायेण " तत् (ब्रह्म) तेजोसृजत" इति व्यवहारविषयत्वसंभवेन तादृशव्यवहारस्य सूर्यप्रकाशस्येव सर्जनक्रियारूपस्रष्टृत्वस्य आगंतुकत्वाज्ञापकत्वात् । स्वीकृतं हि शंकरेणापि "यद्वै तन्नपश्यति पश्यन् वै न पश्यति" (बु) इत्यूपनिषद्व्याख्यानावसरे " यथादित्यादयोनित्यप्रकाशस्वभावा एव संतः स्वाभाविकेन नित्येनैव प्रकाशेन प्रकाशयंति न ह्यप्रकाशात्मनः संतः प्रकाशं कुर्वत प्रकाशयंतीत्युच्यते किं तर्हि स्वभावेनैव नित्येन प्रकाशेन तथायमप्यात्मा अविलुप्तस्वभावया दृष्टया नित्यया द्रष्टेत्युच्यते इति नित्यज्ञानस्वरूपस्यापि द्रष्टा इत्यादिव्यवहारविषयत्वं तादृशव्यवहारस्य ज्ञानसंबंध्यागंतुकत्वाज्ञापकत्वं च ।
रामसुब्ब_११
( रा.) स्रष्टृत्वस्याभिव्यक्त्यात्मना आगंतुकत्वं शक्त्यात्मना ब्रह्मस्वरूपत्वामित्याशंक्याभिव्यक्त्यात्मकस्य स्रष्टृत्वस्य ब्रह्मभिन्नत्वे 'एवं धर्मानि" ति श्रुतिविरोधापत्या तदभिन्नत्वस्यावश्यकतया आगंतुकत्वोक्तिविरोधतादवस्थ्यात् आगंतुक व्यक्त्यात्मकस्रष्टृत्वात्यंताभिन्न तया ब्रह्मणोप्यागंतुकत्वापत्तेश्चेति तद्दूषणमुक्तम् ।
खण्डनं_११
खं.) तन्न अभिव्यक्त्यात्मकस्यापि स्रष्टृत्वस्य अनागंतुकत्वाभ्युपगमात् अभिन्नस्यापि विशेषबलेन शक्तिव्यक्तिरूपत्वोपपत्तेः ।
रामसुब्ब_१२
( रा . ) न च विशेषस्यापि पूर्वोक्तरीत्या ब्रह्मात्यंताभिन्नतया घट्टकुट्टीप्रभातापत्तिरिति वाच्यम् ।
खण्डनं_१२
(खं . ) कालः सदास्ति इत्यादि व्यवहारनिर्वाहार्थं अद्वैत सिद्धिकार त्वदाद्यद्वैत्यंगीकृततत्तदसाधारणवस्तुस्वरूपापरपर्यायवस्तुस्वभावविशेषस्यास्माभिविशेषतयांगीकृतत्वेन विशेषांगीकारपक्षे प्राप्तदोषाभासानां उभाभ्यां स्वनिर्वाहकतया समाधेयत्वात् ।
रामसुब्ब_१३
( रा . ) यत्तु किंच द्युभ्वाद्यधिकरणादिषु चतनाचेतनात्मक सर्वजगदाधारत्वस्य ब्रह्मणि भवद्भाष्य एव कथितत्वात् कृत्स्नस्यापि जगतोब्रह्माश्रितत्वेन ब्रह्मधर्मतया "एवं धर्मान्" इति श्रुत्या ब्रह्मनिरूपितपृथग्धर्मत्वनिषेधेन ब्रह्मात्यंताभिन्नत्वात् जीवब्रह्मजडानामद्वैतापत्तिः । माध्वानां द्वैतिनइति शब्दश्च निरर्थकः स्यात् । उक्तरीत्या तन्मते जडस्य ब्रहृणो जीवस्य चात्यंताभिन्नतया भेदरूपविषयासिद्धेरित्यलमिति ।
खण्डनं_१३
( खं) तन्न चेतनाचेतनात्मक सर्वजगदाधारत्वस्य ब्रह्मधर्मत्वेन ब्रह्माभिन्नत्वेपि जगतः ब्रह्मधर्मत्वाभावेन ब्रह्मस्वरूपत्वाप्राप्तेः । न च जगतो ब्रह्माश्रितत्वात् ब्रह्मधर्मत्वमिति वाच्यम् । तथा सति घटोपि त्वदाश्रितः पटोपि त्वदाश्रित इति तयोरपि त्वत्धर्मत्वं स्यात् । यावत्धर्माणां धर्म्यभिन्नत्वानंगीकाराच्च
रामसुब्ब_१४
( रा . ) यत्तु मध्व माध्वभाष्यजिज्ञासाधिकरणे "स्त्रीशूद्रब्रह्मबंधूनां तंत्रज्ञानेऽधिकारिता" इति व्योमसंहितायामित्यस्ति । तत्र तंत्रं-पंचरात्रादि इति जयतीर्थटीका तेन पंचरात्ररूपतंत्रोक्तज्ञाने स्त्रीशूद्रद्विजाभासानामधिकारः न तु द्विजश्रेष्ठानां शिष्टानामिति स्पष्टं प्रतीयते इति ।
खण्डनं_१४
(खं . ) तन्न स्त्रीशूद्र ब्रह्मबंधूनां त्रयी न श्रुतिगोचरा । इति भारतमाख्यानं कृपया मुनिनोदितं । इत्यादौ शूद्रादीनां वेदाधिकाराभावात् भारत निर्माणम् कृतमित्येतावन्मात्रेण द्विजश्रेष्ठानां भारतादौ नाधिकार इत्यस्येव स्त्रीशूद्रद्विजाभासानां तंत्र शब्दितपंचरात्रादिज्ञानेऽधिकारकथनेऽपि द्विजश्रेष्ठानां शिष्टानां नाधिकार इत्यस्यासित्धेः । किंच " तंत्रज्ञानेऽधिकारिता । एकदेशे परोक्ते तु न ग्रंथपुरस्सरे" इति तस्मिन्नेव वाक्ये 'परोक्ते' इति पदेन परान् प्रति स्त्रीशूद्रद्विजाभासातिरिक्तान् द्विजश्रेष्ठान शिष्यान् प्रति उक्ते स्त्रीशूद्रादीनां श्रवणेऽधिकारः न तु साक्षात् स्वान् प्रति उक्त इति कथनेन द्विजश्रेष्ठानामधिकारो व्योमसंहितावचनेनैव गम्यत इति द्विजश्रेष्ठानामधिकाराभावप्राप्तिरिति कथनस्य व्योम संहितावाक्यार्थाज्ञानविजृंभितत्वाच्च ।
रामसुब्ब_१५
(रा.) यत्तु मध्वभाष्ये तदंतरप्रतिपत्त्यधिकरणे 'भूतबंधस्तु संसारो मुक्तिस्तेभ्यो विमोचनं' इति वाराहे इति ग्रंथेन भूतबंधस्य संसाराख्यबंधत्वमुक्तं | आनंदमयाधिकरणे प्रमादात्मकत्वाद्बंधस्य विमुक्तत्वं च युज्यते' इति मध्वभाष्येण भूतसंबंधरूपबंधस्य प्रमादात्मकत्वमुक्तं । तत्र तत्वप्रकाशिका तद्गतबंधस्याज्ञानमूलत्वेनास्वाभाविकत्वात् अस्वाभाविके चाविद्यमानपदप्रयोगादिति भावः इति तथाचाद्वैतिवद्बंधरूपसंसारस्याज्ञानमूलत्वं 'स्वीकृतवान्' माध्वः किमित्यद्वं तिनं द्वेष्टीति ।
खण्डनं_१५
( खं) तन्न सर्वप्रमाणविरुद्धानां जीव ब्रह्माभेद ब्रह्मनिर्गुणत्व, जगन्मिथ्यात्व, स्वाप्नपदार्थ मिथ्यात्व ब्रह्मवाच्यत्व, सत्तात्रैविध्य, ब्राह्मण्याद्यारोप, संध्यायज्ञादिवेदविहितक्रियाकर्तृत्वाभावादीनां प्रत्यक्षानुमानवेदाद्यागमानां अतत्वावेदकत्वलक्षणाप्रामाण्यस्य चास्मदनंगीकृतानां अद्वैतिभिरंगीकारेण प्रमाणविरुद्ध वक्तृषु चार्वाकसौगतादिष्विव द्वेषस्य न्याय्यत्वात् । सत्यरूप भूतबंधस्य सत्यभूताज्ञानस्थित्यधीनस्थितिकत्वरूपाज्ञानमूलत्वांगीकारेपि अद्वैतिवत् बंधस्य मिथ्यात्व मिथ्याभूताज्ञानोपादानत्वादीनामनंगीकारेण बंधस्याज्ञानमूलत्वमिति शब्दश्रवणमात्रेण साम्योपपादनस्य अद्वैतिषु तत्प्रयुक्तद्वेष्यत्वाक्षेपस्य च स्वपरमताज्ञानविजृंभितत्वाच्च । यद्यपि शांकरभाष्यगांभीर्य निर्णयाख्ये स्वकृतग्रंथे रामसुब्बशास्त्रिणा मायायास्तत्प्रयुक्तपदार्थानां च विद्यया नाशोनास्ति किंतु कर्तृत्वभोक्तृत्वादीनामेव नाश इति शांकराभिप्राय इत्यवोचि । केषांचित्सत्यानामपि अध्यस्तत्वांगीकाराद्वेषस्यापरिहारात् । ब्रह्मातिरिक्तनाश्यपदार्थांगीकारेण अद्वैतमतहानेरपसित्धांतापत्तेश्च ।
रामसुब्ब_१६
( रा . ) यत्तु " असंभवस्तु सतोऽनुपपत्तेः" इति सूत्रेमध्वभाष्यतट्टीकयोः सत इति पदं ब्रह्मासाधारणमित्यंगीकृतत्वाज्जगति सद्विलक्षणत्वमंगीकृतप्रायं "असद्व्यपदेशान्नेतिचेन्न धर्मांतरेण वाक्यशेषात् " इति सूत्रे भाष्यटीकयोरसत्वनिराकरणेन जगति असद्वैलक्षण्यं स्वीकृतं तन्मतप्रविष्टास्तु अद्वैत्यंगीकृत सदसद्विलक्षणत्वमिथ्यात्वमाक्षिपंति । स्वभाष्यटीकाज्ञानादिति ।
खण्डनं_१६
(खं.) तन्न अद्वैतिमते हि जगति सद्विलक्षणत्वं नाम सत्वावच्छिन्नप्रतियोगिताकभेदो वा, सत्वत्वाच्छिन्नप्रतियोगिताकाभावो वांगीकृतः । अस्माभिस्तु सतां बहुत्वात् सदंतर प्रतियोगिकभेद एव स्वीकृतः न तु सत्वत्वावच्छिन्नप्रतियोगिताकाभावः । एवमसद्विलक्षणत्वं नाम प्रतिपन्नोपाधौ त्रैकालिक निषेधप्रतियोगितारूपासद्वैलक्षण्यं तत्ववादिभिरस्माभिरंगीकृतं । अद्वैतिभिस्तु जगतः प्रतिपन्नोपाधौ त्रैकालिक निषेधप्रतियोगित्वांगीकारात् । तादृशनिषेधप्रतियोगिवैलक्षण्यं नांगीकृतं किंतु निरुपाख्यादिरूपासद्वैलक्षण्यमंगीकृतं तत्तु द्वैतवादिभिर्नागीकृतं जगत् असन्नेति असद्विलक्षणज्ञानार्थं प्रतियोगितया असत्ज्ञानस्यावश्यकत्वेनासतः प्रतीतिविषयत्वस्यैवांगीकारात् । एवमाद्यत्यंत वैलक्षण्यात् श्रीमन्मध्वमतप्रविष्टकर्तृकाद्वैत्यंगीकृत सदसद्विलक्षणत्वरूपमिथ्यात्याक्षेपस्य स्वभाष्यटीकाज्ञानादित्युक्तेः । रामसुब्बाशास्त्रिण एव स्वपरभाष्यटीकाद्यज्ञानव्यापकत्वात् । अनुव्याख्यानसुधादिग्रन्थेषु अद्वैत्यभिमतसदसद्वैलक्षण्यस्य निपुणतरं स्पष्टं दूषितत्वेन तन्मतप्रविष्टास्त्वित्यादिना तेषामद्वैत्यभिमतसदसद्वैलक्षण्यानुमोदनाविष्करणस्यात्यंतमसमंजसत्वाच्च ।
रामसुब्ब_१७
( रा . ) मध्त्रध्वमते सच्छन्दः स्वतंत्रपरः जगति च स्वातंत्र्याभावेन स्वतंत्र विलक्षणत्वमास्तां न तावता अद्वैत्यभिमतसद्विलक्षणत्वघंटितमिथ्यात्वं माध्वाभिमतमित्याशंक्य अद्वैतभाष्ये वाक्यान्वयाधिकरणे यो हि ब्रह्मक्षत्रादिकं जगत् आत्मनोऽन्यत्र स्वातंत्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शनं तदेव मिथ्यादृष्टं जगत् पराकारोति, इति ग्रंथेन ब्रह्मण्येव स्वातंत्र्यस्य जगति तदभावस्य जगति स्वतंत्र विलक्षणत्वादर्शनप्रयुक्तस्वातंत्र्यदर्शने मिथ्यादर्शनत्वस्य च कथनेनाद्वैत्यभिमतमिथ्यात्वस्य मध्वांगीकृतत्वे विवादासंगतेरिति समाधानमुक्तम् ।
खण्डनं_१७
(खं . ) तन्न यदि वाक्यान्वयाधिकरणीयशांकरभाष्येण जगतः सत्यत्वं ईश्वरस्य स्वातंत्र्यादिकमद्वैत्यभिमतमिति सिध्येत् तदा अस्मदंगीकृतं जगतः सत्वं परमात्मनः स्वातंत्र्यं अद्वैतिभिरेवांगीकृतं न तु अद्वैत्यंगीकृत प्रतिपन्नोपाधौ त्रैकालिक निषेधप्रतियोगित्वादिरूपमिथ्यात्वं द्वैतिभिरंगीकृतमिति अद्वैतिनामेव द्वैतमतप्रवेशः । न तु द्वैतिनामद्वैति मतप्रवेश इति फल्गुविवादं न कुर्मः । परमात्मनः स्वातंत्र्य सर्वोत्तमत्वादीनां जगतः सत्यत्वादीनां अस्मदभिमतानां सित्धेश्च । परंतु वाक्यान्वयाधिकरणीयशांकरभाष्येण तदसिद्धेर्विवादस्य संगतत्वात् । तथाहि वाक्यान्वयाधिकरणीयशांकरभाष्यं तु " यत्कारणमात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानंतरेण ग्रंथेन तदेवोपपादयति "ब्रह्म तं परादाद्योन्यत्रात्मनो ब्रह्म वेद" इत्यादिना यो हि ब्रह्म क्षत्रादिकं जगत् आत्मनोन्यत्र स्वातंत्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्म क्षत्रादिकं जगत् पराकरोतीति भेददृष्टिमपोद्य " इदं सर्वं यदयमात्मा" इति सर्वस्य वस्तुजातस्य आत्माव्यतिरेकत्वमवतारयतीति अत्र यद्यपि आत्मनोन्यत्र स्वातंत्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शनं तदेव मिथ्या दृष्टं ब्रह्म क्षत्रादिकं जगत् पराकरोतीति भेददृष्टिमपोद्य "इदं सर्वंयदयमात्मा" इति सर्वस्य वस्तु जातस्य आत्माव्यतिरेकत्वमवतारयतीति अत्र यद्यपि आत्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यतीति वाक्येन झटिति जगत: सत्वेपि स्वातंत्र्याभावमात्रं प्रतीयते तथापि 'भेददृष्टिमपोद्य' "इदं सर्वं यदयमात्म" इति सर्वस्य वस्तुजातस्य आत्माव्यतिरेकत्वमवतारयति इति उत्तरवाक्यं जगतो ब्रह्मणि अध्यस्तत्वरूपात्माव्यतिरेकस्य कथनात् सत्यत्वाध्यस्तत्वयोविरोधेन सत्यत्वं नाभिप्रेतमित्यवगम्यते 'भेददृष्टिनिंदापूर्वकमभेदंवददिदं वाक्यमेकविज्ञानेन सर्वविज्ञानं वक्तीति वक्तुं अस्यार्थमाह यो हीति जगतो ब्रह्माधीनस्य प्रातीतिकमन्यत्वमनुज्ञातं स्वातंत्र्येणेत्यक्तमिति च आनंदगिरिकृततट्टिप्पणीवाक्याभ्यां त्वद्भाष्यकारस्य तात्पर्यं नास्तीति स्पष्टमवगम्यते । योग्यत्रात्मनः आत्मस्वरूपव्यतिरेकेण आत्मैव न भवति ब्राह्मणजातिरिति तां “यो वेदे" त्यादि बृहदारण्यकोपनिषदीय सांकरभाष्यवाक्येनापि जगतः ब्रह्मण्यारोपितत्वरूप ब्रह्मव्यतिरेकेणासत्वोक्त्या जगतः सत्वाभावे संकरतात्पर्यमवगम्यते न तु स्वातंत्र्याभावमात्रे इति । तथाच जगतः सत्यत्वमंगीकृत्य स्वातंत्र्याभावमात्रेण सच्छद्वावाच्यस्वतंत्र परमात्मभिन्नत्वेन सविलक्षणत्वंगीकृतमद्वैतिभिरित्यत्र ज्ञापकाभावादिति ।
रामसुब्ब_१८
(रा.) यत्तु " तद्गुणसारत्वादिति" सूत्रे ज्ञानानंदादिब्रह्मगुण एवास्य यतः सारः स्वरूपं अतोऽभेदव्यपदेश इति मध्वभाष्येपि जीवब्रह्मणो: स्वरूपाभेदोऽद्वैतिवत्कथितः प्रतीयते मध्वमते आनंदादिगुणानां ब्रह्मात्यंताभिन्नत्वात् ब्रह्मात्यंताभिन्नानंदादिस्वरूपत्वं जीवस्योक्त्वा ज्ञानानंदादिब्रह्मगुणा एवेत्येवकारेण ब्रह्मभिन्नत्वनिराकारणात् । न च ज्ञानानंदादिगुणा एवेत्यत्र ज्ञानानंदादिगुणसदृशज्ञाननंदादिगुणा इत्यर्थः । टीकोक्तरीत्या ग्राह्य इति शंक्यं स्वायत्ते शब्दप्रयोगे भाष्यकारेण गौणवृत्यार्थसमर्पकज्ञानानंदादिगुणा इति निर्देशस्यायुक्तत्वापत्तेः । तस्मान्मध्वभाष्यकाररीत्या जीवब्रह्मणोर्भेदपक्षवदभेदपक्षोप्यस्तीति निष्प्रत्यूहमिति ।
खण्डनं_१८
(खं . ) तन्न नागायुतबलसदृशबलार्थकतया नागायुतबला इत्यादि बहुलप्रयोगदर्शनेन ज्ञानानंदादिब्रह्मगुणा इत्यनेन शक्तितुल्यया निरूढलक्षणया ब्रह्मगुणसदृशगुणानां बोधनात् निरूढलाक्षणिक प्रयोगे स्वायत्तन्यायानवकाशात् । आचार्यैरेव " तथापि तु चिदानंदपूर्वास्तत्सदृशा गुणाः । सास्वरूपमस्यापि मुक्तावप्यवशिष्यते" इति अनुव्याख्याने ब्रह्मगुणसदृशगुणस्वरूपत्वोक्तेश्च । श्रीमट्टीकाचार्यैरपि तथा व्याख्यातत्वाच्च । जीवब्रह्माभेदनिषेधकानां श्रीमदानंदतीर्थीयानां अनेकेषां वाक्यानां विद्यमानत्वाच्च । जीवब्रह्मभेदो नाचार्यसम्मत इति श्रीमन्मध्वभाष्यरीत्या जीव-ब्रह्मणोरभेदपक्षोस्तीति त्वदुक्तेः शब्दस्वभावाद्यज्ञानमूलत्वेनोपेक्षणीयत्वात् ।
रामसुब्ब_१९
(रा.) यत्तु " तदभिध्यानाधिकरणे तस्याभिध्यानात् योजनात्तवभावाद्भूयश्चांते विश्वमायानिवृत्तिः" इति अनादिबंधलयस्य तदभिध्याननिमित्तत्वाल्लिंगात्तत्कर्तृत्वं प्रतीयते किमुत सादेर्जगत इत्येतस्मादेव सर्वसंहारकर्ता विष्णुरिति माध्वमाष्येणाद्वैत मतइव मायाया अनादिबंधरूपत्वं जीवगतब्रह्मसाक्षात्कार संतुष्ट भगवदभिध्यानरूपज्ञाननाश्यत्वं सादिप्रपंचरूपस्य संसारस्य कैमुतिकन्यायेन तदभिध्याननाश्यत्वं चोक्तं उक्तं च सुधायां " अस्यापरोक्षज्ञाने जाते अंते कर्मक्षयांते" इति अत्र मायाशब्देन मायाऽविद्याप्रकृतिरित्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यमंगीकरणीयमिति चोक्तं । सुधाग्रंथे प्रकृतिरिति पदेन मायाया जगत्परिणामिकारणत्वमद्वैति वदुक्तं । अविद्याशब्दाभिलप्यत्वं चानाद्येव किमपि द्रव्यमिति अनादित्वं भावरूपत्वं च कथितं । "अज्ञानेनावृतं ज्ञानमि" ति गीताभाष्यप्रमेयदीपिकायां "स्वरूपज्ञानमविद्यावृतं वृत्तिज्ञानं त्वविद्यां शिथिलयति ब्रह्म प्रकाशयती" ति ग्रंथेनापि अद्वैतमतवदेव स्वरूपस्याविद्यावृतत्वमविद्यायावृत्तिनाश्यत्वं च कथयति । एवं स्थिते माध्वः स्वस्यापि वृत्तिरूपब्रह्मज्ञानविनाश्या विद्यावादित्व जगत्परिणामिकारणानादिमायाबंधवादित्वादिसाम्येपि अद्वैतिनं मायावादित्वादिना दूषयन् स्वसि त्धांतानभिज्ञ इति प्रतीयते इति ।
खण्डनं_१९
(खं . ) तन्न मायापदार्थस्य तस्य जगदुपादानत्वादिबंधरूत्वज्ञाननाश्यत्वादीनामस्मदंगीकृतत्वेपि अद्वैतिवत् तस्य मिथ्यात्वसाक्षाद्ब्रह्मज्ञाननिवर्त्यत्वादीनामनंगीकारेण प्रत्युत सत्यत्वस्य मायापरपर्याय प्रकृतेरीश्वरप्रसादेनापि स्वरूपतोनाशमनंगीकृत्य जीव संबंध वियोगमात्रस्य सत्यजगदुपादानत्वस्य एवमाद्यनेकाद्वैत्यनंगीकृतप्रमेयाणामंगीकारेण महावैलक्षण्यसद्भावेन मायापदोच्चारणमात्रेण साम्यमंगीकृत्य मायावादिनो दूषयितुः स्वसिद्धांतानभिज्ञत्वकथनस्यापहसनीयत्वात्
रामसुब्ब_२०
( रा . ) यतु वाक्यान्वयाधिकरणे "कृष्णद्वैपायनस्यैव एकदेशविचिंतितं । स्वीकृत्य मुनयों ब्रूयुस्तन्मतं न विरुध्यते" इति मध्वभाष्ये पुराणश्लोकमुदाहृत्योत्तरतंत्रोदाहृतानामृषिमतानां सर्वेषामपि सित्धांतत्वमेव न पूर्वपक्षत्वमित्युक्तं "स्वामिनः फलश्रुतेरित्यात्रेयः" इति सूत्रभाष्यतत्वप्रकाशिकायां ज्ञानकर्मफलमिन्द्रियाधिष्ठतृणां स्वामिनां देवानामेव न कर्तुरित्यात्रेयमतस्य पूर्वपक्षत्वमेवेत्युक्त्वा " आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते" इति सूत्रे ऋत्विजामिव कर्तुर्यजमानस्यापि किंचित् कर्मफलमस्तीत्यस्य सित्धांतत्वमुक्तमिति पूर्वोत्तरविरोध इति ।
खण्डनं_२०
(खं . ) तन्न तत्वप्रकाशिकायामात्रेयमतस्य पूर्वपक्षत्वमेवेत्येवकारघटितवाक्यस्याभावात् " अस्वामित्वेपि प्रजानां ज्ञानफलसंभवात् न च श्रुतिमुनिमतविरोधः प्रजानामल्पफलाभ्युपगमात्तदभिप्रायकत्वाच्च श्रुत्यादेरल्पस्वेनिस्वप्रयोगदर्शनात् इत्यौडुलोमिराचार्यो मन्यत इति भावः इति तत्वप्रकाशिकायां न च श्रुतिमुनिमतविरोध इति वाक्येनात्रेयमतविरोधमाशंक्य अल्पस्वे निस्वप्रयोगदर्शनेन प्रजानामल्पफलं भवतीति अभिप्रायेण प्रजानां फलं नास्तीति उक्तं न सामान्यतः फलाभावतात्पर्येणेति तादृशमतस्यापि विरोधपरिहारेण समंजसीकृतत्वात् " न चात्रेयमतावलंबेन पूर्वपक्षिते सित्धांतयत् सूत्रं पठित्वा व्याचष्टे" इति तत्वप्रकाशिकायां 'आत्रेयमतावलंबेन पूर्वपक्षिते' इति कथमुक्तमिति वाच्यम् । उत्तरवाक्ये स्पष्टं न च श्रुतिमुनि (आत्रेय) मतविरोधइति विरोधमाशंक्य अल्पत्वविवक्षया अभावप्रयोग इति तादृशमतविरोधपरिहारस्य कृतत्वात् पूर्वपक्षित इत्यस्य आपाततः शंकिते इत्यर्थस्यैव तदभिप्रेतत्वात् तत्वप्रकाशिकाव्याख्यात्राचार्यस्यथैव व्याख्यातत्वाच्च । पूर्वोत्तर विरोधर्गवानवकाशेपि पूर्वोत्तरग्रंथविरोधकथनस्य श्रीमत्तत्वप्रकाशिकादिग्रंथानवलोकननिबंधनत्वात् ।
रामसुब्ब_२१
(रा.) यत्तु आभास एव चेति सूत्रे 'सोपाधिर्निरुपाधिश्च प्रतिबिंबो द्विधा स्मृतः । जीवः परस्यानुपाधिरिंद्रचापो यथा रवेः । इत्यप्रसित्धश्रुतिमुदाहृत्य जीवस्य निरुपाधित्वे सति भगवत्प्रतिबिंबत्वं रविं प्रति इन्द्रचापस्येवेति माध्वभाष्ये कथितमस्ति । तत्र दृष्टांते रव्यभिमुखदेश इव इंद्रचापो रविप्रतिबिंबो दृश्यते तथा दार्ष्टांतिके भगवदभिमुख देश एव भगवत्प्रतिबिंबो जीव इति वक्तव्यं यस्मिन् देशेऽभिमुखे रवेर्भगवतश्च प्रतिबिबस्य एवोपाधिरिति प्रतिबिंबस्य निरुपाधिकत्वोक्तिर्युक्तिविरुद्धा प्रत्यक्षविरुद्धा च श्रुतिश्च न पठद्यमाना सर्वांगीकृता काचिदुपलभ्यते । अप्रसिद्धश्रुतिश्च स्वस्यासिद्धत्वान्न समीचीनयुक्तिम् प्रत्यक्षं वा बाधितुं शक्नोति 'यथैषा पुरुषेच्छाया एतस्मिन्नेत दाततं' इति प्रत्यक्षभूतो एतस्मिन् ब्रह्मणि एतज्जीवस्वरूपमाततं' यथा पुरुषे छाया आततेति मध्वभाष्यटीकाव्याख्या तया भूतलादिप्रदेशोपाधिकच्छायाया निदर्शनत्वोक्त्या जीवस्यापि सोपाधिकं भगवच्छायात्वं प्रतीयते न तु निरुपाधिकं प्रतिबिबत्वमिति ।
खण्डनं_२१
(खं . ) तन्न जीवस्य निरुपाधित्वे सति भगवत्प्रतिबिबत्वं रविं प्रति इंद्रचापस्येवेति श्रीमन्मध्वभाष्येऽनुक्तेः । अप्रसिद्धश्रुतिमुदाहृत्येति यदुक्तं तन्न । शांकरभाष्येपि गुहाधिकरणे 'षैंगिरहस्य ब्रह्मणे' इति पैंगिश्रुतेरुदाहृतत्वात् । किंचाप्रसिद्धत्वं नाम त्वत्सवेतज्ञानाविवायत्वं वा सर्वसमवेतज्ञानाविषयत्वं वा । नाद्यः " अनंता वै वेदा" इति वेदानामनंतत्वात् अल्पज्ञेन त्वया अज्ञातत्वमात्रेण असत्यकथनायोगात् । न द्वितीयः । सर्वसमवेतज्ञानाविषयत्वस्य ज्ञातुमशक्यत्वात् । इदानीमस्मत्प्रत्यक्ष सिद्ध ग्रंथाघटकत्वमात्रेणासत्वं वक्तुमशक्यं वेदानामनंतत्वहानेः ।
रामसुब्ब_२२
( रा . ) यच्च प्रत्यक्ष विरुद्धा चेति तदप्ययुक्तं ।
खण्डनं_२२
(खं. ) उपाधिविषयकप्रत्यक्षस्याप्रदर्शितत्वात् तादृशप्रत्यक्षस्य केनाप्यननुभूयमानत्वाच्च । बिंबप्रतिबिंबादीनां प्रत्यक्षायोग्यत्वाच्च ।
रामसुब्ब_२३
(रा.) भगवदभिमुखदेश एव भगवत्प्रतिबिंबो जीव इत्येतदपि असंगतं ।
खण्डनं_२३
(खं.) भगवतो व्याप्तत्वेन विश्वतोमुखत्वेन च सर्वदेशस्यापि भगवदभिमुखदेशत्वेन भगवदभिमुखदेश एवेति एवकाख्यावर्त्याभावात् । "यथैषा पुरुषे छाया एतस्मिन्नेतक्षततं" इति श्रुतिस्तु यथाच्छायाया: पुरुषाधीनत्वं तथा जीवजातस्य भगवदधीनत्वमित्यस्मिन्नर्थे उक्तत्वेन सोपाधिनिरुपाधिविषये अनुक्तत्वात् ।
रामसुब्ब_२४
(रा. ) " मध्वादिष्वसंभवादनधिकारं जैमिनिरि" ति सूत्राक्षरस्वारस्यालोचने माध्वानां वेदांतानधिकारः प्रतीयते इति यदुक्तं रामसुब्बेन ।
खण्डनं_२४
(खं . ) तदनुमतमेवास्माकम् तादृशसूत्रस्य देवादीनामधिकाराभाव इति पूर्वपक्षप्रापकतया त्वदीयभाष्ये व्याख्यातत्वेन माध्वानामधिकाराभावप्रतिपादकतया योजने माध्वानां देवत्वमुक्तं भवेदिति । किंचास्य सूत्रस्य पूर्वपक्ष सूत्रत्वेन पूर्वपक्षे ब्रह्मण असत्वाकारणत्वयोर्वेदाप्रामाण्यादेर्देवानां वेदविद्याधिकाराभावस्य एवमनेकेषां प्रमाणविरुद्धानां कथितत्वेन तेषां यथा सिद्धांतसूत्रेणाप्रामाणिकत्वादिव्यवस्था क्रियते तथा "भावं तु बादरायणोस्ति हि" इति सित्धांतसूत्रेण देवानां माध्वानां च तु शब्देन अप्रामाणिकं वेदांतानधिकारमपोह्याधिकारसद्भावस्य साक्षान्नारायणावतारभूतेन भगवता बादरायणेन साधितत्वेन "मध्वादिष्वसंभवादनधिकारं जैमिनिरिति पूर्वपक्षसूत्रेण माध्वानां वेदांतानाधिकारप्रतीतेः 'वेदांताधिकादारढसंपादकत्वेन भूषणत्वात् । इदं तु तत्वं जीवब्रह्मणोरैक्यं न क्वापि सूत्रकारो मुखतो वदति सर्वत्र भेदमेवातो नैक्यमिष्टं तत्राह 'प्रतिपाद्यंत्विति' प्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयति " शास्त्रदृष्यातूपदेशो वामदेववत्" इत्यादिना इति शांकरभाष्यतद्व्याख्यानाभ्यां शास्त्रदृष्टयेति " आत्मेति सूत्रव्यतिरिक्तसर्वसूत्राणां तद्व्याख्येयभूतवेदानां च शंकरशांकरणां भेदपरत्वसम्मत्यवगत्या तयोरपि जीव ब्रह्मैक्यबोधकपदाभावेन "त्यजेदेकं कुलस्यार्थ इति" न्यायेनानेकश्रुतिसूत्र सिद्धभेदविरुद्धार्थप्रतिपादकत्वासंभवेन च शास्त्रदृष्येत्यस्य अंतर्यामिदृष्टयेति व्याख्यानसंभवेन "आत्मेति तुपगच्छंति" इति सूत्रे ईश्वरमिति विशेष्यवाचकपदाभावेन बहुश्रुतिसूत्र विरुद्धत्वेन ईश्वरमित्यध्याहारसंभवेन आत्मशब्दस्य द्युभ्याद्यधिकरणीयत्वदीय भाष्यरीत्या जीवपरत्वासंभवेन ईश्वरपदाध्याहारेपि ईश्वर आत्मेति अहमिति अर्थासंभवेन ब्रह्म आत्मेति उपगच्छंतीत्युत्तरसंदर्भानुसारेणार्थसंभवेन सावकाशतया च जीवब्रह्मणोरैक्यबोधकत्वासंभवेन जीवब्रह्मभेदपरत्वस्यैवावश्यं वक्तव्यतया वेदार्थनिर्णायकसूत्राणां च तनिर्णेयवेदानां च सर्वेषां भेदपरत्वात् । " अष्टवर्ष ब्राह्मणमुपनयीत । तमध्यापयीते "ति वेदाधिकार प्रयोजकतयोक्तानां ब्राह्मण्यादीनां शांकरभाष्ये आरोपितत्वांगीकारेणाधिकारप्रयोजकब्राह्मण्याद्यभावाच्च । अद्वैतिभिः स्वप्रतिकूलयोः श्रुतिसूत्रयोरनधिकारोऽकामैरपि स्वीकरणीय इति सूत्रसित्धांतार्थः । ॐ अंशो नानाव्यपदेशात् ॐ अन्यथा चापि दाशकितवादित्वमधीयत एके ॐ सूत्रार्थस्तु जीवः परमात्मनोंशः नानाव्यपदेशात् पुत्रत्वेन भ्रातृत्वेन सखित्वेन नानाव्यपदेशात् अन्यथा-चापि वक्ष्यमाणाभेदापेक्षया भेदेन दाशकितवादित्वं ब्रह्मणः दाशकितवादिस्वरूपत्वं अधीयते कथ्यते श्रुतौ तथाचाभेदेन व्यपदेशः प्राप्तः । एव भेदाभेदाभ्यां व्यपदेशाच्च जीवः परमात्मनोंश इति नानाव्यपदेशस्तु "मां रक्षतु विभुनित्यं पुत्रोहं परमात्मनः" इत्यादिरूपः श्रीमज्जयतीर्थटीका तु हेत्वंतरेणैतत्समर्थयति अन्यथेति । अन्यथेति वक्ष्यमाणाभेदापेक्षया एतत्श्रुतिद्वयेन जीवेशयोर्भेदाभेदावुच्येते । न चान्यन्तरश्रुतिबाधो युक्तः । न च साक्षाद्भेदाभेदावुपपन्नौ विरोधात् । अतः श्रुतिद्वयान्यथानुपपत्या भेदमंगीकृत्याभेदस्थानेशत्वं वक्तव्यमिति भावइति ।
रामसुब्ब_२५
( रा . ) यत्तु सा जयतीर्थटीका पूर्वोत्तरविरुद्धा अन्यथा चेति सूत्रपदस्य यदपेक्षयेत्याकांक्षाशांत्यर्थं वक्ष्यमाणाभेदेनेति लेखनेन दाशकितवादित्वमधीयत इत्यंशगृहीत दाशकितवादिश्रुतेरभेदार्थत्वमंगीकृतं । अन्यथावक्ष्यमाणाभेदापेक्षयेति लेखनानुपपत्तेः । अंते वाभेदस्थाने अंशत्वं वक्तव्यमिति लेखनेनाभेदनिर्देशस्यांशत्वार्थत्वमुक्तमिति अत्यंतविरोधादिति ।
खण्डनं_२५
(खं) तन्न गंगायां घोष इत्यत्र गंगापदवाच्ये प्रवाहे घोषाधिकरणत्वबाधात् गंगापदस्य तीरार्थत्वं वक्तव्यमित्युक्ते पूर्व प्रवाहः गंगापदबोध्य इत्युक्तं इदानीं तीरं गंगापदबोध्यमित्युच्यते अतो विरोध इति वक्तुरिवाभेदस्थानेंSशत्वं वक्तव्यमित्यभेदबोधकतया प्रतीयमानपदस्यांशार्थकत्वमंगीकरणीयमित्युक्ते "ब्रह्मदाशाब्रह्मकितवा " इति वाक्येन प्रतीयमानाभेदापेक्षयेत्युक्तिमात्रेण तस्याभेदार्थत्वमुररीकृतमिति विज्ञाय विरोध इति वदतस्तवाप्यपहसनीयत्वात् ।
रामसुब्ब_२६
(रा.) एतेन किंचाभेदस्थाने अंशत्व निवेशे सौत्रान्ययाशब्दस्यांशत्वापेक्षयाऽन्यथात्वरूपानंशत्वार्थत्वं भवेत् अन्यथा पदव्याख्यानतयोदाहृता "अन्यः परोन्यो जीव" इति श्रुतिगतान्यशब्दस्यापि अनंशत्वार्थत्वं स्यात् । तथा सत्यंशत्वानंशत्वाभ्यां जीवस्य ब्रह्मांशत्वमुक्तसूत्रात् साधितं स्यात् अंशत्वे साध्ये अंशत्वानंशत्वयोर्हेतुत्वं वदतः सूत्रकारस्योपर्यंपि महदसामंजस्यं प्रसज्येत । तस्मादसंगतैव टोकेत्येतदपि परास्तं ।
खण्डनं_२६
(खं.) अभेदबोधकतया प्रतीयमानवाक्यस्यांशपरत्वमंगीकरणीयमित्युक्ते " ब्रह्मदाशाब्रह्म कितवा " इति वाक्येनापाततः प्रतीयमानाभेदापेक्षया अन्यथाचापि भेदबोधकतया भासमानानां वाक्यानामपि सत्वादित्युक्तेः अनंशत्वबोधकानां वाक्यानां सत्वादिति सिद्धमित्यंगीकृत्यांशत्वानंशत्वाभ्यामंशत्वसाधनं विरुत्धमित्युक्तेराविपालगोपालगोपांगनासाधारणापहासविषयत्वात्
रामसुब्ब_२७
( रा . ) यत्तु इतोप्यसंगता तट्टीका "यतो भेदेन तस्यायमभेदेन च गीयते । " अतश्चांशत्वमुद्दिष्टं भेदाभेदौ न मुख्यतः" इतिभाष्योदाहृत वाराहवचनेन भेदाभेदयोर्मुख्यतयोक्त श्रुतिनिर्दिष्टत्वाभावोक्त्यविशेषभेदमंगीकृत्या भेदस्थानेंशत्व निवेशोक्त्यसांगत्यात् । वैपरीत्यस्यापि वक्तुं शक्यत्वाच्चेति ।
खण्डनं_२७
(खं) तन्न पुत्रः भ्रात्रखितत्वेन स्वामित्वेन यतो हरिः । बहुधा गीयते वेदैर्जीवोंशस्तस्य तेन तु इति तत्पूर्ववाक्य एव पुत्रत्वभ्रातृत्वादिना भेदविशिष्टस्येवांशत्वांगीकारात् । तदनुरोधेन भेदाभेदयोर्मुख्यतयोक्तश्रुतिनिविष्टत्वाभावोक्ति साम्येपि भेदमंगीकृत्या भेदस्थानेंशत्व निवेशोक्तेः संगतत्वात् वैपरीत्यस्य वक्तुमशक्यत्वात् । अंतःकरणाद्यवच्छिन्नचिद्रूपरूपदाशादीनां शुद्धचिद्रूप ब्रह्मणाऽभेदासंभवेन "ब्रह्मदाशाब्रह्मकितवा " इत्याद्यभेदबोधकतया भासमानानां वाक्यानां गौणार्थत्वस्याभेदवादिनाप्यंगीकार्यत्वाद्भेदवाक्यानामंशत्वादिपरतया गौणत्वांगीकारे वाक्यद्वयस्यापि गौणत्वस्वीकारापत्तेः भेदवाक्यानां मुख्यभेदपरत्वमंगीकृत्याभेदवादिनामपि अवश्यं गौणपरतया योजनीयानां "ब्रह्मदाशा" इत्याद्यभेदबोधकतया भासमानानां वाक्यानामेवांशपरतया व्याख्यानस्यैकदेशापवादेन कल्प्यमाने च बाधकेन सर्वं बाधनं युक्तमिति न्यायविदः स्थिता इति न्यायानुसारेण युक्तत्वाच्च ।
रामसुब्ब_२८
( रा ) यत्तु न्यायामृते द्वितीयपरिच्छेदे भेदो न स्वरूपमात्रः किंत्वन्योन्याभावः स च वस्तुनः सविशेषाभिन्न इति वाक्यं दृश्यते तदसंगतपदार्थान्वयकमिति प्रतीयते । तरंगिण्या व्याख्यानांतरे च पदयोजनयोक्तवाक्यार्थानुक्तेरिति ।
खण्डनं_२८
(खं.) तन्न भेदोधर्मिस्वरूपेण निर्विशेषाभिन्नो न किंतु अन्योन्याभावरूपः स च धर्मिणा सविशेषाभिन्न इति संगतपदार्थान्वयत्वस्य व्युत्पनानां स्पष्टत्वेन तरंगिण्यां व्याख्यानांतरे च पदयोजनया वाक्यार्थानुवतेरदोषत्वात् ।
रामसुब्ब_२९
(रा.) सन्यायामृत एव सत्यं ज्ञानमिति लक्षणवाक्यस्थितसत्यपदं "अथ यत् सत् तदमृतं” अथ यत्ति तन्मर्त्यं " अथ यद्यं ते उभे यच्छति'' इति छांदोग्यश्रुत्या बद्धमुक्तोभयनियंतृपरं तेन सत्यपदेन बद्धमुक्तोभयनियंतृत्वं ब्रह्मणो लक्षगमुच्यते । रूढ्या योगबाधो न शंक्यः शास्त्रस्था वा तन्निमित्तत्वादिति न्यायेन शास्त्रात्प्रसिद्धेर्बलवत्वादिति लिखितमित्याशंक्य यत्रार्यम्लेंच्छ प्रसिद्ध्योः समावेशः तत्रार्थप्रसिद्धे रूढिप्रयोजकत्वं न म्लेंछप्रसिद्धेर्वा तत्प्रयोजकत्वमिति विषये आर्यप्रसिद्धे रूढिप्रयोजकत्वं न म्लेंछप्रसिद्धेरित्यर्थपरशास्त्रस्था वा तन्निमित्तत्वादिति न्यायस्य रूढियोगविषयत्वासंभवादिति दूषणमुक्तं ।
खण्डनं_२९
(खं . ) तन्न आर्यप्रसिद्धेरेव रूढियोजकत्वं न तु म्लेंच्छप्रसिद्धेरित्यत्र नियामिकाकांक्षायां "आर्या हि शब्दैकसमधिगम्य धर्माधर्मयोरविप्लुतिलिप्सया शब्दार्थतत्वं विविच्य परिपालयंति न म्लेंछा दृष्टार्थव्यवहारस्य यथाकथंचिदपि सिद्धे" रिति आर्याणां शास्त्रानुसारेणार्थस्वीकर्तृत्वादेव आर्यप्रसिद्धेरेव नियामकत्वमिति भाट्टदीपिकादावुक्तत्वेन शास्त्रानुसारेणार्थ: स्वीकरणीय इति तदभिप्राय सिद्धे: । प्रकृतेपि सत्यमिति पदस्य शास्त्रानुसारेण मुक्तामुक्तनियामकत्वरूपयौगिकार्थ एव स्वीकार्य इति अभिप्रायेण शास्त्रस्थविति न्यायस्वीकारोपपत्तेः ।
रामसुब्ब_३०
( रा . ) यत्तु सर्वतंत्रस्वतंत्र भगवत्कलावतार श्रीमदश्वत्थनारायणशास्त्रिणां पौत्रेण तिरुविशलूर ग्रामाभिजनेन रामसुब्रह्मण्यशास्त्रिणा विरचितमद्वैतमंडण पूर्वक मध्वचांद्रिकाखंडनं समाप्तमिति ।
खण्डनं_३०
(खं . ) तदसमंजसं अश्वत्थनारायणशास्त्रिणां भगवत्कलावतारत्वं किमद्वैतिमतानुसारेण सर्वेषामुपहित ब्रह्मचैतन्यरूपत्वेन किंवा व्याणादीनामेव भगवत्कलात्वबोधकवाक्यविशेषानुसारेण । आद्ये आकीरं सर्वेषां उपहित चैतन्यत्वेनोक्त विशेषणस्येतरव्यावर्तत्वाभावेन माहात्म्यानापादकत्वेन च वैय्यर्थ्यमेव । सर्वषामुपहितचैतन्यरूपतायाः प्राङनिरस्तत्वेनासंभवदुक्तिकता च । न द्वितीयः । भगवत्कलावतारत्वे प्रमाणानुपन्यासात् अभावाच्च विना प्रमाणं भगवत्कलावतारत्वे अश्वादीनामपि भगवत्कलावतारत्वांगीकारापातात् ॥ "अप्राप्ते शास्त्रमर्थवत्" इति न्यायात् बह्म सत्यं जगन्मिथ्येति तव मते अर्थभूतस्य ब्रह्मणः स्वप्रकाशत्वेनाप्राप्तत्वाभावात् । कथंचिदप्राप्तत्वेपि शास्त्रीयपदानां ब्रह्मणि शक्त्यभावेन अशक्ये च प्रत्यक्षादिना अगम्ये लक्षणाया अप्यनुपपत्या तद्बोधकत्वानुपपत्तेः । ब्रह्मातिरिक्तस्य वेद्यत्वेपि तस्य मिथ्यात्वेन तत्प्रतिपादकत्वे शास्त्रस्याप्रामाण्यप्रसंगात् । तथा च त्वन्मतरीत्या शास्त्रित्वमपि न संभवत्येवेति नारायणशास्त्रिणां सुब्रह्मण्यशास्त्रिणा इति शास्त्रिपदमनर्थकमेव । किंच "न शास्ता न शास्त्रं" इति शंकरोक्त्यनुसारेण शास्त्राभावः शास्त्रित्वाभावोऽद्वैतिन इष्टः स्याच्चेन्न तदा अद्वैतिभिः साकमस्मद्विवादितेति । एवमद्वैतमंडनं नाम प्रमाणसिद्धताख्यापनं वा "दुर्घटत्वमविद्याया भूषणं न तु दूषणं । कथंचिद्घटमानत्वेऽविद्यात्वं दुर्घटं भवेदिति" अविद्याया दुर्घटत्व' वा । नाद्य: तत्वमस्यादिवाक्यायां अद्वैतिमते अखंडार्थपरत्वेन ( संसर्गाविषयक धीजनकत्वेन ) भेदाभेदपक्षयोरौदासीन्यात् भेदप्रतिपादकतया अद्वैत्यभिमतानां तत्वमस्यादिपंचषातिरिक्त वाक्यानां भूयसां स्यात्स्वधर्मत्वमिति न्यायेनाभेदबोधकत्वासंभवस्य निपुणतरमुपपादितत्वेन च प्रमाणसिद्धत्वरूप मंडनासंभवात् । द्वितीयं दुर्घटत्व ( युक्तादिप्रमाणविषयत्व) रूपमंडनं अस्माकमनुमतमिति त्वदभिलषितं दुर्घटत्वमेवैतावता प्रबंधन स्पष्टीकृतमस्माभिरिति संतोष्टव्यमेव । मंडनस्य दुर्घटत्वरूपत्वे तत् प्रतिद्वंद्वितया निर्दिष्ट चंद्रिकाखंडनं नामचंद्रिकायाः सघटत्व ( प्रमाणादिसिद्धार्थप्रतिपादकत्व) मुक्तं भवति । तदप्यस्माकमिष्टमिति श्रुति स्मृत्यादिभिः रामसुब्बवाक्येन च प्रमाणसिद्धार्थप्रतिपादकत्वरूपसुघटत्वं प्रपंचितमस्माभिः । अस्मदभिमते अद्वैतस्य दुर्घटत्वरूपमंडने चंद्रिकाया स्तत्प्रतिद्वंद्वियुक्त्यादिप्रमाणसिद्धार्थप्रतिपादकत्वरूपमंडने च रामसुब्बशास्त्रिप्रभृत्यद्वैतिनः अस्माकमतीव सहायभूता इति भवदीयोपकारं स्मरामः कदापि न विस्मराम इति श्रीरामः शरणं मम ।
॥ इति अद्वैतखंडन-पूर्वकचंद्रिकासमर्थने रामसुब्बप्रदर्शितदोषाभासनिरासकभागः समाप्तः ॥