ॐ आनंदमयोभ्यासात् ॐ

॥ श्रीहरये नमः ॥

श्री दिग्विजयरामो विजयते-

अद्वैतखंडनपूर्वक चन्द्रिकामंडने आनन्दमयाधिकरणम्

ॐ आनंदमयोभ्यासात् ॐ

रामसुब्ब_

(रा.) 'ब्रह्म पुच्छं' इत्यत्र श्रुतं ब्रह्म स्वप्रधानं, नानंदमयावयवस्वेनाप्रधानं ब्रह्म, मुख्यानंदपदस्याभ्यासात् ।

असन्नेव स भवति, असद्ब्रह्मेति वेदचेत् ।

अस्ति ब्रह्मेति चेद्वेद, संतमेनं ततो विदुः ॥

इति ब्रह्मशब्दाभ्यासाच्च । न चात्र पुच्छशब्दः अवयवरूपविकारपरो ब्रह्मणः प्राधान्यं निरुणद्धि, आनंदमयस्यान्नमयादिविकारप्रायपाठात् विकाररूपतया तन्निरूपितावयवत्वस्य सर्वप्रतिष्ठाभूते ब्रह्मण्यसंभवेन पुच्छपदेन प्रतिष्ठापलभ्यस्थानंमय जगत् स्थितिहेतुरूपार्थस्य दाढर्थार्थ" मनुवादात् । 'पुच्छेनैव वयांसि वासोवृक्षं प्रतितिष्ठति' इति तैत्तिरीयश्रुतौ पुच्छ पदस्य स्थितिहेत्वर्थता स्पष्टं प्रतीयत इति यदुक्तं,

खण्डनं_

(खं.) तत्तुच्छं, यद्यपि 'आनंदमयोभ्यासात्' इत्यादिसूत्रः आनंदमयस्यैव स्वरसतः ब्रह्मत्वं ज्ञायते, न तु पुच्छस्य । तथापि 'वेदसूत्रयोर्विरोध गुणे त्वन्यायकल्पनेति सूत्राण्यन्यथा नेयानि' इति भामत्यां भाव्याद्यद्वैतग्रन्थेषु च सूत्राणां प्रतीतमुख्यार्थं परित्यज्य लक्षणादिना अमुख्यार्थत्ववर्णनस्य तैरेवांगीकृतत्वेन सूत्रस्य कदर्थीकृतत्व प्राप्त्या,

सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुकारिभिः ।

स्वपदानि च वर्ण्यन्ते भाव्यं भाष्यविदो विदुः ॥

इत्यत्रोक्तभाष्यलक्षणाभावेन शांकरव्याख्याने सूत्रभाष्यत्वस्यैवानुपपत्तेः । पूर्वोदाहृतानां श्लोकानां अन्नमयादिविषयत्वेन,

असन्नेव स भवति असद्ब्रह्मेति वेद चेत्  

इत्यादि श्लोकस्यापि आनंदमयविषयतायाः आवश्यकत्वेन पुच्छे ब्रह्मशब्दाभ्यासस्याभावात्। एकस्मिन् वस्तुनि आनंदशब्दाभ्यासस्यैतत्प्रकरणे अमावाच्च ॥

चन्द्रिकानुवाद:_१

(चं.) अन्ये तु, प्रथमे स्पष्टब्रह्मलिंगान्युदाहरणानि द्वितीय-तृतीययोस्त्वस्पष्टब्रह्मलिंगानि, तयोस्तु सविशेषनिर्विशेषविषयतया भेदः, चतुर्थे प्रधानस्याशब्दत्वोक्तिरिति पादार्थानाहुः । तन्न, यथा प्रथमे 'अन्तस्तद्धर्मोपदेशात्' इत्यादौ 'सैवक्सम तदुक्थं तद्यजुः' इति सर्वात्मकत्वस्य, 'सर्वेन्यः पाप्मभ्य उदितः' इति सर्वपापराहित्यस्य च ब्रह्मलिंगस्य स्पष्टता, तथा द्वितीये 'सर्वत्र प्रसिद्धोपदेशात्' इत्यत्र 'सर्वं खल्विदं ब्रह्म' इति जीवेष्वयुक्तस्य सार्वात्म्यादेः 'अत्ता चराचर' इत्यत्र 'अन्यत्र धर्मादन्यत्राधर्मात्' इति पुण्यपापरहित्यादेः 'अन्तर:' इत्यत्र 'एतदमृतमभयमेतद्ब्रह्म' इत्यमृतत्वादेः, 'अंतर्यामी' इत्यत्र 'एव त आत्मांतर्याम्यमृतः' इत्यमृतत्वादेः 'अदृश्यत्वादिगुणकः' इत्यादौ 'यः सर्वज्ञः' इति सार्वज्ञयादेर्ब्रह्मलिंगस्य स्पष्टत्वात् । एवं तृतीये 'शुभ्वादि' इत्यत्र 'अमृतस्येष सेतुः, यः सर्वज्ञः' इत्यमृतसेतुत्वासार्वज्ञयादे: 'भूमा' इत्यत्र 'यत्र नान्यत्पश्यति' इत्यद्वितीयत्वादेः 'भूमा' इत्यत्र 'यत्र नान्यत्पश्यति' इत्यद्वितीयत्वादेः, 'अक्षरमंबर' इत्यत्र 'अदृष्टं द्रष्टृश्रुतं श्रोत्रस्थूलमनणुत्वादेः, 'ईक्षतिकर्म' इत्यादी 'परात्परं' इति परात्परत्वादेब्रह्मलिंगस्य स्पष्टत्वाच्च । वाक्यांतरे ब्रह्मधर्मतया निर्णीतत्वं वा जीवादौ स्वारस्येनानुपपद्यमानत्वं वा स्पष्टत्वं न त्वस्सायारस्येनापि जीवादावनुपपद्यमानत्वं, विषयवाक्ये ब्रह्मधर्मतया निर्णीतत्वं वा जीवादिप्रापकलिंगराहित्यं वा पूर्वपक्षानुदयापातात् । तच्च 'सर्वं खल्विदं' इत्यादावस्ति । न च 'सर्वत्र प्रसिद्ध' इत्यादेः 'मनोमयः प्राणशरीरो भारूप:' इत्यादिकमुदाहरणं; तत्र च न ब्रह्मलिंगं स्पष्टं किंतु 'सर्वं खल्विदं' इत्युपक्रम इति वाच्यं, प्रथमेपि 'अंतः' इत्यस्योदाहरणे 'य एषोंSतः' इत्यत्र सार्वात्म्यस्य, 'ज्योतिश्चरण' इत्यस्योदाहरणे 'यदतः परो दिवो ज्योतिः' इत्यत्रामृतत्वादेः, 'प्राणस्तथा' इत्यस्योदाहरणे 'प्राणोस्मि प्रज्ञात्मा' इत्यत्र हि ततमत्वादेर्ब्रह्मलिंगस्याभावात् । द्वितीयादावपि य एषोंSतरक्षिणि पुरुषो दृश्यते, एतदमृतमभयमेतद्ब्रह्म, एष त आत्मतर्याम्यमृतः' इत्याद्युदाहरणवाक्य एवामृतत्वादेः: स्पष्टत्वाच्च । यथा च द्वितीये तृतीये च समवेतव्यं मनोमयत्वादिकं न ब्रह्मणि स्पष्टं तथा प्रथमे समन्वेतव्यमादित्यस्थत्वाकाशप्राणशब्दादिकं न ब्रह्मणि स्पष्टमिति चन्द्रिकाग्रन्थः तदुपरि,

रामसुब्ब_

(रा.) तन्न, ब्रह्मलिंगस्य यत् स्पष्टत्वं तस्य भाष्यभामत्यादिरीत्या जडजीवमात्रधर्मतया झटिति प्रतीयमानसमन्वेतव्यपदार्थवृत्तिधर्मासमभिव्याहृतत्वरूपत्वात्, भवदुदाहृतद्वितीयपादीयसार्वात्म्यादिधर्मस्य जीवधर्मतया झटिति प्रतीयमानमनउपकरणकत्वरूपमनोमयत्वादि लक्षणधर्मसमभिव्याहृतत्वेन स्पष्टब्रह्मलिंगत्वाभावेन पादार्थसांकर्याप्रसक्ते: । प्रथमपादीयांतस्तद्धर्माधिकरणादिस्थितापहरतपाप्मत्वादि ब्रह्यलिंगस्य 'हिरण्मयः पुरुषो दृश्यते' इत्यादिनोक्तेन जीवेश्वरोभयवृत्तितया झटिति प्रतीयमानेन शरीरनखवत्वादिना समभिव्याहृतत्वेऽपि जीवमात्रधर्मतया झटिति प्रतीयमानधर्मसमभिव्याहृतत्वाभावेन स्पष्टब्रह्मलित्याक्षतेरिति यदुक्तं,

खण्डनं_

(खं.) तत्तुच्छं, जीवेश्वरोभयवृत्तितया त्वदंगीकृतानां शरीरनखत्वादीनामिव तदविनाभूत मनोमयत्वादिधर्माणामपि जीवेश्वरोभयवृत्तितायाः त्वयावश्यसंगीकरणीयत्वेन जडजीवमात्रधर्मत्वासिद्धया भयदुदाहृतद्वितीयपादीयसार्वात्म्यादिधर्मस्य जडजीवमात्रधर्मतया झटिति प्रतीयमानसमन्वेतव्यपदार्थवृत्तिधर्मासमभिव्याहतत्वेन त्वदीयपरिष्काररीत्याऽपि स्पष्टब्रह्मलिंगत्वानपायेन पादार्थ सांकर्यस्यापरिहारात् । अन्यथा शरीररनखवत्त्वादीनामपि जडजीवमात्रधर्मत्वापत्या अंतस्तद्धर्माधिकरणस्थितापहतपाप्मत्वादिब्रह्मलिंगस्य स्पष्टब्रह्मलित्वाभावापत्तेः । एवं द्वितीयपादीयात्तृत्वाद्यधिकरणोदाहृत विषयवाक्यस्थानां पुण्यपापराहित्यादीनामपि जडजीवमात्रधर्मतया झटिति प्रतीयमानसमन्वेतव्यपदार्थ वृत्तिधर्मासमभिव्याहृतत्वेन स्पष्टब्रह्मलिंगत्वप्राप्त्या श्रीमच्चंद्रिकाकारोक्तपादसांकर्यापरिहारात् ॥

चन्द्रिकानुवाद:_

(चं.) यच्च द्वितीये सविशेषं तृतीये निर्विशेषमित्युक्तं, तदपि 'सर्वत्र' इत्यत्र 'सर्वं खल्विदं ब्रह्म' इत्यविद्यादिसर्वभ्रमाधिष्ठानत्वादिरूप सार्वात्म्यादेः, 'अत्ता' इत्यत्र 'अन्यत्र भूताच्च भव्याच्च, महतो महीयान्' इति कालत्रयातीतत्वादेः, 'अंतर' इत्यत्र 'कं ब्रह्म खं ब्रह्म' इति पूर्णसुखत्वादेः 'अंतर्यामि' इत्यत्र 'एष त आत्मा' इति जीवतादात्म्यादेः, 'अदृश्यत्वादि' इत्यादौ च 'त्ततदद्रेश्यं' इत्यदृश्यत्यादेस्सविशेषेSनुपपत्तेः । तृतीयेऽऽपि द्युभ्वादि' इत्यत्र 'तमेवैकं जानथ, यदा पश्यः पश्यते रुक्मवर्णं' इति दृश्यत्वरूपित्वादेः, 'भूमा' इत्यत्र 'एवं पश्यन्' इति सप्रकारकज्ञानविषयत्वादेः, 'अक्षर' इत्यत्र 'अदृष्टं द्रष्टृश्रुतं श्रोत' इति द्रष्टृत्वादेः, 'ईक्षतिकर्म' इत्यत्र 'पुरूषमीक्षते' इति दृश्यत्वादेः, 'दहर:' इत्यादौ 'सत्यकामः' सत्यसंकल्पः इति कामादेनिर्विशेषेऽनुपपत्तेश्च । यदि च चिन्मात्रस्यैव निर्विशेषत्वेन भ्रमाधिष्ठानत्वादिविशिष्टस्य सविशेषत्वं, तर्हि द्युभ्वाद्यायतनत्वविशिष्टमपि सविशेषमेव स्यात् । 'यस्मिन् द्यौः' इत्यादेश्च लक्षणया चिन्मात्रपरत्वे, 'सर्वं खल्विदं ब्रह्म' इत्यादेरपि प्रामाण्याय तन्मात्रपरत्वं स्यात् । सविशेषे वस्तुतो निर्विशेषे चारोपितविशेषस्याविरोधेऽप्युभयत्राप्युभयोक्तौ वाक्यव्यवस्थायोगेन तन्निबंधनपादव्यवस्था न युक्ता । एतेन प्रायिकत्वात्पादव्यवस्थेतिनिरस्तं, सर्वसांकर्यस्योक्तत्वादिति ग्रन्थोपरि,

रामसुब्ब_

(रा.) सविशेष ब्रह्मनिष्ठत्वस्य विवक्षितधर्मक ब्रह्मप्रतिपादकवाक्यविचाररूपत्वात् निर्विशेषनिष्ठत्वस्याविवक्षितधर्मक ब्रह्मवाक्यविचारत्वरूपत्वात् । द्वितीयपादीय सर्वप्रपंचभ्रमाधिष्ठानत्वरूपसार्वात्म्यादेरूपास्यतया विवक्षितत्वात् सविशेषनिष्ठत्वाविघातात्, तृतीयपादविचारितधर्माणां ज्ञेयब्रह्मोपलक्षकतया तेष विवक्षितत्वाभावात् निर्विशेषनिष्ठत्वाविघातादिति यदुक्तं,

खण्डनं_

(ख) तत्तुच्छं, सविशेषब्रह्मनिष्ठत्वपदेन विवक्षित धर्मक ब्रह्म प्रतिपादकवाक्यविचारत्वरूपार्थस्य, निर्विशेषनिष्ठत्वपदेन अविवक्षितधर्मकब्रह्मवाक्यविचारस्वरूपार्थस्याप्रतीतेः ताभ्यां पदाभ्यां प्रतीयमानार्थोपरि चंद्रिकोक्तदोषस्यापरिहारात् । सविशेषब्रह्मनिष्ठत्वपदाभ्यां स्वरसतः तादृशार्थाप्रतीतावपि लक्षणादिना तादृशार्थपरत्वं अभिप्रेतमिति चेत् तथापि पादभेदाव्यवस्थितेः । तथा हि-ब्रह्मणि धर्माणां केन विवक्षितत्वं अविवक्षितत्वं वा अभिप्रेतं भवता । न तावन्मयेति वक्तुं शक्यं भवता, भवद्विवक्षाविवक्षयोः पादभेदाप्रयोजकत्वात् । सूत्रकृता वा श्रुत्या वा विवक्षितत्वं अविवक्षितत्वमिति वक्तव्यं । तदपि पादभेदव्यवस्थापकं न भवति, द्वितीयपादीय विषयवाक्यप्रतिपाद्यसार्वात्म्यादेः उपास्यतया विवक्षितत्ववत्, तृतीयपादीयविषयवाक्यप्रतिपाद्यानां द्युभ्वाद्ययतनत्वादीनां निर्विशेषज्ञानार्थविवक्षायाः आवश्यकत्वात् । अन्यथा 'यस्मिन्द्यौः' इत्यादिश्रुतिषु 'द्युभ्याद्यायतनं स्वशब्दात्' इत्यादिसूत्रेषु च द्युभ्वाद्यायतनत्वादिधर्माणां कथनमेव न स्यात् । शांकरभाष्ये तृतीयपादीयप्रथमाधिकरणे विधारणत्वमात्रमेव सेतुश्रुत्या विवक्ष्यते, न पारवत्वादि' इति स्पष्टं विधारणवत्त्वस्य विवक्षितत्वोक्तेः अविवक्षितधर्मकब्रह्मप्रतिपादकवाक्यविचारत्वाभावेन चंद्रिकोक्ता पादाव्यवस्थितिः दुर्वारा । उपलक्ष्य अद्वैत्यभिमते ब्रह्मणिविशेषः भावेनोपलक्षणज्ञानदशायामेव ब्रह्मणोज्ञातत्वेन उपलक्षणोक्तेर्वैयर्थ्यात् । एकेनोपलक्षणेनोपलक्ष्यज्ञानसिद्धेरनेकधर्माणामुपलक्षणत्वोक्त्ययोगच्य । न च येन पुरुषेणैकेनोपलक्षणेनोपलक्ष्यं न ज्ञातं तं प्रति विशदप्रतीत्यर्थं अनेकोपलक्षणकथनमावश्यकमिति वाच्यं' अद्वैतिमते ब्रह्मणः निर्विशेषत्वेन निरंशत्वेन च प्रतीतौ यत्किचिदशविषयकत्वकिचिद्धर्मविषयकत्वरूपाविशदत्वस्य सर्वांशविषयकत्वसर्वधर्म विषयकत्वरूप विशदत्वस्य चायोगात् ॥

रामसुब्ब_२२

(रा.) यद्यपि द्वितीये अत्त्राधकिरणं निर्विशेषनिष्ठं तृतीये दहराधिकरणं सविशेषनिष्ठं, तथापि प्रायेण द्वितीयतृतीयपादयोः सविशेष निर्विशेषनिष्ठत्वान्नपादसांकर्य, मध्वभाष्येऽपि 'प्रायिकत्वाच्च अध्यायानां पादानां' इत्यनेन ग्रंथेन प्रायिकत्वाभिप्रायेणैवाध्यायपादार्थोंवगिताविति यदुक्तम्,

खण्डनं_२२

(खं.) तत्तच्छं, अत्त्राधिकरणोक्तात्तृत्वादिधर्माणां निर्विशेषेऽसंभवेन तस्याधिकरणस्य निर्विशेषनिष्ठत्वोक्तेरयोगात् । अत्तृत्वादीनामविवक्षितत्वाभिप्रायेण निर्विशेषत्वनिष्ठत्वोक्तौ दहराधिकरणोक्तानामपि धर्माणां अविवक्षितत्वाविशेषेण दहराधिकरणस्यापि निर्विशेषनिष्ठत्वापत्तेः । सर्वत्राधिकरणीयसार्वात्म्यादेः अतृत्वाधिकरणीयात् अन्यत्र भूताच्च भव्याच्च' इत्युक्तकालत्रयातीतत्वादितो विशेषाभावेन तयोः सविशेषनिष्ठत्व-निर्विशेषनिष्ठत्वोक्तेरसंगतत्वाच्च । चंद्रिकायां बहुसांकर्यस्य वर्णितत्वेन प्रायिकत्वाभिप्रायेणापि पादभेदकथनासंभवाच्च ॥

चन्द्रिकानुवाद:_

(चंः) यद्योक्तं परैः, प्रधानाद्येव कारणतया सर्ववेदांताथ इति लक्षणा संभवाशंकायास्त्रिपाद्यां निरासः, चतुर्थपादे तु प्रधानमपि कारणतया वेदांतैकदेशार्थ इत्यतिव्याप्तिशंकायाः । अत एव 'आनुमानिकमप्येकेषां' इति सूत्रेऽपिशब्द एकशब्दश्चेति, तन्न, 'आनुमानिक' इत्यादौ पूर्वपक्षिणा यस्य 'महतः परमव्यक्तं, अजामेकां' इत्यादेः प्रधानपरत्वं शंकितं तस्यैकदेशस्य सिद्धांतेपि ब्रह्मपरत्वाभावात् । अविद्यादिपरत्वे च ब्रह्मलक्षणस्य प्रधानेSतिव्याप्तावप्यविद्यायामतिव्याप्त्यपरिहारात् । तस्मान्न परमते पादभेदो युक्त इति ग्रन्थः एतदुपरि,

रामसुब्ब_३१

(रा.) तन्न, ईक्षादिर्घाटितकर्तृत्व समानाधिकरणोपादानत्वस्याभिन्ननिमित्तोपादानशब्दितस्य ब्रह्मलक्षणस्य अस्मद्भगवत्पादाभिमतस्य जडरूपाविद्यायामप्रसक्तत्वेनातिव्याप्तेरभावात् इति यदुक्तम्,

खण्डनं_३१

(खं.) तत्तुच्छं, उपादानत्वं हि तत्तपदार्थरूपेण परिणाममानत्वं, । तच्च निर्विकारे निर्विशेषे ब्रह्मणि न संभवतीति उपादानत्वस्यैव निर्विशेष ब्रह्मलक्षणत्वासंभवात्, कर्तृत्वसमानाधिकरणोपादानत्वस्य तु सुतरां ब्रह्मलक्षणत्वासंभवात् । न च मायाविशिष्टब्रह्मणः परिणामितया उपादानतारूपं लक्षणं संभवतीति वाच्यं, विशेषणोभयान्वयित एव विशिष्टान्वयितया विशेष्ये शुद्धे ब्रह्मणि अनन्वयिनः उपादानत्वस्य विशिष्टेऽयोगात् । न च तद्रूपेण परिणेममानत्वं नोपादानत्वं, किंतु तत्तदात्मना प्रतिभासमानत्वं तच्च ब्रह्मणि संभवतीति वाच्यं, ब्रह्म सत्यं जगन्मिथ्येत्यद्वैतिमते ब्रह्मातिरिक्तस्य सर्वस्य मिथ्यात्वात् ब्रह्मणो जगदाकारेण प्रतिभाससामग्रयाः सामान्यज्ञानविशेषज्ञानसादृश्यादिरूपायाः असंभवेन जगदाकारेण प्रतिभासासंभवेन तादृशोपादानत्वस्याप्यसंभवात् । 'महतः परमव्यक्तं' इत्यादौ अव्यक्तशब्दवाच्ये ईक्षादिघटितकर्तृत्वसमानाधिकरणोपादानत्वं उच्यते न था । नेति चेत्, तादृशलक्षणस्यातिव्याप्तिशंकायाः अभावेन अव्यक्तशब्दस्य प्रकृतिपरत्वनिराकरणं व्यर्थमेव । उच्यते चेत्, अव्यक्तशब्दस्य प्रकृतिपरतां निराकृत्य अविद्यापरत्वे स्वीकृते तत्र ब्रह्मलक्षणस्यातिव्याप्तेर्दुर्वारत्वाच्च ॥

चन्द्रिकानुवाद:_

(चं.) नापि अद्वैत्युक्तपादक्रमो युक्तः, सुबोधस्य प्राथम्ये आनंदमयादौ निर्विशेषविचारायोगात् । दुर्बोधस्य प्राथम्ये तु स्पष्टब्रह्म लिंगानां प्राथम्यायोगात् । निर्विशेषस्थ तृतीये निरूपणायोगाच्च । ईक्षत्यधिकरणोक्ताशब्दत्वस्य विक्षिप्य चतुर्थपादे व्युत्पादने हेत्वभावाच्च । चतुर्थस्य तु समन्वयासंगतिः परैरेवांगीकृतेति ग्रन्थोपरि,

रामसुब्ब_४१

(रा.) तन्न, प्रथमपादोक्त जगत्कारणत्वतदाक्षिप्त सर्वज्ञत्वसर्वशक्तित्व नित्याव्यापित्वादि सिद्धवत्कृत्य तदुपजीवनेन द्वितीयतृतीयपादानां प्रवृत्ततया प्रथमद्वितीयपादयोरुपजीव्योपजीवकभाव संगत्यवगमेनोपजीव्य प्राथम्यन्यायेन प्रथमद्वितीयपादयोः क्रमोपपत्तेः । ईक्षत्यधिकरणे ईक्षणश्रवणेन प्रधानस्य कर्तृत्वांशे अशब्दत्वं व्युत्पादितं, ईक्षत्यधिकरणेन संगतिलाभेनाऽऽनन्दमयाधिकरणं प्रवृत्तं तेन सङ्गत्याऽन्यदन्यदित्येवं रीत्या वाक्यान्वयाधिकरणपर्यंतमधिकरणानि प्रवृत्तानि । अनन्तरं चादौ कर्तृत्वांशेऽशब्दत्वेन व्युत्पादितस्य प्रधानस्योपादानत्वांशे सशब्दत्वशङ्कायां तन्निराकरणार्थं प्रकृत्यधिकरणप्रवृत्तेर्युक्तत्वादिति यदुक्तम्,

खण्डनं_४१

(खं.) तत्तुच्छं, प्रथमद्वितीयपादयोरुपजीव्योपजीवकभावरूपसङ्गत्यवगमेन असङ्गतताशङ्कायाः निवर्तनेऽपि स्पष्टब्रह्मलिंगानां प्रथमे, अस्पष्टब्रह्मलिगानां सविशेष निर्विशेषनिष्टानां द्वितीयतृतीयपादयोरिति क्रमे नियामकाभावरूपदोषस्य चन्द्रिकोक्तस्य अवारणात् । नहयुजीव्योपजीवकभाव एव क्रमनियामकः, उपजीव्यप्रथमतायाः क्वचित्स्थले उपजीवकप्रथमतायाः तत्रतत्र तन्त्रेषु दृष्टतया तस्य पौर्वापर्यक्रमं प्रत्यप्रयोजकत्वात् । अत एव चिंतामणाव तुमितिनिरूपणानेतरमनुमाननिरूपणमपि सङ्गच्छते, उपजीव्यत्वस्य प्राथम्यप्रयोजकतायां चिन्तामणेरयुक्ततापत्तेः । तच्च जगदुपादानकारणं किं चेतनमुताचेतनमिति सन्देहे 'तस्मादचेतनं प्रधानं जगदुपादानमनुवदन्ति श्रुतय इति पूर्वपक्ष: ' इति ईक्षत्यधिकरण भामत्यां प्रधानं जगदुपादानमिति पूर्वपक्षयित्वा चेतनोपादानमेव जगत् भुजङ्ग इव रच्जावरोपितो रच्जूपादान इति सिद्धांतः' इति चेतनोपादानमिति सिद्धांतिताया ईक्षत्यधिकरणे ईक्षणश्रवणेन प्रधानस्य कर्तृत्वंशे अशब्दत्वं व्युत्पादितमित्यस्य भामती ग्रन्थानवलोकननिमित्तत्वाच्च । ईक्षत्यधिकरणेनानन्दमयाधिकरणस्येवानुमानिकाद्यधि करणानामपि सङ्गतेः भामतीरत्नप्रभादिभवदीयभाष्यव्याख्यानेषूक्ततया 'ईक्षत्यधिकरणेन सङ्ग तिला भेनानन्दमयाधिकरणं प्रवृत्तं, तेनतेन सङ्गत्याऽन्यदन्यवित्येवं रीत्या वाक्यान्वयाधिकरणांतमधिकरणानि प्रवृत्तानि, अनन्तरं चादौ कर्तृत्वांशेऽशब्दत्वेन व्युत्पादितस्य प्रधानस्योपादानत्वांशे सशब्दत्वशङ्कायां तन्निराकरणार्थं प्रकृत्यधिकरणप्रवृत्तेर्युक्तत्वात्' इत्यस्य भामतीरत्नप्रभाद्यज्ञानमूलत्वाच्च ।

चन्द्रिकानुवाद:_

(चं.) अन्ये तु, आनन्दमयतदवयवपुच्छयोर्द्वयोर्ब्रह्मत्वायोगात् एकस्य ब्रह्मता वाच्या । तत्रानन्दमयस्य ब्रह्मत्वे विकारार्थमयटः प्रायपाठत्यागः, प्राचुर्यस्यापि प्रतियोग्यल्पत्वापेक्षत्वाब्रह्मणि च दुःखलेशस्याप्यभावात् मयटः स्वार्थत्यागः, पुच्छवाक्यगतब्रह्मशब्दस्य च गौणार्थत्वं, “सैषानंदस्य मीमांसा" इत्यादावभ्यस्यमानानंदप्रातिपदिकेन मयडर्थो लक्ष्यत इति चत्वारो दोषाः । पुच्छस्य ब्रह्मत्वे प्रायपाठबाधनमात्रं । पुच्छपदमुख्यार्थत्यागस्तु आनंदमयस्य ब्रह्मत्वपक्षेऽपि समः । ... तदुक्तं भामत्यां

प्रायपाठपरित्यागो मुख्यत्रितयलंघनम् ।

पूर्वस्मिन्नुत्तरे पक्षे प्रायपाठस्य बाधनम् ॥ इति ।

तस्मादानंदमयो न ब्रह्म । (किंतु पुच्छं ब्रह्म) । ....सूत्राणि तु "गुणेत्वन्यायकल्पना" इति न्यायेन (प्रधानभूतवेदविरुद्धत्वात्) न्यथा व्याख्येयानीत्याहुः, तन्न, यतः,

एकत्रापि न मुख्यार्थलंघनं माके मते ।

सर्वत्रापि च मुख्यार्थलंघनं तावके मते ।।

तथा हि- अन्नमयप्राणमयादावपि मयटः प्राचुर्यार्थतया विकारप्रायपाठस्यैवासिद्धेर्नतत्त्यागः । प्राचुर्यस्यप्रतियोग्यत्पत्वापेक्षत्वेऽपि न प्रतियोगिनः सामानाधिकरण्यनियमः । यतः प्राचुर्यस्य

विजातीयसमानाधिकरणात्पं यथा तथा ।

सजातीयविभिन्नाधिकरणाल्पं निरूपकम् ॥

दृश्यते हि 'ब्राह्मणप्रचुरो ग्रामः' इत्यादौ समानाधिकरणस्य विजातीयशूद्रादेरल्पत्वेनेव 'प्रचुरप्रकाशः सविता' इत्यादौ व्यधिकरणस्य सजातीयस्य नक्षत्रादिप्रकाशस्याल्पत्वेनापि प्राचुर्यम् । प्रकृते च 'सैषानंदस्य' इत्यादि श्रुत्यैव व्यधिकरणस्य सजातीयस्य जीवानंदस्याल्पत्वमुक्त्वा ब्रह्मानंदस्य 'यतो वाचः' इति महत्त्वमुक्तम् । यत्तु प्राचुर्यस्य विशेषणत्वे प्रतियोगिन ईषदनुवृत्तिप्रतीतिनियमाभावेऽपि विशेष्यत्वे तन्नियमः, 'ब्राह्मणप्रचुरोग्रामः' इत्यादौ दर्शनात् । 'आनंदमयः' इत्यत्र च प्राचुर्यं विशेष्यमिति कल्पतरूक्तं, तन्न, 'प्रचुरप्रकाश: सविता' इत्युक्तेऽपि तस्मिन्नंधकारलेशाप्रतीतेः ।

अंतःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यंति यतयः क्षीणदोषाः ।

य एषोऽन्तरहृदय आकाशस्तस्मिन्त्रयं पुरुषो मनोमयः ।।

"प्रज्ञानघन एवानंदमयः" इत्यादौ स्वन्मतेऽपि ब्रह्मण्यपि विज्ञानमयादि शब्दप्रयोगाच्च । न चात्र प्राचुर्यार्थत्वसंभवे वैय्यर्थ्यापादकं स्वार्थिकत्वं युक्तम् । 'ब्राह्मणप्रचुरः' इत्यादावपि प्रचुरशब्दो महत्त्वमात्रमाह, विरोधिप्रतीतिस्तु मानांतरात् इति ग्रन्थोपरि,

रामसुब्ब_

(रा.) तन्न, प्राणमयमनोमययोर्मयटः' द्वचरछंदसि' इति च्छंदोविषयेण विशेषशास्त्रेण विकारार्थत्वस्य वक्तव्यतया 'तत्प्रकृतवचने मयट्' इति च्छंदोऽच्छंदः साधारणेन सामान्यशास्त्रेण प्राचुर्यार्थत्वाश्रयणायोगात्, 'पदे जुहोति' 'आवहनीये जुहोति' इति विशेषसामान्यशास्त्रयोः प्राबल्यदौर्बल्यव्यवस्थायाः पूर्व तंत्रे निर्णीतत्वात्। प्राणमनोमयरूप विकारक्रमानुरोधेन विज्ञानमयानंदमयोरपि मयटो विकारार्थत्वावश्यकतयाऽऽनंदमयस्य ब्रह्मत्वे विकारप्राय पाठत्यागापत्तेरवर्जनीयत इति यदुक्तं,

खण्डनं_

(खं.) तत्तुच्छं, 'विशये प्रायदर्शनमिति न्यायेन संदेहसत्त्व एव प्रापाठानुसारेण निर्णेयत्वेन आनंदमयशद्बस्य त्र्यच्कप्रकृतिकतया 'द्वचश्छदसि' इति सूत्रेण विकारार्थे मयट् प्रसक्त्यभावेन अयं मयट्शब्दो विकारार्थो वा प्राचुर्यार्थो वेति संदेहाभावेन प्रायपाठानुसरणस्यानावश्यकत्वात् । विकार प्रायपाठस्याभावाच्च तथा हि-विज्ञानमयान्नरसमयशब्दयोः त्र्यच्कचतुरच्कप्रकृतिकतया ब्रह्मलिंगानां श्रवणेन च त्वदुक्तरीत्यैव 'द्व्यछंदसि' इति सूत्रेण विकारार्थे मयडप्रसक्ति: । प्राणमयमनोमययोरपि, 'ये प्राणं ब्रह्मोपासते' 'यतो वाचो निवर्तन्ते' इत्यादिषु ब्रह्मत्वमनोवाचामगोचरत्वादिब्रह्मलिंग श्रवणेन 'अंतःशरीरे ज्योतिर्मयो हि शुभ्र: ' 'य एषोंतर्हृदय आकाशस्तस्मिन्नयं पुरुषो मनोमयः' इत्यदौ विकारहीने ब्रह्मणि 'ज्योतिर्मयः मनोमयः' इति विकारभिन्नार्थे व्द्यचछंदसि मयट्प्रयोगदर्शनेन 'व्द्यचश्छंदसि' इति सूत्रं छंदसि विकारार्थव्द्यचः मयट् भवतीति विधायकमेव, न तु प्राचुर्यार्थे व्द्यचः मयटो निषेधकमित्यंगीकार्यतया प्राणमयमनोमयशब्दघटकमयटोरपि विकारार्थत्वाप्राप्तिः । किं च 'द्वचश्छंदसि' 'तत्प्रकृतवचने मयट्' इति सूत्रयोः सामान्यविशेषभावोऽपि नास्ति । सामान्यविशेषभावेऽपि विशेषस्य सामान्यापेक्षया विशेषत्वेनैव न प्राबल्यम् । प्राबल्यार्थं निरवकाशत्वस्याप्यपेक्षणीयत्वेन 'शरमयं बर्हि:' 'पर्णमयी जुहूः' इत्यादौ 'व्द्यचश्छंदसि इति सूत्रस्य सावकाशत्वेन निरवकाशत्वं न नास्तीति ॥

रामसुब्ब_५२

(रा.) मयट आनंदमये प्राचुर्यार्थत्वेऽपि समानाधिकरणविजातीयदुःखाल्पत्वप्रातियोगिकप्राचुर्यं मयडर्थः उत श्यधिकरणसजातीयानंदाल्पत्वप्रतियोगिकं प्राचुर्यं मयडर्थः इति प्राचुर्यनिरूपकभेदेन 'ब्राह्मणप्रचुरो ग्रामः प्रचुरप्रकाशः सविता' इत्यादिव्यपदेशदर्शनात् संदेहे सति समानाधिकरण विजातीयाल्पत्वप्रतियोगिकप्राचुर्यस्य विकारार्थपर्यवसायिनः प्राणमयमनोमयादिप्रायपाठानुरोधेन प्राह्यत्वात् । व्यधिकरणसजातीयाल्पत्वप्रतियोनिकप्राचुर्यग्रहणे विकारार्थपर्यवसायिप्रायपाठानुगुण्यं न सेत्स्यति । अतः 'आनन्दस्य:' इत्यत्र मयटो विकारप्रायपाठानुगुणप्राचुर्यार्थस्य विकारपर्यवसायिनो ग्रहणस्याऽऽवश्यकतयाऽऽनंदमये विकारार्थत्वस्य निष्प्रत्यूहं सिद्धेः इति यदुक्तं,

खण्डनं_५२

(खं.) तत्तुच्छं, त्वदुक्तरीत्या 'द्वचश्छन्दसि' इति सूत्रविरोधनानंदमये विकारार्थकमयटः प्रसक्तेरेवाभावात् निष्प्रत्यूहं सिद्धेर्दूरतोऽपास्तत्वात् । विकारार्थकमयट् प्रायपाठाभावस्यानुपदमेवोक्तत्वाच्च । 'प्रचुरब्राह्मणो ग्रामः' इत्यादौ समानाधिकरण विजातीयशूद्राल्पत्वप्रतियोगिकप्राचुर्ये विकारार्थपर्यवसायित्वाभावेन तादृवृशप्राचुर्यस्य विकारार्थपर्यवसायित्वोक्तेः अत्यन्तासंगतत्वाच्च । अन्यथा व्यधिकरणसजातीयानंदाल्पत्वप्रतियोगिकप्राचुर्यकस्यापि विकारार्थपर्यवसायित्वसंभवेन 'आनंद मयः' इत्यत्र एतादृशविकारार्थकमयट्स्वीकारेऽपि बाधकाभावेनानंदमयस्य ब्रह्मत्वेऽपि विकारार्थकमयटः स्वीकर्तुं शक्यत्वेन प्रापाठबाधाप्रसक्तेश्च । 'सैषानंदस्य मीमांसा भवति' इत्यारभ्य मनुष्यादिचतुर्मुखांतजीवेषु तरतमभावापन्नानंदमुक्त्वा,

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।

आनंदं ब्रह्मणो विद्वान् ..

इति ब्रह्मानंदस्य निरतिशयत्वबोधकश्रुत्यैव समानाधिकरणविजातीयदु:खाल्पत्वप्रतियोगिकप्राचुर्यं मयडर्थः उत व्यधिकरणसजातीयानंदाल्पत्वप्रतियोगिकप्राचुर्यं मयडर्थं इति संदेहस्य निवृत्तिसंभवाच्च ॥

रामसुब्ब_५३

(रा.) यत्तु - 'सैषानंदस्य' इत्यादौ उत्तरोत्तरजीवानंदस्य पूर्वपूर्व जीवानंदादुत्कर्षप्रतिपादनेऽपि परब्रह्मानन्दस्य जीवानंदापेक्षयोत्कर्षप्रतिपादनाभावेन तादृशग्रंथस्यानंदमये मयटः स्वव्यधिकरणजीवानंदाल्पत्वप्रतियोगिकब्रह्मानंदप्राचुर्यार्थत्वं प्रत्यनियामकत्वात् । 'स एको ब्रह्मण आनंद:' इत्यत्र ब्रह्मपदोक्तस्य पूर्वपर्यायस्थितप्रजापतिरूपजीवानंदापेक्षया शतगुणोद्रिक्तानंदकत्वावगमेऽपि श्रीमच्छंकरभगवत्पादमत इव श्रीमदानंदतीर्थभगवत्पादमतेऽपि स एको ब्रह्मण आनंद:' इति ब्रह्मपदस्य चतुर्मुखपरत्वाभ्युपगमेन ब्रह्मानंदस्य तत्पर्यायेणापि जीवानंदापेक्षयोत्कर्षाप्रतिपादनात् । तादृशषष्ठयन्त ब्रह्मपदस्य परब्रह्मपरत्वमपि न संभवति, 'ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनंदः' इति तादृशब्रह्मानंदस्य परिच्छेदावगमात्। एतेन आनंदमये ब्रह्मत्वस्वीकारेऽपि न मयटो मुख्यार्थोल्लंघनं' इत्यादिर्मध्वचन्द्रिका ग्रन्थः परास्तः, तत्र मयटः समानाधिकरणविजातीयाल्पत्वप्रतियोगिकप्राचुर्यार्थत्वस्यानुपदोक्तरीत्या वक्तव्यतया तादृशप्राचुर्यविशिष्टार्थकानंदमयपदार्थस्य दुःखमिश्रत्वेन परब्रह्मत्वासंभवेन तस्य ब्रह्मत्ववादिना मयण्मुख्यार्थोल्लंघनावश्यकत्वादिति यदवादि,

खण्डनं_५३

(खं.) तत्तुच्छं, 'स एको ब्रह्मण आनंदः' इत्यनेन परब्रह्मानंदस्य निरतिशयत्वस्याकथनेऽपि,

यतो वाचो निवर्तते अप्राप्य मनसा सह ।

इत्युत्तरग्रंथेनैव ब्रह्मानन्दस्य जीवानन्दापेक्षया प्राचुर्योक्तेः त्वदीयशंकाया उत्तरग्रन्थानवलोकननिमित्तत्वात् । अत आनत्वमये ब्रह्मस्वीकारेऽपि न मयटो मुख्यार्थल्लंघनमिति श्रीमच्चंद्रिकाग्रन्थः साधुरेव, अनुपदोक्तरीत्या समानाधिकरण विजातीयाल्पत्वप्रतियोगिकप्राचुर्यार्थत्वस्य परित्यागेऽपि तस्य मय मयण्मुख्यार्थत्वाभावेन मयण्मुख्यार्थत्यागाभावात् ॥

रामसुब्ब_५४

(रा.) यत्तु न्यायरक्षामणावित्यादिनाऽऽशंक्य परमतं निराकृतं,

खण्डनं_५४

(खं.) तदनुमतमेवास्माकम् ।

चन्द्रिकानुवाद:_

(चं ) एकत्रापि न मुख्यार्थलंघनं मामके मते ।

सर्वत्रापि च मुख्यार्थलंघनं तावके मते ।।

तथा हि-आनन्दमयपुच्छयोर्द्वयोरपि पूर्णत्वेन ब्रह्मशब्दस्तावन्मुख्यः । पूर्णत्वं हि ब्रह्मशब्दमुख्यार्थः । यथा धर्मांतरेष्वदृष्टमपि जातिसमवायादौ धर्मितोऽधिकदेशत्वं यथा वा परिच्छिन्नेनाव्रियमाणसम्बन्धिनाऽऽवृतेष्वन्येषु अदृष्टमपि परिच्छिन्नाज्ञानावृते निरंशे चैतन्येऽपरिच्छिन्नत्वं यथा वाss-नन्दांतरेष्वदृष्टमपि ब्रह्मानन्दस्य पूर्णत्वादिकं तथाऽन्यत्रादृष्टमपि अवयवस्य पूर्णत्वं विचित्रशक्तिश्चब्रह्मावयवेऽस्तु । उक्तं च 'विश्वतश्चक्षुः, पूर्णमदः पूर्णमिदं' इत्यादिश्रुत्या, 'सर्वतः पाणिपादं तत्' इत्यादिस्मृत्या चावयवस्य पूर्णत्वम् । तथा 'द्वर्हात्मनः केशौ' इत्यादिस्मृत्या केशस्य कृष्णस्य व्याप्तं त्वयैकेन दिशश्च सर्वाः' इति पूर्णतोक्ता । तदुक्तमनुव्याख्याने'

ब्रह्मताऽवयवेऽपि स्यात्तथाऽवयविनि स्वतः ।

यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिला ।

दर्शिता चैव पार्थाय निस्सीमाः शक्तयोSस्य हि ।। इति

युक्तं चानवस्थापरिहाराय क्वचित्संबंध्यादेरेव संबंधत्वादिवत्, अस्मिन्नेव प्रकरणे 'आनंदं ब्रह्मणः' इति श्रुतेरानंदात्मकस्यैव ब्रह्मण आनंदित्ववच्च विशेषबलात् शक्तिव्यक्तिभावात् 'स शिरः स दक्षिणः पक्षः' इत्यादिश्रुत्याऽवयविन एवावयवत्वम् । तदुक्तं न्यायविवरणे 'न चावयवत्वविरोधः, 'नेह नानास्ति किंचन' इति श्रुतेरवयवाद्यभेदात्' इति । इति चन्द्रिकोपरि,

रामसुब्ब_

(रा.) तन्न. 'स शिरः स दक्षिण पक्षः, इति मध्वोदाहृत्श्रुतेः क्वापि वेदकोशेऽनुपलब्ध्या तदध्येतृपुरुषानुपलब्ध्या च शशश्रृंगतुल्यत्वात् । क्षीराब्धिशायिभगवत्केशस्य परिपूर्णब्रह्मरूपत्वे तस्य व्यापकतया ''द्वर्हात्मनः केशौ' इति उत्पाटनोक्त्य संगतेः । न हि विभुत्वयुक्तस्याकाशस्योत्पाटनं संभवति । श्रीकृष्णस्य केशत्वोक्तिस्तु 'मत्केशेनापि कंसादिवधः कर्तुं शक्यते; एतद्विषये भवद्भिः शंका न कार्या' इति रीत्या कंसादिवस्यानायाससाध्यत्वाभिप्रायेति यदभाणि.

खण्डनं_

तत्तुच्छं, परमात्मनः शिरआद्यवयवाभिन्नत्वमंगीकृत्य 'सशिरः स दक्षिणः पक्षः' इति भगवतः शिरआद्यभिन्नत्वप्रतिपादकश्रुतेः असत्त्वं मनुषे कि वा भगवतः शिरआद्यभिन्नत्वमनंगीकृत्य 'स शिरः' इति श्रुतेः असत्त्वं । नाद्यः, भगवतः शिरआद्यभिन्नत्वांगीकारे तन्मात्रेणास्मदिष्टसिद्धेः 'स शिर:' इत्यादिश्रुतेः सत्त्वासत्त्वविचारस्यानवसरदुस्स्थत्वात् । न द्वितीयः,
एवं संस्तूयमानस्तु भगवान्परमेश्वरः ।

उज्जहारात्मनः केशौ सितकृष्णौ महामुने ॥

उवाच च सुरानेतौ मत्केशौ वसुधातले ।

अवतीर्य भुवो भार क्लेशहानि करिष्यतः ||

सुराश्च सकलाः स्वांशैरवतीर्य महीतलम् ।

कुर्वंतु युद्धमुन्मत्तैः पूर्वोत्पतनैर्महासुरैः ॥
ततः क्षयमशेषास्ते दैतेया धरणीतले ।

प्रयास्यन्ति न संदेहो मदृक्पातविचूर्णिताः ॥

वसुदेवस्य या पत्नी देवकी देवतोत्तमा ।

तस्यायमष्टमो गर्भो मत्केशो भविता सुराः ॥

अवतीर्य च तत्रायं कंसं घातयिता भुवि ।

कालनेमिसमुद्भूतमित्युक्त्वांतर्दधे हरिः ॥

विष्णोरंशे महीं याते ऋतवोऽप्यभवञ्छुभाः ।

न सेहे देवकीं द्रष्टुं कश्चिदप्यतितेजसा ।

बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ।

रूपकर्मस्वरूपाणि न परिच्छेदगोचरे ॥

यस्याखिलप्रमाणानि स विष्णुर्गर्भगस्तव ।

एवं संस्तूयमाना सा देवैर्देवमधारयत् ॥

गर्भेण पुंडरीकाक्षं जगतां त्राणकारणम् ।

मध्यरात्रेऽखिलाधारे जायमाने जनार्दने ॥

श्रीवत्सवक्षसं जातं तुष्टावानकदुंदुभिः ।

इत्यादिप्रबंधेन विष्णुपुराणे केशस्य गर्भप्रवेशाविर्भावादीनामुक्त्या कृष्णस्य अवयवभूतकेशावतात्वस्य, केशरूपावयवस्य 'व्याप्तं त्वयैकेन दिशश्च सर्वा:' इत्यादिना पूर्णत्वस्य चोक्तत्वेन अवयवावयविनोरभेदस्य सिद्धया, नेह नानास्ति किंचन' इत्यादिश्रुत्या ब्रह्मणि अवयवादिप्रतियोगिक भेदस्यापि निषिद्धत्वेन च शिरआद्यभिन्नत्वानंगीकारस्यानुचितत्वात् । भगवतो विचित्रशक्तिमत्त्वस्य 'सर्वोपेता च तदद्र्शनात्' इति सूत्रे उक्तत्वेन तादृश्या अटितघटनाशक्त्या प्रामाणिकस्य सर्वस्यापि निर्वाहसंभवेन गर्भवासाविर्भावदेवतास्तुत्यादिप्रतिपादकस्यै तादृशग्रंथसंदर्भस्य 'श्रीकृष्णस्य केशत्वोक्तिस्तु मत्केशेनापि कंसादिवधः कर्तुं शक्यते; एतद्विषये भवद्भिः शंका न कार्येतिरीत्या कंसादिवधस्यानायाससाध्यत्वाभिप्राया' इति गौणार्थकल्पनस्यान्याय्यत्वात् । ब्रह्मणः सर्वजगताऽभेदं वदतस्तवावयवयवेनाभेदानंगीकारस्यानुचितत्वाच्च । 'अनंता वै वेदा:' इति वेदानामानंत्यस्य प्रमाणसिद्धतया कूपकूर्मायितैरज्ञातत्वस्य तदसत्त्वासाधकत्वाच्च । अन्यथांधेनादृष्टस्यापि वस्तुनोसत्त्वापातात् वेदकोशेऽनुपलभ्यमानश्रुतीनां शाबर शांकर रामानुजीय भाष्यादिषुपलभ्यमानत्वेन तावतैवासत्त्वासिद्धेश्च ॥

चन्द्रिकानुवाद:_

(चं.) किंच 'सोकामयत' इत्यत्र पुल्लिंगेन सन्निहितपरामर्शिना तच्छब्देन नपुंसकब्रह्मपुच्छशब्दनिर्दिष्टस्य 'तस्माद्वा एतस्मादात्मनः' इति व्यवहितात्मशब्दनिर्दिष्टस्य च परामर्शायोगेन सन्निहितस्यानंदमयस्यैव परामर्ष्टव्यत्वात् । 'सोकामयत' इत्यस्य च कारणवाक्यस्य त्वयापि ब्रह्मपरत्वेनांगीकृतत्वात्कथमानंदमयस्याब्रह्मता ति ग्रन्थोपरि,

रामसुब्ब_७१

(रा.) तन्न, सर्वनामस्वभावापर्यालोचन विजृंभितत्वात् । ब्रह्म पुच्छं' इत्यत्र ब्रह्मपदस्य परब्रह्मपरत्वं मध्वभाष्येऽप्युक्तम् । तच्च ब्रह्मानंदमयापेक्षया सन्निकृष्टम्'सोऽकामयत' इत्यत्र सन्निकृष्टपरामर्शस्वभावे सर्वनामप्रातिपदिकेन सन्निकृष्टं पुच्छं ब्रह्म परामर्ष्टव्यं, त्वानंदमयः, विप्रकृष्टत्वात् । पुल्लिंगं तु पाशाधिकरणन्यायेन प्रधानप्रातिपदिकानुसारेण ब्रह्मण्येवव्यवहितात्मशब्दाभिप्रायेण नेतव्यम् । अन्यथा गुणभूतलिंगानुसारेणानंदमयस्य व्यवहितस्य ग्रहणे प्रधानभूतं प्रातिपदिकमन्यथाकृतं स्यादिति यदुक्तम्,

खण्डनं_७१

(खं.) तत्तुच्छं, "ननु 'सोकामयत' इति ब्रह्मणि पुल्लिंगनिर्देशो नोपपद्यते । नायं दोष:आत्मन आकाशः संभूतः" इत्यत्र पुल्लिंगेनात्मशब्देन ब्रह्मणः प्रकृतत्वात्" इति त्वदीयशांकरभाष्ये नपुंसक ब्रह्मशब्दनिर्दिष्टस्य 'सोऽकामयत' इति पुल्लिंगेन निर्देशासंभवमुक्त्वा पुल्लिंगात्मशब्दोक्तस्य ग्रहणमित्युक्ते तावद्यतोऽसंगतं आत्मशब्दोक्तस्य दूरस्थत्वात् सन्निहितपरामर्शकेन तच्छब्देन ग्रहणायोगात् । आनंदमयस्य समीपस्थत्वात्पुल्लिंगेन प्रकृतत्वाच्च, सर्वनामप्रकृतिप्रत्ययोभयस्वारस्यलाभाय तस्यैव स इति शब्देन परामर्शस्य योग्यत्वात् । एवं प्रकृतिप्रत्यययोः स्वारस्यसंभवे प्रत्ययस्यास्वारस्यकल्पनासंभवाच्च । प्रकृत्यपेक्षयाप्रत्ययस्यप्राधान्यस्याद्वैत सिद्धौ तत्त्वमसिवाक्यविचारे मधुसूदनेनांगीकृतत्वेन प्रकृतेः प्राबल्यांगीकारस्य तद्विरुद्धत्वाच्च । अत्यंत सन्निकृष्टस्यायोग्यस्यापि तच्छब्देन ग्रहणांगीकारे 'उताविद्वानमुं लोकं प्रेत्य' इति पूर्ववाक्ये प्रसक्तस्याविदुषो विदुषो वा ग्रहणं स्यात् । "आनंदमयोsम्यासात्, विकारशब्दान्नेति चेन्न प्राचुर्यात्" इत्यादिसूत्रैः आनंदमयस्यैव ब्रह्मत्वं साधितं सूत्रकृद्भिरिति पुच्छस्य ब्रह्मत्वे सूत्रविरोधापाताच्च ॥

चन्द्रिकानुवाद:_

(चं.) अपि चानुवाकांत उदाहृतो 'यतो वाचः' श्लोक एव मनोमयेऽपि श्रुत्योदाहृतः । तस्य च 'आनन्दं ब्रह्मण:' इति श्रुत्या 'यतो वाचो निवर्तंते, न बिभेति कुतश्चन' इति र्लिंगाच्च ब्रह्मविषयत्वं त्वयाऽपि स्वीकृतमिति कथं मनोमयस्याब्रह्मतेति, यदुक्तं-

रामसुब्ब_

(रा.) तन्न, उपक्रमस्थमनोमय इति मयटा विकारार्थकेन मनोयस्याब्रह्मत्वनिश्चयात् । उपसंहारगतस्य 'यतो वाचः' इत्यस्य तत्पर्यागतस्योपक्रमाधिकरणन्यायेन प्राशस्त्यपरतया योजनीयत्वात् । इति यदुक्तं,

खण्डनं_

(खं.) तत्तुच्छं, 'नानुपमर्द्याभावात्' इति न्यायेनोपक्रमापेक्षयोपसंहारस्य प्राबल्यात् । उपसंहारगतेन मनोमयस्य विष्णुत्वं विनाऽनुपपद्यमानेन 'यतो वाचः' इति श्लोकेन उपक्रमस्थस्य 'मनोमयः' इत्यत्र विद्यमानस्य मयटः प्राचुर्यार्थतायाः स्वीकार्यत्वात् । न चोपक्रमाधिकरणविरोधः, "वेदो वा प्रायदर्शनात्" इति (जै. सू. ३.३.२.) सूत्रे 'उच्चैर्ऋचा क्रियते' इति मंत्रगतऋक्शब्दस्य वेदपरत्ववर्णनं नोपक्रमेण किंतु वेदशब्दाभ्यासादेव 'प्रायदर्शनात्' प्रायः बाहुल्यं तस्य दर्शनादिति अभ्यासरूप हेतोरेव प्रदर्शितत्वात् । न तपक्रमादिरूपहेतो:, तथासति वेदो वा उपक्रमादित्यक्ष्यत । जैमिनिसूत्र व्याख्यातारस्तु ब्रह्मसूत्रव्याख्यातृशंकरादिवद्भ्रांता एवेति । जैमिनिसूत्रव्याख्यातरीत्योपक्रमस्योपसंहारापेक्षया स्वभावतः प्राबल्यांगीकारेऽपि उपक्रमगतमटः प्राचुर्याद्यनेकार्थत्वेन सावकाशत्वात् । उपसंहारगतस्य 'यतो वाचः' इति श्लोकस्य त्वदुक्तरीत्यैव निरवकाशत्वात् । स्वभावतः प्रबलस्यापि सावकाशस्योपक्रमगतमयटः उपसंहारगतेन अत एव स्वभावतो दुर्बलेनापि निरवकाशेन "यतो वाचः" इति मनोमयस्य विष्णुत्वव्यवस्थापकेन श्लोकेन प्राचुर्यार्थतया योजनस्य न्याय्यत्वाच्च ॥

चन्द्रिकानुवाद:_

(चं.) यच्चोक्तं, शुद्धब्रह्मपरमेतदिति, तत्र 'कामात्' इति सूत्रे 'सोऽकामयत:, भीषास्मात्' इत्यादिश्रुतौ च कामादिगुणविशिष्टस्यैवोक्तेरिति, यदुदितं,

रामसुब्ब_९१

(रा.) तन्न, गुणकथनेऽपि तत्र महाविवक्षाऽभावेनाविवक्षितधर्मब्रह्मपरतयोक्तश्रुतिसूत्राभ्यां निर्विशेषसिद्ध्यविरोधात् । यथा च तत्र गुगाविवक्षातथोपपादितमाकरे । इति, यदभाणि,

खण्डनं_

(खं.) तत्तुच्छं, कामादिगुणानां विवक्षाऽभावे तैर्गुणैः प्रधाननिरास्यासंभवापत्तेः श्रुत्यर्थनिर्णायकसूत्रोक्तानां विवक्षाऽभावे सूत्रस्य श्रत्यर्थनिर्णायकत्वाभावापत्तेः, विवक्षाऽभावज्ञापकस्य त्वयाऽनुक्तत्वात्, एतदधिकरणीशांकरभाष्येऽनुपलभ्यमानत्वात्, त्वच्चेतसि विद्यमानाकरग्रन्थस्य विवक्षाभावानुपपादकत्वात् । श्रुतिसूत्रोक्तधर्माणां विवक्षाSभावे बह्मधर्माणां सत्त्वज्ञानादीनामप्यसत्त्वापत्त्या त्वदभिमतब्रह्मणः जडत्वशून्यत्वादिकं स्यात् । गुणस्य विवक्षाऽभावो नाम ब्रह्मणि विद्यमानत्वेऽपि अत्र कथने तात्पर्यं नास्तीति वा, ब्रह्मणि न संत्येव जनमोहनार्थयुक्तिरिति वा । आद्ये ब्रह्मणः निर्विशेषत्वहानिः । द्वितीयं भ्रांतिजनकत्वेन नदीतीरे पंच फलानि संतीति वंचकवाक्यवत् श्रुतिसूत्रयोरप्रमाणतैव कथितेति अद्वैतिनिष्ठं प्रच्छन्नबौद्धत्वमेव प्रकटीकृतं स्यात् । विष्णुतस्वरहस्यविवरणादिग्रन्थे ब्रह्मणः सगुणत्वस्कीकारेण सगुणत्वस्य शांकराभिमतत्ववर्णनेन च स्वोक्तिविरुद्धत्वाच्च ।

चन्द्रिकानुवाद:_१

(चं.) अत्र च 'भेदव्यपदेशात्' इत्यनेनैक्यनिषेधादभेदप्रतिकूलता स्फुटैवेति, यत्,

रामसुब्ब_१०

(रा.) तन्त्र, व्यावहारिककल्पितभेदस्य सूत्रितत्वेनाभेदसिध्यविरोधादिति यदुदितं,

खण्डनं_१०

(खं.) तदतितुच्छं, स्वयमेव विष्णुतत्त्वरहस्य विवरणादिग्रन्थे स्पष्टं जीवेशयोर्भेदे तस्य पारमार्थिकत्वे श्रुतिसूत्राणां तात्पर्यमिति वर्णितत्वेन भेदस्य व्यावहारिकस्वोवतेर्व्याहतत्वात् । भेदमिथ्यात्वे प्रमाणाभावात् । भेदसत्यत्वेऽनेक प्रमाणानां जीवब्रह्मभेदप्रकरणे उक्तत्वात् । श्रुतिसूत्रप्रतिपाद्यर्थस्य कल्पितत्वे श्रुतिसूत्रयोरप्रामाण्यापत्तेश्चेत्यलं अपहसनीयस्वव्याघातकरप्रक्रिया निरासप्रपंचेन ॥

रामसुब्ब_१०२

(रा.) यत्तु, आनंदमयादीनां पंचानां ब्रह्मत्वमिति, तन्न, अन्नमयप्राणमय मनोमयविज्ञानमयानां ब्रह्मत्वे 'ब्रह्मविदाप्नोति परं' इति श्रुत्युक्त ब्रह्मप्राप्तिरूपमोक्षस्य "एतमन्नमयमात्मानमुपसंक्रम्य" इत्यादावन्नमयोपसंक्रमणेनैव सिद्धतया 'अनमयमुपसंक्रम्य' इत्युक्त्वा प्राणमयाद्युपसंक्रमणस्य कथनानुपपत्तेः । न चान्नमयादीनां ब्रह्मतयाऽत्यंताभेदेऽपि अन्नमयप्राणमयादिशब्दानां भेदात् 'अन्नमयमुसंक्रम्य' 'प्राणमयमुपसंक्रम्य' इत्यादि निर्देशोपपत्तिरिति शंक्यं, अन्नमयप्राणमयादिपदार्थानां परस्परभेदं विनापि शब्दभेदमात्रेण तथा व्यपदेशे 'वटवृक्षमुपसंक्रम्य न्यग्रोधमुपसंक्रामिति' इत्यादिवाक्यानामपि स्वारसिकत्वापत्तेः । न च पंचानां ब्रह्मत्वेSप्यन्नमयप्राणमयादिस्वरूपाणां रामकृष्णादिस्वरूपवद्भेदादुक्तनिर्देशोपपत्तिः संभवतीति शंक्यं, रामादिविग्रहाणां मनोमयादिविग्रहाणां मनोमयत्वादीनां रामत्वकृष्णत्वादीनां मध्वमते ब्रह्मस्वरूपत्वेन परस्परभेदासंभवात् । न च घटशरावावादीनां मृदात्मनाऽभेदेऽपि परस्परात्मना भेदवन्मनोमयप्राणमयादीनां ब्रह्मात्मनाऽभेदेऽपि मनोमयादीनां परस्परात्मना भेदोपपत्तिरिति शंक्यं घटत्वशरावत्वरूपधर्माणां भेदात् तद्धर्मविशिष्टरूपेण घटशरावमृदात्मकानामपि भेदः संभवति । अन्नमयत्वप्राणमयत्व रामकृष्णत्वादीनां धर्माणां मध्वमते "एवं धर्मान् पृथक् पश्यन्" इति श्रुत्यनुसारेण ब्रह्मात्यंताभिन्नमनोमयाद्यत्यंताभेदस्याssवश्यकतया तेषां मनोमयादीनां धर्मतोऽपि भेदासंभवात् इति यदभिहितं,

खण्डनं_१०२

(खं.) तत्तुच्छं, "न च व्यापकस्य परमात्मनः सर्वदा प्राप्तत्वात् मुक्तस्य तत्प्राप्त्युक्तिरसंगतेति वाच्यं देशविशेषावच्छेदेन विग्रहविशेषावच्छेदेन च तत्प्राप्तिकथनोपपतेः" इति विष्णुतत्त्वरहस्यविवरणे त्वया सर्वदा प्राप्तस्यापि देशविशेषाद्यवच्छेदेन प्राप्त्युपदेशस्य कथितत्वेन तद्वदेव विशेषबलादुक्तव्यपदेशोपपत्तेः "न चान्नमयादीनां" इत्यारभ्य "मनोमयादीनां धर्मतोऽपि भेदासंभवात्" इत्यंतो ग्रन्थः अनुक्तोपालंभनत्वेनोपेक्ष्य एव ||

रामसुब्ब_१०३

(रा.) विशेषबलादुक्तव्यपदेश इत्यपि न सत्, विशेषस्यापि ब्रह्मभेदाभेदाभ्यां विकल्प्य जिज्ञासाधिकरण एव निराकृतत्वात् । विशेषांगीकारे प्रमाणाभावाच्च । न हि श्रुतौ स्मृतौ वा धर्मर्धामणोरत्यंताभेदेऽपि विशेषबलादाश्रयाश्रयिभावादिव्यवहारोपपत्तिरिति वचनं दृश्यते । न चान्यथानुपपत्तिस्तत्र प्रमाणं, तथाविधान्यथा नुपपत्तेरनुपलम्भात् । न च "सत्यं विज्ञानमानंदं ब्रह्म" इति श्रुत्युक्तानां ज्ञानानंदादीनामपर्यायत्वाय विशेष आश्रयितव्यः, ज्ञानत्वानंदत्वादिरूपकल्पित प्रवृत्तिनिमित्तधर्मभेदेनैव विशेष्यस्यैकत्वेऽप्यपर्यायत्वोपपत्तेः । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकार्थवृत्तिः सामानाधिकरण्यमिति हि शाब्दाः । न चाSSकाशशब्दाश्रयपदयोरपर्यायत्वार्थं विशेषकल्पनं, "वृक्षो महीरुहः शाखी" इत्यादि कोशादाविव व्याख्यानव्याख्येयभावेनाऽऽकाशशब्दाश्रयपदयोरुपपत्तौ तदर्थं शशशृङ्गतुल्यस्य विशेषस्याकल्पनीयत्वात् । न च गुणगुणिनोरभेदपक्षे घटोपलम्भे शुक्लाद्यनुपलंभार्थं, भेदाभेदपक्षे तयोरविरोधार्थं, 'काल: सदाऽस्ति' 'देश: सर्वत्रास्ति' इत्यबाधितव्यवहारार्थ विशेषोंऽगीकार्य इति शंक्यं तत्तदसाधारणस्वरूपस्यैव तत्तव्द्यवस्थापकत्वोपपत्ते: । तस्मात्  "अन्नमयमात्मानमुपसंक्रम्य एतं प्राणमयमात्मानमुपसंक्रम्य" इत्यादिनो अन्नमयादीनां भेदव्यपदेशात्तेषामब्रह्मत्वमेवेति यदुक्तम्,

 

खण्डनं_१०३

(खं.) तत्तुच्छं, विशेषस्य ब्रह्माभेदपक्षमङ्गीकृत्य व्यवहारनिर्वाहकतायाः जिज्ञासाधिकरणे साधितत्वात् । न च विशेषे प्रमाणाभावः, मधुसूदनादिभिस्त्वया चांगीकृतस्य तत्तदसाधारणवस्तुस्वरूपापरपर्यायस्वभावविशेषस्यैवास्मन्मते विशेषशब्दवाच्यतया 'कालः सदाऽस्ति' 'देशः सर्वत्रास्ति' 'स्वे महिम्नि प्रतिष्ठितः' 'आनंदं ब्रह्मणो विद्वान्' इत्यादीनामभेदेऽप्याधाराधेयभावबोधकानां विशेषांगीकारमंतरानुपपद्यमानानां त्वदाद्यंगीकृतानां श्रुतिस्मृत्यादिव्यवहाराणामेव प्रमाणत्वात् । ज्ञानत्वानंदत्वादिधर्माणां ज्ञानानंदादिधर्मणां चाभेदेन तद्वाचकशब्दानां पर्यायतापत्त्या तत्परिहारार्थमपि विशेषस्य स्वीकार्यत्वाच्च, अपर्यायतायाः प्रामाणिकत्वात् । न च ज्ञानत्वानन्दत्वादिरूपल्पि प्रकृतिनिमित्तभेदेनैव विशेष्यस्यैकत्वेऽपि प्रामाणिकापर्यायतोपपत्तिरिति वाच्यं ज्ञानानंदादिशब्दानां वास्तवप्रवृत्तिनिमित्तस्यावश्यकत्वात्, शक्यतावच्छेदकरूपेणैव धर्मिबोधकत्वाच्छदानां । घटकलशशब्दयोरपि कल्पितप्रवृत्तिनिमित्तधर्मभेदेनापर्यायतापत्तेः तत्रापि भिन्नप्रवृत्तिनिमित्तानामध्याससंभवात् । आकाशशब्दाश्रयपदयोरपर्यायत्वस्य प्रामाणिकत्वे तत्रापि विशेषकल्पनस्यावश्यकत्वात् । अस्मदङ्गीकृतविशेषस्य शशशृङ्गातित्वे 'काल: सदास्ति' इत्यादिव्यवहार निर्वाहकतत्तदसाधारणवस्तुस्वरूपापरपर्यायस्वभावविशेषस्यापि शशशृङ्गतुल्यतापत्तेः ।अन्नमयमात्मानमुपसंक्रम्य" "एतं प्राणमयमात्मानमुपसंक्रम्य" इत्यादावन्नमयादीनां भेदव्यपदेशाभावात्तेषां ब्रह्मत्वमेवेति ॥

रामसुब्ब_१०४

(रा.) "अन्योंतर आत्मा प्राणमयः, अन्योंतर आत्मा मनोमयः" इत्याद्यन्यशब्द निर्देशादपि तेषामन्नमयादीनाब्रह्मत्वं । न हि ब्रह्मप्रतियोगिक भेदानुयोगि ब्रह्मेति केनापि ब्रह्मवादिनाऽभ्युपगम्यते, "एको देवः सर्वभूतेषु गूढः" इत्यादिश्रुतिविरोधादिति यदुक्तम्,

खण्डनं_१०४

(खं.) तत्तुच्छं, भिन्नानामेव घटभूतलादीनां आधाराधेयभावस्य लोके दृष्टत्वेऽपि यथा 'स्वे महिम्नि प्रतिष्ठितः' इत्यादौ अभिन्नयोरेवाधाराधेयभावस्य तत्तदसाधारणवस्तुस्वरूपापरपर्यायस्वभावविशेषेण निर्वाहस्तथाऽभिन्नयोरेव विशेषबलेनान्यादिशब्दनिर्वाहात् |
अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् ।
प्रोच्यते भगवान्विष्णुरैश्वर्यात्पुरुषोत्तमः ||
इति ब्रह्मांडपुराणे ईश्वरशक्त्याऽभिन्नयोरपि अन्यादिशब्दनिर्वाहस्योक्तत्वाच्च ।।
क्षीरोदमध्ये भगवान् कूर्मरूपी स्वयं हरिः ।

मन्दराद्रेरधिष्ठानं भ्रमतोऽभून्महामुने ॥७६॥

रूपेणान्येन देवानां मध्ये चक्रगदाधरः ।
चकर्ष नागराजं तु दैत्यमध्येSरेण च ॥ ८७॥ त
उपर्याक्रांतवान् शैलं बृहद्रूपेण केशवः ।
तथाऽपरेण मैत्रेय यत्र दृष्टं सुरासुरैः ॥८८॥

तेजसा नागराजं तु तथा व्यापितवान्हरिः ।
अन्येन तेजसा देवानुपबृंहितवान्प्रभुः ॥ ८९ ॥
इत्यादिविष्णुपुराणवचनेषु अभिन्नेष्वेव भगवद्रूपेषु 'रूपेणान्येन' इति, 'अपरेण च' इति 'तथा परे' इति, 'अन्येन तेजसा' इति अन्यादिशब्दानां श्रवणात्। 'यदेकमव्यक्तमनंतरूपं' इत्येकस्य भगवतः अनंतरूपत्वोक्तेश्च । तादृशश्रुतिपुरा गतानामन्यादिशब्दानामनंतरूपतायाश्च विशेषबलेन वा ईश्वरशक्त्या वा सर्वैर्घटनीयत्वाच्च ॥

रामसुब्ब_१०५

(रा.) (१५७) यत्तु, 'अनन्योऽप्यन्यशब्देन' इति पुराणवचनस्य प्रामाणिकै: क्वाप्यलिखितत्वेन दृश्यमानपुराणकोशेष्वदर्शनेन च मध्वभाष्योदाहृतमाठरायणकौशिकादिवाक्यवदसंप्रतिपन्नत्वात् । तद्वचनस्य प्रामाणिकत्वे "तत्त्वमसि' इत्यादिनाऽभिन्नतया प्रतिपादितयोर्जीवब्रह्मणोः "द्वा सुपर्णा" "जुष्टं यदा पश्यत्यन्यमीशं" "पृथवात्मानं प्रेरितारं च मत्वा" इत्यादिजीवब्रह्मभेदवाक्येष्वप्यैश्वर्यबलादन्यादिशब्दोपपत्तेर्माध्वैध्वस्तेषां जीवब्रह्मभेदसाधकयोपन्यसनानुपपत्तेश्चेति,

खण्डनं_१०५

(खं.) तत्तुच्छं, आपस्तंबादिसूत्रेषु पूर्वमीमांसायां शंकरभाष्ये रामानुजभाष्ये श्रीकंठभाष्ये चाप्रसिद्धश्रुतीनामुदाहृतत्वात् । नाल्पज्ञैरदृष्टत्वमात्रेण ता असत्य इति वक्तुं शक्यते, अन्धैरदृष्टानां पदार्थानामप्यसत्त्वप्रसङ्गात्।यदेकमव्यक्तमनंतरूपंइति श्रुत्या एकस्यैवानेकरूपत्वस्य,

रूपेणान्येन देवानां मध्ये चक्रगदाधरः ।

इत्यादिविष्णुपुराणघटकानां भिन्नेष्वेवरूपेषु विद्यमानानां अन्यादिशब्दानां च ईश्वरशक्त्या वा विशेषबलेन वांगीकार्यत्वेन तत्प्रतिपादक प्रमाणसत्त्वासत्त्वविचारस्थानावश्यकत्वाच्च ।तत्त्वमसि' इत्यादिवाक्यानां जीवब्रह्मणोरभेदसाधकत्वाभावस्य जीवब्रह्मैक्यप्रमाणभंगे व्यवस्थापितत्वात् । विष्णुतत्त्वरहस्यादिग्रन्थेजीवब्रह्मणोर्भेदः पारमार्थिक इत्येव सूत्रकाराभिप्राय इति सिद्धं" इति, - जुष्टं यदा पश्यत्यमीशमस्य महिमानमिति वीतशोकः" "पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वेमेतिइत्याद्या श्रुतिः जीवब्रह्मभेदस्य मोक्षहेतुज्ञानविषयत्वं ब्रुवाणा भेदस्य पारमार्थिकत्वं गमयति, भेदस्यापारमार्थिकत्वे तज्ज्ञानस्य भ्रांतित्वापत्त्या मोक्षहेतुत्वायोगात्" इति, “जीवब्रह्माभेद: अनुप्रवेशोपाधिक इत्यत्रोदाहृत संप्रतिपन्नश्रुतिप्रमाणवत् विशेषणांशं परित्यज्य विशेष्यमात्राभेदे न किंचित्प्रमाणभूतं श्रुतिवाक्यं दशोपनिषत्सु दृश्यते । न च "तत्वमसि " इति वाक्यमेव विशेषणांशत्यागेन विशेष्यैक्ये प्रमाणमिति शंक्यं, तत्वंपदयोविशेष्यलक्षणापत्तेः" इति,

शास्त्राणां भेद एव श्रुतिशिखरगिरामागमानां च निष्ठा

साकं सर्वैः प्रमाणैः श्रुतिनिकर महाभारतादिप्रबंधैः

तत्रैव व्याससूत्राण्यकुटिलविधया भांति तात्पर्यवंति

प्रत्नैराचार्यरत्नैरपि परिजगृहे शंकराद्यैः स चापि ॥

इति चैवमादिभिरनेकवाक्यैः जीवब्रह्मणोरभेदोऽप्रामाणिकः भेद एव प्रामाणिकः इत्युक्तत्वेना भेदसाधकप्रमाणस्यैवाभावेन जीवब्रह्मणोर्भेदसाधकानामैश्वर्यबलादन्यार्थत्वानुपपतेः अस्माभिस्तेषां जीवब्रह्मभेदसाधकतयोपन्यासस्योपपन्नतमत्वात् । प्रतिवादिना त्वयैव "जुष्टं यदा" इत्यादीनां जीवब्रह्मभेदसाधकतया, "तत्त्वमसि' इत्यादीनां जीवब्रह्माभेदसाधकतया चांगीकृतत्वात् ॥

रामसुब्ब_१०६

(रा.) यत्तु, किंचान्नमयादीनां ब्रह्मत्वे "अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्तां" इत्यानन्दमयादीनां शुध्यत्वोक्तिरयुक्तेति,

खण्डनं_१०६

(सं.) तत्तुच्छं, शुद्धिप्रार्थनावाक्ये ब्रह्मशब्दाभावात् ब्रह्मलक्षणाभावात्. ज्ञानिनस्तत्प्राप्तिकथनाभावात्, रसशब्देन विशेषणाभावात्, अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिः" इत्यादाविव संज्ञाभेदात् शुद्धिप्रार्थनालिंगात्, "कुंडपायिनामयने मासमग्निहोत्रं जुहोति " इत्यादाविव प्रकरणभेदाच्च तत्रोक्तानां अन्नमयादीनामब्रह्मत्वस्य चंद्रिकायां व्यवस्थापितत्वात् ॥

रामसुब्ब_१०७

(रा.) यत्तु अनुपादेयगुणयुक्तानुपस्थितिरूपप्रकरणांतरस्य पूर्वतंत्रीयस्य धात्वर्थभावनामात्रविषयकत्वेनाधात्वर्थ भावनारूपमनोमयादिष्वप्रवृत्ते 'शुध्यन्तां' इति वाक्योक्तान्नमयादयः 'अन्नमयमात्मानमुपसंक्रामति इति वाक्योक्तान्नमयाद्यपेक्षया भिन्नाः प्रकरणांतरन्यायादित्ययुक्तं, इति,

खण्डनं_१०७

(खं.) तत्तुच्छं, तादृशप्रकरणस्य धात्वर्थभावनामात्रविषयकत्वे प्रमाणाभावेन मनोमयादिष्वपि प्रवृत्तेः संभवात् । प्रकरणभेदेन वस्तुभेदमात्रे दृष्टांतदानसंभवाच्च ॥

चन्द्रिकानुवाद:_१

(चं.) शुद्धिप्रार्थनावाक्ये ब्रह्मशब्दाश्रवणात् ज्ञानिनस्तत्प्राप्तिकथनाभावात्, रसशब्देन विशेषणाभावात्, “अथैष ज्योतिरथैष विश्वज्योतिः" इत्यादाविव संज्ञाभेदादन्नमयादीनामब्रह्मत्वम्, इति यत्,

रामसुब्ब_११

(रा.) तन्न, मध्वमते 'अन्नमयमात्मानमुपसंक्रामति' इत्यादावपि ब्रह्मशब्दाभावेनान्नमयादीनामब्रह्मत्वापत्तेः । "अन्योंतर आत्मा प्राणमयः" इत्यादौ मुक्तप्राप्यत्वानुक्तेस्तंत्रोक्तान्नमयादीनामब्रह्मत्वापत्तेः । " अन्नमयमात्मानमुपसंक्रामति" इत्यत्र "एष पुरुषोऽन्नरसमयः " इतिवद्रसशब्दाभावेन "अथैष ज्योतिः" इतिवदन्नमयसंज्ञाभेदान्मध्वमतेऽन्नरसमयापेक्षयोपसंक्रमवाक्योक्तान्नमयस्य भेदापत्तेः, इति यत्,

खण्डनं_११

(खं.) तत्तुच्छं, "एतमन्नमयमात्मानमुपसंक्रामति" इत्यादी 'एतं' इतिशब्दस्य पूर्वोक्तपरामर्शकत्वेन पूर्वं ब्रह्मरूपाणां अन्नमयादीनामेवोक्तत्वेनात्रत्यान्नमयादीनां ब्रह्मत्वनिश्चयात् । एकप्रकरणस्थत्वाच्च । न हि अन्नमयादीनां ब्रह्मत्वे समुदितानां पूर्वोक्तानां लिंगत्वं, एकैकेनापि ब्रह्मत्वसिद्धेः ।अन्नमयमात्मानमुपसंक्रामति" इत्यादौ ज्ञानिप्राप्यत्वलिंगसद्भावाच्च । अत एव शुद्धिप्रार्थनावाक्ये प्रत्येकं ब्रह्मत्वज्ञापकलिंगानामभावोक्तिः संगच्छते । ब्रह्मत्वसाधकात्मशब्दसद्भावाच्च ।अन्योंतर आत्मा प्राणमयः" इत्यत्र प्राणमयं प्रत्युदाहृतश्लोके "सर्वमेव त आयुर्यंति, ये प्राणं ब्रह्मोपासते" इति ब्रह्मशब्दात् । 'सर्वमायुर्यंति' इति पूर्णायुष्यरूप मोक्षजनकज्ञानविषयत्वोक्तेश्च । 'एतमन्नमयमात्मानमुपसंक्रामति' इत्यत्र रसशब्दाभावेऽपि एतं' इति विशेषेण आत्मशब्दादिना च ब्रह्मत्वनिश्चयात् ॥

रामसुब्ब_

(रा.) यत्तु, किंचान्नमयादीनां ब्रह्मत्वे भवतां प्रमाणतमत्वेनाभिमते भागवते श्रुतिगीतायां "दृतय इव श्वसन्नसुभृतो यदि तेऽनुविधा महदहमादयोंडमसृजत् यदनुग्रहतः । पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयाऽदिषु यः सदसतः परमं त्वं यदवशेषमृतं" इति श्लोकेऽन्नमयादिषु चरमस्यैव ब्रह्मत्वोक्त्या अन्नमयादीनां चतुर्णां अब्रह्मत्वसिद्धिविरुध्येत इति,

खण्डनं_

(खं.) तत्तुच्छं, त्वदुक्तरीत्या भागवतपाठस्यैवाभावात् । पुरुषविधान्वयोऽत्र चरमोत्तममध्यमादिषु यस्तव सदसतः परं प्रथमे यदवशेषमृतं" इति पाठो वर्तते । तादृशपाठे चरमस्यानन्दमयस्य ब्रह्मत्वाबोधनात् । अद्वैतिमते आनंदरायपुच्छस्यैव ब्रह्मत्वात् आनंदमयस्य ब्रह्मत्वबोधकतादृशपाठांगीकारस्य त्वन्मतविरुद्धत्वाच्च । अन्नमयप्राणमयमनोमयविज्ञानमयानंदमयानां पंचानां ब्रह्मत्वमङ्गीकुर्वतास्माकं मते आनंदमयस्य ब्रह्मत्वबोधकतादृशपाठोऽपि न बाधकः अन्नमयादीनां ब्रह्मत्वानिषेधात् । अन्नमयादिषु चरमस्थानंदमयस्य ब्रह्मत्वकथनं कुत इति न शंक्यं, 'महदहमादयोंऽडमसृजन् यदनुग्रहात्...चरमोन्नमयादिषु यः इत्यस्य अन्नमयादिषु यश्चरम: आनंदमयः तस्यानुग्रहतः महदहंकारादितत्त्वाभिमानिनो देवा अंडमसृजत् इत्यर्थकत्वेन आनंदमयस्यास्यामेवोपनिषदि 'सोऽकामयत' इति सृष्टिकर्तृत्वश्रवणेन अन्नमयादिषु चरमस्यानंदमयस्य सृष्टिकथनार्थं प्रवृत्तेः ॥

चन्द्रिकानुवाद:_१

(चं.) किंचान्नमयादीनामब्रह्मत्वे ब्रह्मजिज्ञासोस्तदुपदेशायोगः । द्वारमपि द्वारत्वेनोपदेष्टव्यं, न त्वात्मतया । लोके हि चन्द्रारुंधत्यादौ शाखास्थूलतारादिकं द्वारत्वेनैवोपदिश्यते, इति यत्,

रामसुब्ब_१२१

(रा.) तत्र, चंद्रारुंधत्योर्बुद्धयवतारार्थं 'शाखाग्रं चंद्रः इयं स्थूल ताराsरुंधती' इत्यादौ द्वारभूतानामपि चंद्रत्वारुंधतीत्वादिनोपदर्शनात्. इति यत्,

खण्डनं_१२

(खं.) तत्तच्छं, द्वितीयाचन्द्रस्य हि सूक्ष्मत्वेन दूरदेशस्थत्वेन च झटिति तत्प्रदेशे इंद्रियाणां प्रवृत्त्ययोगेन चन्द्रसन्निकर्षस्यासंभवेन चन्द्रप्रत्यक्षासंभवात् समीपवर्तिशाखाग्रे इंद्रियप्रवृत्तिद्वारा तत्पुरोदेशे विद्यमानचंद्र सन्निकर्षार्थं कुत्र चंद्र इति पृष्टः 'शाखाग्रं पश्य' इत्येवोपदिशति, न तु 'शाखाग्रंचंद्र:' इत्यभेदेन । एवमेव 'स्थूलतारांपश्य' इति, न तु 'स्थूलताराऽरुंधती' इति। एवं दृष्टांतस्यासंप्रतिपन्नत्वेन तद्दृष्टांतेनान्नमयादीनां ब्रह्मज्ञा द्वारत्वाद्ब्रह्मत्वोक्तिरित्यस्यायुक्तत्वात् । चन्द्रादीनां प्रत्यक्षयोग्यत्वेन तेषां चाक्षुषत्वप्रयोजकेन्द्रियसन्निकर्षार्थं शाखाग्रोपदेशस्य संभवेऽपि ब्रह्मण: चाक्षुषप्रत्यक्षयोग्यत्वाभावेन तद्विषयकशाब्दापरोक्षस्य वा त्वन्मतरीत्या शाब्दापरोक्षस्य वाऽन्नमयादीनां ब्रह्मत्वानुक्तावपि त्वन्मते 'तत्त्वमसि' इति वाक्यादिव संभवेनान्नमयादीनां द्वारत्वोक्तेर्वैयर्थ्याच्च ॥

चन्द्रिकानुवाद:_१

(चं.) 'अन्नं ब्रह्म' इत्यनुक्त्वा 'आनंदो ब्रह्म' इति वक्तुं नाशक्यं, येनान्नादेर्द्वारत्वं स्यात् इति यत्,

रामसुब्ब_१३

(रा.) तन्न, चन्द्रे बुद्धयारोहसाधनमार्गांतरसत्वेऽपि 'शाखाग्रं चंद्र:' इत्यत्र शाखाग्रस्य चन्द्रत्वोक्तिवत् अत्रापि मार्गांतरसत्त्वेऽप्यत्र ब्रह्मत्वोपदेशस्यापि ब्रह्मणि बुद्धयवतारमार्गत्वानपायात्, इति यत्,

खण्डनं_१३

(ख) तत्तुच्छं, अनेकेषु मार्गेषु एकेन मार्गेण निर्वाहे अन्यो मार्गो मास्तु इत्याशंकायाः एकस्य मार्गत्वेऽपि अन्यस्य मार्गत्वानपायादिति समाधानस्य कर्तुं शक्यत्वेऽपि, अन्नादीनां ब्रह्मत्वोपदेशेऽपि, 'आनंदो ब्रह्म' इत्युपदेशस्यावश्यकत्वेन तेनैव ब्रह्मज्ञाननिर्वाहे अन्नादीनां द्वारतया ब्रह्मत्वोपदेशस्य वैयर्थ्याशंकायां अन्नादीनां ब्रह्मत्वोपदेशस्य ब्रह्मणि बुद्ध्यवतारमार्गत्वानपायादित्यस्यासंगतत्वात् । शाखाग्रस्य चन्द्रत्वेनोपदेशस्यैवाभावादित्युक्तत्वेन तस्य दृष्टांतत्वासंभवाच्च । अन्नादीनां ब्रह्मज्ञानद्वारत्वं दृष्टजनकतया अदृष्टजनकतया वा । नाद्यः, 'आनन्दो 'ब्रह्म' इति वाक्येन जायमानज्ञानं प्रति प्रयोजकीभूतस्य दृष्टस्य प्रयोजनस्य 'अन्नं ब्रह्म' इत्यादिवाक्येनादर्शनात् । न द्वितीयः, अदृष्टस्य प्रयोजकत्वज्ञापकान्यथानुपपत्त्याद्यभावात् । तथा च अन्नादीनां ब्रह्मत्वोपदेश: 'आनन्दो ब्रह्म' इति वाक्येन जायमानब्रह्मज्ञानं प्रत्यप्रयोजक इति तदुपदेशस्यायुक्तत्वापरिहाराच्च ॥

चन्द्रिकानुवाद:_१

(चं.) न च 'सत्यं ज्ञानं' इति स्वरूपलक्षणेन ब्रह्मोपदिश्य पुनस्तस्य देहादिरूपताभ्रांतिमुत्पाद्य पुनरपि पुच्छवाक्येन तदुपदेशोऽर्थवान्, इति यत्,

रामसुब्ब_१४

(रा.) तन्न, सत्यमित्यादिना ब्रह्मस्वरूपावगमेऽपि अन्नमयादि-पंचकोशाधारत्वेन ब्रह्मस्वरूपभानार्थं देहादिरूपतोक्तिपूर्वकं पुच्छपदेन कोशाद्याधारतया ब्रह्मोपदेशस्यावश्यकत्वात् इति यत्

खण्डनं_१४

(खं.) तत्तुच्छं, त्वन्मते निर्विशेषज्ञानस्य मोक्षप्रयोजकत्वेन तस्य च त्वन्मतरीत्याऽखंडार्थबोधकेन सत्यमित्यादिवाक्येन जातत्वेन कोशाद्याधारत्वेन ब्रह्मस्वरूपज्ञानस्यानावश्यकत्वात् । तस्य भ्रमत्वेन मोक्षविरोधित्वाच्च । ब्रह्मणः देहादिरूपितोक्तिमन्तरा कोशाद्याधारत्वस्य वक्तुं शक्यत्वेन देहादिरूपताभ्रमजननस्यात्यंतमयुक्तत्वाच्च । आधाराधेयभावस्योत्सर्गतो भेदव्याप्तत्वेन ब्रह्मस्वरूपभानविरुद्धत्वाच्च ॥

चन्द्रिकानुवाद:_१

(चं.) न च द्वारोपदेशः प्रत्यक्प्रावण्यार्थः, कोशानां पराक्त्वात् परागुपदेशेन प्रत्यक्प्रावण्येऽतिप्रसंगात् । प्रत्यक्त्वेनारोपस्यानंदमये उत्तरानुवाकोक्तान्नादौ चाभावात् । आनंदमये अन्नादौ च ब्रह्मशब्दाश्रवणात्, इति यत्,

रामसुब्ब_१५

(रा.) तन्न, न हि पृथिव्या पृथिवी लक्ष्यते, किंतु तद्भिन्नेन गन्धे, तथा प्रत्यग्रूपवस्तुना प्रत्यग्रूपलक्षणासंभवात् तद्भिन्नेन पराग्रुपेणैव प्रत्यगुपलक्षणस्यावश्यकत्वात्, इति यत्,

खण्डनं_१५

(खं.) तत्तुच्छं, चन्द्रज्ञानार्थ चन्द्रदेशनेत्र देशमध्यवर्तिशाखाग्रोपदेशः तद्देशे इंद्रियप्रवण्यद्वारा चंद्राधिकरणतत्पुरोदेशे इंद्रियप्राण्या यथा क्रियते, न तु पूर्वदेशवृत्तिचंद्रज्ञानार्थ पश्चिमदेशवतिशाखाग्रोपदेशः तथा बहिर्देशे विषयादिषु संचलच्चित्तस्य प्रत्यम्ब्रह्मणि प्रावण्यार्थं तत्प्रयोजकोपदेश एव कर्तव्यः, न तु पराग्भूतान्नमयाद्युपदेशः अन्नमयादिषुदेहेषु चित्तस्य स्वत एव सत्त्वात् । तदुपदेशस्य प्रत्यग्ब्रह्मणि चित्तप्रावण्यप्रयोजकत्वाच्च । अन्यथा पूर्वदेशवृत्तिचंद्रज्ञानार्थ पश्चिमदेशवृत्तिशाखाग्रोपदेशस्यापि कर्तव्यतापत्तेरिति चंद्रिकाभिप्रायः, न तु तदेव तेनैव लक्षणीयमिति । एवं अर्थान्तरं परिकल्प्य दूषणाभिधानेन छलोत्तररूपत्वात् चंद्रिकाभिप्रायाज्ञानमूलत्वाद्वा त्वदुत्तरमुपेक्षणीयमेवेति ॥

चन्द्रिकानुवाद:_१

(चं.) तत्रत्यानां' अन्नादीनामन्नमयादित्वे च तत्रत्यस्त्वया ब्रह्मत्वेन स्वीकृतः आनन्दोप्यानंदमयः स्थानप्रमाणात्, इति यत्,

रामसुब्ब_१६

(रा.) तन्न, 'अन्नमयप्राणमयमनोमय विज्ञामयानंदमया मे शुध्यंताम् ' इत्यत्रापि पंचमस्थानत्वासाम्यादानंदमयस्य ब्रह्मत्वापत्तेः । तत्र शोध्यत्व सूचिताशुद्धिसंबंधात् तस्य ब्रह्मत्वसंभवे आनंदवल्लामपि प्रियमोदाद्यवयवकत्वरूपजीवलिंन्गसंबंधात् ब्रह्मत्वासंभवात् इति यदुक्तं,

खण्डनं_१६

(खं.) तत्तुच्छं, चंद्रिकावाक्यार्थाज्ञानमूलत्वात् । तथा हि--उत्तरानुवाकोक्तान्नादौ च प्रत्यक्त्वेनारोपस्याभावात्' इति पूर्ववाक्ये'न्नं प्राणं चक्षुः श्रोत्रं' इत्याद्युक्तान्नादौ ब्रह्मपदाश्रवणात् प्रत्यक्त्वारोपभावेन पराग्भूतान्नादीनां प्रत्यक्त्वमिव प्रत्यक्त्वेन ज्ञानत्वमपि नास्तीति न तदुपदेशेन प्रत्यग्ब्रह्मणि मनःप्रावण्यमित्युक्ते, उत्तरानुवाकोक्तान्नादीनां ब्रह्मवल्लयुक्तान्नयादीनामैक्येनान्नमयादिषु 'अन्नं ब्रह्मेतिव्यजानात्' इति ब्रह्मत्वोक्त्या प्रत्यक्त्वारोपात् अन्नादिषु अपि प्रत्यक्त्वरोपः प्राप्त एवेति वस्तुतः पराग्भूतानामपि अन्नादीनां प्रत्यक्त्वेनारोपविषयत्वात् प्रत्यग्ब्रह्मणि मनःप्रावण्यार्थं तदुपदेशो भविष्यतीति पुनः मायिना शंकिते, अन्नादीनामन्नमयादित्वे मीमांसकमतसिद्धस्थानप्रमाणेनानन्दोऽपि आनंदमयः स्यात्, तथा चानंदमयस्याब्रह्मत्वेन त्वयांगीकृतत्वात् आनन्दोऽपि अब्रह्म स्यात्, तथा चानन्दो ब्रह्मेति त्वन्मतभंग: स्यात् इति हि चंद्रिकाकारैः आनंदस्यानंदमयत्वापादनद्वारा आनंदस्याब्रह्मत्वमेवापादिते, न तु आनंदस्य ब्रह्मत्वात् आनंदमयोऽपि ब्रह्म स्यादिति । 'अन्नादीनामन्नमयादित्वे आनंदोऽप्यानंदमयः स्यात्' इति चन्द्रिकावाक्यात्तथा स्पष्टं प्रतीतेश्च । आनंदमयस्य ब्रह्मत्वापादनं नास्य वाक्यस्यार्थ इति बालानामपि प्रतीतेः चंद्रिकावाक्यार्थस्याज्ञानदोषेणानंदमयस्य ब्रह्मत्वं आपादितं चंद्रिकाकृद्भिरिति भ्रान्त्वा तथाऽनूद्य 'अन्नमयप्राणमयमनोमयविज्ञानमयानंदमयस्य ब्रह्मत्वापत्तेरित्यादिदूषण कथनमिति ||

चन्द्रिकानुवाद:_१

(चं.) अज्ञातधर्मतत्त्वं 'चैत्यवंदनादि धर्मः' इति मन्वानं प्रति 'चैत्यवंदनादि धर्मः' इत्युपदिश्य 'ज्योतिष्टोमादि धर्मः' इति यथा नोपदिश्यते, तथाऽज्ञातब्रह्मतत्त्वं 'अन्नामयादिकं ब्रह्म' इति भ्रांतं प्रति 'अन्नमयादिकं ब्रह्म' इत्युपदिश्य आनंदो ब्रह्मेति वा पुच्छं ब्रह्मेति वा उपदेशायोगः, इति यत्,

रामसुब्ब_१७

(रा.) तन्त्र, धर्मस्य ब्रह्मण इवात्यंतं दुर्ज्ञानत्वाभावेन तथोपदेशासंभवेऽप्यत्यन्त दुर्ज्ञेयस्य ब्रह्मणो यथायथोपदेशे विज्ञेयत्वं संभवति, तथा तथोपदेशसंभवात् इति यदुक्तं,

खण्डनं_१७

(खं.) तत्तुच्छं, अन्नमयादेर्ब्रह्मत्वोपदेशस्य ब्रह्मज्ञानं प्रति प्रयोजकत्वाभावस्य प्रयोज्यत्वेन त्वदभिमतनिर्विशेषज्ञानस्य सत्यमित्यादिनैव जातत्वेन अन्नाद्युपदेशानंतरमपि कर्तव्येन 'पुच्छं ब्रह्म, आनंदो ब्रह्म' इत्याद्युपदेशेनैव ब्रह्मज्ञानसिद्धेरन्नादेर्बह्मत्वोपदेशस्य व्यर्थतायाश्च पूर्वमेवोक्तत्वात् ।

चन्द्रिकानुवाद:_१

(चं.) किं च निरवयवे चित्तप्रावण्यार्थं निरवयवांतरमेवोपदेष्टव्यं, न तु 'अयं दक्षिण: पक्ष:' इति सावयवं इति यत्,

रामसुब्ब_१८

(रा.) तन्न, निरवयवेन निरवयवलक्षणायोगेन सावयवेनैव तदुपलक्षणावश्यकत्वात् । अन्यथा घटेन घटोपलक्षणापत्तेः, इति यत्,

खण्डनं_१८

(खं.) तत्तुच्छं, चित्तस्य प्रावण्यं नाम अन्यविषये विद्यमानस्य मनसः तद्विषयत्वसंपादनम् । यथेतस्ततस्संचरतो मनस: चंद्रविषयकत्वार्थं चंद्रप्रदेशवर्तिशाखाग्रोपदेशा क्रियते, तयोर्द्वयोः पुरोदेशवृत्तित्वेन साजात्यात् न तु पश्चिमदेशवृत्तिशाखाग्रोपदेशः, एवं उपदेश्यज्ञाप्यवस्तुनोः साजात्यस्यावश्यकत्वात् अन्नमयादीनां ब्रह्मणश्च सावयवत्वनिरवयवत्वाभ्यां विजातीयत्वाद्ब्रह्मणि चित्तप्रावण्यार्थं न विजातीयमुपदेष्टव्यं, किंतु सजातीयं निरवयववांतरमेवेति चंद्रिकाभिप्रायः, न तु तेनैव तदिति । तथा च घटेन घटोपलक्षणापत्तेरिति दूषणस्य चंद्रिकाभिप्रायाज्ञानविजृम्भितत्वात् ॥

चन्द्रिकानुवाद:_१

(चं.) अपि च न तावदन्नादीनां वा प्राणादीन् प्राणमयादीत्वा प्रति द्वारत्वं अन्नादिज्ञानं विनापि प्राणादिज्ञानात्। ब्रह्मणि द्वारत्वे अन्नादिपूर्वकं प्राणाद्युपदेशो न युक्तः । अनेकद्वारवैय्यर्थ्यं च। न च द्वारविकल्पः उत्तरानुवाके 'अन्नं ब्रह्मेति व्यजानात्, मनो ब्रह्मेति व्यजनात्' इत्यादिना अन्नप्राणादिद्वारसमुच्चयोक्तेः इति यत्,

रामसुब्ब_१९

(रा.) तन्न, यस्य पुरुषस्यैकेनोपलक्षणेनोपलक्ष्यस्वरूपं सम्यग्ज्ञायते तं प्रत्येकस्योपलक्षकत्वसम्भवेऽपि यस्य चतुर्भिरेव सम्यगुपलक्ष्यज्ञाने तं प्रति चतुर्णामुपलक्षकत्वोक्तिसम्भवात् पुरुषमतिवैविध्यस्य सर्वैरङ्गीकार्यत्वात् इति यदवादि,

खण्डनं_१९

(खं.) तत्तुच्छं, ब्रह्मरूपोपलक्ष्यस्य निर्विशेषत्वेन निरंशत्वेन च कैश्चिद्धर्मेज्ञानं कैश्चिद्धमैरज्ञानमित्यस्य, केनचिदंशेनं ज्ञानं केनचिदंशेनाज्ञानमित्यस्य वा असम्भवेन ब्रह्मज्ञाने सम्यक्त्वासम्यक्त्वयोरयोगेन सम्यग्ज्ञानार्थं चतुर्णामुपलक्षकत्वोक्तेरयुक्तत्वात् पुरुषमतिवैविध्येऽपि ब्रह्मविषयकमतौ त्वन्मतरीत्या वैविध्याभावात् ॥

चन्द्रिकानुवाद:_२०

(चं.) अपि च 'यतो वै' इत्यादि वाक्योक्तकारणत्वस्यापि त्वत्पक्षे ब्रह्मणि द्वारत्वात् कोशानां च कारणत्वे द्वारत्वाभावात्कोशोपदेशवैयर्थ्यम्, इति यदवादि,

रामसुब्ब_२०

(रा.) तन्न, यस्य पुरुषस्य कारणत्वमात्रेण ब्रह्मोपलक्षणं न जातं, तं प्रति कोशानामप्युपलक्षकत्वोक्त्यावश्यकत्वात् इति यत्,

खण्डनं_२०

(खं.) तत्तुच्छं, 'आनन्दो ब्रह्म' इत्युपदेशेन जायमानज्ञानं प्रति कारणत्वोपदेशस्य वा अन्नादीनां ब्रह्मत्वोपदेशस्य वा प्रयोजकत्वाभावादित्युक्तत्वात् । प्रयोजकत्वांगीकारे तु तयोर्विशेषाभावेन एकेन ज्ञानं भवति अन्येन न भवतीति विशेषकल्पकाभावात् ॥

चन्द्रिकानुवाद:

(चं.) कि च भृगुर्वरुणोपदिष्टानां द्वारत्वं न वेत्ति चेद्विरोचनस्येव पुनरुपसत्त्ययोगः । वेत्ति चेत् 'नान्नं ब्रह्मेति व्याजानात् नान्नाद्धयेव' इत्यादि श्रूयेत । तस्मादन्नमयादयो ब्रह्मैव न कोशाः, इति यत्,

रामसुब्ब_२११

(रा.) तन्न, असुरजातेर्विरोचनस्य पापवशाद्वारत्वाज्ञनेन पुनरुसत्त्यभावेऽपि देवजातेः भृगोः पुण्यवशादन्ने द्वारत्वज्ञानात् तदुपसत्त्युपपत्तेः इति यत्,

खण्डनं_२१

(खं.) तत्तुच्छं, भृगुः वरुणोपदिष्टानां अन्नादीनां द्वारत्वं न जानाति किं वा जानाति । यदि द्वारत्वं न जानाति, अन्नादीनि ब्रह्मैवेति जानाति, तदानीं चक्षुरन्तस्स्थप्रतिबिंबस्य ब्रह्मत्वज्ञानेन विरोचनस्य पुनरुपसत्त्यभाववत् भृगोरपि पुनरुपसत्त्ययोगः । द्वारत्वं जानाति चेत्, 'नान्नं ब्रह्मेति व्यजानात्, नान्नाद्ध्येव खल्विमानि भूतानि जायन्ते' इति वाक्यविन्यासः स्यात् इति पक्षभेदेन चंद्रिकाकारैर्दोषस्योक्तत्वेन देवजातेः भृगोर्द्वारत्वज्ञानं भवतीति द्वितीयपक्षस्वीकारेण प्रथमपक्षोक्तदोषाभावेऽपि 'नान्नं ब्रह्मेति व्यजानात्' इत्यादि वाक्यविन्यासापत्तिरूपस्य द्वितीयपक्षोक्तदोषस्य परिहारानुक्तेः। अद्वैतिमते सर्वेषां चिद्रूपत्वेन तारतम्याभावात् देवत्वासुरत्वनिमित्तोपाधीनां च कल्पितत्वेनारोपितरजतद्वय इव विशेषाभावात् एकस्य ज्ञानं एकस्याज्ञानं इत्यादिविशेषस्यायोगाच्च ॥

चन्द्रिकानुवाद:_२२

(चं.) "भृगुर्वे वारुणिः इत्युत्तरानुवाके उक्तानां अन्नादीनां ब्रह्मत्वं तावदुपेयं, 'भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठितां' इति श्रुत्या स्वयमेव ब्रह्मपरत्वोक्तेः, 'अधीहि भगवो ब्रह्मेति' ब्रह्मप्रश्नोत्तरत्वात् । स तपस्तप्त्वा अन्नं ब्रह्मेति व्यजानात्' इति श्रवणानंतर भाविनिदिध्यासनाख्यतपसाऽपरोक्षीकृतत्वलिंगात् । 'अन्नं ब्रह्म' इत्यादिब्रह्मशब्दात् । 'अन्नाद्धयेव खल्विमानि भूतानि जायन्ते' इत्यादि ब्रम्हलक्षणाच्च । तत्समाख्यया चात्राप्यन्नमयादीनां ब्रम्हत्वमिति, यत्,

रामसुब्ब_२२

(रा.) तन्न, अन्नप्राणमनोद्वारकप्रतिपत्तिविषयस्यानंदस्य ब्रह्मत्वे'भार्गवी वारुणी' इत्युक्तविद्यायाः परमव्योमशब्दितब्रह्मनिष्ठत्वोपपत्तेः । 'राजा गच्छति' इत्युक्ते सपरिवारस्य राज्ञो गंतृत्वप्रतीतिवत् 'अधीहि भगवो ब्रह्म' इत्यत्र ब्रह्मप्रतिपत्तिहेतुभूतद्वाररूपपदार्थपरिकरोपेतस्य ब्रह्मणोऽध्यापनीयत्वप्रतीत्याऽन्नप्राणादिरूपद्वारोपदेशस्यापि प्रश्नानुगुणत्वात् ।स तपस्तप्त्वा अन्नं ब्रह्मेति व्यजानात्" इत्यस्य सः भृगुः तपः आलोचनं 'तप आलोचने' इति वचनात्, अन्नादेर्ब्रह्मजन्यत्वेन तस्य साक्षाद्ब्रह्मत्वासंभवेन ब्रह्मप्रतिपत्तिद्वारतयाऽस्य ब्रह्मत्वमित्यालोचनाकारः तप्त्वा तादृशालोचनं कृत्वा अन्नं ब्रह्म अन्नस्य ब्रह्मजन्यत्वात्कार्येण कारणानुमानमिति रीत्याऽन्नं ब्रह्मप्रतिपत्तिसाधनमिति व्यजानात् इति ज्ञानं प्राप्तवानित्यर्थकतया भवदभिमतान्नब्रह्मत्वासाधकत्वात् । अन्नं ब्रह्म' इति ब्रह्मशब्दस्य 'शाखाग्रं चन्द्र:' इति शाखायां चंद्रशब्दश्रवणेऽपि चन्द्रत्वासाधकत्ववदन्ने ब्रह्मत्वासाधकत्वात् । "अन्नाद्धयेवखल्विमानि भूताति जायन्ते" इति ब्रह्म लक्षणस्य "तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत, तदैक्षत बहु स्यां प्रजयेयेति तदपोऽसृजत" इत्यादौ तेजआद्यचेतनेषु बहुभवन सङ्कल्पपूर्वक स्रष्टृत्वरूप ब्रह्मलिंगस्योपचारेण निर्देशवदचेतनेऽन्न उपचारेण निर्देशात् तेन निर्देशेनान्नस्य ब्रह्मत्वसिद्धेः । तत्र तेजआदिपदस्य दन्तर्यामिब्रह्मपरत्वेऽन्नादिशब्दस्याप्यन्नाद्यंतर्यामिब्रह्मपरत्वमेवापद्यते । न च तन्माध्वानामिष्टं, न्नादीनां रामकृष्णादिवत् साक्षाद्ब्रह्मत्वस्य तैरुक्तत्वादिति, यदुक्तम्,

खण्डनं_२२

(खं.) तत्तुच्छं, अन्नप्राणादीनां ब्रह्मप्रतिपत्ति प्रति प्रयोजकत्वस्य खण्डितत्वेनान्नादीनां द्वारत्वाभावात् ब्रह्मत्वस्याप्यभावेअन्नं प्राणं चक्षुः श्रोत्रं" इत्यादेः ब्रह्मविद्यात्वाभावप्रसंगेन "भार्गवी वारुणी विद्या" इति उक्त ब्रह्मविद्यात्वविरोधस्य दुष्परिहरत्वात् । अन्नप्राणादीनां ब्रह्मप्रतिपत्तिप्रयोजकत्वाभावादेव ब्रह्मप्रतिपत्तिपरिकरत्वाभावात् तदुक्तेः प्रश्नाननुगुणत्वापरिहारात्। "अन्नं ब्रह्मेति व्यजानात्" इति वाक्येन अन्नब्रह्मशब्दयोः सामानाधिकरण्यादिना अन्नविशेष्यक ब्रह्मत्वप्रकारकज्ञानाश्रय इत्येव स्वरसतः प्रतीतेः 'अन्नं ब्रह्म' अन्नस्य ब्रह्मजन्यत्वात् कार्येण कारणानुमानमिति रीत्याSन्नं ब्रह्मप्रतिपत्तिसाधनं इति व्यजानात् इति ज्ञानं प्राप्तवान् इत्यर्थस्याभावात् लक्षणादिना तथार्थकत्वे "आनन्दो ब्रह्मेति व्यजानात्" इत्यपि आनन्दस्य ब्रह्मजन्यत्वात् कार्येण कारणानुमानमितिरीत्या आनन्दः ब्रह्म प्रतिपत्तिसाधनं इति ज्ञानं प्राप्तवानित्यर्थकत्वापत्तेः, उभयोर्वाक्ययोरविशेषात् । शाखाग्रं चंद्र इत्युपवेशस्येवाभावेन शाखायां चन्द्रशब्दश्रवणात्तद्दष्टांतेन ब्रह्मशब्दस्य ब्रह्मत्वासाधकत्वोक्तेरयुक्तस्वात् । अन्नादिषु श्रुतस्य ब्रह्मशब्दस्य ब्रह्मत्वासाधकत्वे पुच्छादिषु श्रुतानां ब्रह्मशब्दानां ब्रह्मत्वासाधकत्वापत्तेर्विशेषाभावात् । परमात्मना सृष्टा तेजोभिमानिदेवता अबभिमानिदेवतामसृजत् इति यत्किचिद्वस्तु प्रत्येव कारणत्वं । तदपि "सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इत्युत्तरवाक्यानुसारेणेश्वराधिष्ठिततया ईश्वरनियम्यतयैव न स्वतन्त्रतयेति "तदैक्षत बहुस्यां प्रजायेयेति । तदपोऽसृजत" इत्यादिषु ब्रह्मलक्षणीभूत स्वतन्त्रसर्वकारणत्वस्यानुक्तत्वात् तस्योपचारिकत्वोक्तिः श्रुत्यर्थाज्ञानविजृम्भितैव। शांकरीयोपनिषद्भाष्येऽपि तेजआदिपदस्य तदन्तर्यामिपरमात्मपरत्वमेवांगीकृतं, न तु तेजआद्यचेतनपरत्वमङ्गीकृत्य तस्मिन् जगत्कारणत्वलक्षणस्य गौणत्वं । तस्मात् स्वातंत्रतया सर्वजगत्कारणत्वस्य तेजआदौ अप्रतिपादनात्तस्योपचारत्वोक्तेः कारणाभावात्तद्दष्टांतेनान्नादिषु श्रूयमाणकारणत्वस्यौपचारिकत्वोक्तेः असंगतत्वात् । निष्कारणं औपचारिकत्वांगीकारेयतो वा इमानि भूतानि जायन्ते आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते" इति श्रुतकारणत्वस्याप्यौपचारिकत्वांगीकारप्रसंगेन 'न यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरमुक्त्वाऽन्यतः प्रधानादचेतनात् अणुभ्योऽभावात्संसारिणो वा उत्पत्त्यादि संभावयितुं शक्यं' इति त्वदीयसूत्रभाष्ये तेन कारणत्वेनान्येषां व्यावृत्तिः कृताऽसमंजसा स्यात् । तेजआदिपदस्य तदन्तर्यामिब्रह्मपरत्वं नास्माभिः स्वीकृतमित्यन्नादिशब्दस्यान्नाद्यन्तर्यामिनपरत्वापादनमसंगतमेवेति ।

रामसुब्ब_२२२

(रा.) यत्त्वन्नमयादिपर्यायेषु श्लोकस्यान्नमयादिरूपावयविविषयत्ववदानन्दमयपर्यायेऽपि "असन्नेव स भवति" इति श्लोकस्यानन्दमयरूपावयविविषयत्वं वक्तुं युक्तं, न त्वानन्दमयावयवपुच्छविषयत्वमित्याशंक्य, तन्न, अन्नमयादिपर्यायश्लोकेष्वन्नमयादीनां यानि पुच्छानि तेषु निर्दिष्टशब्दानामिदं पदपृथिवीपदार्थवाङ्गिरसपदमह पदानामभ्यासार्शनेन तच्छोकानां पुच्छरूपावयवाविषयत्वं पुच्छाद्यवयव युक्तावयविविषयत्वं च स्वीकृतं । आनन्दमयपर्यायश्लोकेअसन्नेव स भवति" इत्यत्र "ब्रह्म पुच्छं प्रतिष्ठा" इत्यानन्दमयपर्यायपुच्छावयवप्रयुक्तब्रह्मपदस्याभ्यासदर्शनेनाऽऽनन्दमयपर्यायश्लोकस्याऽऽनन्दमयावयविविषयत्वपुच्छ- ब्रह्मविषयत्वयोरेव स्वीकार्यत्वात्, ब्रह्मशब्दाभ्यासस्य ब्रह्मणि तात्पर्यलिगत्वात् इति दूषणं यदुक्तम्,

खण्डनं_२२२

(खं.). तत्तुच्छं, चंद्रिकायां "असन्नेव स भवति" इति श्लोकस्याऽऽनन्दमयरूपावयविविषयत्वं वक्तुं युक्तं इत्यनुक्तत्वात् । उक्तावप्यानन्दमयस्योक्तरीत्या ब्रह्मत्वे सिद्धे ब्रह्मपदघटितश्लोकस्याप्यानन्दमयरूपावयविविषयकत्वे बाधकाभावाच्च ॥ चतुर्षु अवयविविषयतयोदाहृतत्वेन पञ्चमप्रकरणेऽप्यप्यवयविविषयताया एव प्रायपाठानुगुण्येन ग्राह्यत्वाच्च । आनन्दमयादीनां ब्रह्मत्वे मुख्यार्थलंघनस्याभावात्। पुच्छस्यैव ब्रह्मत्वमिति त्वत्पक्षे मुख्यार्थलंघनस्य सत्त्वात् । श्रुतिविरोधाभावात् न सूत्राणि अन्यथा व्याख्येयानि,

अनंतशाखा तत्वार्थविदा सूत्रकृतेरितम् ।

कूपमंडूकवत्स्वल्पवाक्यज्ञोऽन्यथयेत्कथम् ॥

पौरुषोयेषु सूत्रेषु स्वायत्ते शब्दप्रयोगे सर्वज्ञः सूत्रकारः किमर्थं श्रुतिविरोधभ्रांतिकरं सूत्रनिर्माणं कुर्यात् । तस्मात् सूत्रे सूत्रकर्तरि भगवतिच विद्वेषादेव सूत्राणामन्यथाकरणमिति ।

रामसुब्ब_२२३

(रा.) इदं तु बोध्यं-माध्यमते 'एवं धर्मान् पृथक् पश्यन्' इत्यादिश्रुत्यनुरोधेनान्नमयत्वप्राणमयत्वादिधर्माणां अन्नत्वप्राणत्वादिधर्माणामन्नमयादिशरीराणां च ब्रह्मात्यन्ताभिन्नतयाऽन्नमयोपदेशेन 'अन्नं ब्रह्मेति व्यजानात्' इत्यादिना ब्रह्मोपदेशज्ञानयोर्निष्पन्नतया प्राणमयाद्युपदेशस्य 'प्राणो ब्रह्मेति व्यजानात्' इत्यादेः, 'पुनरेव वरुणं पितरमुपससार' इत्यादेश्च वैयर्थ्यामसागत्यं च दुर्वारमेव, तत्तद्धर्मशरीराणां ब्रह्मात्यन्नाभिन्नतया धर्मभेदेन वा शरीरभेदेन वा पुनर्ब्रह्मोपदेशतज्ज्ञानयोर्वक्तुमयुक्तत्वादिति, यदुक्तं,

खण्डनं_२२३

(खं.) तत्तच्छं, यथा 'स्वे महिम्नि प्रतिष्ठितः' इत्यादावभेदेऽपि आधाराधेयभावनिर्वाहस्ततदसाधारणवस्तुस्वरूपापरपर्यायेण स्वभावविशेषेण, तथाऽन्नमवादिरूपाणामभेदेऽपि विशेषबलादेव पुनर्ब्रह्मोपदेशाज्ज्ञानयोः निर्वाहकरणात्, घटरूपयोरभेदेऽपि घटस्य ज्ञाततायाः रूपस्याज्ञाततायाः स्वभावविशेषेण त्वया निर्वाहस्य कृतत्वात् ।

ॐ आनन्दमयोभ्यासात् ॐ

सिद्धान्ते अधिकरणस्वरूपं तु- "तस्माद्वा एतस्माद्विज्ञानमयादन्योंतर आत्माऽऽनन्दमयःइति तैत्तिरीयश्रुतावानन्दमयशब्दप्रतिपाद्यः विषयः किं चतुर्मुखः कि रुद्रः fक जीवः किं वा विष्णुरिति संदेहः । आनंदमयः चतुर्मुखो भवेत्, चतुर्मुखवाचकशतानन्दशब्दसमानार्थक शब्दप्रतिपाद्यत्वात् । रुद्रो वा भवेत्, रुद्राधिकरणसूर्याधारत्वात् । जीवो वा भवेत्, जीवाभिमन्यमानान्नमय कोशप्रायपठितत्वात् । न तु विष्णुः तस्याविकारित्वेन मयडंतशब्दबोध्यानन्द विकारित्वासंभवादिति पूर्वपक्षे, तस्य च 'सोकामयत' इति जगत्कारणत्वोक्त्या न ब्रह्मणः जगत्कारणत्वं लक्षणं सम्भवतीति प्राप्ते आनन्दमयशब्दप्रतिपाद्यः विष्णुरेव, विष्णावसाधारण ब्रह्मशब्दस्यासात् । न च विकारार्थकमयडंतानन्दशब्दवाच्यत्वं न संभवतीति वाच्यं मयटः प्राचुर्यार्थत्वात् । न च विकारार्थमयडतान्नमयादिप्रायपाठविरोधः, अन्नमयादिष्वपि विष्ण्वसाधारणानां ब्रह्मशब्दादीनां सत्वेन तेषामपि विष्णुत्वेन तद्गतमयटामपि प्राचुर्यार्थत्वात् । आनन्दमयस्य ब्रह्मत्वे तदवयवस्य 'ब्रह्मपुच्छं प्रतिष्ठा' इति ब्रह्मत्वोक्तिविरुध्यते इति न शक्यं, ब्रह्मावयवावयविनोरभेदादिति यत्,

रामसुब्ब_२२४

(रा.) तन्न अन्नमये 'अन्नात्पुरुष:' इति जन्यत्वोक्त्या न जिज्ञास्यब्रह्मत्वं इति पूर्वपक्षोत्थान संभवात्तत्सूचनार्थं प्रथमानतिक्रमणार्थं च सूत्रेऽअन्नमयस्यैव निर्देष्टव्यतया पंचानां ब्रह्मत्वपक्षे चरमस्यानन्दमयस्य निर्देशानुपपत्तेः । किचान्नमयस्य ब्रह्मत्वसाधने ब्रह्मशब्दाभ्यासरूप हेत्वसिद्धिश्च, अन्नमयपर्याये 'येऽन्नं ब्रह्म' इति सकृदेव ब्रह्मशब्दश्रवणात् । न चाभ्यासस्यात्मशब्दवियत्वं, आत्मशब्दश्च 'आनन्दमयमात्मानमुपसंक्रामति, अन्नमयमात्मानमुपसंक्रम्य' इत्यादावन्नमयेऽप्यभ्यस्त इति वाच्यं, अभ्यासस्यात्मशब्दविषयत्वे

असन्नेव स भवति असदब्रह्मेति वेद चेत् ।

इत्यादौ ब्रह्मशब्दाभ्यासात्' इति भवद्भाष्यविरोधप्रसङ्गात् । न च 'ब्रह्मशब्दाभ्यासात्' इत्यादि मध्वभाष्यस्थ 'ब्रह्मशब्द' इत्यस्य ब्रह्मवाचकशब्द इत्यर्थः । स च शब्दः आनन्दमयपर्याये ब्रह्मशब्दः, अन्यपर्यायेष्वात्मशब्द इति शंक्यं, 'तदेव ब्रह्म परमं कवीनां 'एतमेवब्रह्मेत्याचक्षते'

ब्रह्मशब्द: परे विष्णौ नान्यत्र क्वचिदिष्यते ।

असंपूर्णाः परे यस्मादुपचारेण वा भवेत् ।

ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ।

वासुदेवात्मकं ब्रह्म मूलमात्रेण वा यतिः ॥

इत्यादिषु तस्मिन्नेव प्रसिद्धब्रह्मशब्दाभ्यासात्' इति मध्वभाष्यपर्यालोचने काररेफादिघटित समुदायात्मक ब्रह्मशब्दस्यैवाभ्यासः इत्यवगमेन तद्विरोधप्रसंगेनात्मशब्दाभ्यासस्य वक्तुंमशक्यत्वात् ।

वस्तुतस्तु - जयतीर्थ कृततस्वप्रकाशिकायां 'एकप्रकारासकृदुक्तिरभ्यासः' इत्युक्तत्वेन 'असद्ब्रह्मेति वेद चेत् इत्यादाव सदस्तित्वप्रकारकशब्दाभ्यासस्याप्येकप्रकाराभ्यात्वाभावेन भाष्ये ब्रह्मशब्दाभ्यासोक्तिरप्यसंगता इति यदभ्यधायि,

खण्डनं_२२४

(खं.) तत्तुच्छं, उपासनानुसारेण फलदातृत्वादानन्दरूपगुणस्य सर्वापेक्षितत्वेनानन्दपूर्णत्वेनोपासने ईश्वरः आनंदरूपं फलं ददातीति सर्वापेक्षितानन्दप्राप्तिफलकानन्दपूर्णत्वोपासनार्थं आनन्दपूर्णत्वज्ञानं प्रथममावश्यकमिति चरमस्याप्यानंदमयस्य प्रथमं निर्देश इति पूर्वाचार्यैरेवोक्तत्वादयमाक्षेपः पूर्वाचार्य ग्रन्थानवलोकन निबंधन एव। आनंदमय विज्ञानमययोर्ब्रह्म शब्दाभ्याससत्वात् तद्विवक्षया ब्रह्मशब्दाभ्यासो हेतु:, तु त्वन्नमयादिविवक्षया, येनासिद्धिः स्यात् । अत एवोक्तं भाष्ये येऽन्नं ब्रह्मेत्यादिरूयात्' इत्यत्र ब्रह्मशब्दादिति, क्वचिद्ब्रह्मशब्दाभ्यासादिति । टीकायामपि 'आनंदमये ब्रह्मशब्दाभ्यासात्' इति, 'अन्नमयादीन्प्रत्युदाहृतश्लोकेषु तद्विषयत्वेन ब्रह्मशब्दश्रवणात्' इति । अथवा 'ब्रह्मशब्दाभ्यासात्' इत्यस्य ब्रह्मवाचकशब्दाभ्यासादित्यर्थः । ब्रह्मवाचकात्मशब्दाभ्यासस्य पंचस्वपि विद्यमानत्वात् । न च 'तदेव ब्रह्म परमं कवीनां एतमेव ब्रह्मेत्याचक्षते, ब्रह्मशब्दः परे विष्णो' इतिभाष्यपर्यायलोचने ब्रह्म इत्यानुपूर्व्यवच्छिन्नस्य शब्दस्य प्रतिभासात् तद्विरोधप्रसंगेनात्मशब्दाभ्यासादिति वक्तुमशक्यमिति वाच्यं 'परं आत्मेति' आत्मशब्दस्यापि प्रमाणभाष्ये गृहीतत्वेन ' इत्यादिषु तस्मिन्नेव प्रसिद्धब्रह्मशब्दाभ्यासात् इत्यादिपदस्य स्थापितत्वेन,

यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।

यच्चास्य संततो भावस्तस्मादात्मेति भण्यते । इति,

आत्मशब्द: परे विष्णौ नान्यत्र क्वचिदिष्यते ॥

इत्यादिप्रमाणानामप्यादिशब्देन स्वीकार्यत्वेन त्वदीयभाष्यपर्यालोचनस्यैव भ्रमत्वात् । टीकायां 'एकप्रकारासकृदुक्तिरभ्यासः' इत्येवोक्तं, न तु अस्तित्वरूपैकप्रकारकब्रह्मशब्दाभ्यास इति । अतो भाष्ये ब्रह्मशब्दाभ्यासोक्तिः सङ्गतैवेति । तस्मात्,

ब्रह्मशब्दात्समस्तात्तृत्वादिलिंगाच्च वाक्यतः ।

पूर्वोत्तरस्मान्मंत्रस्थब्रह्मप्रकरणादपि ।

भृगुवल्लीसमाख्यानान्मुक्तगीतावसानकात् ।

स्थानप्रमाणतश्चैव पंचानां ब्रह्मणा स्थिता || इति

इति आनंदमयाधिकरणं समाप्तम्