ॐ प्राणस्तथानुगमात् ॐ
॥ अथ अन्तिमप्राणाधिकरणम् ॥
ॐ प्राणस्तथानुगमात् ॐ
चन्द्रिकानुवाद:_०१
(चं.) प्रतर्दनं प्रति इन्द्रेण प्रयुक्तं "प्राणोस्मि प्रज्ञात्मा" इति वाक्यमुदाहृत्य " मामेव विजानीहि" इति इन्द्रलिङ्गात्, "इदं शरीरं परिगृह्योत्थापयति" इति वायुलिङ्गात्, “अक्तारं विद्यात्" इति जीवलिङ्गाच्चेन्द्रादिरेव प्राण इति प्राप्ते “यं त्वं मनुष्याय हिततमं" इति हिततमत्वादिब्रह्मलिङ्गात् ब्रह्मैव प्राण इति सिद्धान्तः इत्याहुः । तन्न, न तावत्परमपुरुषार्थसाधनत्वं हितत- मत्वं त्वन्मते ज्ञानादेवाज्ञाननिवृत्या ब्रह्मणि तस्याभावात्। परमपुरुषार्थत्वं हिततमत्वं चेत् सर्वोपप्लवरहितं मोक्षदशानुगतं शुद्ध- चैतन्यं हिततमं वाच्यम् । तस्य हिततमत्वं च न विशिष्टं प्रति तस्य मोक्षदशायामभावात् । नापि शुद्धं प्रति तस्याखण्डत्वेनास्येदं हितमिति विभामायोगात् ॥
किच हितत्वं विना न हिततमत्वं । न चाखण्डे हितत्व- सामान्यं हिततमत्वविशेषश्च युक्तं । तस्मान्न हिततमत्वं ब्रह्मलिङ्ग, नापि "तं मामायुरमृतमित्युपास्व" इत्युक्तममृतत्वोपासनकर्मत्वं च ब्रह्मलिङ्गं अविद्यमानतदुपासनकर्मत्वस्य इन्द्रादावपि सम्भवात् । नापि "स यो मां वेद न स्तेयेन न भ्रूणहत्यया" इत्युक्तः स्वज्ञानेन सर्वकर्मालिपो ब्रह्मलिङ्ग। शुद्धे "एष ह्येव साधु कर्म कारयति एष लोकाधिपतिः" इत्यादेरयोगात् । विशिष्टज्ञानेन च त्वन्मते सर्वकर्मालिपाभावात् । एवं लिङ्गान्तरं दृष्यम् । इदं चाधिकरणं जीवत्वनिषेधेन ब्रह्मत्वविधानात् तदभेदप्रतिकुलमिति यदभिहितं,
रामसुब्ब_०१
(रा.) तन्न, त्रैर्वाणिकं प्रति सोमयागसाध्यस्वर्गस्य भोग्यत्वेपि स्वर्गभोगदशायां त्रैवणिकत्वाभावेपि विशेषांशमादाय स्वर्गस्य त्रैर्वाणिक- निरूपित भोग्यत्ववदन्तःकरण विशिष्टचैतन्यस्य मोक्षदशायां विशेषणाभावेपि चैतन्यरूपविशेषांशसत्वेन तमादाय विशिष्टचैतन्य निरूपित हिततमत्वस्य शुद्धे सम्भवाविरोधात्, यज्ज्ञानान्मोक्षस्तत्वं हिततमपुरुषार्थत्वमित्युक्तो भवत्कल्पितविकल्प दोषस्यानवकाशाच्चेति, यदुक्तं,
खण्डनं_०१
(खं.) तत्तुच्छम्, 'सोमेन यजेत' इति वेदेन सोमयागस्य स्वर्गसाधनत्वे बोधितेपि त्रिवर्णात्मकैतद्देहावच्छेदेन न भोगभोक्तृत्वमुच्यते । किं तु देहान्तरावच्छेदेनेति । स्वर्गभोगदशायां त्रैवणिकत्वाभावेपि बाधका- भावेन विशेषांशमादाय स्वर्गस्य त्रैवर्णिक निरूपितभोग्यत्वकथनस्यानाव- श्यकत्वात् । अत्र तु "यं त्वं मनुष्याय हिततमं मन्यसे" इति मनुष्यरूप- विशिष्ट चैतन्य निरूपित हिततमत्वस्य ब्रह्मणि कथनात्, विशिष्टचैतन्यस्य मोक्षदशायामभावेन निविशेषे शुद्धे विशिष्टचैतन्यरूपमनुष्य निरूपित हिततमत्वस्यायोगात् यज्ज्ञानान्मोक्षः तत्त्वं हिततमपुरुषार्थत्वमित्युक्त्या मोक्षजनकज्ञानविषयत्वं हिततमत्वमित्युक्तं स्यात्। तस्य च हिततमशब्दार्थत्वाभावात्, अज्ञेयस्य ब्रह्मणः ज्ञानविषयत्वासंभवाच्च ॥
चन्द्रिकानुवाद:_०२
(चं.) "जीवमुख्यप्राणलिङ्गादिति चेन्नोपासात्रैविध्यादाश्रि- तत्वादिह तद्योगात्" इति सूत्रस्य जीवमुख्यप्राणलिङ्गानुग्रहार्थम् । किचिज्जीववाक्यं किंचिद्ब्रह्मवाक्यं किचित्प्राणवाक्यमित्यङ्गीकर्तव्यतयान सर्वं ब्रह्मवाक्यमिति चेन्न, उपासात्रैविध्यप्रसङ्गादन्यत्र 'प्राणस्य प्राणं' इत्यत्र ब्रह्मलिङ्गः प्राणशब्दस्य ब्रह्मपरताया आश्रितत्वात् । इहापि हिततमत्वादिब्रह्मलिङ्गयोगादिति तद्वयाख्यानमयुक्तं । "अपीतौ तद्वत्प्रसङ्गात्" इत्यादिवत्प्रसङ्गपदाभावात्, 'मामेव विजानीहि' इति इन्द्रलिङ्गस्यापि सत्त्वेन चातुविध्यादिति वक्तव्यत्वाच्च । पूर्ववादिनं प्रतीष्टापत्तेश्च । ननूपक्रमोपसंहारैकरूप्यादेकवाक्यतावगता । अत एव भामत्यां भाष्यमुल्ल- ध्य त्रिविधोपासनापरत्वेन वाक्यभेदेन पूर्वपक्षं प्रापय्य तदेक- वाक्यताप्रतीतेर्ब्रह्ममात्रपरत्वमिति सिद्धान्तितमिति चेदुच्यते,
'बुद्धयादिपरमत्रैव सा प्रज्ञेत्यादिकं यथा ।
मामुपास्वेत्यादिवाक्यं तथास्त्विन्द्रादिगोचरम् ॥'
अत्रैव ब्रह्मपरवाक्यसमुदाये “यथा यो वै प्राणः सा प्रज्ञा या प्रज्ञा सप्राण; स ह ह्येतावम्सिन्शरीरे वसतः सहोक्रामतः" इत्येकदेशो ज्ञान क्रियाशक्त्याश्रयबुद्धिप्राणपरः । सिद्धान्तेऽपि प्रज्ञाप्राणशब्दयोरुत्क्रमणादिलिङ्गैर्बुद्धिवायुपरत्वात्, तथा पूर्वपक्षेऽपि इन्द्रादिलिङ्गस्वारस्यार्थं तत्तद्वाक्यमद्रादिपरमस्तु । आश्रितत्वादित्यत्र च प्रकृतत्रैविध्यस्यैवान्वयसम्भवे ब्रह्मपरताया इत्यध्याहारो न युक्तः । तद्योगादिति च सर्वनाम्नः सन्निकृष्टत्रैविध्यपरत्वसम्भवेऽपि विप्रकृष्टब्रह्मलिङ्गपरत्वमयुक्तम् । तद्योगादित्यस्यानुगमा- त्यनेन पुनरुक्तिश्चेति यदुक्तं,
रामसुब्ब_०२
(रा.) तन्न, उपासात्रैविध्यादित्यस्य 'प्राणोऽस्मि प्रज्ञात्मा' इत्यादिविषयवाक्यस्थोपासनस्य त्रित्वादित्यर्थपरत्वं, 'प्राजोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्व' इत्युपक्रमस्थप्राण एव प्रज्ञात्मेत्युपसंहारैकरूप्यावग- तैकार्थविषयत्वावगमितैकवाक्यापन्नानां तन्मध्यगतजीवप्राणलिङ्गवाक्यानां प्रत्येकं प्रत्येकं तत्तदुपासनाविधानेन उपासनात्रयपरत्वे वाक्यभेदाप- तेरेकवाक्यत्वयनिर्वाहार्थं त्रैविध्यादित्यस्य त्रैविध्यप्रसङ्गादित्यर्थकत्वस्याकामेनापि स्वीकर्तव्यत्वात् । अन्यथा उपक्रमोपसंहारावगमितैकवाक्यस्थतेऽपि मध्ये विधानभेदाङ्गीकारे उपांशुयाजाधिकरणविरोधापत्तेः । आश्रितत्वादित्यत्र प्रकृतत्रैविध्यस्यैवान्वयसम्भव इत्यसत्, त्रैविध्यप्रसङ्गादित्यर्थतायाः प्रसाधितत्वेत त्रैविध्यस्यैवाप्रकृतत्वात् । अत एव तद्योगा- दिति सर्वनाम्नः सन्निकृष्टत्रैविध्यपरत्वसम्भव इत्यप्यसदेव, पर्वतो वह्निमान् धूमादिति प्रतिज्ञादिसिद्धस्य तस्माद्वह्निमानिति निगमनेप्यपौनरुक्त्य- वदनुगमादित्युक्तस्य तद्योगादिति निगमनेप्यपौनरुक्त्यादिति, यदभिहितं,
खण्डनं_०२
(खं.) तत्तुच्छम्, चन्द्रिकायां त्वदुक्तमाशङ्कय निराकृतमपि स्वयं यत्वित्यादिना चन्द्रिकानुवादावसरेऽननूद्य तदुपरि दूषणपरतया चन्द्रिकाकारैराशङ्कितस्यैव तन्नेत्यादिना कथितस्य चन्द्रिकाकारैरेव दूषितत्वात् । परव्यामोहनाय रामसुब्बगूहिते चन्द्रिकाप्रदर्शिते शङ्का- समाधाने मया प्रदृश्यते। तथाहि -"ननूपक्रमोपसंहारैकरूप्यादेकवाक्यतावगता । अत एव भामत्यां भाष्यमुल्लङ्घय त्रिविधोपासनापरत्वेन वाक्यभेदेन पूर्वपक्षं प्रापय्य तदेकवाक्यताप्रतीतेर्ब्रह्ममात्रपरत्वमिति सिद्धान्तितमिति चेत्" इति वाक्येन चन्द्रिकाकारैः प्रदशितायाः रामसुब्बे- नानुदितायाः शङ्कायाः,
बुध्यादिपरमत्रैव सा प्रज्ञेत्यादिकं यथा ।
मामुपास्वेत्यादिवाक्यं तथास्त्विन्द्रादिगोचरम् ||
इत्यादिवाक्येन ब्रह्मपरवाक्यसमुदाये “यो वै प्राणः सा प्रज्ञा या प्रज्ञा स- प्राणः स ह ह्येतावस्मिन् शरीरे वसतः सहोत्क्रामतः" इत्येकदेशः । यथा सिद्धान्तेपि ज्ञानक्रियाशक्त्याश्रयबुद्धिप्राणपरः तथा पूर्वपक्षेपि इन्द्रादि- लिङ्गस्वारस्यार्थं तत्तद्वाक्यमिन्द्रादिपरमस्त्विति रामसुब्बोक्तदोषाभासस्य परिहृतत्वात्। तथाच तत्तलिङ्गयुक्तानां वाक्यानां इन्द्रादिपरत्वे बाधकाभावात्, त्रैविध्यप्रसङ्गस्य पूर्ववादिनं प्रतीष्टत्वाच्चेत्युक्तचन्द्रिकोक्तदोष स्यापरिहाराच्च । त्रैविध्यप्रसङ्गादित्यर्थबोधकपदाभावात् । उपासायाः त्रैविध्याङ्गीकारेण अवान्तरवाक्यभेदेपि महावाक्यभेदाभावेन उपांशुया- जाधिकरणविरोधाभावाच्च । बुद्धिप्राणपरत्वं वदतः तव मतेपि वाक्य- भेदापत्या प्राप्तोपांशुयाजाधिकरणविरोधस्यापरिहारत्वाच्च । एकवाक्य- त्वमङ्गीकृत्यापि वृत्तिकाररीत्या शङ्करादिभिः त्रैविध्यादित्यस्य यथा श्रुतत्रैविध्यपरतया एतेन व्याख्यातत्वाच्च ॥
रामसुब्ब_०३
(रा.) आश्रितत्वादित्यत्र प्रकृतत्रैविध्यस्यैवाप्रकृतत्वादिति निरस्तं,
खण्डनं_०३
(खं.) त्रैविध्यादित्यस्य त्रैविध्यप्रसङ्गादित्यर्थकरणे साधका- भावात् । अत एव तद्योगादिति सर्वनाम्नः सन्निकृष्ट त्रैविध्यपरत्वमिति चन्द्रिकोक्तं साधु ॥
रामसुब्ब_०४
(रा.) यत्तु, पर्वतो वह्निमान् धूमादिति प्रतिज्ञादिसिद्धस्य तस्माद्वह्निमानिति निगमने प्यपौनरुक्त्यवदनुगमादित्युक्तस्य तद्योगादिति निगमनेय्यपौनरुक्त्यादिति यदुक्तं,
खण्डनं_०४
(खं.) तत्तुच्छम्, अस्य सूत्रस्य निगमनरूपत्वाभावात् 'व्यवहारे भट्टनयः' इति स्वीकर्त्र द्वैतिभिः प्रतिज्ञाहेतूदाहरणरूपाणां उदाहरणोपनय- निगमनरूपाणां वा त्रयाणामेवावयवानामङ्गीकारेण प्रतिज्ञाहेतुनिगमन- रूपावयवत्र्यानंगीकारेण त्वदुक्तसमाधानस्यापसिद्धान्त सम्पादकत्वाच्च ॥