य एषोन्तरादित्ये हिरण्मयः य एषोन्तरक्षिणि पुरुषो दृश्यते

॥ अन्तस्स्थत्वाधिकरणप्रारम्भः ॥

ॐ अंतस्तद्धर्मोपदेशात् ॐ

चन्द्रिकानुवाद:_१

(चं.) (३०८) "य एषोन्तरादित्ये हिरण्मयः य एषोन्तरक्षिणि पुरुषो दृश्यते" इत्यक्ष्यादित्ययोरन्तस्स्थः प्रतीयते । स विद्याकर्मातिशयलब्धैश्वर्यः कश्चित्संसारी, न तु परमात्मा, "हिरण्यश्मश्रुः" इत्यादौ रूपादिश्रवणात् । परमात्मनश्चारूपत्वेन श्रुतत्वादिति प्राप्ते, परमात्मैवेति सिद्धान्तः, आदित्यवाक्ये 'सर्वेभ्यः पाप्मभ्य उदितः' इति श्रुतस्य सर्वपापराहित्यस्याक्षिवाक्ये 'सैवर्कत्साम' इत्यादौ श्रुतस्य सार्वात्म्यस्य च संसारिण्यसंभवात् । रूपादिकं तु नीरूपेऽपि सविशेषब्रह्मणि साधकानुग्रहार्थमैच्छिकमुपास्यमायामयमस्ति । यद्वासर्वस्य कार्यजातस्य ब्रह्मोपादानकत्वादुपादेयस्य चोपादानानन्यत्वात्कार्यशरीरगतरूपादिभिर्ब्रह्म व्यपदिश्यते । मुमुक्षं प्रति सविशेषनिरूपणं च मोक्षसाधननिर्विशेषब्रह्मज्ञानार्थम् । यथोक्तं,

निविशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।

ये मंदास्तनुकंप्यन्ते सविशेषनिरूपणैः ॥

इत्यादीत्याहुः । केचित्तु इदमेववाक्यमुदाहृत्यैवमेव च पूर्वपक्षयित्वा "तस्य यथा कप्यासं पुण्डरीकं" इति श्रुतं पुण्डरीकाक्षत्वं सिद्धान्तयुक्तिमाहुः । तदुभयमपि न, अस्मद्रीत्याऽऽनन्दमयाधिकरणाक्षेपायादृश्यत्वादिगुणोक्तस्य स्वप्रकरणस्थ भेदव्यपदेशवतश्च वाक्यस्योदाहरणत्वसम्भवे तद्रहितस्य तदयोगात्। उक्तं हि त्वयैव "य आदित्यमन्तरो यमयति" इति श्रुत्यन्तरे भेदव्यपदेशादिति । किं च,

नीरूपेऽपि च रूपादि यद्युपास्त्यर्थमुच्यते ।

जीवेऽपि पाप्माभावादि तर्हयु, पास्त्यर्थमुच्यताम् ॥

अविद्यमानारोपस्योभयत्र तुल्यत्वात् । तथा चापहतपाप्मत्वस्य जीवसाधारणतया तेनान्तस्स्थः परमात्मैवेति सिद्धान्तानुत्थितिरिति यदुक्तम्,

रामसुब्ब_

(रा.) तन्त्र, जीवे व्यावहारिकस्य पाप्मनः सत्वेन तद्राहित्यं प्रातिभासिकमेव वाच्यं, ब्रह्मणि तु व्यावहारिकपापासंभवात् तद्राहित्य व्यावहारिकं । श्रुतेश्च व्यावहारिकविषयकत्वेन प्रामाण्यसंभवे प्रातिभासिकजीवगतापहतपाप्मत्वविषयकत्वसंभवेन 'स एषः' इति श्रुत्युक्तापहतपाप्मत्वस्य व्यावहारिकतया ब्रह्मसाधारणधर्मत्वाविरोधादिति यत्परेणोक्तं,

खण्डनं_

(खं.) तत्तुच्छं, त्वन्मते उपास्यस्यनामादौ ब्रह्मत्वादेः प्रातिभासिकत्वनियमेन तद्वदेव "अथ य एषः" इत्युपासानावाक्यस्य जीवगतप्रातिभासिकपापराहित्यविषयत्वसंभवात् जीवे पाप्मादेर्व्यावहारिकत्वेऽपि तद्राहित्यश्रुतेः त्वन्मतरीत्या त्वम्पदलक्ष्यशुद्धरूपाभिप्रायेण पारमार्थिकविषयकत्वसंभवात् । न च तथा सति ब्रह्मविषयत्वापत्तिः, त्वयाऽस्य सविशेषाशुद्धब्रह्मविषयत्वाङ्गीकारात् । त्वन्मते चोपासनावाक्यानां उपासनाकर्तव्यत्वे तात्पर्यस्य विद्यमानत्वेनोपासनाविषयीभूतेऽर्थे प्रातिभासिकव्यावहारिकभेदसद्भावेऽपि तत्रोपासनावाक्यानां तात्पर्याभावात् । तत्तात्पर्यविषयी भूतोपासना कर्तव्यतायाश्च सर्वत्र व्यावहारिकत्वेन तत्र तात्पर्यवतां वाक्यानां प्रामाण्यसंभवेन जीवे पापराहित्यस्य प्रातिभासिकत्वाङ्गीकारेऽपि श्रुतेस्त्वन्मतरीत्याऽप्रामाणाख्यदोषाभावाच्च । व्यावहारिकप्रातिभासिकयो र्द्वयो  र्बाधविलम्बाविलम्बरूपवैलक्ष्यण्येऽपि अध्यस्तत्वेनातत्वत्वाद्व्यावहारिकविषयकत्वेऽपि अतत्त्वविषयकत्वेन तत्त्वावेदकत्वरूपप्रामाण्यविवातकतया प्रातिभासिकापहतपाप्मत्व विषयकत्वोक्ते निष्प्रयोजनत्वाच्च । एतेन,

रामसुब्ब_१२

(रा.) (१६८) नाम्नि व्यावहारिकस्यापि ब्रह्मत्वस्यासंभवेन नाम्रि ब्रह्मत्वोपासने उपास्तिविषयस्य ब्रह्मत्वस्य प्रातिभासिकत्वस्वीकारेsपि ब्रह्मण्यपहतपापत्वस्य "एष आत्माऽपहतपाप्मा" इत्यादिश्रुत्यंतरसिद्धस्य व्यावहारिकस्य प्रकृते उन्नामप्रवृत्तिनिमित्ततयाऽनुसन्धेय सर्वपापराहित्यरूपत्वसंभवे प्रातिभासिकस्य सर्वत्पापराहित्यस्योन्नामप्रवृत्तिनिमित्ततयोपास्यकोटिनिवेशायोगात् सति संभवेऽमुख्यं न ग्रहणमर्हतीति न्यायात इति यदुक्तं,

खण्डनं_१२

(खं.) तत्परास्तं, व्यावहारिकप्रातिभासिकयोर्द्वयोरप्यध्यस्तत्यात् बाधविलम्बाविलम्बयोस्तत्त्वत्वातस्त्वत्वे प्रत्यप्रयोजकत्वात् व्यावहारिकविषयकत्वेऽप्यतत्त्वावेदकत्वेनाप्रामाण्यापरिहारादित्याद्युक्तदोषात् ॥

रामसुब्ब_१३

(रा.) (२६८) उपासनावाक्य एव सर्वत्रापहतपाप्मत्वसत्त्वेन तद्वाक्यस्योपासना कर्तव्यतापरत्वेन तद्वाक्येनोपासनाया व्यावहारिकत्वसिद्धावपि अपहतपाप्मत्वादेर्न व्यावहारिकत्वसिद्धिरित्याशंक्य, सगुणवाक्यानामुपासना तात्पर्यकत्वेऽप्युपास्यधर्मः किं प्रातिभासिक उत व्याहारिक इति विमर्शे दहरादिविद्यायां 'सत्यकामः सत्यसङ्कल्पः' 'सत्या कामाः अथ य इहात्मानमनुविद्य व्रजन्ति एतांश्च सत्यान् इत्यादिना काम्यमानानामपहतपाप्मत्वादीनां कामसङ्कल्पादीनां च सत्यशब्देनैव सत्यत्वोक्त्याऽपहतपाप्मत्वादिधर्माणां व्यावहारिक सत्यत्वस्यैवासति बाधके स्वीकर्तुमुचितत्वात् इति यदुदितं,

खण्डनं_१३

(खं.) तत्तुच्छं, उपासनावाक्यस्योपासनातात्पर्यकत्वेन तेनोपासनायाः व्यावहारिकत्वसिद्धावपि अपहतपाप्मत्वादौ तात्पर्याभावेन तस्य व्यावहारिकत्वासिद्धेः श्रीमच्चन्द्रिकादावनुक्तत्वेन तच्छंकाया एव निर्मू

लत्वात् । न " त्वन्मते चोपासनावाक्यस्य तत्कर्तव्यतामात्रपरत्वेनार्थपरत्वाभावात् कर्तव्यतायां च व्यावहारिकप्रातिभासिक विभागाभावात्" इति वाक्येनोक्तेति वाच्यं तस्मिन् वाक्ये, जीवे पापराहित्यस्य प्रातिभासिकत्वांगीकारेऽपि न दोषः तत्रोपासनावाक्यस्य तात्पर्यभावात्तात्पर्याविषयी भूतायामुपासनायां सर्वत्र व्यावहारिकत्वेन व्यावहारिकप्रातिभासिक विभागस्याभावेन त्वन्मन्तरीत्याऽप्रामाण्याप्रसक्तेरित्यभिप्रायात् । अपहतपाप्मत्वादेर्व्यावहारिकत्वासिद्धेरकथनाच्च । श्रुत्युक्तधर्मविषये प्रातिभासिक उत व्यावहारिक इति विमर्शस्यैव वेदप्रामाण्यवादिनासंभवात्, वेदस्य तत्त्वावेदकत्वेन तत्प्रतिपाद्यधर्माणां तत्त्वतासिद्धेः । यथाकथञ्चित्प्रसक्तावपि किं प्रातिभातिक उत व्यावहारिक उत पारमार्थिक इति विमर्शः कुतो न स्यात् । 'सत्यकामः सत्यसङ्कल्पः सत्याः कामाः ' इत्यादिना काम्यमानानां चापहतपाप्मत्वादीनां कामसङ्कल्पादीनां च सत्य शब्दनैव सत्यत्वोक्त्या "सत्यं ज्ञानमनंतं ब्रह्म" इत्यादिना ब्रह्मण इव पारमार्थिकसत्यत्वस्यैव सिद्धेश्च । बाधकाभावेन पारमार्थिकसत्यत्वत्यागव्यावहारिक सत्यत्वस्वीकारयोरयोगात् । बाधकाभावेऽपि पारमार्थिकसत्यत्यागे ब्रह्मणोऽपि पारमार्थिकसत्यत्वत्यागप्रसङ्गात् । "परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इत्याद्या श्रुतिः ब्रह्मगुणानां काल्पनिकत्वं प्रतिषेधति, स्वाभाविकत्वं व्यवस्थापयति इति "आनंदादयः प्रधानस्य" इति सूत्रभाष्ये आनंदादयः प्रधानस्य ब्रह्मणो धर्मास्ते सर्वत्र प्रतिपत्तव्या इत्यादिग्रन्थेन प्रधानस्य ज्ञेयब्रह्मणः आनंदादिधर्मसम्बन्धश्च प्रतिपादित इति शङ्कराचार्याणां श्रुतिस्मृतिसूत्राणां जीवब्रह्मभेदपरत्वस्य 'सगुणब्रह्मपरत्वव्युत्पादनं अभिमतमित्यवगम्य तत्परत्वमेव व्युत्पादितं अस्माभिविष्णुतत्वरहस्ये इत्यादिग्रन्थेन विष्णुतत्त्वरहस्यविवरणे शाङ्करभाष्यगांभीर्य निर्णयादौ च त्वयैव ब्रह्मगुणानां पारमार्थिकस्वस्थ कथितत्वेन व्यावहारिकत्वापरपर्यायाध्यस्तत्वोक्तयोगात् ॥

रामसुब्ब_१४

(रा.) (१६९) यत्तूक्तं "सत्यस्य सत्यं प्राणा वै सत्यं तेषामेव सत्यः" इति बृहदारण्यकश्रुत्या 'सत्यस्य' इति षष्ठ्यंत निर्विष्टब्रह्मस्वरूपव्यतिरिक्तसर्वसत्यापेक्षया 'सत्यः' इति प्रथमांत पदनिर्दिष्टबह्मस्वरूपसत्यस्योत्कर्षप्रतीत्या ब्रह्मस्वरूपसत्यापेक्षया धर्मसत्यानामपकर्षावश्यकतयाsपहतपाप्मत्वादीनां सत्यत्वस्य व्याहारिकसत्यत्वरूपत्वावश्यकत्वात्' इति,

खण्डनं_१४

(खं.) तत्तुच्छं, “ज्योतिषां ज्योतिः, प्राणस्य प्राणं, चक्षुषश्चक्षुः, श्रोत्रस्य श्रोत्रं, मनसां यो मनो विदुः, चेतनश्चेतनानां" इत्यादौ 'ज्योतिषां ज्योतिः ज्योतिष्ट्वप्रदः अवभासक इति, चक्षुषः चक्षुः चक्षुष्ट्वप्रदः, प्राणस्य प्राणत्वप्रदः इति यथा बोध्यते, तथा सत्यशब्दवाच्यानां प्राणानां सत्यत्यप्रद इति बोधनात् प्राणादिसत्यतायाः व्यावहारिकत्वापरपर्याया मुख्यतायाः तेनासिद्धेः । अन्यथा परमात्मनि ज्योतिष्ट्वचक्षुष्ट्वादिकं पारमार्थिकत्वापरपर्यायोत्कर्षवत्, ज्योतिरादिषु व्यावहारिकत्वापरपर्यायापकर्षवदिति स्यात् । व्यावहारिकस्यारोपितत्वेन बाध्यत्वेन च सत्यपदार्थानन्तर्भूतत्वात्सत्यस्य सत्यं प्राणा वै सत्यं" इति वाक्येन प्राणादीनां त्वद्रीत्या व्यावहारिकत्वापरपर्यायापकर्षवत्सत्यत्वबोधनेऽपि ब्रह्मधर्माणामनेन व्यावहारिकत्वासिद्धेश्च, बृहदारण्योक्तप्राणत्वस्य बह्मधर्मेष्वभावात् ॥

रामसुब्ब_१५

(रा.) (१६९) यत्तु, अपकृष्टसत्यत्वमेव हि व्यावहारिकसत्यत्वं, उत्कृष्टसत्यत्वं च पारमार्थिकसत्यत्वं, पारमार्थिकत्वं च कालत्रयाबाध्यत्वं, व्यवहारकालमात्राबाध्यत्वं व्यावहारिकसत्यत्वं । 'सत्यं चानृतं च सत्यमभवत्' इति सत्यतादर्थ्येन प्रतिपादितानृतशब्दितप्रातिभासिकत्वं, प्रतीयमानत्वे सति व्यावहारकालबाध्यत्वमिति व्यवस्थति जल्पितं,

खण्डनं_१५

(खं.) तत्तुच्छं, व्यावहारिकप्रातिभासिक पारमार्थिकसत्तात्रैविध्ये मानाभावेन व्यावहारिक प्रातिभासिकयोः स्वरूपकथनस्य शशविषाणस्वरूपकथनतुल्यत्वात् । त्वदभिमतानृतशब्दितप्रातिभासिकत्वस्य 'सत्यं चामृतं च सत्यमभवत्' इति श्रुत्या सत्यतादर्थ्येन प्रतिपादनाभावात् । त्वयैव विष्णुतत्वरहस्यविवरणे सत्यानृतादौ परमात्मनः प्रवेशनिमित्तेन तद्धर्मव्यपदेश इति उक्तत्वेन परमात्मप्रवेशयोग्यपदार्थस्यैव अनृतशब्देन वक्तव्यतया शशविषाणायितप्रातिभासिके प्रवेशासंभवेन सत्यशब्दस्य साधुत्वार्थतया तत्प्रतिद्वंन्दितया गृहीतस्य अनृतशब्दस्य साधुभिन्नासाधुवस्तुपरतया व्याख्येयत्वाच्च । प्रातिभासिकतया त्वदन्गीकृते ब्रह्मज्ञाननिवर्ते ब्रह्मण्यारोपितक्षणिकत्वादौ व्यावहारकालबाध्यत्वलक्षणस्याभावात्प्रातिभासिकलक्षणस्यत्वद्रीत्या अव्याप्तेश्च । शशविषाणस्य कदाप्यबाध्यत्वेन कालत्रयाबाध्यत्वस्य तत्र सत्त्वेन परमार्थिकलक्षणस्य त्वन्मतरीत्या अतिव्याप्तेश्च । व्यावहारिकत्वेन त्वदभिमतजगतः व्यवहारकाल एव अनुमानागमबाध्यत्वांगीकारेण व्यावहारिकलक्षणस्यासंवित्वाच्च"

चन्द्रिकानुवाद:_

(चं.) (३१०) यच्च उपादानं ब्रह्म कार्यकारणयोरभेदात् कार्यगतधर्मैः रूपादिभिः व्यपदिश्यत इति नान्तस्स्थस्य परमात्मत्वे रूपादिकं बाधकमिति, तन्न, स्वर्णे कटकत्वादेरिव कटकादावपि स्वर्णत्वस्य व्यवहारेण ब्रह्मधर्मैः अपहतपाप्मत्वादिभिः कार्य एव व्यपदेशोपपत्तेः तथाच नापहतपाप्मत्वादिभिः अन्तस्स्थस्य परमात्मत्वनिश्चय इति यत्,

रामसुब्ब_

(रा.) (१७०) तन्न, कारणधर्मेण कारणतावच्छेदकधर्मभिन्नेन कार्यव्यपदेशस्वीकारे कारणीभूतमृद्गतेन शरावत्वेन कार्यस्य घटस्य शरावो घट इति व्यपदेशापत्तेरिति यदुक्तं,

खण्डनं_

(खं.) तत्तुच्छं, कार्यगतधर्मैः कारणं व्यपदिष्यते इति अङ्गीकारेऽपि घटादिगतजलाधारत्व पृथुबुध्नोदराकारत्वादिधर्मै: मृदोषि मृत् पृथुबुध्नोदराकारेत्यादिव्यवहारापत्तेः साम्यात् । कार्यगतैः सर्वै:र्मै: कार्यं नियमेन व्यपदिश्यते इति नियमानंगीकारेण उक्तापत्तिपरिहारे, कार्यकारणगतैः सर्वैः धर्मैः कार्यं नियमेन व्यपदिश्यत इति नियमस्यास्माभिरनंगीकारेण त्वदुक्तापत्तेरप्यसंभवात् । कार्यगतधर्मव्यपदेशस्य कारणे संभव इत्यक्तौ कारणगतधर्मव्यपदेशस्यापि कार्य संभव इत्येव चन्द्रिकाकारैरुक्तत्वेन नियमानंगीकारात् ॥

चन्द्रिकानुवाद:_

(चं.) (३११) मुमुक्षं प्रति सविशेषनिरूपणं च मोक्ष- साधननिविशेषब्रह्मज्ञानार्थं । यथोक्तं कल्पतरौ,

निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।

ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ।

इति, तन्न, “उदेति हवै सर्वेभ्यः पाप्मभ्यो य एवं वेद" इति श्रुतसर्व- पापनिवृत्तिरूपमुक्तिफलहानस्याश्रुतफलान्तरकल्पनस्य चायोगादिति यदुक्तं,

रामसुब्ब_

(रा.) (१७०) तन्न, निर्विशेषज्ञानविरोधिसर्वपापनिवृत्तिफलस्योपासनस्य निर्विशेषज्ञानार्थत्वसम्भवात् श्रुतहान्यभावाच्च इति यत्,

खण्डनं_

(खं.) तत्तुच्छं, रूपादिमति इन्द्रियाणां व्यापकतावच्छेदकवति अनुमानस्य, शक्यतावच्छेदक लक्ष्यतावच्छेदकादिमति आगमस्य प्रवृत्तेः निविशेषे ब्रह्मणि प्रमाणप्रवृत्तिप्रयोजकानां रूपादीनामभावात् निर्विशेषज्ञानमेव नोत्पत्तुमर्हति, दूरे तस्य मोक्षकारणत्वं । निविशेषज्ञानस्य मोक्षकारणताबोधकप्रमाणानि तु नोपलभ्यंत एव । नोपलभ्यंत एव । प्रत्युत सविशेष ज्ञानस्य मोक्षजनकत्वबोधकानि "तमेवं विद्वानमृत इह भवति"

"नित्यो नित्यानां चेतनश्चेतनानां एको बहूनां यो विदधाति कामान् ।

तमात्मस्थं येनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषां"

"यदा पश्यः पश्यते रुक्मवणं कर्तारमीशं पुरुषं ब्रह्मयोनिम्

तदा विद्वान् पूण्यपापे विधूय निरंजनः परमं साम्यमुपैति "

"जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः"

पृथगात्मानं प्रेरयितारं च मत्था जुष्टस्ततस्तेनामृतत्वमेति"

यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।

स सर्वविद्भजति मां सर्वभावेन भारत ।।

एतद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥

इत्यादीनि श्रुत्यादीनि प्रमाणानि ।मेवम्" इति श्रुतौ एवं सहस्रशीर्षत्वादिरूपेण विद्वान् अमृतो भवतीति सहस्रशीर्षत्वादिप्रकारकज्ञानस्य, द्वितीये 'तमात्मस्थं' इति काम्यमानपदार्थ निर्मातृत्व चेतनत्वप्रदस्वात्मस्थत्वादिविशिष्टज्ञानस्य, तृतीये रुक्मवर्णत्वकर्तृत्व नियामकत्वचतुमुख कारणत्वादिप्रकारकज्ञानस्य, 'चतुर्थे महिमानं पश्यति' इति माहात्म्यप्रकारकज्ञानस्य, पंचमे प्रेरकत्वभिन्नत्वादिगुणविशिष्टज्ञानस्य, षष्ठे क्षराक्षरातीतत्वसर्वात्मत्व सर्वरक्षकत्वेश्वरत्वादिज्ञानस्य मोक्षजनकत्वोक्तेः । विष्णुतत्वरहस्यविवरणादिग्रंथे धर्माणां पारमार्थिकत्वं ब्रह्मणः सविशेषत्वं, सगुणज्ञानस्यैव मोक्षजनकत्वंपृथगात्मानं" इत्यादिश्रुत्या बोध्यते इति सूत्रकृन्मतानुसारिश्रुत्युपन्यासप्रकरणे त्वया स्वीकृतत्वाच्च । निर्विशेषज्ञानस्यैवासंभवेन पापस्य तदुत्पत्तिप्रतिबंधकत्वरूप विरोधित्वस्यैवासंभवात् । त्वन्मते ज्ञानस्य अज्ञानमात्रनिवर्तकत्वेन निर्विशेषज्ञानप्रतिबंधकस्य दुरितस्य सविशेषज्ञानकार्यत्वाभावेन अज्ञाननिवृत्तिद्वारा तन्निवृत्तेरयोगाच्च । नित्यकर्मणा दुरितनिवृत्तेः नित्यकर्मणामपीह शास्त्रे निरूपणापत्तेश्च । तस्मात् सविशेषज्ञानस्य निविशेषज्ञानार्थत्वोक्तौ श्रुतहानाश्रुतकल्पनयोरपरिहार एव ॥

चन्द्रिकानुवाद:_

(चं.) (३११) सविशेषज्ञानं निर्विशेषज्ञानकारणमिति न संभवति, निविशेषशब्देन विशेषाभावविशिष्टोक्तौ त्वन्मते तस्य विशिष्टज्ञानत्वेन मोक्षाहेतुत्वात् । तदभावोपलक्षितस्योक्तौ च काकेन गृहसंस्थानविशेषस्येव विशेषाभावेन विशेषस्यैवोपलक्ष्यत्वे तस्य विशिष्टग्राहिणा प्रागेव ज्ञातत्वात् अन्यस्योपलक्ष्यस्याभावात् । उपलक्ष्यत्वाकारेण ज्ञानस्य त्वन्मते मोक्षासाधनत्वात् । न च विशेषणाविषयं विशेष्यज्ञानं प्रागसिद्धमिति वाच्यं, विशिष्टज्ञानस्य विशेष णज्ञानाभावार्थत्वायोगात् । तथा च,

विशिष्टब्रह्मधी साध्या शुद्धधीरित्यसंगतं ।

विशिष्टप्रत्यये यस्माद्विशेष्यं भासतेतरां । इति यत्,

रामसुब्ब_

(रा.) (१७०) तन्न, भावाद्वैतपक्षे विशेषाभावविशिष्टज्ञास्य विशिष्टज्ञानत्वेपि मोक्षहेतुत्वाविरोधात् । सर्वाद्वैतपक्षे विशेषत्वावच्छिन्नः " भाववत् ब्रह्मेत्याकारकज्ञानजन्यं विशेषतदभावनिष्ठ प्रकारत्वानिरूपितब्रह्मनिष्ठ विषयतानिरूपकं यत् ज्ञानं निर्विकल्पकाराख्यं तस्यैव मोक्षहेतुत्वात् । निविशेषत्वं चास्मिन् पक्षे इतरविषयतानिरूपितविषयताशून्यत्वे सति विषयतावत्वं । इदमेव विशेषाभावोपलक्षितत्वमिति शब्देन व्यवह्रियते इति यदुक्तं,

खण्डनं_

(खं.) तत्तुच्छं, भावाद्वैतपक्षस्यैवायोगात् । तथा हि-ब्रह्मव्यतिरेकेण भावस्याभाव: अभावस्य तु भावः इति हि भावाद्वैतपक्षः । तस्मिन् प्रमाणंएकमेवाद्वितीयं नेह नानास्ति किंचन इदं सर्वं यदयमात्मा" इत्यादिश्रुतिरिति वक्तव्यं । तत् त्वन्मतरीत्यैवायुक्तं, अद्वितीयपदस्य द्वितीयसामान्याभावार्थकत्वे ब्रह्मातिरिक्तभावस्येव अभावस्यापि तेन निषेधात् । एवं "नेह नानास्ति किंचन" इत्यत्रापि त्वन्मतरीत्या द्वितीयवस्तुसामान्यस्य निषेधेभावस्येवाभावस्यापि निषेधात् । "इदं सर्वं यदयमात्मा" इत्यस्य अद्वैतिभिः सर्वं आत्मव्यतिरेकेणासदिति अर्थान्गीकारेण तत्रापि अभावस्य निषेधात् । न चाद्वितीयपदेन द्वितीयाभावस्य बोधनेन तस्य निषेधे अद्वितीयपदेनैव विरोधप्रसक्तेः ब्रह्मातिरिक्तं द्वितीयमभावमंगीकृत्य भावो निषिध्यत इति वाच्यं, यस्याभावांगीकारे प्रमाणविरोधस्तं परित्यज्य तदितरस्याभावः बोध्यत इत्यीकारः कृतः स्यात् ।

तथाच विश्वं सत्यं" इति श्रुत्या, घटः सन् इत्यादिप्रत्यक्षेण, "सदेव सोम्येदमग्र आसीत्" इत्यादिश्रुत्या च कालादीनां सस्वबोधनात् तन्द्यतिरिक्तानां शशविषाणादीनामसत्त्वबोधकं भवतीत्यंगीकार्यत्वेन भावाद्वैतस्याप्यसिद्धेः । अद्वितीयमिति मृद्वयतिरेकेण मृदो यथान्यत् घटाद्याकारेण परिणामयितृकुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयवस्त्वंतरं प्राप्तं प्रतिषिध्यते 'अद्वितीयमिति' इति छांदोग्यशांकरभाष्ये अद्वितीयपदस्य जगन्निर्माण सहकारिभूतद्वितीयवस्त्वभावपरतया व्याख्यातत्वेन तेन सामान्यतः द्वितीयवस्त्वभावासिद्धेः । एतादृशश्रुतीनां अन्यार्थत्वस्य जगत्सत्यत्वप्रकरणे उक्तत्वाच्च । अभावस्य पारमार्थिकत्वांगीकारे समसत्ताकयोरेव भावाभावयोविरोधात् व्यावहारिकेण भावेन अभावस्य विरोधवार्ताया लोपप्रसङ्गाच्च । वह्निरुष्ण इत्यनुमितेरपि पारमार्थिकौष्ण्याभावविषयकत्वेन वह्निरुष्ण इति व्यावहारिकौष्ण्यग्राहकप्रत्यक्षेण विरोधाभावप्रसङ्गाच्च । सार्वज्ञयादीनां मिथ्यापदार्थघटितत्वेन मिथ्यात्वाङ्गीकारेण घटाभावादीनामपि मिथ्याभूतघटादिप्रतियोगिकत्वेन मिथ्यात्वस्य त्वन्मतरीत्या दुर्वारत्याच्च अन्यथा सर्वज्ञत्वादीनामपि सत्यत्वापत्तेः । जगतः भेदादेश्च सत्यत्वमङ्गीकुर्वता त्वया भावाद्वैतपक्षस्यानङ्गीकृतत्वाच्च । 'सर्वाद्वैतपक्षे' इत्यादि. कथनमप्यसङ्गतमेव, कर्तृत्वादिगुणविशिष्टज्ञानं, तेन विशेषाभाववद्ब्र्हेति ज्ञानं, तेन विशेषतदभावनिष्ठ प्रकारत्वानिरूपित ब्रह्मनिष्ठ विषयतानिरूपकं निर्विकल्पकाख्यं ज्ञानं, तस्य मोक्षजनकत्वमिति कल्पनाया: अप्रामाणि कत्वात् । भेदादिविशिष्टब्रह्मज्ञानस्य मोक्षजनकत्वमिति त्वदुक्तिविरुद्धत्वाच्च ।सर्वाद्वैते प्रमाणाभावस्योक्तत्वाच्च ॥

चन्द्रिकानुवाद:_

(चं.) (३१२) किञ्च सविशेषज्ञानं निर्विशेषज्ञानं प्रति न तावद्दष्टद्वारा हेतु:, तद्विशिष्टज्ञानजन्येनाज्ञानध्वंसेन चित्त वशीकरणेन वा तदभावविशिष्टज्ञानस्य वा तदभावोपलक्षितज्ञानस्य वा तद्विशेषणाज्ञानस्य क्वाप्यदर्शनात् । रूपादियुक्तपराग्भूतसविशेषज्ञानेन तद्विपरीतनिर्विशेषज्ञानायोगाच्चेति यदवादि,

रामसुब्ब_

(रा.) (१७१) तन्न, चित्तवशीकरणस्य विपरीत भावनानिवृत्तिद्वारा विज्ञानहेतुत्वस्य प्रतिबंधकसत्त्वस्थले सर्वत्र क्लप्ततया तज्जनकसविशेषध्यानस्य दृष्टविधयैव निर्विशेषज्ञानहेतुत्वाविरोधादिति यत्,

खण्डनं_

(खं.) तत्तुच्छं, चित्तवशीकरणं नाम इतस्ततः सञ्चरतो मनसः एकविषयकत्वसंपादनं, विपरीत भावना नाम भ्रमजन्यसंस्कारः । स्मृत्यादिना स च निवर्तते, न तुक्तरूपचित्तवशीकरणेनेति चित्तवशीकरणस्य अस्तु वा यथा- विपरीत भावनानिवृत्तिद्वारा विज्ञानहेतुत्वं न क्लृप्तं । अस्तु वा कथंचिदन्यत्र, निर्विशेषज्ञानप्रतिबन्धकी भूतविपरीतभावना च ब्रह्म सविशेषमित्याकारकज्ञानादिजन्यसंस्काररूपैव । सा च सविशेषज्ञानेन वा तज्जन्यचित्तवशीकरणेन वा दृढैव भवति, न तु निवर्त्येति सविशेषज्ञानजन्येन चित्तवशीकरणेन विपरीत भावनानिवृत्तिद्वारा निर्विशेषज्ञानं जायत इत्यस्यायुक्तत्वात् ॥

चन्द्रिकानुवाद:_

(चं.) (३१२) नाप्यदृष्टद्वारा सविशेषज्ञानं निविशेषज्ञानहेतु:, विहितक्रियाजन्यत्वाददृष्टस्य त्वन्मते च ज्ञानस्याविधेयत्वात् । नापि ज्ञानप्रतिबन्धकदुरितनिवृत्तिद्वारा, तस्य नित्यादिकर्मणैव निवृत्तेः । नित्यादिकर्मणामपि इहैव शास्त्रे निरूपणापत्तेश्च । त्वम्मते ज्ञानस्याज्ञानमात्रनिवर्तकत्वाच्च । न च व्यावहारिकं दुरितं व्यावहारिकस विशेषब्रह्मज्ञानकार्र्यं, येनाज्ञाननिवृत्त्या तत्कार्यं पापं निवर्तेत । एतेन सविशेषज्ञानसंतानरूपं निदिध्यासनमदृष्टद्वारा, दुरितनिवृत्तिद्वारा वा, चित्तवशीकरणद्वारा वा निर्विशेषज्ञानार्थमिति निरस्तं, श्रुतहान्याद्यापातादिति चंद्रिकायां,

रामसुब्ब_

(रा.) (१७१) "एतेन सविशेषज्ञानं नादृष्टद्वारा निर्विशेषापरोक्षहेतुः" इत्यादि: "श्रुतहान्यापातात्" इत्यन्तो

मध्वचन्द्रिकाग्रंथ: परास्त:, अनुक्तोपालम्भत्वादिति यदुक्तं,

खण्डनं_

(खं.) तत्तुच्छं, "निर्विशेषज्ञानविरोधिसर्वपापनिवृत्तिफलस्योपासनस्य निर्विशेषज्ञानार्थत्वसंभवात्" इति ज्ञानप्रतिबन्धक दुरितनिवृत्तिद्वारा इति पक्षस्य त्वयैव स्वीकृतत्वेन सम्भावितत्वात् सम्भावितपक्षान् विकल्प्य दूषणकरणस्य शास्त्रसम्प्रदायसिद्धत्वेन अनुक्तोपालम्भनत्वोक्तेः शास्त्रसम्प्रदायाज्ञानमूलत्वात् ॥

चन्द्रिकानुवाद:_

(चं.) (११३) एतेन सविशेषज्ञानसंतानरूपं निदिध्यासनमदृष्टद्वारा दुरितनिवृतिद्वारा वा चित्तवशीकरणद्वारा वा निर्वि शेषज्ञानार्थमिति निरस्तं, श्रुतहान्याद्यापातात् । सविशेषनिदिध्यासनस्यापि निर्विशेषनिदिध्यासनवत्स्वविषयापरोक्षहेतुताया एव युक्तत्वाच्च । दशमस्त्वमसीत्यादाविव शाब्दे ज्ञाने चित्तवशीकरणानपेक्षणाच्च । आपरोक्ष्य हेतुचित्तैकाग्र्यादेश्च निर्विशेषपरोक्षज्ञानाधीनतन्निदिध्यासनादेव सिद्धेः । चित्तवशीकरणाभावे सविशेषनिदिध्यासनस्यैवायोगच्चेत्यत्र,

रामसुब्ब_

(रा.) (१७०) आपरोक्ष्यहेतुचित्तैकाग्र्यादेश्च निर्विशेषपरोक्षज्ञानाधीनतन्निदिध्यासनादेव सिद्धेरिति यदुक्तं, तन्न, उपायस्य उपायांतरादूषकत्वात् । अन्यथा "व्रीहिभिर्यजेत" इत्यनेनावगतसाधनभावव्रीहीणामेव पुरोडाशयागसाधनत्वसम्भवे 'यवैर्यजेत' इत्यनेनावगत साधनभावयवानां पुरोडाशयागसाधनत्वानापत्तेः । यत्तूक्तं दशमस्त्वमसीत्यादि, तदपि न, दशमस्त्वमसीत्यादौ विपरीतभावनारूपप्रतिबन्धकाभावेन चित्तैकाग्र्यानपेक्षणेऽपि 'तत्त्वमसि' इत्यादौ तादृशप्रतिबंधसत्त्वेन तन्निवर्तकचित्तैकाग्र्यस्य सविशेषध्यानाधीनस्यापेक्षितत्वादिति ॥

खण्डनं_

(खं.) 'सविशेषज्ञानसन्तानरूपं निदिध्यासनं चित्तवशीकरणद्वारा निविशेषज्ञानार्थं' इत्यत्र निर्विशेषज्ञानशब्देन निर्विशेषविषयकशाब्दज्ञानं विवक्षितं, किं वा निविशेषविषयकापरोक्षज्ञानं । नाद्यः, दशमस्त्वमसीत्यादाविव शाब्दे ज्ञाने चित्तत्रशीकरणानपेक्षणात् । न द्वितीयः, निर्विशेषापरोक्षज्ञानस्य निर्विशेषनिदिध्यासनं विनाऽसिद्धेः । निर्विशेषापरोक्षहेतुभूतचित्तैकाग्र्यादेश्च सविशेषविषयक निदिध्यासनादिव अवश्यापेक्षितनिर्विशेषविषयकनिदिध्यासनादेव सिद्धेः । चित्तैकाग्रमन्तरा सविशेषध्यानस्याप्यसम्भवेन पूर्वं विद्यमानस्य चित्तैकाग्र्यस्य सविशेषनिविध्यासनकार्यत्वानुपपत्तेश्च । सविशेषध्यानस्य तदर्थ शास्त्रे सविशेषनिरूपणस्य चानावश्यकत्वादिति चन्द्रिकायां दूषणमुक्तं । ब्रीहिसाध्ये यागे यवानां अनावश्यकत्वात्, यवसाध्ये व्रीहीणामनावश्यकत्वात् परस्परनिरपेक्षतया तत्र एकेन अन्यस्यासाधनत्वानापत्तावपि, सविशेषनिदिध्यांसनेन चित्तैकाग्र्य सम्पादनपक्षेsपि चित्तैकाग्र्यहेतुभूतनिर्विशेषनिदिध्यासनस्यावश्यकत्वेन तेनैव निर्विशेषापरोक्ष हेतुभूतचित्तैकाग्र्यसम्भवेन सविशेषध्यानस्य तदर्थं शास्त्रे सविशेषनिरूपणस्य चानावश्यकत्वात् अन्यथासिद्धस्य उपायत्वाभावाच्च । तीर्णसरितो दशपुरुषाः नद्याः परे तीरे तिष्ठन्तः संतः दशापि वयं नदीपारं गता न वा इति सन्देहेन गणनमारेभिरे । तद्वेलायां स्वात्मानं परित्यज्य तैस्तैः 'अयमेकः: अयं द्वितीयः' इत्येवं प्रकारेण 'यं नवमः' इत्यन्तां गणनां कृत्वा दशमः नद्यां मग्न इति चिन्ताकरणस्यावसरे मार्गस्थ आगत्य दशमस्त्वमसीति उक्तवान् । तदुक्त्या प्रत्येकं स्वस्य दशमत्वं ज्ञातं इति हि गाथा । तत्रापि दशमाभावज्ञानजन्य संस्कारात्मकविपरीत भावनारूपप्रतिबन्धकस्य सत्त्वात् प्रतिबन्धकाभावोक्ते रयुक्तत्वाच्च । तत्वमसीतिवाक्येन अद्वैतिरीत्या जायमाननिविशेषज्ञानस्य प्रतिबन्धिकायाः विपरोतभावनायाः सविशेषनिदिध्यासनेन वा तज्जन्यचित्तैकाग्र्येण दृढताया एव प्राप्तेः निवृत्त्यसम्भवादित्युक्तत्वाच्च ॥

चन्द्रिकानुवाद:_

(चं.) (३१३) नापि सविशेषध्यानं निविशेषध्यानार्थमिति द्वितीयः, ज्ञानविशेषो ध्यानमिति अन्यत्रोक्तत्वात् । इह 'य एवं-वेद' इति ज्ञानार्थविदधातुश्रवणाच्च । भगवति रूपं तात्त्विकमित्यन्यत्रोक्तत्वाच्च । 'हिरण्मयः पुरुषो दृश्यते' इत्यपरोक्षज्ञान विषयत्वोक्तेश्च । न हि योषिति अग्नित्वं दृश्यत इत्युच्यत इति यत्,

रामसुब्ब_

(रा.) (१७१) तन्न, तात्त्विकं भगवतो रूपमन्यत्रोक्तत्वादित्यस्य भवद्वाक्यस्यासङ्गतत्वात् । प्रसिद्धश्रुतिस्मृस्यादिषु भगवतस्तात्त्विक रूपमित्याकारकवाक्यस्यादर्शनात् । "अन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" इत्यत्र सर्वमतेऽपि वर्तमानक्षणे तद्रूपदर्शनस्य अस्माकं वा भवत वा अभावेन दृशिधातोर्लक्षणया शास्त्रजन्यज्ञानपरतया व्यावहारिकस्यापि हिरण्यश्मश्रुत्वादेः शास्त्रजन्यज्ञानविषयत्वाविरोधादिति यदुदितिं,

खण्डनं_

(खं.) तत्तुच्छं, चन्द्रिका वाक्यार्थाज्ञानविजृंभितत्वात् । तथा हि-चन्द्रिकायां "इह " य एवं वेद" इति ज्ञानार्थविदधा तुश्रवणाच्च" इति पूर्ववाक्येन हिरण्मयपुरुषविषयकवेदनस्य ज्ञानत्वोक्तिरयुक्ता, भगवद्रूपस्यातात्त्विकत्वेन अतात्त्विकभगवद्रूपविषयक ज्ञानस्यासम्भवात्, “योषितमग्नि ध्यायीत" इत्यादौ अविद्यमानाग्नित्वादिप्रकारकध्यानस्य दर्शनेन अतात्त्विकभगवद्रूपविषयकस्य ध्यानत्वमेव वक्तव्यमिति अद्वैतिना शङ्कयेतेति 'भगवतीरूपं तात्त्विकमिति अन्यत्र न्यायामृते उक्तत्वात् रूपस्य तात्त्विकत्वेन तादृशरूपविषयकस्य ज्ञानत्वसम्भवात्' इति चंद्रिकाकारैरुक्तं ! एवं तदाशयमनवबुध्य 'भगवति रूपं तात्त्विक' इति वा 'भगवतस्तात्त्विक रूपं' इति वा आनुपूर्वीविशिष्ट प्रमाणवाक्योदाहरणं कृतमिति भ्रांत्वेत्थमुक्तमिति । विष्णुतत्त्वरहस्यादिग्रन्थेस्वाभाविक ज्ञानबलक्रिया च" इत्यादिना भगवतो रूपं तात्विकमिति सिद्धयतीति त्वयैवाङ्गीकृतत्वेन तद्विषयक प्रमाणदर्शनादर्शन विचारस्य तवानुपयुक्तत्वाच्च । भगदतो रूपं तात्त्विकमिति अस्माभिरपि विश्वरूपादिसत्यत्वविचारे व्यवस्थापितत्वाच्च । "हिरण्मयः पुरुषो दृश्यते.. निर्वृत्तचक्षुभिः समाहितचेतोभिः ब्रह्मचर्यादिसाधन सापेक्षैः इति छांदोग्यशांकरभाष्ये स्पष्टं हिरण्मयपुरषस्य अपरोक्षज्ञानविषयत्वोक्तेः 'सर्वतेपि' इत्यादिजल्पनस्य शांकरभाष्यापरिशीलननिमित्तत्वाच्च' "पश्यामि देवान् तव देव देहे" इत्यादिषु तत्कालीनापरोक्षज्ञानाभिप्रायेण वर्तमानार्यकप्रत्ययप्रयोगदर्शनेन शास्त्रसम्प्रदायाज्ञानमूलत्वाच्च ॥

चन्द्रिकानुवाद:_

(चं.) (३१४) किंच योषिदादेरग्नित्वाद्यभावेऽपि तथा ध्यानवन्निर्विशेषब्रम्हण एव हिरण्यश्मश्रुत्वादिना ध्यानसंभवेन सविशेषब्रम्यणः साधकानुग्रहार्थं ऐच्छिकरूपपरिग्रहोक्तिरयुक्ता । तस्मान्न सविशेषनिरूपणं निर्विशेषज्ञानार्थं । अन्यथा वैपरीत्य स्यात् । 'सत्यं ज्ञानं' इत्यादिसदब्रम्हनिरूपणमपि "असद्वा इदमग्र आसीत्" इत्यादिश्रुतिसिद्धब्रम्हज्ञानार्थं स्यात् । एवञ्च,

असद्रूपं परं ब्रम्ह साक्षात्कर्तुमनीश्वराः ।

ये मन्दास्तेऽनुकंप्यन्ते सदब्रम्हप्रतिपादनै:।।

निर्विशेषं परं धर्ममनुष्ठातुमनीश्वराः ।

ये मन्दास्तेऽनुकंप्यन्ते सविशेषनिरूपणैः ।। "

इति स्यात् । शक्यं हि ब्रम्हकांडे लक्षणया निविशेषब्रम्हेव कर्मकांडेऽप्यग्निहोत्रादिसदिशेषधर्मविलक्षणः कश्चिन्निविशेषो धर्मः प्रतिपाद्यते इति वक्तुमिति यदभिहितं,

रामसुब्ब_

(रा.) (१७२) तन्न, "माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।

सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि ।।"

इत्यदाहृतप्रसिद्धमोक्षधर्मवचनरीत्या मायापरिणामरूपस्य,

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं ॥

इत्यादिगीतावचनैरैच्छिकत्वेन निरूपितस्य शरीरस्य मायोपाधिरहिते निर्विशेषे ब्रह्मण्यध्यसनायोगेन सगुणमायोपहितब्रह्मण्येव तस्यावश्यं वाच्यत्वात् । न ह्यौचित्यं विनाध्यासः संभवति । अन्यथा शुक्ताविव पाषाणेपि रजताध्यासप्रसङ्गात् । मायोपहिते ब्रह्मणि अध्यासं विनैब शरीरवत्त्वलक्षणरूपसंभवे निर्विशेषे रूपवत्त्वाध्या सकल्पनानुपपत्तेश्चेति यदुदितं,

खण्डनं_

(खं.) तत्तुच्छं, "माया होषा मया सृष्टा" इति वाक्येन,

एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ।

इच्छन् मुहूर्तान्नश्येयं ईशोऽहं जगतां गुरुः ॥

माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।"

इति पूर्ववाक्यसहितेन 'घटादिवत् परमात्मा रूपवानिति दृश्यते, इति त्वया न विज्ञेयं; दर्शनदानेच्छाभावेनश्येयं अदृश्यो भवामि भक्ति विना अहं न दृष्टिविषय: ; अहं तथा करणे ईशः; मां पश्यसीति यत्, एषा माया मायया इच्छया मया सृष्टा' इति ईश्वरदर्शनस्य ईश्वरेच्छाधीनत्वमेव बोध्यते, नतु ईश्वररूपस्य अविद्याकल्पितत्वरूपं मायिकत्वमिति, एतदध्यायारम्भ एव-

एवं स्तुतः स भगवान् गुहयैस्तथ्यैश्च नामभिः ।

इति लोके विश्वरूपादीनां सत्यत्वबोधनात् । विष्णुतत्त्वरहस्य विवरणे "माया ह्येवा मया सृष्टा" इति मोक्षधर्मे नारदं प्रति भगवद्वचने ज्ञानमयत्वस्य प्रतिपादनात् । "माया ह्येषा इति मायाशब्दः ज्ञानवचनः, माया वयुनं ज्ञानमिति नैघंटुकवचनप्रामाण्यात् । नतु मायाशब्दः सत्त्वरजस्तमः साम्यावस्थामूलप्रकृतिवचनः" इत्यादिना ईश्वररूपस्य ज्ञानरूपत्वस्य सत्त्वरजस्तमोगुणात्मकमायामयत्वाभावस्य च ध्वस्ता विद्यानां मुक्तानामपि तादृशशरीरवत्त्वस्य चाङ्गीकाराच्च ।यदायदा हिइति श्लोके ईश्वररूपस्य मायिकत्वानुक्तेश्च । घटवति भूतले घटाध्यासस्यासम्भवेन यथा घटरहिते घटाध्यासः, तथा मायिकशरोरवति सविशेषे मायिकरूपाध्यासासम्भवात् निर्विशेष एव ब्रह्मण्यध्यासस्य वक्तव्यत्वात् । चन्द्रिकायां 'निविशेषब्रह्मण एवं हिरण्यश्मश्रुत्वादिना ध्यानसंभवेन' इति उक्तं, न तु 'निर्विशेषे ब्रह्मणि हिरण्यश्मश्रुत्वादीनां अध्याससंभवेन' इतीति अन्यथाऽनूद्य दूषणकरणस्यानुचितत्वाच्च । ब्रह्मणि जगदध्यासे यादृशं औचित्यं भवता कल्प्यते तादृशौचित्यस्य अत्रापि निराबाधत्वात् । वस्तुतः अद्वैतिमते ब्रह्मणि कस्याप्यध्यासस्य औचित्यं नास्तीति अध्यासवादनिरासे उक्तत्वाच्च | अद्वैतिमते ब्रह्मातिरिक्तस्य अज्ञानतत्प्रयुक्तान्यतरत्वावश्यकत्वेन अज्ञानभिन्नस्य शरीरस्य अध्यस्ततायाः आवश्यकत्वेन, 'अध्यासं विना शरीरवत्त्वलक्षणरूपसंभवे निर्विशेषे रूपवत्त्वाध्यासकल्पनानुपपत्तेश्च' इत्यस्य अद्वैतमताज्ञानोन्मादान्यतरमूलत्वात् ।

न्यायामृ. (४७९) "बृहतो ह्यस्मिन् गुणाः, परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, सत्यकामः सत्यसङ्कल्पः" इत्यादि श्रुतीनां

ब्रह्मेशानादिभिर्देवैः समेतैर्यग्गुणांशकः ।

नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा ।

य्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।

तेजोबलेश्वर्यमहावबोधसद्वीर्यशक्त्यादि गुणैकराशिः ।

परः पराणां.....

इत्यादिस्मृतीनां "ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ, ॐ अदृश्यत्वादिगुणको धर्मोक्ते ॐ ॐ सर्वधर्मोपपत्तेश्च ॐ : इत्यादीनां निर्णायकसूत्राणां, 'ब्रह्म धर्मसमानसत्ताकधर्मवत्पदार्थत्वात्' इत्याद्यनुमानानां च ब्रह्मणः सधर्मकत्वसाधकानां सत्त्वात्, सविशेषमेवब्रह्म, न निर्विशेषमिति यदन्यत्रोक्तं,

रामसुब्ब_९२

(रा.) (१७२) तन्न, भवदुक्तश्रुतिस्मृत्योः श्रुतिस्मृतिकोशेष्वदर्शनात् । व्यावहारिकसगुणब्रह्मविषयत्वेन तयोर्निर्विशेषब्रह्म नास्तीत्यदर्शनेन च निर्विशेषब्रह्म निराकरणासंभवाच्च । अनुमानस्य "केवलो निर्गुणः, न च काचन भिदास्ति, मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति, एकधैवानुद्रष्टव्यं यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा, द्वैतिनोतथ्यदर्शन:, ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ" इत्यादिश्रुतिभागवतविष्णुपुराणब्रह्मसूत्रविरोधेन नरकपालशुचित्वानुमानवदागमबाधिततया परमार्थधर्मासाधकत्वादिति यदुक्तं,

खण्डनं_९२

(खं.) तत्तुच्छं, "परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इति श्रुतिः ब्रह्मगुणानां काल्पनिकत्वं प्रतिषेधति, स्वाभाविकत्वं च व्यवस्थापयतीत्यादिग्रन्थेन ब्रह्मगुणानां पारमार्थिकत्वं श्रुत्यादिबलेन उपपाद्य निविशेषब्रह्मणः त्वया निरकरणात् निर्विशेषब्रह्म निराकरणासम्भावोक्तेः स्वोक्तिविरुद्धत्वात् । प्रमेयांगीकारे प्रमाणसदसत्त्वविचारस्य निष्प्रयोजनत्वाच्च । अद्वैतसिद्धयादिग्रन्थेष्वपि श्रुतिस्मृतीरङ्गीकृत्य सगुणप्रकरणस्थित ब्रह्मानन्तशब्दार्थविषयकत्वेन लक्षणवाक्यस्थितब्रह्मानंतशब्दार्थनिर्वचनपरत्वायोगादिति सगुणब्रह्मपरतया

योजितत्वाच्च ।अथ कस्मादुच्यते परं ब्रह्म यस्मात्परमपरं पराणं बृहत् बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्मेति सर्वाणि बृंहयतीति ब्रह्मा बृंहति बृंहयति च"इति समानार्थिकायाः यत्किञ्चिद्भिन्नापूर्वीकायाः श्रुतेः उपलभ्यमानत्वाच्च ।

बृहत्त्वादब्र्हुणत्वाच्च यद्रूपं ब्रह्मसंज्ञितं ।

इति विष्णुपुराणे ब्रह्मशब्दनिर्वचनाच्च ।केवलो निर्गुणश्च" इति श्रुतिःगुणी सर्वविद्यः" इति पूर्वोत्तरवाक्ययोः परमात्मनः स्पष्टं गुणवत्त्वोक्तेः, पूर्वोत्तरेषु अनेकेषु वाक्येषु स्वस्मिन्नपि अनेकेषां साक्षित्वादिधर्माणां उक्तेश्च, न धर्मसामान्याभावबोधिका, किंतु सत्त्वरजस्तमोगुणराहित्यबोधिका, एतन्निर्गुणपदस्यैव शङ्करेण सत्त्वरजस्तमोगुणशून्यत्वपरतया व्याख्यातत्वाच्च ।निर्गुणं गुणभोक्तृ च" इति गीताव्याख्यानावसरे शङ्करभाष्ये 'निर्गुणं सत्त्वरजस्तमांसि गुणाः तैः वजितं" इति सत्त्वरजस्तमोगुणराहित्यपरतया निर्गुणपदस्य व्याख्यातत्वाच्च । विष्णुतत्त्वरहस्य विवरणे "केवलो निर्गुणश्च" इति श्रुतेः गुणत्वावच्छिन्नप्रतियोगिताककाल्पनिकाभावबोधकत्वमेव, नतु पारमार्थिकत्वविशिष्टगुणाभावः तथा प्रतिपाद्यते "गुणी सर्वविद्यः" इत्यादिगुणवत्त्वबोधकश्रुतिविरोधात् । न च निर्गुणश्रुतिबलेन "गुणी सर्वविद्यः" इति श्रुतेः काल्पनिकगुणप्रतिपादकत्वं स्यादिति विनिगमनाविरहः शङ्कयःस्वाभाविकी ज्ञानलक्रिया च" इति गुणानां स्वाभाविकत्वकथनेन तेषां काल्पनिकत्वासंभवस्यैव विनिगमकत्वात् । नहि ब्रह्मणि गुणाभावस्य स्वाभाविकत्वं बोत्श्रुतिवाक्यमुपलभ्यते, येन गुणाभावस्य काल्पनिकत्वे विरोधः स्यात् । तस्मात् कृत्स्नं श्रुतिस्मृतिसूत्रात्मकं संप्रतिपन्नं शास्त्रं ब्रह्मणः सगुणत्वे जीवब्रह्मभेदे च विश्रान्तमिति श्रीमद्भगवद्बादरायणाचार्याभिप्राय इति सर्व समंजसं इति त्वयैव ब्रह्मणः सगुणत्वमेव नतु निर्गुणत्वापरपर्यायवाच्यनिर्विशेषत्वमिति अङ्गीकृतत्वे न स्वोक्तिविरुद्धत्वाच्च । " नात्र काचन भिदास्ति, (नृसिंहोत्तरतापनीये ८) देवेह तदमुत्र यदमुत्र तदन्विह ।

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । (काठक २-१०) इति श्रुती अपि एतल्लोक परलोकस्थित भगवद्रूपाणां भेदनिषेधिके, नतु गुणनिषेधिके इति एतयोः निर्गुणत्वविषये उदाहरणमयुक्तमेव । एकधैवानुद्रष्टव्यं" (बृ. ४-४-२० ) इति श्रुतिरपि एकधेति एकप्रकारेण द्रष्टव्तत्वबोधिका सती ब्रह्मणि प्रकाररूपधर्मं ज्ञापयत्येव, न तु निषेधति । 'यत्र हि द्वैतमि भवति" बू. (४-५-१५) इति वाक्यंयत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्" (बृः ३-९-२८) इति वाक्येन बोध्यमानतर्के व्याप्तिदर्शकं नतु गुणनिषेधकमिति । "ननु द्वैतेनोपमीयमानत्वाद्वैतस्य पारमार्थिकत्वमिति न, “वाचारम्भणं विकारो नामधेयं" इति श्रुत्यन्तरात्एकमेवाद्वितीयं, आत्मैवेदं सर्वं" इतिच" वाक्येन शङ्करेणास्य वाक्यस्य द्वैतपारमार्थिकत्वसाकत्वमेवेत्याशंक्य श्रुत्यन्तरेणैव द्वैतमिथ्यात्व सिद्धिकथनान्नास्य वाक्यस्यापि द्वैतमिथ्यात्वप्रतिपादनद्वारा गुणमिथ्यात्वपरत्वं शङ्करव्याख्यानरीत्यापीति तदुदाहरणमप्यसङ्गतमेव । "तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा" इति भागवत वाक्यमपि "जन्माद्यस्य" इति आरम्भे जगत ईश्वरसृज्यत्वोक्त्या सत्यत्वस्य सिद्धत्वेन

यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा

इति शाङ्करबृहदारण्यकभाष्ये 'अमृषा' इति पदं छित्वा अमृषा सत्यमिति वृक्षादीनां सत्यत्वस्योक्ततया च अत्रापि 'अमृषा' इति पदच्छेदेन त्रिसर्गः अमृषा सत्यमिति अर्थस्य स्वीकार्यत्वेन न गुणादीनां मिथ्यात्वबोधकं, प्रत्युत सत्यत्वबोधकं, "भित्वा मृषाश्रुःइति दशमे मृषाशब्दस्य निष्प्रयोजने प्रयोगेण अत्र मृषा इति पदच्छेSदेपि त्रिसर्गः परमात्मविषये निष्प्रयोजनः इत्यर्थकत्वस्यापि सम्भवाच्च । अन्यथा यत्रेति पदवैयर्थ्यापत्तेः ।

तस्यात्मपरदेहेषु सतोSप्येकमयं हि सः ।

विज्ञानं परमार्थो हि द्वैतिनोSतथ्यदर्शिनः ॥

इति वाक्यमपि पूर्वार्धे आत्मदेहे परदेहे विद्यमानस्य नियामकपरमात्मन: ऐक्यस्योक्तत्वेन नियामकपरमात्मरूपाणां भेददर्शिन एव निन्दाबोधकं, न तु जीवपरमात्मनोर्भेदज्ञानिनः निन्दायाः गुणनिषेधस्य वा बोधकमिति । "ॐ अरूपवदेव हि तत्प्रधानत्वात्" इति सूत्रं प्राकृतरूपादिराहित्यमेव वक्त, न तु ज्ञानानन्दाद्यात्मकरूपराहित्यं, "आनंदरूपममृतं यदेकमव्यक्तमन्नतरूपं" इत्याद्यनेकश्रुतिस्मृत्यादिषु भगवतः ज्ञानानन्दाद्यात्मकरूपवत्वोक्तेः । त्वयापि विष्णुतत्त्वरहस्यविवरणे ज्ञानात्मकस्य शरीरस्थ तस्य काल्पनिकत्वाभावस्य च स्वीकारात् । तस्माद्ब्रह्मणः सविशेषत्वे त्वदुदाहृतश्रुतिभागवतविष्णुपुराणब्रह्मसूत्रविरोधाभावेन ब्रह्मणः सविशेषत्वबोधकश्रुतिस्मृत्यादिभिः तदनुकूलानुमानैश्च परमात्मनः पारमार्थिकधर्मसिद्धेनिष्प्रत्यूहत्वमिति ।।

न्यायामृ -(४९१) ननु निर्गुणवाक्येन निषेदधुं सगुणवाक्यस्यानुवादकत्वेनैकवाक्यत्वसंभवे वाक्यभेदेन गुणप्रापकता न युक्तेति चेन्न सत्यकामत्वादीनामन्यतोप्राप्तेः । श्रुतिप्राप्तस्य च श्रुत्या निषेधेऽहिंसावाक्यमग्निषोमीय हिंसायाः, अग्रहणवाक्यं च षोडशिग्रहणस्य, "असद्वै" इत्यादिवाक्यं च ब्रह्मसत्त्वस्य, भेदवाक्यं चैक्यस्य निषेधकं स्यात् इति यदुक्तं,

रामसुब्ब_९३

(रा.) (१७३) तन्न, गुणनिषेधश्रुतेः पारमार्थिकब्रह्मविषयत्वेन गुणबोधकश्रुतेः व्यावहारिकमायोपाधिकब्रह्मविषयत्वेन गुणतन्निषेधशास्त्रयोः हिंसातन्निषेधशास्त्रयोरिवैकविषयत्वाभावेन हिंसाविधितन्निषेधन्यायस्य प्रकृत आपादनायोगात् । ब्रह्मणो हैविध्यं च

द्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च ।

क्षराक्षरस्वरूपे ते सर्वभूतेष्ववस्थिते ॥

सद्भाव एवं भतो मयोक्तो ज्ञानं यधा सत्यमसत्यमन्यत् ।

एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ।

इत्यादिविष्णुपुराणवचनैः पौराणिकैरप्यंगीकृतं ।

यस्य ब्रह्म च क्षत्रं चोभे भवत ओदत:

मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ।

इति कठवल्लीश्रुतिः सर्व संहर्तृ सगुणब्रह्मणस्तदधिष्ठानभूतनिर्विशेषब्रह्मणो 'यत्र, तत्र' इति शब्दोक्तस्य तदीयदुर्विज्ञेयत्वस्य प्रतिपादिका सती ब्रह्मणो व्यावहारिकपारमार्थिकद्वैविध्ये मानमित्यवगन्तव्यं इति यत्,

खण्डनं_९३

(खं.) तत्तुच्छं, पूर्वोत्तरवाक्यार्थाज्ञानमूलत्वात् । तथा हि--सगुणवाक्यनिर्गुणवाक्ययोः अनुवादकत्व निषेधकत्वेनैकवाक्यत्वसम्भवे चाक्यभेदेन गुणप्रापकता न युक्तेति मायिना शङ्किते, प्राप्तमेवानूद्य निषेद्धव्यं, सत्यकामत्वादीनामन्यतः प्राप्त्यभावात् श्रुत्यैव प्राप्तिर्वक्तव्या, श्रुत्या प्राप्तस्य श्रुत्या निषेधो न युक्तः, श्रुतिप्राप्तस्य श्रुत्या निषेधे अहिंसावाक्यं अग्निषोमीयहिंसायाः निषेधकं स्यादित्यादिदूषणमुक्तं । यदि भवता सगुणवाक्यस्य व्यावहारिकमायोपाधिकब्रह्मविषयत्वं निर्गुणवाक्यस्य पारमार्थिकब्रह्मविषयत्वं स्वीक्रियते, र्हि उभयोर्भिन्नविषयत्वेन माय्यभिमता एकवाक्यताघटना भग्ना स्यादिति । भिन्नविषयत्वमङ्गीकृत्य तादृशगुणानां निषेधानङ्गीकारे श्रुतिप्राप्तानां अनिषिद्धानां पारमाथिकत्वापत्तेः । ब्रह्मद्वैविध्ये प्रमाणाभावात् त्वयैव ब्रह्मणः मायिकत्वनिषेधाच्च, "द्वे रूपे ब्रह्मणस्तस्य " इति त्वदुदाहृतं वाक्यंद्वे वाव ब्रह्मणो रूपे मूर्तं चैचामूर्तं च मत्यं चामृतं च" इति बृहदारण्यकवाक्यसमानमिति तस्येवास्यापि अर्थो वर्णनीयः, 'मूर्तं पृथिव्यप्तेजांसि अभूतं वाय्वन्तरिक्षे ब्रह्मणः रूपे रूप्येते इति रूपे ज्ञापके' इति मूर्तामूर्तशब्दबोध्यानां च महाभूतानां ब्रह्मज्ञापकत्वमुक्तं शाङ्करभाष्ये, न तु सगुणनिर्गुणद्विविधब्रह्मविषयत्वमिति, अस्यापि वाक्यस्य पंचमहाभूतानां परब्रह्मज्ञापकत्वार्थकतया ब्रह्मणो द्वैविध्ये उदाहरणं शाङ्करभाष्याज्ञानविजृम्भितं, 'द्वे रूपे' इति श्रवणमात्रजनितभ्रांतिमूलं चेति तेन ब्रह्मणो द्वैविध्यासिद्धिः ।सद्भाव एवं भवतो मयोक्तःइति त्वदुदाहृत श्लोके, तत्पूर्वतने

"ज्ञानं च शुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् ।

एक सदैकः परमः परेशः स वासुदेवो न यतोऽन्यदस्ति"

इत्यस्मिंश्च श्लोके च ब्रह्मणो द्वैविध्यप्रसक्तेरेवाभावात्तदुदाहरणं व्यर्थमेव ।।

"यस्य " इति काठकवाक्यं तु 'यस्य' इत्यादिनोक्तस्य सर्वे संहर्तृत्वादिगुणविशिष्टस्यैव 'यत्र' इति शब्देन ग्राह्यत्वात्, शाङ्करभाष्यव्याख्यानकर्तृभिरपि यत्र स्वे महिम्नि स विश्वोपसंहर्ता वर्तत इति 'यस्य यत्र' इति पदोक्तयोरेकत्वकथनाच्च न ब्रह्मद्वैविध्ये मानमिति ॥

न्यायामू-- (४९०) किञ्च तद्विरोधेपि श्रुतेर्नातात्विक विषयता युक्ता । उक्तं हि,

को हि मीमांसको ब्रूयात् विरोधे शास्त्रयोर्मिथः ।

एकं प्रमाणमितरत्वप्रमाणं भवेदिति । इति यत्,

रामसुब्ब_९४

(रा.) (४९१) तन्न, वेदोपबृंहणामूर्धन्यतया भवदभिमतश्रीविष्णुपुराणगतेन "सद्भाव एवं भवतो मयोक्तः" इति अनुपदश्लोकेन विरुद्धार्थकभवदभिमतश्रुत्योः व्यावहारिकपारमार्थिक विषयतया व्यवस्थाकथनेन "को हि मीमांसकः" इति भवदुक्तेः भवदभिमतपुराणवचनविरुद्धत्वात् । "सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यः" इत्यादिव्यावहारिकपारमार्थिक सत्यद्वयबोधकसर्वाभिमतप्रमाणभावश्रुतिविरुद्धत्वाच्चेति यत्,

खण्डनं_९४

(खं.) तत्तुच्छं, विष्णुपुराणस्य व्यावहारिकपारमार्थिक विषयतया श्रुत्योर्व्यवस्थापकत्वाभावस्यानुपदमेवोक्तत्वात् । "सत्यस्य सत्यं" इति श्रुतेः 'चक्षुश्चक्षुः चेतनानां चेतनः ज्योतिषां ज्योतिः' इत्यादौ यथा ज्योतिष्टवादिप्रद इत्यर्थः तथा प्राणानां सत्यत्वप्रद इत्यर्थकत्वेन व्यावहारिकपारमार्थिक विषयकत्वबोधकत्वाभावस्य पूर्वमेवोक्तत्वेन व्यावहा रिकपारमार्थिकवस्तुद्वये प्रमाणत्वाभावात् । श्रुतेः व्यावहारिकवस्तुविषयकत्वे व्यावहारिकत्व आरोपितत्वे च श्रुतेर्षाधितार्थविषयकत्वरूपाप्रामाण्यस्य प्राप्तेः ॥

रामसुब्ब_९५

(रा.) (१७४) यत्तुहिरण्मयः पुरुषो दृश्यते" इति रूपस्य वर्तमानत्वनिर्देशादनारोपितत्वमिति, तन्न, लडर्थवर्तमानत्वस्य धात्वर्थान्वयित्वेन हिरण्यश्मश्रुत्वादिना रूपेणान्वयित्वायोगात् । अन्वयित्वेSपि वा तद्रूपस्य व्यावहारिकत्वेन घटो दृश्यते इत्यत्र घटस्येव वर्तमानत्वान्वयित्वोपपत्तेः । आरोपितत्वं हि अधिष्ठानतत्त्वसाक्षात्कारध्वंसप्रतियोगित्वयोग्याज्ञानतत्प्रयुक्तान्यतरत्वं । तच्च न वर्तमानत्वेन विरुध्यत इति यदुदितं,

खण्डनं_९५

(खं.) तत्तुच्छं, ... "हिण्मयः पुरुषो दृश्यते" इति अपरोक्षज्ञानविषयत्वोक्तेश्च" इति वाक्यस्यांतस्स्थत्वाधिकरणे दृश्यमानत्वात् त्वदुदितवाक्यस्यादर्शनेनानुक्तोपलम्भत्वात् । आरोपितस्य प्रतिपन्नोपाधौ त्रैकालिक निषेधप्रतियोगित्वं वदतां मायिनां मते वर्तमानकाले सत्त्वग्रहणायोगाच्च । अज्ञानं सत्यं मिथ्या वा, सत्यत्वेपि ब्रह्मातिरिक्तं ब्रह्मस्वरूपं वा । ब्रह्मातिरिक्तत्वे अद्वैतहानिः । ध्वंसप्रतियोगित्वादिविरुद्ध धर्माधिकरणत्वेन ब्रह्मस्वरूपत्वासम्भवः । मिथ्यात्वे जगत इव अज्ञानकल्पितत्वस्यावश्यं वक्तव्यतया अज्ञानेSपि अज्ञानप्रयुक्तत्वस्य सत्त्वात् अज्ञानप्रयुक्तत्वं अरोपितत्वमित्येतावन्मात्रेण निर्वाहात् अज्ञानतत्प्रयुक्तान्यतरत्वोक्तिर्व्यर्था । अधिष्ठानतत्त्वसाक्षात्कारध्वंसप्रतियोगित्वायोग्यत्वविशेषणमपि व्यर्थमेव, प्रयोजनाभावात् ॥

चन्द्रिकानुवाद:_१

(चं.) (३१४) किंच—

आद्यसूत्रे धर्मब्दात् द्वितीये भेदशब्दतः

निर्धर्मकत्वमैक्यं च निरस्तं परवस्तुनः ॥

धर्मो भेदश्च मिथ्या चेत् श्रुतिसूत्राप्रमाणता ।

व्याख्याव्याजेन चोक्ता स्यात्त्वया सौगतसौहृदात् ॥ इति यत्,

रामसुब्ब_१०

(रा.) तन्न, गौडब्रह्मानन्देन लघुचन्द्रिकायां मिथ्यात्वविचारे 'ब्रह्मभिन्नत्वावच्छेदेन विनाशित्वरूपमिथ्यात्वपर्यवसिताविनाश्यवृत्तिधर्मवत्त्वमेव साध्यते' इत्यादिनाऽनित्यत्वस्य मिथ्यात्वरूपत्वोक्त्यात्वदीयैर्मदीयैश्च सर्वैरप्यनित्यत्वबोधकवाक्यस्याप्रामाण्यानङ्गीकारात् । संसारावस्थायां जीवेश्वरयोर्भेदस्योपाधिकस्याद्वैतिभिरङ्गीकारात्, मुक्तिदशायामपि मुक्तस्य निर्विशेष चिदै क्येSप्येतदधिकरणप्रतिपादितसगुणेश्वराद्भेदाङ्गीकारात्, आपेक्षिक मोक्षदशायां जीवेश्वरयोर्भेदस्याङ्गीकृतत्वात्, यादृशेन ब्रह्मणा सगुणेन जीवस्य भेदो भवद्भिः स्वीकृतः तादृशेन ब्रहणा ब्रह्ममुक्तोभयावस्थस्यापि जीवस्य भेदस्वीकारात् । एतावांस्तु विशेषः, भवद्भिस्तु स भेदो व्यावहारिक इति नोच्यते, अद्वैतिभिस्तु व्यावहारिक इति उच्यते । तस्मात् 'अन्तस्तद्धर्मोपदेशात्, भेदव्यपदेशाच्चान्यः' इति सूत्रद्वयस्य तद्विषयश्रुतेश्चानित्य व्यावहारिकशरीरभेदविषयत्वाङ्गीकारणं प्रति सौगतसौहृदवत्वकथनस्य स्वपरसिद्धान्ताज्ञानविजृम्भितत्वमेवेति यदुक्तं

खण्डनं_१०

(खं.) तत्तुच्छं,

शास्त्राणां भेद एव श्रुतिशिखरगिरामागमानां च निष्ठा ।

साकं सर्वैः प्रमाणः श्रुतिनिकर महाभारतादिप्रबन्धैः ।

तत्रैव व्याससूत्राण्यकुटिलविधया भान्ति तात्पर्यवन्ति ।

प्रत्नैराचार्यरत्नैरपि परिजगृहे शङ्करार्यै: स चापि ।

इत्यादिना जीवब्रह्मणोर्मुक्तिदशायामपि भेदस्य, तत्पारमार्थिकतायाः, ब्रह्मणः सगुणत्वस्य, निर्विशेषत्वाभावस्य च स्वीकृतत्वेन "मुक्तस्य निर्विशेषचिदैक्ये" इत्युक्तेः स्वोक्तिविरुद्धत्वात् । चन्द्रिकाकाराद्युक्तदूषणगणाद्भीतैः चन्द्रिकाकृदपेक्षया अर्वाचीनैः स्वसिद्धान्तं परित्यज्य अनित्यत्वपर्यवसायिमिथ्यात्वकथनेSपि प्राचीनैः शङ्कराचार्यादिभिः असत्त्वपर्यवसन्नात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वस्यैव तत्तद्ग्रंथे बहुस्थलेषूपपादितत्वेन ब्रह्मानन्देनापि बहुस्थलेषु अत्यन्ताभावप्रतियोगितरूपमियात्वस्यैव कथनेन तेषां सौगतसौहृदकथनस्य युक्तत्वात् । सौगतोक्तविषयान् परित्यज्य श्रुत्यादिप्रमाणसिद्धविषयाङ्गीकारे तु वेदान्तिसौहृदमनुमतमेवास्माकमिति ॥

जीवब्रह्मणोर्भेदः तद्गतधर्माश्च सत्या वा मिथ्या वा । सत्याश्चेन्न निवर्तेरन्, ज्ञानेन अज्ञानतत्कल्पिततान्यतरस्यैव निवृत्त्यङ्गीकारात् । तथा च मुक्तावपि जीवब्रह्मणोर्भेदस्तद्धर्माश्च तदवस्थाः स्युरिति अद्वैतमतभङ्गापत्तिः । मिथ्या चेत् अतत्त्वभूतधर्मभेदप्रतिपादकत्वेन श्रतिसूत्राप्रामाण्यापरिहारात्, "एष नित्यो महिमा ब्राह्मणस्य" इति मन्त्रे ब्रह्मधर्माणां स्पष्टं नित्यत्वप्रतिपादनाच्च, विरुद्धधर्माणां नित्यत्वे भेदस्यापि नित्यतयाप्राप्तत्वाच्च, श्रुतिसूत्रप्रतिपाद्यानां धर्माणां भेदानां च कल्पितत्वे वा अनित्यत्वे वा कल्पितभेदस्य वा कल्पितधर्माणां वा तन्निष्ठानित्यतायाः अतत्त्वत्वेन अतत्त्वभूतानित्यत्वप्रतिपादकतया अप्रामाण्यापरिहारेण सौगतसौहृदस्यापरिहारात् ॥

रामसुब्ब_१०२

(रा.) प्रत्युत मध्वमते ब्रह्मणि जीवभेदस्य निरूपयितुमशक्यत्वात्तन्मतप्रविष्टा एव प्रच्छन्नसौगता इति वक्तुं शक्यमिति यदुक्तं,

खण्डनं_१०२

(खं.) तत्तुच्छं, बौद्धाङ्गीकृतप्रमेयाणां भङ्ग्यंतरेणाङ्गीकार एव प्रच्छन्नबौद्धत्वप्रापकः, न तु निरूपयितुमशक्ययत्किञ्चित्पदार्थाङ्गीकरणं । अतः निरूपयितुमशक्यजीवब्रह्मभेदाङ्गीकारमात्रेण प्रच्छन्नबौद्धत्वाप्राप्तेः ब्रह्मणि जीवभेदस्य निरूपयितुं शक्यत्वाच्च, अद्वैतिमत एव सर्वस्य केनापि प्रकारेण निर्वक्तुमशक्यत्वरूपानिर्वचनीयत्वस्याङ्गीकृतत्वेन त्वदुक्तप्रच्छनबौद्धत्व प्राप्तिरूपदूषणपिशाचस्त्वामेवास्कन्दति ॥

रामसुब्ब_१०३

(रा.) तथा हि-किं ब्रह्मणि मध्त्रमते जडजीवभेदोब्रह्मणः पृथग्भूतो धर्मः उत ब्रह्मात्यन्ताभिन्नतया ब्रह्मस्वरूपः।

नाद्यः, मध्वाभिमतस्य "एवं धर्मान् पृथक् पश्यत्" इति श्रुत्यर्थस्य विरोधप्रसङ्गात् । न द्वितीयः, सप्रतियोगिकस्य भेदस्य निष्प्रतियोगिक ब्रह्मरूपत्वाभावात्, भवद्भिरेव मिथ्यात्वघटकाभावस्याधिष्ठान् ब्रह्मरूपत्ववादिनं प्रति निष्प्रतियोगिकस्य ब्रह्मणः सप्रतियोगिकाभावरूपत्वासम्भवस्य न्यायामृतग्रन्थे उक्तत्वादिति यदुक्तं,

खण्डनं_१०३

(खं.) तत्तुच्छं, ब्रह्मनिष्ठस्य जडजीवभेदस्य ब्रह्मरूपत्वाङ्गीकारात्, सप्रतियोगिकस्य भेदस्य निष्प्रतियोगिकब्रह्मणा निर्विशेषाभिन्नत्वासम्भवेपि सविशेषाभेदस्य सम्भवात् अभिन्नयोरपि सप्रतियोगिकत्वनिष्प्रतियोगिकत्वयोविशेषबलेनोपपत्तेः, न्यायामृते अद्वैतमते ब्रह्मणः सविशेषत्वानंगीकारात् निष्प्रतियोगिकब्रह्मणः सप्रतियोगिकाभावरूपत्वासम्भवोक्तेः समंजसत्वात् ॥

रामसुब्ब_१०४

(रा.) न च ब्रह्मण एव ब्रह्मत्वभेदत्वाभ्यां अपाधिकभेदं स्वीकृत्य निष्प्रतियोगित्वसप्रतियोगिकत्वोपपत्तिः संपादयितुं शक्या, मध्वमते "एवं धर्मान्" इति श्रुत्यर्थरीत्या ब्रह्मत्वभेदत्वयोरपि ब्रह्मान्यन्ताभिन्नत्वावश्यकतयौपाधिकभेदोपपादकब्रह्मत्वभेदत्वाख्य परस्परभिन्नधर्मद्वयस्यैव शशशृङ्गायमानत्वादिति यदुदितं,

खण्डनं_१०४

(खं.) तत्तुच्छं, अनुक्तोपालम्भनत्वात् ॥

रामसुब्ब_१०५

(रा.) यत्तु, विशेषबलात्सर्वानुपपत्तिपरिहारास्तु विशेषरूपधर्मस्य ब्रह्मभेदाभेदविकल्पाभ्यां पूर्वमेव परास्त: । तस्मान्मध्वमते जडजीवभेदस्य ब्रह्मण्यसिद्धया ब्रह्मणो जडजीवस्वरूपत्वापत्या सर्वसङ्करप्रसङ्गेन सौगतमत प्रवेशः सम्पादितः स्वेनैवेत्यलमिति,

खण्डनं_१०५

(खं.) तत्तुच्छं, विशेषस्य ब्रह्माभिन्नत्वपक्षमङ्गीकृत्य तत्पक्षोक्तदोषाणां परिहृतत्वेन विशेषबलेन प्रामाणिकस्यार्थस्योपपत्तेः । सर्वसङ्करस्य सौगतमतप्रवेशसम्पादकस्याभावाच्च । तादृशविशेषस्य त्वया मधुसुदन सरस्वत्यादिभिरद्वैतिभिरपि स्वीकारेण अभेदेऽप्याधाराधेयभावादीनां उपपादितत्वाच्च । जीवैक्यस्यापि ब्रह्मभिन्नत्वे सत्यत्वे अद्वैतभङ्गः- मिथ्यात्वे भेदसिद्धिः, ऐक्यबोधकतया त्वयाङ्गीकृतानां आगमानामप्रामाव्यापत्तिः, सप्रतियोगिकस्य जीवैक्यस्य न निष्प्रतियोगिक निविशेषब्रह्मक्यमिति, अद्वैतिमत एव ऐक्यस्य निरूपयितुमशक्यत्वात् । न ह्यस्माकं मत इव अद्वैतिमते ब्रह्म सविशेषं, येन विशेषबलात् निर्वाहः स्यादिति, अलं स्वव्याहतबालजनमोहक प्रक्रिया निरास प्रपञ्चेन ॥

ॐ अंतस्तद्धर्मोपदेशात् ॥ सिद्धान्ते अधिकरणस्वरूपं त्वित्थम् । अनन्तरसङ्कतिस्तु, आनन्दमयधर्मस्यादृश्यत्वस्य अन्तस्थे श्रवणात् अन्तस्थस्य चाविष्णुत्वादानन्दमयोSपि न विष्णुरिति पूर्वसिद्धान्ताक्षेपेणेह पूर्वपक्षोत्थानादाक्षेपिकी ।। तैत्तिरीयाः समामनन्तिअन्तः प्रविष्टं कर्तारमेतमन्तश्चन्द्रमसि मनसा चरन्तं। सहैव सन्तं न विजानन्ति देवाः इन्द्रस्यात्मानं शतधा चरन्तं" इत्यादि । अत्र श्रूयमाणः अन्तस्थः किमिन्द्रादि, किं वा विष्णुरिति चिन्ता । तदर्थं किमिन्द्रादिश्रुत्यनुसारेण समुद्रशायित्वादिलिङ्गं नेयसुत विरीतमिति । तदर्थं किं श्रुतिर्निरवकाशा लिन्गं तु सावकाशमुत विपरीतमिति । तथा लिङ्गस्य निरवकाशत्वेपि किं श्रुतित्व प्रयुक्तप्राबल्यं बलवत् किं निरवकाशत्वप्रयुक्तप्राबल्यं बलवदिति । पूर्वपक्षस्तु-अयमन्तस्थः इन्द्राद्यन्यतमः, “इन्द्रो राजा, त्वष्टारं रूपाणि विकुर्वन्तं ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम्" इतीन्द्रादिश्रुतेः । न च समुद्रशायित्व लिङ्गाद्विष्णुरिति युक्तं, श्रुतितो लिङ्गस्य दुर्बलत्वात् । प्रमाणद्वयबलात् अन्तस्थेन्द्रस्य विष्णुन अभेदोपपतेश्चेति प्राप्ते, सिद्धान्तस्तु--

अन्तस्थो विष्णुरेव, समुद्रशायित्वब्रह्माण्डवीर्यत्वादिलिंगात् ।

लिंगादिभ्यो बलवती श्रुतिर्यद्यपि च स्वतः ।

अवकाशोज्झितैलिंगैः सावकाशा तु बाध्यते ॥

यद्यपि "ऐन्द्रया गार्हपत्यमुपतिष्ठते" इत्यादौ श्रुत्या लिंगबाधेन श्रुतेरुत्सर्गतो बलवत्त्वं, तथापि यथाश्येनेनाभिचरन् यजेत" इत्यादौ श्येनशब्दोऽन्यत्र रूढोऽपि "यथा वा श्येनो निपत्यादत्ते" इति वाक्यशेषोक्तस्य श्येनसादृश्यस्य श्येनेऽनुपपत्या यागपरः, तथा समुद्रान्तस्थत्वादीनामन्यत्रासम्भवादिन्द्रादिशब्दा विष्णुपरा एव ।

लोके श्रुतौ स्मृतौ चैव विष्णुलिंगतया स्थितम् ।

समुद्रान्तरवस्थानपूर्वकं कथमान्यगम् ॥

एवं च 'आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्' इति न्यायेन निरवाकालिंगेन वैदिकतया सर्वथा बाधायोग्येन सावकाशश्रुतीनां लोके सिद्ध सूर्यादिपरत्वत्यागेन श्रुतिस्मृत्यादिप्रसिद्ध विष्णुपरत्वोपपत्तेः । "इंद्र मित्रं वरुणमग्निमाहुः" इत्यादिश्रुत्या इंद्रादिशब्दानां विष्णावेव विद्वद्रूढः सत्त्वेन, इंद्रादिशब्दप्रवृतिनिमित्तस्य परमैश्वर्यादेः विष्णावेवानन्याधीनत्व-निरवकाशत्वाभ्यां मुख्यतः संभवेन महायोगस्यापि सत्त्वेन चेंद्रादिश्रुते, विष्णावेव मुख्यत्वाच्च । न च श्रुतिलिंगयोः स्वारस्याय अंतस्थेन विष्णुना इंद्रादेररभेदोस्त्विति वाच्यं, "इंद्रस्यात्मा निहितः पंचहोता वायोरात्मानं-अंतरादित्ये मनसा चरितं" इत्यादी अंतस्थस्य इंद्रादिना भेदव्यपदेशात् अंतस्थो विष्णुः इंद्रादिभ्योऽन्य इति । विशेषस्तु चंद्रिकातोऽवसेयः ॥ एतदुपरि,

रामसुब्ब_१०६

- (रा.) तन्न, समुद्रशायित्वादिनिरवकाशविष्ण्वसाधारणधर्मवत् "सप्त युञ्जन्ति रथमेकचक्रं" इत्याद्युक्तसप्ताश्वत्वादिरूप सूर्यासाधारणधर्मस्यात्र दर्शनेनान्तः प्रविष्टस्य सूर्यरूपत्वस्यैव न्याय्यत्वात्। न च विनिगमनाविरहः, विष्णोलिङ्गमात्रमस्ति, सूर्यस्य तु सवित्रादिश्रुतिसहकृतं लिङ्गमिति विशेषादिति यत्,

खण्डनं_१०६

(खं.) तत्तुच्छं, "इंद्रस्यात्मानं, अन्तः, समुद्रे मनसा चरन्तं, ब्रह्मान्वविन्दद्दश होतारमर्णे, सर्वे वेदा यत्रैकं भवन्ति, अन्तः परिषिष्टः शास्ता जनानां ब्रह्मा......... ... तपसान्वविन्दत्, आत्मानं कवयो निचिक्युः, वायोरात्मानं, यस्वांडकोशं शुष्ममाहुः, सुदर्ण कोशं रजसा परीवृतं,.. .तामुकलां विचक्षते, अन्तरादित्ये मनसा चरन्तं देवानां हृदयं ब्रह्मान्वविन्दत्" इत्यादिवाक्येषु प्रतिपादितैः इन्द्रस्वामित्वसमुद्रान्तस्स्वेच्छाचारित्व चतुर्मुखककर्तृकतपः करणकापरोक्षज्ञानविषयत्व - सर्ववेदप्रतिपाद्यत्व-जनशासकत्व-वायुस्वामित्व ब्रह्माण्डकोशवीर्यकत्वादित्यान्तः स्वेच्छाचारित्व-देवहृदयप्राप्तृत्वादिभिः अनेकैः निरवकाशैः विष्णु लिंगैः सूर्यांतर्गत विष्णुनिष्ठतया सम्भवतः सावकाशस्य सप्ताश्वत्वादिसूर्यलिंगस्य सप्ताश्वत्वादि बाधेन सवितृश्रुतेः विष्णौ सवितृत्वादिगुणयोगेन विष्णुसहस्रनामादिषु प्रयोगेन, “यो देवानां नामधाः" इति देवबोधकानां शब्दानां विष्णुनिष्ठत्वकथनेन च "सर्वे वेदाः सर्वे घोषाः" इति सर्वशब्दवाच्यत्वकथनेन, च " सर्वे वेदाः सर्वे घोषाः" इति सर्वशब्दवाच्यत्वकथनेन, “इन्द्रं मित्रं वरुणमग्निमाहुः" इति श्रुत्या च सूर्यशब्दपर्यायमित्रशब्दवाच्यत्वकथनेन, वैदिकप्रसिद्धरूडया च सावकाशत्वात् विष्णुरेवान्तस्थ इति निर्णयोपपत्तेः॥

रामसुब्ब_१०७

(रा.) विष्णुंलिंगस्यापि विष्णुवाचकयज्ञश्रुतिसाहित्यमस्तीति न च शंक्यं, यज्ञशब्दस्य "यज्ञेन दानेन तपसाऽनाशकेन" इत्यादिश्रुतौ लोके च वैदिकक्रियाविशेष एव प्रयोगप्राचुर्येण रूढत्वनिश्चयात् विष्णौ प्रयोगबाहुल्याभावेन तत्र तस्य रूढयसंभवादिति यदुक्तं,

खण्डनं_१०७

(खं.) तत्तुच्छं, तत्त्वप्रकाशिका चन्द्रिकादौ यज्ञश्रुतिसाहित्यस्यानुक्तेः । "यज्ञेन यज्ञमयजन्त, यज्ञो वै विष्णुः" इत्यादिश्रुतिषु

यज्ञार्थात्कर्मणोन्यत्र लोकोSयं कर्मबन्धनः ।

इति गीतायां "यज्ञो यज्ञपतिः" इति विष्णुसहस्रनामसु च यज्ञशब्दस्य विष्णौ प्रायोगेण विष्णौ रूढेरबाधाच्च । अन्यथा ब्रह्मशब्दस्य वेदे लोके च प्रायोगेण ब्रह्मणि रूढिर्न स्यात् ॥

रामसुब्ब_१०८

(रा.) "यज्ञो वै" इति वैशब्दोपबन्धेन प्रथमश्रुतत्वेन च यज्ञस्य उद्देश्यत्वप्रतीत्या यज्ञस्य विधेयविष्णुशब्दवाच्यत्वावगमेSपि विष्णोर्यज्ञशब्दवाच्यत्वस्य तादृशश्रुत्याऽनवगमात् । अन्यथा पर्वतो वह्निमानित्युक्तौ विधेयवह्निमत्त्वावच्छिन्नस्य पर्वतस्य पर्वतशब्दवाच्यत्वापत्त्या वह्निमतो महानसस्यापि पर्वतशब्दवाच्यत्वापत्तेरिति यदुक्तं,

खण्डनं_१०८

(खं.) तत्तुच्छं, “अत एव वेदगतसर्वभागापेक्षयोत्कृष्ट पुरुषसूक्ते "सहस्रशीर्षा पुरुषः" इति सहस्रशीर्षत्वादिदिव्यमङ्गलविग्रहविशिष्ट पुरुषमुपक्रम्यतस्माद्विराळजायत विराजो अधि पुरुषः" इत्यादिना विराट्पुरुषादिकृत्स्नजगत्कारणत्वमुपद "उतामृतत्वस्येशानः इति तस्यैव मोक्षेशितृत्वमभिधाय " यज्ञेन यज्ञमयजन्त देवाः" इत्यन्तेज्ञो वै विष्णुः" इत्यादिश्रुतिसिद्धविष्णुरूढिकेन यज्ञपदेन जगत्कारणत्वादिविशिष्टतया प्रतिपादितस्य विष्णुत्वकथनात्" इति वाक्येन "यज्ञो वै विष्णुः " इति श्रुत्या यज्ञशब्दस्य विष्णौ रूढिसिद्धेः त्वयैव विष्णुतत्त्वरहस्यविवरण ग्रन्थे कथितत्वेन 'विष्णोर्यज्ञशब्दवाच्यत्वस्य तादृशश्रुत्यान्वगमात्' इति

त्वदुक्तेः स्वव्याहतत्वात् । कस्याश्चित् वह्निमद्वक्तेः पर्वतशब्दवाच्य तायाः महानसे पर्वतशब्दवाच्यत्वापादनं प्रत्यप्रयोजकत्वाच्च ॥

रामसुब्ब_१०९

(रा.) तहि "यज्ञेन यज्ञमयजन्त देवाः" इत्यत्र तृतीयांतयज्ञपदेन क्रियाविशेषाभिधानवत् द्वितीयान्तयज्ञपदेन कस्याभिधानं भवतीति न च शङ्कयं यज्ञाराध्यत्वेन यज्ञसंबंधाल्लक्षणया द्वितीयांतयज्ञपदेन विष्णोरभिधानात्, क्वचित्कप्रयोगमात्रेण यज्ञशब्दस्य विष्णौ रूढयङ्गीकारे गङ्गायां घोषः' इत्यत्रापि क्वाचित्कप्रयोगसत्त्वात् गङ्गाशब्दस्य घोषे रूढयापत्तेरिति यदुक्तं,

खण्डनं_१०९

(खं.) तत्तुच्छं, विष्णौ बहु प्रयोगस्य दर्शितत्वात् । विष्णोः सर्वशब्दवाच्यत्वस्य श्रुतिस्मृत्यादिना उक्तत्वाच्च । 'गङ्गायां घोषः' इत्यत्र क्वचित्कप्रयोगसत्त्वात् गङ्गाशब्दस्य घोषे रूढयापत्तेरित्युक्तिरुन्मादमूलैव, घोषे गङ्गाशब्दप्रयोगस्य कुत्राप्यदृष्वत्वात् ॥

रामसुब्ब_१०

(रा.) न च विष्णुलिंगस्य श्रुतिसाहित्याभावेऽपि बहुत्वात् सूर्यलिंगानेक्षया प्राबल्यमिति शंक्यं, सूर्यलिंगस्यापि सप्ताश्वत्वैकचक्ररथवत्वादिरूपवत्वेन बहुत्वात् प्रविष्टश्रुतिसाहित्येन च विष्णुलिंगापेक्षया प्रबलत्वावश्यकत्वात् इति यदुक्तम्,

खण्डनं_१०

(खं.) तत्तुच्छं, सूर्यलिङ्गापेक्षया विष्णुलिङ्गानां बहुत्वस्य दर्शितत्वात् । प्रविष्टत्वश्रुतेः "तत्सृष्ट्वा तदेवानुप्राविशत्, यः पृथिव्यां तिष्ठन् पृथिव्या अन्तर:, यो वायो" इत्यादिश्रुतिषु अन्तः प्रविष्टत्वस्य विष्णुलिङ्गत्वेन सूर्यप्रापकत्वस्यैवाभावात्, प्राबल्यसंपादकत्वस्य दूरनिस्तत्वात् । "अन्तरादित्ये मनसा चरन्तं" इति अन्तःस्थस्यादित्यस्थितत्वोक्त्याऽऽधाराधेयभावस्योत्सर्गतः भेद व्याप्तस्य श्रुतत्वेनान्तस्थस्यादित्यत्वासंभवाच्च ॥

रामसुब्ब_१०

(रा.) "स भगवः कस्मिन् प्रतिष्ठितः स्वे महिम्नि" इत्यादाविवाभेदेप्याधाराधेयभावोपपत्त्याऽऽधाराधेयभावस्य भेदैकान्त्याभावात् । तस्य भेदैकान्त्येऽपि मध्वमते "अन्योन्तर आत्मा प्राणमयः, अन्योन्तर आत्मा मनोमयः" इत्पादौ साक्षाद्भेदबोधकान्यशब्द सत्त्वेप्यन्नमयप्राणमयादीनामभेदस्वीकारेण आदित्यादित्यान्तः प्रविष्टयोर्भेदे गमकशब्दमात्रेणाभेदसिद्धिकथनस्यानुचितत्वादिति यदुक्तम्,

खण्डनं_१०

(खं.) तत्तुच्छम्, “तमात्मस्थं येSनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्" इत्याद्या अभेदनिन्दायामभ्यास विशिष्टा जीवब्रह्मणो राधाराधेयभावलक्षणभेददर्शनशून्यानद्वैतिनः शाश्वत सुखाख्य मोक्षशून्यत्वेन निन्दति । आधाराधेयभावश्च भेदरूपो धर्म:, "भेदेनैनमधीयते" इति सूत्रप्रामाण्यात् अभेदे आधाराधेयभावस्यासम्भावितत्वात्' इति विष्णुतत्त्वरहस्यविवरणे त्वयैवाधाराधेयभावेऽभेदो न सम्भवतीत्युक्तत्वेन स्वोक्तिविरुद्धत्वात् । "क्षीरोदमध्ये भगवान् कूर्मरूपी स्वयं हरिः । मंदराद्रेरधिठानं.... रूपेणान्येन देवानां मध्ये...... दैत्यमध्येऽपरेण च...... शैलं बृहद्रूपेण ... तथा परेण, " इत्यादिना विष्णुपुराणे अभिन्नभगवद्रूपेष्वेव अन्यपरादिशब्दानां दृश्यमानत्वेन तत्रत्यतच्छन्दानां विशेषपरतयेवान्नमयादीनां पञ्चानामपि विष्णुत्वस्य प्रमाणसिद्धतया अत्रत्यानामन्यशब्दानां विशेषाद्यर्थकतया योजनीयत्वात् । विस्तरस्तु पूर्व कृतो द्रष्टव्यः ॥

चन्द्रिकानुवाद:_१

(चं.) पादान्त्यप्राणाधिकरणन्यायेन च सूर्यवरुणादिलिङ्गानामपि तदन्तर्गतभगवत्येव मुख्यत्वमिति यत्,

रामसुब्ब_

(रा.) तन्न, यत्र प्रकरणोपपदादिभिः प्रबल प्रमाणान्तरैः प्रकरणस्य विष्णुपरत्वं सिद्धं तादृशप्रकरणस्थान्यलिंगस्य तदन्तर्यामिविष्णुनिष्ठत्वं पादान्त्याधिकरणे भवद्भाष्यादौ स्थापितम् । अत्र प्रकरणस्य विष्णुनिष्ठत्वस्याद्याप्यसिद्धतया अस्मदुक्तप्रमाणैश्च सूर्यनिष्ठत्वस्यैव सिध्या एतत्प्रकरणस्थ सूर्यलिंगस्य पादान्त्याधिकरणन्यायविषयत्वासम्भवात् इति यदुक्तम्

खण्डनं_

(खं.) तत्तुच्छं, अन्यत्र निरवकाशैर्बहुभिर्लिगैरन्तस्थस्य विष्णुत्वसिद्धेरुक्तत्वात्, यत्किञ्चिल्लिंगस्यान्तर्यामिविष्णुनिष्ठताया अगस्यावक्तव्यत्वात् । अन्तःस्थस्य सूर्यगतत्वोक्त्या सूर्यरूपत्वासम्भवस्योक्तत्वाच्च ।

चन्द्रिकानुवाद:_१

(चं.) किच "इंद्रं मित्रं वरुणमग्निमाहुः" इत्यादिश्रुत्येन्द्रादिशब्दानां विष्णावेव विद्वद्द्रूढेः सत्त्वेनेंद्रादिशब्दप्रवृत्तिनिमित्तस्य परमैश्वर्यादेविष्णावेवानन्याधीनत्वनिरधिकत्वाभ्यां मुख्यतः संभवेन महायोगस्यापि सत्वेनेंद्रसवित्रादिश्रुतिविष्णावेव मुख्येति यत्,

रामसुब्ब_१२१

(रा.) तन्न, तथासति सवित्रादिपूर्वपक्षस्यैवानुत्थानापत्तेः, विद्वद्रूढश्चाज्ञरूढ्यपेक्षा प्रबलतया विद्वढ्या सवित्रादिशब्दविष्णूपस्थितौ दुर्बलाज्ञरूढितः सवित्रादिशब्दै: सूर्यादेरनुपस्थित्या सूर्यादिपूर्वपक्षस्यैवासङ्गतत्वादिति यदुक्तम्,

खण्डनं_१२१

(खं.) तत्तुच्छम्, सिद्धान्तहेतत्वाच्छादनेनैव सर्वाधिकरणेषु सर्वैः पूर्वपक्षयितव्यत्वात् । अन्यथा पूर्वपक्षमात्रानुदयप्रसंगात् ॥

रामसुब्ब_१२२

(रा.) तर्हि सिद्धान्तप्रतिपादकसूत्रे पूर्वपक्षनिरासकतया विद्वद्द्रूढेरेव वक्तव्यत्वापत्तेः । न च सूत्रे विद्वद्द्रूढिर्हेतुतया निर्दिष्टा दृश्यते, किंतु 'धर्मोपदेशात्' इति धर्मा एव हेतुतया निर्दिष्टाः प्रतीयन्त इति यदुक्तम्,

खण्डनं_१२२

(खं.) तत्तुच्छम्, निरवकाशलिङ्गै: अन्तःस्थस्य विष्णुत्वं साधयित्वा सूर्यादिप्रापकानां सवित्रादिशब्दानां विष्णौ विद्वद्द्रूढीसत्त्वेन सावकाशताया उक्तत्वात् । विद्वद्रूढ्या सवित्रादिशब्दा अन्तस्थस्य विष्णुत्वे न हेतव:, किन्तु अन्तस्थस्य विष्णुत्वपक्षे न बाधका इत्येव सुत्रकृतोऽभिप्रेतम् । एवञ्च सूत्रे सवित्रादिशब्दानां विष्णौ विद्वद्द्रूढेनिर्देशस्यानावश्यकत्वात् । नहि बाधकशङ्कानिरासकाः स्वदीयव्याख्यानरीत्यापि सर्वेषु सूत्रेषु दृश्यन्ते । 'अथातो ब्रह्मजिज्ञासा' इत्यादिसूत्रे जगतः सत्यत्वे विषयप्रयाजनानुपपत्तिरूपशङ्कानिरासकाध्यासादीनां सूत्रेऽकथनात् ॥

रामसुब्ब_१२३

(रा.) किंच विद्वद्रूढिरज्ञरूढिरिति रूढिद्वैविध्यकथनमयुक्तं, प्रमाणादर्शनात् इति यत्,

खण्डनं_१२३

(खं.) तत्तुच्छम्, शब्दस्य रूढिज्ञापकं प्रमाणं बहुलप्रयोगः । तस्य वैदिकत्वे तज्ज्ञाप्यरूढिः विद्वद्रूढिः लौकिकत्वे तज्ज्ञाप्या रूढिः अज्ञरूढिः। प्रकृते इन्द्रादिशब्दानां "इन्द्रं मित्रं वरुणमग्निमाहुः" इत्यादिवाक्येष 'आहु:' इति विद्वत्प्रयोगस्य प्रमाणीकरणादस्य रूढविद्वद्रूढिरिति व्यावहारोपपत्तिरित्यलम् ॥

रामसुब्ब_१२४

(रा.) यत्तु - "तत् त्वमसि, अहं ब्रह्मास्मि" इत्यादिनिर्देशात् ब्रह्मशब्दस्यैव जीवे विद्वद्द्रूढयापत्तेः भवदभिमत विद्वत्प्रयोगबाहुल्यरूपविद्वद्रूढे: 'तत् त्वमसि' इति नवक्रत्वोऽभ्यस्ते सम्यक् सम्भवादिति.

खण्डनं_१२४

(खं.) तत्तुच्छं, 'इन्द्रं मित्रं वरुणं यमाहुः' इत्यादिश्रुतो आहुरित्यादिपदेन वाच्यत्वस्योक्तत्वात् । तस्य विद्वद्रूढिज्ञापकत्वेऽपि 'तत्त्वमसि' इत्यादौ वाच्यत्वबोधकपदाभावात् अनया श्रुत्या जीवस्य ब्रह्मपदवाच्यत्वासिद्धेः ।तत्वमसि' इति श्रुतौ जीवब्रह्मपदयोरेवाभावेन 'अहं ब्रह्मास्मि' इत्यत्र जीवपदाभावेन ब्रह्मपदस्य जीवे रूढयापादनस्यात्यंतमसंगतत्वाच्च ॥

रामसुब्ब_१२५

(रा.) यत्तु, -न चोक्तवाक्ये सामानाधिकरण्यनिर्देशबलेन जीवशब्दस्य अहंत्वमादेः ब्रह्मणि विद्वद्रूढिरिति वैपरीत्यं शङ्कयम्, अस्यस्मिन् पदबलेन त्वमहंपदार्थजीवस्यैव विशेष्यत्वप्रतीत्या तदनुसारेण तद्ब्रह्मादिपदानां विशेषणवाचकानां विशेष्याभेदार्थं विशेष्यपरतया नेयत्वेन तद्ब्रह्मादिपदानामिव विद्वद्रूढया जीवत्वादेरावश्यकत्वादिति,

खण्डनं_१२५

(खं.) तत्तुच्छम्, अनुक्तोपालम्भनत्वात् ।

रामसुब्ब_१२६

(रा.) यत्तु-एवं महायोगोऽप्यसिद्ध एव, योगे महत्वबोधकप्रमाणस्य कुत्राप्यदर्शनादिति,

खण्डनं_१२६

(खं.) तत्तुच्छम्,

कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।

योगानां परमां सिद्धिं परमं ते पदं विदुः ॥

इति पञ्चरात्रान्तर्गतजितन्तेस्तोत्रस्यैव प्रमाणत्वात् ॥

रामसुब्ब_१२७

(रा.) यत्तु-तदधीनत्वन्यायोऽपि न शक्तिग्राहकः,

यदधीनो गुणो यत्र तद्गुणो सोऽभिधीयते ।

इति भवद्भाष्योदाहृतवचनस्यानुपलब्धिपराहतत्वात् । शिष्यत्वगुणस्याचार्यनिरूपितत्वेन आचार्ये शिष्यशब्दरूढयापत्तेः। गुरुः शिष्य इति समानाधिकरणनिर्देशापतेश्चेति,

खण्डनं_१२७

(खं.) तत्तुच्छम्, अल्पज्ञ कर्तृकदर्शनाभावस्य वस्त्वसत्त्वासाधकत्वात् । राजा जयीति भृत्यगतजयस्य राजाधीनतया राज्ञि जयिशब्दस्य प्रयोगदर्शनेन तत्प्रयोगस्यामुख्यत्वाभिमानाभावेन च तच्छब्दप्रवृत्तिनिमित्तस्वामित्वस्यापि प्रवृत्तिनिमित्ताधिकरणत्वस्यैव वाच्यत्वप्रयोजकत्वात् । शिष्यत्वगुणस्याचार्य निरूपितत्वेऽपि आचार्याधीनत्वाभावेन आचार्ये शिष्य शब्दरूढयापादनस्यात्यन्तमसङ्गतत्वाच्च ॥

चन्द्रिकानुवाद:_१

(चं.) यथा 'श्येनेनाभिचरन्यजेत' इत्यादौ श्येनशब्दोऽन्यत्र रूढोऽपि 'यथा वै श्येनो निपत्यादत्ते' इति वाक्यशेषोक्तस्य श्येनसादृश्यस्य श्येनेऽनुपपत्त्या यागपरः, तथा समुद्रान्तस्थत्वादीनामन्यत्रासम्भवात् इन्द्रादिशब्दा विष्णुपरा एवेति यत्,

रामसुब्ब_१३

(रा.) तन्न, "सप्त युञ्जन्ति रथमेकचक्रंइति वाक्यशेषात् सवितृसहितेन्द्रादिशब्दानां सूर्यनामत्वस्यैव व्याय्यत्वादित्यलमतिप्रसंगेनेति यत्,

खण्डनं_१३

(खं.) तत्तुच्छम्, सप्ताश्वत्वादिलिंगस्य सवितृश्रुतेश्च विष्णो सावकाशतया सूर्यान्तस्थत्वस्य निरवकाशानां विष्णुलिङ्गानां च बाधकतथा उक्तत्वेन अन्तस्थस्य सूर्यत्वाभावात् इन्द्रादिशब्दानां सूर्यनामत्वायोगादित्यलमतिप्रसंगस्योत्तरदानेनेति ॥

॥ इति अद्वैतखण्डनपूर्वक चन्द्रिकामण्डने अन्तस्थत्वाधिकरणं समाप्तम् ॥