ॐ आकाशस्तल्लिंगात् ॐ
॥ अथ आकाशाधिकरणम् ॥
ॐ आकाशस्तल्लिंगात् ॐ
चन्द्रिकानुवाद:_१
(चं.) अत्राद्वैतिनस्त्वाहु:- "आकाश इति होवाच" इत्याकाशनिरूढप्रथमानुपसंजातविरोध्याकाशपदानुरोधेन बहून्यपि चरमाणि सर्वकारणत्वज्यायस्त्वानन्तत्वादीनि भूताकाशे कथं चिद्योज्यानि इति प्राप्ते यद्यप्याकाशपदं 'सर्वाणि' इत्यादितः प्रथमं, तथापि परिहारवाक्यस्थाकाशपदादपि प्रथमानुपसंजातविरोधिप्रश्नानुसारेण चरमस्योत्तरस्य नेयत्वात् 'अस्य लोकस्य का गतिः' इति प्रश्नस्य च दृश्यमान सर्वप्रपञ्चविषयत्वात्सर्वलोकगतिरेवाकाशपदेन प्रतिवक्तव्या । न च लोकान्तर्गतो भूताकाशः सर्वलोकगतिः । किं च सर्वलोककारणत्वादिबह्वनुग्रहार्थमेकमाकाशदं जघन्यवृत्त्या ब्रह्मपरं 'त्यजेदेकं कुलस्यार्थे' इति न्यायात् । तस्मात् सोपाधिकं ब्रह्मवाकाशपदेनोपास्यत्वेनोपक्षिप्तं इति सिद्धान्त इति । अत्र ब्रूमः-प्रथमानुसारेण चरमास्वारस्ये पूर्वाधिकरणेपि प्रथमहिरण्यश्मश्रुत्वाद्यनुसारेण चरमं पापातीतत्वं जीवे कथं चित्रेयं स्यात् । इहापि प्रश्नस्यानुरोध्यत्वे प्राथम्यमेव हेतु:, प्रश्नोत्तरयोरेकविषयत्वस्योत्तरानुसारेण प्रश्नव्याख्यानेपि सिद्धेः । किं च-
प्रकृतां पृथिवीं वक्ति प्रश्नस्थं सर्वनाम यत् ।
तस्मात्तदनुरोधी चेत्समाधिश्च तथा भवेत् ।।
तथा हि--"असौ लोकः" इत्यादिना दाल्भ्योक्तं स्वर्गलोकस्य सामाश्रयत्वं शालावत्यः “अप्रतिष्ठितं वै किल" इत्यादिना दूषयित्वा "अयं लोकः" इत्यादिना पृथिवीलोकः सामाश्रय इत्यूचे । प्रवाहणस्तु तं "अन्तवद्वै किल" इत्यादिनाऽदूषयत् । तर्ह्यस्य लोकस्य का गतिरिति शालावत्येन प्रकृतपृथिवीलोकगतिरेव पृष्टा, न सर्वगतिः, अस्येति सर्वनाम्नः "प्रास्मा अग्नि" इत्यादाविव प्रकृतपरत्वात् । तथा च प्रश्नानुसारेणोत्तरव्याख्याने "सर्वाणि ह वै" इत्यत्र सर्वशब्दः पृथिवीमात्रपरः स्यात् । न च पृथिवीकारणस्यापां प्रसिद्धत्वेन प्रश्नवैय्यर्थ्यं सर्वलोककारणस्यापि वाक्यान्तरतः प्रसिद्धेः, लोकतस्त्वषां पृथिवीकारणत्वस्याप्यप्रसिद्धेः । न च पृथिवीमात्र कारणप्रश्ने आप इति वक्तव्यत्वात्प्रतिवचने आकाशपदं 'सर्वाणि' इति सर्वपदं 'आकाशादेव' इत्यवधारणं चायुक्तम् । तस्मात्प्रश्नोपि सर्वलोकगतिविषय इति वाच्यम् । भामत्यां "प्रश्नोत्तरानुरोधेनोत्तरव्याख्यानम्" इत्युक्तत्वेनोत्तरानुसारेण प्रश्नव्याख्यानेऽन्योन्याश्रयादिति यदुक्तं,
रामसुब्ब_११
(रा.) तन्न, हिरण्यश्मश्रुत्वादेर्जीवब्रह्मसाधारणतया जीवासाधारणधर्मत्वाभावेनोपक्रमगतेनापि तेन जीव इति निर्णयासम्भवात् । सर्वपापोदितत्वस्य ब्रह्मासाधारणधर्मस्य हिरण्यश्मश्रुत्वादिवशेन जीवे नयनासम्भवादिति यत्,
खण्डनं_११
(खं.) तत्तुच्छम्,
मर्यादाधाररूपाणि संसारिणि परे न तु ।
तस्मादुपास्यः संसारी कर्मानधिकृतो रविः ॥
इति भामत्यां 'रूपवत्त्वश्रवणात् आधारश्रवणाच्च 'चक्षुरन्तस्थः संसारी' रति भाष्ये च हिरण्यमश्रुत्वादेर्जीवासाधारण्यमङ्गीकृत्य पूर्वपक्षकरणात्,तस्य ब्रह्मसाधारणत्वे पूर्वपक्षस्यैवायोगात् । 'हिरण्यश्मश्रुत्वादेर्जीवब्रह्मसाधारणतया जीवासाधारणधर्मत्वाभावेन' इति त्वदुक्तेः स्वभाष्यभामत्यादिप्रन्थानवलोकन निमित्तत्वात् । सर्वपाप्मोदितत्वस्य अद्वैतिमतरीत्या भाविविवक्षया वा, सर्वशब्दस्य सङ्कोचेन यत्किञ्चित्पापोदितत्वविवक्षया वा, "सर्वपाप्मविरहश्चादित्यपुरुषे सम्भवति, शास्त्रस्य मनुष्याधिकारितया देवतायाः पुण्यपापयोरनधिकारात्" इति भामतीरीत्या वा जीवे नयनसम्भवात् असम्भवोक्तेः भामत्याद्यज्ञानमूलत्वाच्च ॥
चन्द्रिकानुवाद:_२
॥ (चं.) यच्चोक्तं "त्यजेदेकं कुलस्यार्थे” इति न्यायेन सर्वलोककारणत्वादिबह्वनुग्रहार्थं एकं आकाशपदं जघन्यवृत्त्या ब्रह्मपरमिति, तन्न, आकाशश्रुतेः प्रधानत्वात् अप्रधानानेकलिङ्गबाधस्यापि "आत्मार्थे पृथिवीं त्यजेत्" इति न्यायसिद्धत्वादिति यदुक्तं,
रामसुब्ब_२१
(रा.) तन्न, सर्वलोकगतित्वलिङ्गस्य प्रश्नस्थत्वनिमित्तकप्राबल्यसत्त्वेन नैमित्तिकप्राबल्यस्य स्वाभाविकश्रुतिप्राबल्यापेक्षया 'नित्यात् प्रबलं नैमित्तिकं' इति न्यायेन प्रबलतया सर्वलोकगतित्वरूपसर्वकारणत्वस्यैव 'आत्मार्थे' इति न्यायघटकात्मस्थानीयत्वात् । अत एव यादृशलिङ्गस्य नैमित्तिकस्वप्रयुक्यप्राबल्यं नास्ति, तादृशस्यैव "श्रुतिलिङ्गवाक्यप्रकरण" इति सूत्रे पूर्वतंत्रे श्रुतितो दौर्बल्य मुक्तमित्यवधेयमिति यत्परेणोक्तं,
खण्डनं_२१
(खं.) तत्तुच्छम्, सर्वलोकगतित्वलिङ्गे प्रश्नस्थत्वस्यैवाभावात् । तथा हि- “अमुष्य लोकस्य का गतिः" इति प्रश्ने "अयं लोक इति होत्रा च" इति पृधिवी लोकस्य गतित्वोक्तौ "अस्य लोकस्य का गतिः' इति पृथिवीलोकस्य गतिप्रश्ने “आकाश इति होवाच" इति वाक्यस्य प्रवृत्तत्वात् पृथिवीलोकगतित्वमेव प्रश्नस्थं, न तु सर्वलोकगतित्वमिति तस्य प्रश्नस्थत्वनिमित्तकप्राबल्यस्य च दूरोत्सारितत्वात् । सर्वलोकगतिस्वस्य प्रश्नस्थत्वनिमित्तकप्राबल्योक्ता आकाशपदस्योत्तरस्थत्वनिमित्तक-प्राबल्यस्यापि वक्तुं शक्यत्वाच्च । न हि प्रश्नस्थत्वमेव प्राबल्य प्रयोजक न तूत्तरस्थत्वमित्यत्र किंचिन्नियामकं पश्याम इति, आकाशश्रुतेरेव 'आत्मार्थे' इति न्यायघटकात्मस्थानीयत्वं, न तु सर्वलोकगतित्वरूपकारणत्वस्येति ॥
चन्द्रिकानुवाद:_३
(चं.) कि च-
कारणे कार्यगा यद्वत्तथा कार्येपि हेतुगाः ।
व्यपदेष्टुं हि शक्यन्ते धर्मा ऐक्याविशेषतः ॥ १॥
पूर्वाधिकरणे त्वत्पक्षे कार्यगतस्य हिरण्यश्मश्रुत्वादेः कारणे व्यपदेश इवेह कारणब्रह्मधर्माणां सर्वकारणत्वादीनां भूताकाशे व्यपदेशोस्तु, तयोरभेदाविशेषादिति यत्,
रामसुब्ब_३१
(रा.) तन्न, कारणधर्मस्य कार्ये सत्त्वाङ्गीकारे मृद्रूपकारणगतशरावत्वादेः मृकार्यघटादावपि प्रसक्त्या मृद् घट इतिवत् शरावो घट इति प्रत्ययापत्तेरिति पूर्वाधिकरण एवोक्तत्वादिति यत्परोक्तं,
खण्डनं_३१
(खं.) तत्तुच्छम्, कार्यगतधर्मैः कारणं व्यपदिश्यत इत्यङ्गीकारेपि घटादिगतजलाधारत्वपृथुबुध्नोदराकारत्वादिधर्मैः मृदोपि मृत् पृथुबुध्नोदराकारा इत्यादिव्यवहारापत्तेः साम्यात् । कार्यगतैः सर्वैः धर्मैः कारणं नियमेन व्यपदिश्यत इति नियमानङ्गीकारेणोक्तापत्त्यसम्भवे कारणगतैः सर्वैः धर्मैः कार्य नियमेन व्यपदिश्यत इति नियमस्यास्माभिरप्यनङ्गीकारेण त्वदुक्तापत्तेरप्यसम्भवात् इति पूर्वाधिकरण एवास्माभिरप्युक्तत्वात् । शरावत्वदीनां मृद्रूपकारणगतत्वाभावाच्च ॥
चन्द्रिकानुवाद:_४
(चं.) किं च--
विशिष्टविषयत्वं चेदनन्तत्वाद्यसम्भवः ।
विशुद्धविषयत्वं चेज्ज्जायस्त्वादेरसम्भवः ॥
न हि सोपाधिके परिच्छिन्ने ब्रह्मणि अनन्तत्वादिकम्। नापि निर्विशेषे ज्यायस्त्वादिकम्....यद्यपि वस्तुतो निर्विशेषे आरोपितो विशेषो न विरुद्धः, तथापि त्वदुक्तः सविशेष निर्विशेषविद्ययोरधिकारिभेदः फलभेदो विद्याभेदेन पापभेदश्च न स्यात् । एवमुत्तराधिकरणविषयवाक्येष्वपि सगुणनिर्गुणोभयलिंगयुक्तेषु दोष ऊह्यः । किं च सूत्रोक्तं लिङ्गं न तावद्द्ब्रह्मणि तत्त्वतोऽस्ति ।
यदि चारोपितं लिङ्गं तत्साध्या ब्रह्मतापि हि ।
आरोपिता स्यादेवं च पूर्वपक्षः स्थिरो भवेत् ॥
तस्मान्मतान्तरमयुक्तमिति चन्द्रिकोपरि,
रामसुब्ब_४१
(रा.) यत्तु एतेन 'तद्ब्रह्म सविशेषं' इत्यादि: 'पादभेदश्च न स्यात्' इत्यन्तः चन्द्रिकाग्रन्थः परास्तः, बाष्यभामत्योः "आकाश इति होवाच" इत्याकाशपदस्योपहितब्रह्मपरत्वोक्तया सविशेषनिविशेषत्वविकल्पस्यैवानवकाशात् । सविशेषे मायोपहितब्रह्मणि अनन्तशब्दितविनाशशून्यत्वरूपानन्तत्वस्य द्रव्यत्वव्यापकसंयोगप्रतियोगित्वरूपज्यायस्त्वस्य च मुख्यतः सम्भवाविरोधात् । धर्माणां सविशेषमात्रगतत्वेन निविशेषावृत्तितया विद्याभेदफलभेदाधिकारिभेदपादभेदानां सम्यगुपपत्तेरिति परोक्तं,
खण्डनं_४१
(खं.) तत्तुच्छं, शाङ्करकभाष्ये भामत्यां वा आकाशपदमुपहितब्रह्मपरमित्यनुक्तेः । निर्विशेषब्रह्मपरतया त्वदभिमतेऽधिकरणेपि अनेकधर्माणां कथनेन अस्मिन्नधिकरणे ज्यायस्त्वादीनां कथनमात्रेण उपहितब्रह्मपरत्वानिर्णयात् । मायानाशप्रयुक्तनाशवति मायोपाधिकब्रह्मणि विनाशशून्यत्वरूपानन्तत्वस्यायोगात् । सविशेषे ज्यायस्त्वाद्यसम्भवस्यानाशङ्कितत्वेन निर्विशेषे तदसम्भवस्योक्तत्वेन च 'सविशेषे द्रव्यत्वव्यापकसंयोग प्रतियोगित्वरूपज्यायस्त्वस्य च मुखतः सम्भवाविरोधात्' इत्युक्तेः आम्रप्रश्ने कोविदारकथनस्येवायुक्तत्वाच्च । निर्विशेषे ब्रह्मणि निविशेषत्व सर्वभ्रमाधिष्ठानत्वादिधर्माणामवश्यमद्वैतिभिरङ्गीकार्यत्वाच्च । विष्णुतत्त्वरहस्यादिग्रन्थे ब्रह्मणः सगुणत्वमेव न निर्विशेषत्वमिति श्रुतिसूत्राणां शाङ्करभाष्यस्यापि अभिप्राय इति त्वयैव वर्णितत्वेन सविशेष, निर्विशेषविषयतया विद्यादिभेदकथनानुपपत्तेः । तस्मात्मतान्तस्मयुक्तमिति ॥
ॐ आकाशस्तलिङ्गात् ॐ । अत्राधिभूतगताकाशादिमग्नां समन्वय उच्यते । भूतेषु आकाशस्य प्राधान्यात्सूत्रे तस्य मुखतः कीर्तनं, अन्येषां तूपलक्षणम् । अनन्तरसङ्गतिस्तु-अधिकाशङ्कां कृत्वा पूर्वन्याय एवातिदिश्यते इति आतिदेशिको । "अस्य लोकस्य का गत्तिरित्याकाश इति होवाच । सर्वाणि हवा इमानि भूतानि आकाशादेव समुत्पद्यन्ते आकाश प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एषोनन्तः” इत्यत्राकाशः किं भूताकाशः किं वा ब्रह्मेति चिन्ता । तदयं किमाकाशश्रुतिप्रसिद्धयनुसारेण परोवरीयस्त्वादिलिङ्गं बाध्यं किं वा विपरीतमिति । तदर्थं प्रसिद्धिबाधे श्रुतेः किं मुख्यत्वहानिरुत नेति । तदर्थमाकाशशब्दप्रवृत्तिनिमित्तं ब्रह्मणि किं नास्ति उत अस्तीति । तदर्थं जडस्वभावः किमीश्वरानधीन उत तदधीन इति । यद्यधीनस्तदा तदधीनत्वन्यायेन' ब्रह्मणि मुख्यत्वमन्यथा तु नेति । पूर्वपक्षास्तु-अयमाकाशः भूताकाश एव आकाशशब्दस्य तत्र रूढत्वात् । न च वाच्यं योगवृत्त्या आकाशशब्दो विष्णौ सावकाश इति बाधकं विनाऽमुख्यार्थाङ्गीकारायोगात् । नापि आकाशशब्दप्रवृत्तिनिमित्तस्य भगवदधीनत्वेन तत्रैवाकाशशब्दो मुख्य इति युक्तं,
चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः ।
अचेतनस्वभावस्तु विवरादिः कथं ततः ॥
इत्याकाशस्याचेतनत्वेन, तद्गतप्रवृत्तिनिमित्तस्य स्वभावत्वेन चान्याधीनतायोगात् चेतनस्य चेष्टादावन्याधीनत्वं सम्भवतीति ।
यद्यप्यवकाशेप्यसौ रूढः तथापि पृथिवीलोकगतित्वोपपादकतयोक्तकारणत्वस्य “आकाशाद्वायुः" इत्यादौ भूताकाश एव श्रवणात् स एवात्र ग्रहीतुं युक्तः, नावकाशरूपाकाशः । अतो “यदेष आकाश आनन्दो न स्यात्" इत्यत्रापि स एव प्रतिपाद्यते । अतः आनन्दमयोपि स एवेति । सिद्धान्तस्तु-अयमाकाशः विष्णुरेव, तस्मिन् निरवकाशानां बहूनां परोवरीयस्त्वोद्गीथत्वानन्तत्वादीनां श्रवणात्। श्रुत्या पूर्वपक्षिते कथं लिङ्गेन निर्णयो लिङ्गस्य श्रुतिनो दौर्बल्यादिति न शंक्यं, "नामानि सर्वाणि यमाविशन्ति, यो देवानां नामधाः, सर्वेः वेदाः सर्वे घोषाः" इत्यादिश्रुत्या विष्णौ आकाश श्रुतेः सावकाशत्वात् । आकाशशब्दप्रवृत्तिनिमित्तविवरत्वस्य भगवदधीनत्वेन योगवृत्त्यापि विष्णौ आकाशशब्दस्य विद्यमानत्वेन सावकाशत्वादिति । एतदुपरि,
रामसुब्ब_४२
(रा.) तन्न, रूढयनुग्रहरूपपूर्वपक्ष हेतोनिरवकाश लिङ्गबाध्यत्वरूपसिद्धान्तहेतोश्च भौतिकमात्रविषयत्वे नियामकाभावादिति यत्परेणोक्तं,
खण्डनं_४२
(खं.) तत्तुच्छं, त्वदुक्तमाशंक्य चंद्रिकायां समाधानस्योक्तत्वात् । तथा हि-“यद्यपि भूतेतरवाचिनामप्येतन्न्यायविषयाणा मनेन समन्वयः सिध्यति, तथापि सजातीये भूतशब्दे प्रथमं बुद्धयवतारात् आधिदैवि केन्द्रादिशब्देष्वाध्यात्मिकप्राणादिशब्देषु च स्वभावप्रवृत्तिनिमित्तकत्वाभावेनेतरत्रैतन्न्यायाप्रवृत्तेश्च टीकायामाधिभौतिकोपलक्षकतोक्ति:” इति वाक्येन आधिदैविकादिव्यावृत्त्यर्थमेवाधिभौतिकोपलक्षक तोक्तिर्न तु एतन्यायविषयाणां अन्येषामसमन्वेतव्यत्वाभिप्रायेणेति ॥
रामसुब्ब_४३
(रा.) न चाधिदैविकेन्द्रादिनामसमन्वयानन्तरं बुद्धिस्थत्वादाधिभौतिकनिरूपणमिति युक्तं, तर्हि तन्न्यायेनैवास्य गतार्थत्वं दुर्वारं, तत्र पि निरवकाशलिङ्गबलादेव भवद्भिः श्रुत्यन्यथाकरणादिति यत्परेणोक्तं,
खण्डनं_४३
(खं.) तत्तुच्छं, बुद्धिस्थत्वादाधिभौतिकनिरूपणमित्यस्माभिरनुक्तत्वात् । पूर्ववत् निरवकाशलिङ्गबलेन श्रुत्यन्यथाकरणेपि गतार्थताशङ्कायाः अभावात्, अधिकाशङ्कया पूर्वपक्षप्रवृत्तेः, तादृशपूर्वपक्षकरणे पूर्वन्यायस्यैव वक्तव्यत्वात् ।
कृत्वा त्वभ्यधिकाशङ्कां पूर्वमेवातिदिश्यते ।
तत्रातिदेशिकी प्रोक्ता.... ॥
इति आतिदेशिकसङ्गतिलक्षणाज्ञाननिबन्धनत्वात्त्वत्कृतशङ्कायाः ॥
रामसुब्ब_४४
(रा.) न च पूर्वन्यायातिदेश एवायमिति मध्वचंद्रिकोक्तं युक्तं अस्याधिकरणस्यातिदेशिकत्वे "अत एव प्राण" इतिवत् 'अत एवाकाशः इति वा 'आकाशश्च' इति वा 'तथाऽऽकाश:' इति वा सूत्रनिर्देशापत्तेरिति यत्परेणोदितं,
खण्डनं_४४
(खं.) तत्तुच्छं, "कृत्वा त्वम्यधिकाशङ्कां" इति आतिदेशिकीलक्षणस्य कथितत्वात् पूर्वन्यायकथने नैवातिदेशिक संगतेः सम्भवेन त्वदुक्तरीत्या सूत्रविन्यासः कर्तव्य इत्यत्र नियामकाभावात् ॥
रामसुब्ब_४५
(रा.) किं चाव्यवहितपूर्वाधिकरणेनोत्तराधिकरणस्य संगतिर्वक्तव्या तथैव पूर्वतन्त्रे दर्शनात् । इह तथानुक्त्वा एकान्तरितेनानन्दमयाधिकरणेनास्य संगत्युक्तिरयुक्तेति यत्,
खण्डनं_४५
(खं) तत्तुच्छम्, चन्द्रिकाग्रन्थादर्शनमूलत्वादेतच्छङ्कयाः । अनन्तरसंगतिस्त्वभ्यधिकां शङ्कां कृत्वा पूर्वन्याय एवातिदिश्यत इति आतिदेशिकी" इति अव्यवहितपूर्वाधिकरणेन संगतेरुक्तत्वात् । अव्यवहितपूर्वाधिकरणेनैव संगतिर्वक्तव्येति नियमाभावाच्च । पूर्वतन्त्रव्याख्यानकृता तया प्रदर्शनस्य नियामकत्वासम्भवात् । कम्पनाधिकरणे वेदान्तकल्पतरौ "अस्यानु प्रसक्तेनापशूद विचारेण न संगतिरिति व्यवहितेनोच्यते" इति व्यवहिताधिकरणेन संगतेरुक्तत्वाच्च ॥
रामसुब्ब_४६
(रा.) किं च "नामानि सर्वाणि यमाविशन्ति” इति श्रुत्या सर्वनाम्नां विष्णुपरत्वोक्तिरयुक्ता, तादृशश्रुतेरिदानीं केनाप्यनधीतत्वात् । तादृशकोशादर्शनाच्च तस्याः सन्दिग्धश्रुतित्वप्रामाण्यकत्वादिति यदुक्तं,
खण्डनं_४६
(खं.) तत्तुच्छम्, “नामानि" इति श्रुतेः श्रुतित्वप्रामाण्ययोर्विषये संदिहानस्य को वाभिप्रायः, ईश्वरस्य सर्वशब्दबोध्यत्वमस्तीति उत नास्तीति । सर्वशब्दबोध्यत्वांगीकारे कृतं श्रुतिस्वरूपसदसद्भावविचारेण । शंकरभाष्ये शाबरभाष्यादौ च अनधीतानां श्रुतिकोशेष्वदृष्टानां श्रुतिनामुपलम्भेन तत्समानयोगक्षेमत्वादस्याः । ऐतेरेये “एव इमे लोकमभ्यार्चत् तं यच्छन्नं वर्षाण्यभ्यार्चत् तस्माच्छतर्चिन इत्याचक्षते " इत्यादिना एकैकशब्दस्य परमात्मनियोगरूढिमुक्त्वा "ता वा एताः सर्वाः ऋचः सर्वे वेदाः सर्वे घोषाः एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्" इति सर्वशब्दानां, “यो देवानां नामधाः" इति ऋग्वेदे देवबोधकशब्दानां, बृहदारण्ये ऐतरेयेऽन्यभागे च विद्युद हर हमिन्द्राद्यनेकशब्दानां, "सर्वे वेदा यत्पदमामनन्ति" इति वेदे "वेदैश्च सर्वेरहमेववेद्यः" इति गीतायां परमात्मपरत्वस्य कथितत्वाच्च । ईश्वरस्य सर्वशब्दवाच्यवानंगीकारायोगेन द्वितीयपक्षस्यायुक्तत्वाच्च ॥
॥ इत्यद्वैत खण्डनपूर्वकचन्द्रिकामण्डने आकाशाधिकरणं सम्पूर्णम् ॥