ॐ तत् तु समन्वयात् ॐ

॥ अथ समन्वयाधिकरणम् ॥

ॐ तत् तु समन्वयात् ॐ

चन्द्रिकानुवाद:_१

(चं.) अत्र परैर्वेदान्ता न ब्रह्मणि प्रमाणं, सिद्धवस्तु-बोधने प्रवृत्त्याद्यभावेन फलाभावात्सापेक्षत्वप्रसङ्गाच्चेति प्राप्ते, द्विविधं हीप्सितं किञ्चिदप्राप्तं किञ्चिच्च प्राप्तमपि विभ्रमवशादप्राप्तमित्यवगतं यथा कण्ठमण्यादिकं, एवं जिहासितं द्विविधं, किञ्चिवहीनं जिहासति, यथा वलयितचरणं फणिनं, किञ्चिच्च हीनमेव, यथा चरणाभरणनूपुरे आरोपितं फणिनं तत्र ब्रह्मात्मैक्यज्ञानात्प्राप्तब्रह्मप्राप्तिः कल्पितत्वेन नित्यहीनसंसारहानिश्च संभवतीति फलवत्त्वं, सिद्धस्यापि ब्रह्मणो मानान्तरागोचरत्वान्न सापेक्षत्वं चेति सिद्धान्तयित्वा समन्वयश्च लक्षयाऽखण्डार्थपरत्वं ततश्च तद्ब्रह्म शास्त्रप्रतिपाद्यं समन्ववादिति सूत्रार्थ इत्युक्तम् । तत्र पूर्वपक्षो निर्दल:, निष्प्रयोजनत्वशङ्कायास्त्वन्मते आद्यसूत्रे जिज्ञासाशब्देनैव परिहृतत्वात् । लौकिक कार्यपरवाक्येऽपि सापेक्षत्वदर्शनेन पौरुषेयत्वस्यैव सापेक्षत्वप्रयोजकत्वाच्च । सिद्धान्तोऽप्ययुक्तः । तथा हि--

स्वप्रभत्वादसन्दिग्धेऽवाच्यत्वाच्श्रुत्यगोचरे ।

निविशेषे च चिन्मात्रे कथं श्रुतिसमन्वयः ||

एवं संदिग्धस्यैव विषयत्वात्सामान्यज्ञानविशेषाज्ञाननिबन्धनस्य च संदेहस्य निविशेषेऽसम्भवात् पूर्वपक्षसिद्धान्तयोश्च सन्देहकोटयन्यतरकोट्यवलम्बित्वात् फलस्य चैककोटिनिर्णयाधीनत्वात् निर्विशेषात्मनि विषयसंशयपूर्वपक्षप्रयोजनरूपाधिकरणासम्भवो द्रष्टव्यः ॥

अपि च-

आद्यसूत्रेऽहमर्थे हि प्रसिद्धिः प्रतिपादिता ।

जिज्ञासार्थं द्वितीये हि जगज्जन्मादिहेतुता ॥ १॥

अविद्यमानाहमर्थे लक्षणत्वेन कीर्तिता ।

ईश्वरस्य तृतीये तु निर्विशेषप्रमाणता ||||

शास्त्रस्योक्ता चतुर्थे च तस्मिन्नेव समन्वयः ।

प्रतिज्ञातोऽन्तरित्यादौ सविशेषं तु कथ्यते ||||

ब्रह्मेति मायिनां पक्षस्तत्र किं केन सङ्गतं ।

तत्त्वविद्वेषमात्रेण श्रुतिसूत्रे कदर्थते || ||

किंच कंठमण्युपदेशस्य प्राप्तमणिप्राप्तिर्न फलं, किं तु प्राप्तिज्ञानजन्यसुखस्य वस्तुतः प्रागप्राप्तस्य प्राप्तिः, मध्यप्राप्तिभ्रमादिजन्यस्य दुःखस्य वस्तुतः प्रागनिवृत्तस्य निवृत्तिर्वा फलं । एवं चरणाभरणमिदं न सर्प इत्युपदेशस्यापि न नित्यनिवृत्तसर्पनिवृत्तिः फलं, किं त्वाभरणत्वज्ञानजन्यसुखस्य वस्तुतः प्रागप्राप्तस्य प्राप्तिः, सर्पभ्रमजन्यदुःखस्य वस्तुतः प्रागनिवृत्तस्य निवृत्तिर्वा । न ह्यपदेशेन मणिः प्राप्तः सर्पो निवृत्त इत्यनुभवः, किं तु प्राप्तिर्ज्ञाता भ्रमो निवृत्त इति । न च प्रकृते प्राप्तस्वरूपसुखादन्यत्प्राप्यं सुखं नित्यनिवृत्ताविद्या भ्रमदुःखादेरन्यन्निवर्त्य वाऽस्ति, येन सप्रयोजनता स्यात् । किं च पूर्ववादिना फलाभावादिना तात्पर्यं आक्षिप्ते सिद्धान्तसूत्रे फलादिकं तात्पर्यादिकं चानुपपाद्य प्रामाण्ये तात्पर्यं हेतुकर्तुमयुक्तम् । लक्षणाया अमुख्यत्वेन सौत्र संशब्दार्थत्वायोगश्च । तदुक्तमनुव्याख्याने --

कथं च लक्षणावादी ब्रूयाद्ब्रह्मसमन्वयम् ।

योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात्समन्वयः ॥ इतीति चन्द्रिकोपरि,

रामसुब्ब_

( रा .) न ब्रह्मणि वेदान्ताः प्रमाणं, सिद्धवस्तुबोधने प्रवृत्त्याद्यभावेन फलासम्भवात् सापेक्षत्वाच्च इति प्राप्ते, परिपूर्णानन्द ब्रह्मात्मैक्यविषयकाज्ञानस्य तन्मूलकस्य नाहं परिपूर्णानन्दं ब्रह्म किं तु मनुष्योऽहं, दुःख्यहमित्यादिरूपस्य सर्वसंसारदुःखनिदानभ्रमस्य वेदान्तविचारजन्यब्रह्मात्मैक्यसाक्षात्कारेण निवृत्त्या तादृशनिवृत्त्युपलक्षितात्मस्वरूपं परि पूर्णानन्दं ब्रम्हैव प्राप्तब्रह्मप्राप्तिशब्दितं फलितमिति सिद्धयतीति सफलत्वात् ब्रह्मणो मानान्तरागोवरत्वेन प्रत्यक्षादिगृहीतग्राहित्वरूप सापेक्षत्वाभावाच्च, वेदान्ता ब्रह्मणि प्रमाणम् । न चाद्यसूत्रेण जिज्ञासापदस्वारस्येन विचाराधीनज्ञानस्याज्ञाननिवृत्तिरूपफलसिद्धेः इदं सूत्रं कृतकरमिति शंक्यं जिज्ञासापदेन फलस्य सूचनेऽपि जिज्ञासापदलब्धज्ञाननिष्ठाज्ञाननिवृत्तिजनकतायां संशब्दितापक्रमाविषविधतात्पर्यलिङ्गज्ञानाधीननिर्णय विषयब्रह्मात्मैक्य विषयकत्वमवच्छेदकमिति प्रतिपादनपरत्वेनास्य सूत्रस्य कृतकरत्वाभावादिति सिद्धान्तः । सूत्रार्थस्तु तत् जीवाभिन्नं ब्रह्म ब्रह्मज्ञाननिष्ठ मोक्ष जनकतायां विषयितासंबन्धेनावच्छेदकं, उपक्रमादिषड्विधतात्पर्य लिङ्गज्ञानाधीन निर्णयविषयाखण्डसच्चिदानन्दब्रह्मात्मैक्यतात्पर्यकवेदान्तबोध्यत्वरूपसमन्वयादिति प्राहुः ॥ एतेन 'तत्र पूर्वपक्षोऽनुपपन्न:' इत्यादिः 'जिज्ञासाशब्देन परिहृतत्वात्' इत्यन्तो मध्यचन्द्रिकाग्रन्थः परास्तः इति यदुक्तं,

खण्डनं_

(खं) तत्तुच्छम् ' तत्, समन्वयात्' इति सूत्रघटकपदाभ्यां उक्तार्थलाभासम्भवात् । तथा हि-तच्छब्दस्य पूर्वप्रकृतपरामर्शकतया पूर्वंन्माद्यधिकरणादौ 'सर्वज्ञत्वादिविशेषणयुक्तं ईश्वरं मुक्त्वा संसारिणो वा उत्पत्यादि संभावयितुमशक्यं' इति, 'न हीदृशस्य शास्त्रस्य सर्वज्ञादन्यतः सम्भवोऽस्ति' इति च त्वदीयभाष्यवाक्याभ्यां जीवभिन्नस्यैव सर्वज्ञ सर्वशक्तिजगदुत्पत्तिस्थितिलयकारणस्य ब्रह्मणः प्रसक्तत्वावगत्या अस्मिन्नप्यधिकरणे 'तत् ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थिति लयकारणं वेदान्तशास्त्रादेवावगम्यते' इति वाक्येन जीवव्यावर्तक विशेषण युक्तब्रह्म एव ग्रहणेन 'तत् जीवाभिन्नं ब्रह्म' इति तत्पदव्याख्यानमयुक्तम् । जीवस्याल्पज्ञत्वेन सार्वज्ञादिगुणयुक्तब्रह्मणा ऐक्यं बाधितं च । त्वया मोक्षजनकज्ञाने निर्विशेषविषयकत्वस्य निर्विकल्पज्ञानत्वस्य चाङ्गीकारे तादृशज्ञाननिष्ठ जनकतायां जीवस्य जीवाभेदस्य वा जीवाभेदविशिष्टब्रह्मणो वा विषयतासंबन्धेनावच्छेदकत्वासम्भवात् तत् जीवाभिन्नं ब्रह्म ब्रह्मज्ञाननिष्ठ मोक्षजनकतायां विषयतासम्बन्धेनावच्छेदकमित्यनुमानं त्वद्रीत्यैव बाधितं च । न च जीवाभिन्नत्वं न पक्षतावच्छेदककुक्षिप्रविष्टं किं तु ब्रह्ममात्रस्य पक्षत्वमिति वाच्यं जिज्ञासाधिकरण एव ब्रह्मज्ञानस्य मोक्षप्रयोजनकत्वोक्त्या ब्रह्मज्ञानमोक्षनिष्ठजनकतायां ब्रह्मणः विषयितासंबन्धेनावच्छेदकत्वं सिद्धमिति समन्वयाधिकरणस्य वैयर्थ्यापरिहारात् । निर्धामितावच्छेदकस्य पक्षीकर्तुमशक्यत्वेन ब्रह्मत्वविशिष्टस्यैव पक्षीकरणीयतया त्वदभिमत निर्विकल्पकनिविशेषविषयकब्रह्मज्ञाननिष्ठ मोक्षजनकतायां विशिष्टस्य तस्यावच्छेदकत्वासम्भवाच्च । 'समन्वयात्' इत्यस्य उपक्रमादिषविधतात्पर्य लिंगज्ञानाधीन निर्णय विषयाखण्डसच्चिदानन्द ब्रह्मात्मैक्यतात्पर्यकवेदान्तबोध्यत्वरूप समन्वयादित्यर्थकत्वं स्वमनीषामात्रकल्पितं, समन्वयादिति पदेनास्यार्थस्य केषामप्यप्रतीतेः । अनुशासनाभावाच्च । ब्रह्मणि वेदान्ता न प्रमाणमिति वादिनं पूर्वपक्षिणं प्रति एतादृशहेतोर सिद्धेश्च । न हि ब्रह्मणि वेदान्ता न प्रमाणमिति वक्ता सच्चिदानन्द ब्रह्मात्मैक्यतात्पर्यकत्वं वेदान्तानामङ्गीकरोति । विष्णुतत्त्वरहस्यविवरणे,

शास्त्राणां भेद एव श्रुतिशिखरगिरामागमानां च निष्ठा

साकं सर्वैः प्रमाणैः स्मृतिनिकरमहाभारतादिप्रबन्धै:

तत्रैव व्याससूत्राण्यकुटिलविधया भान्ति तात्पर्यवन्ति

प्रत्नराचार्य रत्नैरपि परिजगृहे शङ्कराद्यैः स चापि ॥

इति, "तस्माल्लैङ्गस्कान्दशैवकौर्म ब्रह्माण्डादितामसराजसपुराणानि तामसत्वराजसत्वाभ्यां मतिभ्रंशकरत्वात् श्रोत्रपदवीमनारोप्य सादिकपुराणेष्वपि, ये जीवब्रह्मणोः स्वरूपाभेदवादाः, ये च प्रपञ्च मिथ्यात्ववादाः, ये वा निर्गुणब्रह्मवादा:, ये च रुद्रादिदेवतान्तरपरत्ववादाश्च, तान्सर्वान् प्रत्यक्षश्रुतिमनुस्मृतिभगवद्गीता ब्रह्मसूत्र सिद्धान्तविरुद्धत्वात्परित्यज्य अवशिष्टानंशान् परिगृह्य, सम्प्रतिपन्नश्रुतिमनुस्मृतिभगवद्गीता ब्रह्मसूत्रः प्रमाणतमैः श्रीहरिरेव परब्रह्मेति विचार्य, एतद्देहान्त एव मुक्तः स्यामितीच्छावता पुरुषधौरेयेण श्रीमन्नारायण एवाप्रायणमुपासनीय इत्याकलयन्तु संतः " इति च उक्त्वा, उत्तरत्र श्रुतिमनुस्मृतिगीता ब्रह्मसूत्राणां तथा जीवब्रह्मभेदे ब्रह्मणः सगुणत्वे च तात्पर्यस्य सप्रमाणं त्वयैव निर्णीतत्वेन तथा सर्वमत संग्रहविलासे ब्रह्मसूत्रकृतः वेदाचार्यस्य भगवतो व्यासस्य वेदान्तानां जीवब्रह्मणोः पारमार्थिकभेद एव तात्पर्यमभिप्रेतमिति, शाङ्करभाष्यगांभीर्य निर्णयाख्यग्रन्थेऽपि जीवब्रह्मणोर्भेद एव श्रुति-सूत्राणां तात्पर्यमिति शङ्कराभिप्रेतमिति त्वयैव सहस्रकृत्त्वः उक्तत्वेन अखण्ड सच्चिदानन्दब्रह्मात्मैक्यतात्पर्यकत्वं वेदान्तानामिति वर्णनं स्वोक्तिविरुद्धं च जीवब्रह्मैक्य प्रामाण्य भंगोक्तरीत्याऽनेक प्रमाणविरुद्धं चेति ॥ एतेन 'वेदान्तविचारजन्यब्रह्मात्मैक्य साक्षात्कारेण इत्येतत्परास्तं वेदांतविचारेण ब्रह्मात्मैक्यसाक्षात्कारस्यैवाजननात् ॥

रामसुब्ब_१२

( रा . ) यच्चोवतं " परिपूर्णानन्द ब्रह्मात्मैक्यविषयकाज्ञानस्य तन्मूलस्य नाहं परिपूर्णानन्दं ब्रह्म किं तु मनुष्योऽहं दुःख्यहमित्यादिरूपस्य सर्वसंसारदुःखनिदानभ्रमस्य वेदान्तविचारजन्य ब्रह्मात्मैक्यसाक्षात्कारेण निवृत्त्या" इति,

खण्डनं_१२

(खं. ) तत्तुच्छम्, “हीयमुत्पन्ना सती पश्चादविद्यां निवर्तयति, येन नांत्या स्यात्, किं त्वविद्याविरोधिस्वभावतया तन्निवृत्त्यात्मैवोदयते" इति, वाचारम्भणाधिकरणभामत्यामुक्तत्वेन साक्षात्कारेणाविद्यानिवृत्युक्तेः भामतीग्रन्थविरुद्धत्वात् । अद्वैतिमते ब्रह्मणः स्वप्रकाशतया भासमानत्वेन तत्रोक्ताज्ञानासम्भवाच्च । त्वयैव जीवब्रह्मणोः भेदस्य साधितत्वेन नाहं परिपूर्णानन्दं ब्रह्म इति ज्ञानस्य प्रमात्वेनोक्ताज्ञानमूलत्वाभावात् भ्रमत्वाभावाच्च । 'तस्माद्ब्रह्माप्येतीति उपचारमात्रमेतद्विपरीतग्रहवद्देहसन्ततेर्विच्छेदमात्रं ब्रह्मज्ञानफलमपेक्ष्य' इति बृहदारण्यशाङ्करभाष्यादावुक्तत्वेन नित्यसिद्धब्रह्मप्राप्तेः अद्वैतिमते अफलत्वाच्च ॥

रामसुब्ब_१३

( रा . ) यच्चोक्तं, "ब्रह्मणो मानान्तरागोचरत्वेन प्रत्यक्षादिगृहीतग्राहित्वरूपसापेक्षत्वाभावाच्च वेदान्ता ब्रह्मणि प्रमाणं" इति,

खण्डनं_१३

(खं. ) तत्तुच्छम्, अद्वैतिमते ब्रह्मणोऽखण्डत्वेन वाक्यार्थत्वाभावात् । पूवं ज्ञातस्यैव वस्तुतः पदैरुपस्थित्या पूर्वं ब्रह्मणः ज्ञातत्वाभावेन पदजन्योपस्थितिविषयत्वरूपपदार्थत्वासंभवाच्च । मानान्तरागोचरे ब्रह्मणि शक्त्या लक्षणया वा ब्रह्मविषयकबोधासंभवस्योक्तत्वाच्च ॥

रामसुब्ब_१४

(रा.) चन्द्रिकोक्तगतार्थताशङ्कापरिहारार्थं जिज्ञासापदेन फलस्य सूचनेऽपि जिज्ञासापदलब्धज्ञाननिष्ठाज्ञाननिवृत्तिजनकतायां संशब्दितोपक्रमादिषविधतात्पर्य लिङ्गज्ञानाधीननिर्णयविषय ब्रह्मात्मैक्यविषयत्वमवच्छेदकमिति प्रतिपादनपरत्वेनास्य सूत्रस्य कृतकरत्वाभावादिति यदुक्तं,

खण्डनं_१४

(खं.) तत्तुच्छम्, वेदान्तानां ब्रह्मात्मैक्ये तात्पर्याभावस्य वर्णितत्वेन तैः ब्रह्मात्मैक्यविषयज्ञानस्यैवासम्भवात् । ज्ञानस्याज्ञाननिवृत्तिजनकतायाः भामतीविरुद्धत्वेन 'ज्ञाननिष्ठाज्ञाननिवृत्तिजनकतायाः' इत्युक्तेरसङ्गतत्वाच्च । अद्वैतिमतेऽज्ञाननिवर्तज्ञानस्य चिन्मात्रविषयकत्वेन तज्ज्ञाने ब्रह्मात्मैक्यविषयकत्वासम्भवाच्च ॥

चन्द्रिकानुवाद:_

(चं.) लौकिककार्यपरवाक्येऽपि सापेक्षत्वदर्शनेन पौरुषेयत्वस्यैव सापेक्षत्वप्रयोजकत्वाच्च इति यत्

रामसुब्ब_

( रा . ) तन्न, लौकिक कार्यपरवाक्यस्य प्रत्यक्षादिप्रमाणान्तरसापेक्षत्वे अनधिगतार्थगन्त्रत्वलक्षणप्रामाण्यास्वीकारात् । अपौरुषेयस्यापि 'अग्रिहिमस्य भेषजं' इत्यादे: प्रत्यक्षधिगतार्थ गन्तृत्वलक्षणसापेक्षत्वदर्शनेन पौरुषेयत्वस्यैव सापेक्षत्वप्रयोजक नित्युक्त्यसङ्गतेश्चेति यदुदितं,

खण्डनं_

(सं.) तत्तुच्छम्, सिद्धवस्तुबोधने प्रमाणान्तरजन्यज्ञानापेक्षत्वरूपसापेक्षत्वप्रसङ्गः पूर्वपक्षितः । स च न युक्तः, सिद्धवस्तुबोधकत्वाभाववस्यपि कार्यपरवाक्ये सापेक्षत्वदर्शनेन व्यतिरेकव्यभिचारात् । सापेक्षत्वं प्रति सिद्धवस्तुबोधकताया अप्रयोजकतया पौरुषेयत्वस्य प्रमाणान्तरजन्यज्ञानापेक्षत्वरूपसापेक्षत्वं प्रति प्रयोजकतया सिद्धवस्तु-बोधकत्वे सापेक्षत्वापादनस्यायुक्तत्वात् । प्रमाणान्तरावगतार्थत्वस्यापाद्यसापेक्षत्वरूपत्वाङ्गीकारे ईश्वरस्य सर्वज्ञत्वेन सर्वस्यापि प्रमाणान्तरावगतार्थकत्व प्राप्त्या सापेक्षत्वमेव स्यात् । प्रकृते 'अग्निहिमस्य भेषजं-इत्यादेः उक्तसापेक्षत्वाभावेन पौरुषेयत्वस्यैव सापेक्षत्वप्रयोजकत्वमित्यु' क्तेरत्यन्तं सङ्गतत्वात् ॥

चन्द्रिकानुवाद:_

( चं . ) सिद्धान्तोऽप्ययुक्तः । तथा हि-

स्वप्रभत्वादसंदिग्धेऽवाच्यत्वाच्छ्रत्यगोचरे ।

निविशेषे च चिन्मात्रे कथं श्रुतिसमन्वयः ॥

एवं संदिग्धस्यैव विषयत्वात् सामान्यज्ञानविशेषाज्ञाननिबन्धनस्य च सन्देहस्य निर्विशेषेऽसंभवात् पूर्वपक्षसिद्धान्तयोश्च संदेहकोटयन्यतरकोट्यवलम्बित्वात् फलस्य चैककोटिनिर्णयाधीनत्वात् निर्विशेषात्मविषयसंशयपूर्वपक्षसिद्धान्तप्रयोजनाख्यपञ्चकरूपाधिकरणासंभवो द्रष्टव्य इति यदुक्तं,

रामसुब्ब_

( रा . ) तन्न, साक्षात्करोमि इत्यनुव्यवसाय सिद्धलौकिक विषयतायाः प्रत्यक्षत्वात्मकत्ववत्, 'सन्देह्मि' इत्याद्यनुव्यवसायसिद्धविषयताविशेष एव संशयत्वं न तु एकधर्मिकविरुद्धनानाधर्मप्रकारकज्ञानत्वं, तस्यायोग्यानेपदार्थघटितत्वेन 'सन्देह्मि' इत्यादिप्रत्यक्षविषयत्वासंभवात् । तस्य सामान्यतः पदपदार्थ सङ्गतिज्ञानवत्पुरुषीयश्रोत्रेन्द्रियजन्यप्रत्यक्षविषयीकृतात् 'केवलो निर्गुणश्च' इत्यादिशब्दाज्जायमाने कोटिद्वयानवगाहिनिर्विकल्पकज्ञानेऽपि संभवः, तदुत्तरं कदाचित् 'सन्देह्मि' त्याद्यनुव्यवसाय प्रत्यक्षदर्शनात् । तथा च तत्समानाकारकनिर्णयात्मकज्ञानरूपफलस्य विचारसाध्यत्वं संभवत्येव । 'केवलो निर्गुणश्च' इति वाक्ये श्रवणसमनन्तरजातापातज्ञानस्वरूप संशयतद्वाक्यविचारजनितानापातज्ञानरूप निर्णययोः निर्विशेषविषयकत्वनिविकल्पकज्ञानत्वाविशेषेऽपि यदुत्तरं सन्देह्मीत्यादिप्रत्यक्षं तज्ज्ञानमापातज्ञानं संशय इति चोच्यते । यदुत्तरं तादृशप्रत्यक्षं नोत्पद्यते तज्ज्ञानमनापातज्ञानं निर्णय इति चोच्यते । सन्देदहत्वस्योक्तरीत्या कोटिद्वयविषयकत्वरूपत्वाभावेन संशयेकोटिद्वयविषयकत्वानियमादिति गौडब्रह्मानन्दस्वामिविरचितब्रह्मसूत्र मुक्तावलीजिज्ञासाधिकरणग्रन्थरीत्या पूर्वपक्षसिद्धान्तयोः विषयसंदेहयोः फलस्य च निर्विशेषेऽपि सिध्द्युपपत्तेः अधिकरणारम्भसम्भवात् इति यदुक्तं,

खण्डनं_३१

(खं.) ततुच्छम्, जिज्ञासाधिकरण एव त्वदुक्तस्य निर्विकल्पकसन्देहस्य, निर्विकल्पकनिश्चयस्य सन्देहत्वस्य विषयिताविशेषरूपतायाः, 'केवलो निर्गुणश्च' इति वाक्यस्य निर्विकल्पक संशयनिर्णयजनकतायाश्च अनुव्यवसायस्य निर्विकल्पक सन्देहादिविषयतायाश्च खण्डितत्वेन निर्विशेषात्मविषय संशय पूर्वक्षसिद्धान्तप्रयोजनाख्यपञ्चकरूपाधिकरणासंभवस्याद्वैतिमते दुरुद्धरत्वात् ॥

चन्द्रिकानुवाद:_

(चं.) अपिच --

आद्यसूत्रेऽहमर्थे हि प्रसिद्धिः प्रतिपादिता ।

जिज्ञासार्थं द्वितीये हि जगज्जन्मादिहेतुता ।।

अविद्यमानाऽहमर्थे लक्षणत्वेन कीर्तिता ।

ईश्वरस्य तृतीये तु निर्विशेषप्रमाणता ||

शास्त्रस्योक्ता चतुर्थे च तस्मिन्नेव समन्वयः ।

प्रतिज्ञातोऽन्तरित्यादौ सविशेषं तु कथ्यते ||

ब्रह्मेति मायिनां पक्षस्तत्र किं केन सङ्गतम् ।

तत्त्वविद्वेषमात्रेण श्रुतिसूत्रे कदर्थते ।। इति कारिकोपरि,

रामसुब्ब_४१

( रा . ) एकमेव चैतन्यमन्तःकरणशब्दितेनाहमर्थेन मायया चावच्छिद्यते । अन्तःकरणावच्छेदेन तदेव चैतन्यं जीव इति शब्द्यते । मायावच्छेदेन ईश्वर इति शब्द्यते । तत्तदवच्छेदविशिष्टं सत् तदेवावच्छेदकनिष्कासनेन शुद्धमित्यपि शब्द्यते । तथा चैकस्मिन्नेव जिज्ञासार्थं अन्तःकरणरूपावच्छेदकेनाहमिति प्रसिद्धिः । मायारूपेणावच्छेदकान्तरेण जगद्धेतुता । प्रमासमन्वयस्तु चैतन्ये मायावच्छेदेन । तथा चावछेदकभेदेन प्रसिद्धिजगत्कारणत्वादीनां एकवस्तुनिष्ठत्वसम्भवात् वैयधिकरण्याशङ्का न प्रसज्यत इति किमत्रासङ्गतमस्ति इति यद्दुषणमुक्तं,

खण्डनं_४१

(खं.) तत्तच्छम्, द्वैतिमते ब्रह्मातिरिक्त सत्यवस्तुनोऽभावात्, अध्यासकारणासम्भवेन मायायाः अन्तःकरणस्य च अध्यासासम्भवात्, असङ्ग चैतन्यस्य मायान्तःकरणादि संबन्धासम्भवात्, सम्बन्धाङ्गीकारेऽपि ब्रह्मणः भागाभावेन एकदेश सम्बंधासम्भवात् सर्वसम्बन्धे च जीवेश्वरब्रह्मरूपविभागानुपपत्तेः, अवच्छेदक भेदस्यैवासम्भवेनावच्छेदकभेदेन प्रसिद्धिजगत्कारणत्वादीनां एकवस्तुनिष्ठत्वकथनस्यात्यन्तमसङ्गतत्वात् । सर्वदा यस्य कस्य चित्संसारिणः सत्त्वेन सदा चैतन्यस्य विशिष्टत्वेन शुद्धत्वस्य कदाऽप्यसम्भवाच्च । अन्तःकरणावच्छिन्न चैतन्यरूपे जीवे कारणत्वो

क्तावपि ईश्वरकारणत्वोक्तेर्बाधकाभावेन "जन्माद्यस्य यतः, अनुपपत्तेस्तु न शारीरः" इत्यादिसूत्रेषु जीवकारणत्वादिनिषेधेन ईश्वरे कारणत्वादिसाधनप्रयासवैयर्थ्याच्च । "अन्तःकरणशब्दितेनाहमर्थेन" इति त्वया अन्तःकरणस्य अहमर्थत्वकथनेन अहमर्थे प्रसिद्धयुक्तावपि चैतन्ये अवच्छेदकभेदेनापि प्रसिद्धयप्राप्त्या वैयधिकरण्यस्य दुर्वारत्वाच्च । विष्णुतत्त्वरहस्यविवरणादिग्रन्थे " शास्त्राणां भेद एव" इत्यादिना जीवब्रह्मणोर्भेदस्य कथित्वेन 'अन्तःकरणावच्छेदेन तदेव चैतन्यं जीव इति शब्द्यते ' इत्यादेः स्वोक्तिविरुद्धत्वाच्च ॥

चन्द्रिकानुवाद:_

(चं . ) किंच विस्मृतकण्ठण्युपदेशस्य प्राप्तमणिप्राप्तिर्न फलं, किं तु प्राप्तिज्ञानजन्यसुखस्य वस्तुतः प्रागप्राप्तस्य प्राप्तिः, मण्यप्राप्तिभ्रमजन्यदुःखस्य वस्तुतः प्रागनिवृत्तस्य निवृत्तिर्वा फलम् । एवं चरणाभरणमिदं न सर्प इत्युपदेशस्यापि न नित्यनिवृत्तसर्पनिवृत्तिः फलं किं त्वाभरणत्वज्ञानजन्यसुखस्य वस्तुतः प्रागप्राप्तस्य प्राप्तिः, सर्पभ्रमजन्यदुःखस्य वस्तुतः प्रागनिवृत्तस्य निवृत्तिर्वा । न ह्यपदेशेन मणिः प्राप्तः सर्पोऽपि निवृत्त इत्यनुभवः, किं तु प्राप्तिर्ज्ञाता, भ्रमो निवृत्त इति । न च प्रकृते प्राप्तस्वरूपसुखादन्यत्प्राप्यं सुखं नित्यनिवृत्ताविद्याभ्रमदुःखादेरन्यन्निवर्त्यं वाऽस्ति, येन सप्रयोजनता स्यादिति यदुक्तं,

रामसुब्ब_५१

( रा . ) तन्न, न विस्मृतमण्युपदेशेन विलक्षणं सुखं जन्यते, स्याननुभवात् । भ्रमव्यवहितो मणिः प्राप्त इति हि अनुभूयते । न हि चरणाभरणमिदं न सर्प इत्युपदेशेन सुखं जायते, अननुभवपराहतत्वादिति यत्,

खण्डनं_५१

(खं . ) तत्तुच्छम्, शाङ्करीयबृहद्भाष्यादौ प्राप्तब्रह्मप्राप्तः फलत्वनिरासात् तन्न्यायेन प्राप्तमणिप्राप्तेः फलत्वासम्भवात् कण्ठमण्युपदेशस्य प्रागप्राप्तप्राप्तिज्ञानजन्यसुखं फलमित्यवश्यं वक्तव्यत्वात् । तादृशसुखानुभवाच्च । चरणाभरणमिदं न सर्प इत्युपदेशेन जायमानसुखस्य दुःखनिवृत्तेर्वा सर्वानुभवसिद्धत्वेनाननुभवपराहतत्वादित्युक्तेर- युक्तत्वात् ॥

चन्द्रिकानुवाद:_

(चं.) किंच - पूर्ववादिना फलाभावादिना तात्पर्य आक्षिप्ते सिद्धान्तसूत्रे फलादिकं तात्पर्यं चानुपपाद्य प्रामाण्ये तात्पयं हेतु-कर्तुमयुक्तमिति यदुदितं,

रामसुब्ब_६१

( रा . ) तन्न, वह्नौ सन्दिहानं प्रति धूमोस्ति इति वाक्येनेव सूत्रे तात्पर्यादिति हेतुक्त्या प्रामाण्यतात्पर्यव्यापक फलतत्तात्पर्ययोः सिध्यनपायात् इति यत्,

खण्डनं_६१

(खं.) तत्तुच्छम्, फलाभावाद्ब्रह्मणि वेदान्तानां तात्पर्यं नास्ति, अतः ब्रह्मणि प्रामाण्यं न सम्भवतीति आक्षिपन्तं प्रति तात्पर्यात् ब्रह्मणि वेदान्तानां प्रामाण्यमिति वक्तुं न शक्यते इति चन्द्रिकोक्तदोषमपरिज्ञाय, प्रामाण्यतात्पर्यं भिन्नं फलतात्पर्यं भिन्नं, फलतात्पर्यं व्यवस्थापनीयं, न तु प्रामाण्ये तात्पर्यमिति चन्द्रिकोक्तमिति भ्रान्त्या प्रामाण्यतात्पर्यस्य फलतात्पर्य व्यापकं, व्याप्यप्रामाण्यतात्पर्योक्त्या व्यापकफलतात्पर्यं उक्तं भवतीत्युक्ते: चन्द्रिकोक्तदोषपरिहारासमर्थत्वात् । वन्हौ सन्दिहानं प्रति वह्निज्ञापनार्थं वह्निभिन्नस्य वह्निव्याप्यस्यासन्दिग्धस्य बोधनसम्भवेsपि वेदान्तानां ब्रह्मणि तात्पर्यमाक्षिपन्तं प्रति तत्तात्पर्यस्यैव हेतूकरणायोगात् ॥

चन्द्रिकानुवाद:_

(चं.)  लक्षणाया अमुख्यत्वेन सौत्रसंशब्दार्थत्वायोगाच्च इति यदुक्तं,

रामसुब्ब_७१

( रा . ) तन्न, 'तत् सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं ब्रह्म इत्यादिना श्रीशाङ्करसमन्वयसूत्र सिद्धान्तमाष्योपक्रमेण वाच्ये सगुणेsपि समन्वयोक्त्या 'सं' इत्युपसर्गोपपत्तेः । लक्षणया निर्विशेषसमन्वयस्वीकारेऽपि उपक्रमोपसंहारादिषविधतात्पर्य लिङ्गानवगामितशक्त्यपेक्षया प्रबलत्वेन 'सम्' इत्यस्य निविशेषपरत्वेऽप्युपपत्तेः इति यत्परेणोक्तं,

खण्डनं_७१

(खं.) तत्तुच्छम्, अद्वैतिमते सगुणस्य मिथ्यात्वेन तत्र वेदान्तानां समन्वयोक्तौ अतत्त्वावेदकत्वेनाप्रामाण्यप्रसङ्गात् । निधिशेषज्ञानस्यैवाद्वैतिमते मोक्षजनकतया तज्ज्ञानार्थं तत्रैव समन्वयस्य वक्तव्यत्वेन सगुणसमन्वयस्यावक्तव्यत्वाच्च । शाङ्करभाष्ये उदाहृतानां अद्वैतिरीत्या निविशेषतात्पर्यकाणां सगुणेऽसम्भाव्यमानानां सत्वैकत्वाद्वितीयत्वादिप्रतिपादकानां "सदेव सोम्य" " तदेतद्ब्रह्मापूर्व" इत्यादिनां सगुणे समन्वयस्यासम्भवदुक्तिकतया 'तत् सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं ब्रह्म' इति समन्वयसूत्रोपक्रमभाष्ये उक्तत्वेऽप्ययुक्तत्वाच्च ।

वाक्यानां लक्षणया शक्त्या वा क्वचित्समन्वयः उपक्रमादिना कल्प्यते, उपक्रमादिलिङ्गेन लक्षणया समन्वयापेक्षया शक्त्या समन्वयस्य मुख्यत्वेन समित्युपसर्गेण ब्रह्मणि वेदान्तानां मुख्य समन्वयस्योत्तया लक्षणया समन्वयाङ्गीकारे सौत्र संशब्दायुक्तताया अपरिहारात् । ब्रह्मण: सगुणत्व एव श्रुतिस्मृतिसूत्राणां तथा शङ्करभाष्यस्यापि तात्पर्यस्य विष्णुतत्वरहस्यविवरणादिग्रन्थे त्वयोक्तत्वेन त्वन्मते निर्विशेषब्रह्मणः शशविषाणायितत्वेन तत्र समन्वयकल्पनस्यायुक्तत्वाच्च ॥

ॐ तत्तु समन्वयात् ॐ ॥ अत्र शास्त्रयोनित्वं किमन्यस्यापि किं वा विष्णोरेवैति चिन्ता । तदर्थं वेदतात्पर्यनिश्चयः किं शैवागमादिना किं वोपक्रमादिनेति । तदर्थमुपक्रमादेर्बलाबलव्यवस्था न सम्भवत्युत सम्भवतीति । पूर्वपक्षस्तुकारणत्वस्य शास्त्रयोनित्वेऽप्यतिव्याप्तिः, शैवाद्यागमाद्वेदव्याख्यानरूपान्मानान्तराविरुद्धात् रुद्रादेः कारणत्वे वेद-तात्पर्यनिश्चयात् काव्यादिव्याख्यानादिश्च काव्यस्य । उक्तं ह्यागमेषु " ज्ञात्वा शिवं शान्तिमत्यन्तमेति" इत्यादिशास्त्रं शिवस्य मोक्षत्वादिपरमिति । नचैवं पञ्चरात्रादिना विष्णावपि तात्पर्यनिश्चयापत्तिः, तथापि सिद्धान्त्यभिप्रेतावधारणासिद्धेः । उपक्रादि तु न तात्पर्यनिश्चायकं, अश्वप्रतिगृहेष्ठि: उपक्रमाद्दातुः, उपसंहारात्प्रतिगृहीतुः इत्याद्यतिप्रसङ्गेन तेषामव्यवस्थितत्वात्, किंतु सर्वज्ञप्रणीतागमा एवेति ॥ सिद्धान्तस्तु--

व्याख्यातृवचनानां यै लिंगेस्तात्पर्य निश्चयः ।

उपक्रमाद्यैस्तैरेव श्रुतितात्पर्यनिर्णयः ॥

आपातजप्रत्ययाश्च परस्परविरोधिनः ।

अविरुद्धा प्रतीतिस्तु पूर्वापरविमर्शजा ||

अनिश्चिततात्पर्यस्यागमस्य शास्त्रतात्पर्यानिश्चयाकत्वादुपक्रमादिभिरागमतात्पर्यनिश्चये वेदेऽपि तैरेव लोके क्लृप्तैस्तनिश्चयोऽस्तु । न च श्रुत्या प्रतीतार्थस्य उपक्रमादिना त्यागे श्रुतिर्बाधितास्यादिति वाच्यं,

आपाततो भ्रमप्राप्तमर्थं हित्वा विमर्शतः ।

गहन श्रुतितात्पर्य विषयोऽन्विष्यते यतः ॥

एवं च आपातप्रतीतत्यागे पुरुष भ्रान्तिरेव त्यक्ता भवति न वेदार्थः । कुतः-

हीक्षुलेहनेनैव ज्ञात इक्षुरसो भवेत् ।

न चेक्षुदण्डं निष्पीड्य लब्धो नेक्षुरमो भवेत् ॥

न ह्यनन्तशाखात्मकत्वात्स्वरूपेनैवापरिच्छेद्यो नानानिगम निरूक्तव्याकरणादिना विना दुर्बोधपदार्थः नानान्यायकलापं च विना दुरधिगमवाक्यार्थश्च वेदः सुबोधार्थः । तदुक्तं वार्तिके --

न्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते ।

अन्यश्च परिपूर्णेन समस्ताङ्गोपसंहृतौ ॥

पौर्वापर्यपरामृष्टः शब्दोऽन्यां कुरुते मतिम् । इति ।

तथा चैवं सूत्रयोजना-अन्वयादुपक्रमादिलिङ्ग समुदायात् शात्रे सम्यक् प्रविचारिते सति सर्वस्य शास्त्रस्य भगवत्येव सम्यग् वचनवृत्या अन्वयात् शक्तितात्पर्यलक्षणसम्बधावगमात् तत् विष्ण्वाख्यं ब्रह्मैव जगज्जन्मादिकारणत्वेन शास्त्रयोनि, न तु हरहिरण्यगर्भादिरिति यदभिप्रेतं,

रामसुब्ब_७२

( रा. ) तन्न, मध्वमतरीत्या सर्वव्याख्यानाधिकरण एवास्यार्थस्य कथनौचित्यात् । सङ्गतिलाभेनात्रोक्तौ पुनः सर्वव्याख्यानाधिकरणेऽस्यार्थस्य कथनेन पौनरुक्त्यादिदोषापत्तेरिति यत्परवचनम्,

खण्डनं_७२

(खं.) तत्तुच्छं, अधिकरणद्वयार्थाज्ञानमूलत्वात् । तथा हि-अस्मिन्नधिकरणे शास्त्रमपि रुद्रादीनां कारणत्वं प्रतिपादयतीति अतिव्याप्तिशंकायां सर्व शास्त्रं जगत्कारणतया विष्णुमेव प्रतिपादयति, विष्णुविषयको पक्रमादिलिंगवत्त्वादिति सामान्यरूपेण सर्वशास्त्रस्य विष्णु परत्वव्यवस्था क्रियते, आनंदमयाधिकरणमारभ्याध्यायपरिसमाप्तिपर्यंतं उदाहरणतया एकैकविषयवाक्यं स्वीकृत्योपक्रमादिवशात् तेषां तेषां वाक्यानां ब्रह्मणि समन्वयं प्रदश्यं तस्यांतिमे "एतेन सर्वे व्याख्याताः व्याख्याताः" इत्यधिकरणे समन्वितातिरिक्तानां असदादिशब्दानां पूर्व समन्वयज्ञापकतयोक्तन्यायातिदेशेन समन्वयोज्ञाप्यते इत्येतयोरधिकरणयोः परस्परविलक्षणार्थकत्वेनैतदधिकरणार्थस्य तत्र कथनप्रसक्तेः पौनरुक्त्यप्रसक्तेर्वा अभाव इति ।।

॥ इति समन्वयाधिकरणं सम्पूर्णम् ॥