ॐ अत एव प्राणः ॐ
: श्री :
॥ अथ प्राणाधिकरणम् ||
ॐ अत एव प्राणः ॐ
चन्द्रिकानुवाद:_१
(चं.) अद्वैतिनः, "प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता' इत्युपक्रम्य श्रूयते, "कतमा सा देवता प्राण इति होवाच । सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते' इति । तत्र प्राणशब्दः प्रसिद्धप्राणपर इति प्राप्ते, ब्रह्मपर एवायं, सर्वभूतसंवेशनादिब्रह्मलिंगादिति सिद्धान्तः । न चैवं पूर्वेणैतद्गतार्थमिति शङ्कयं, “यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः" इत्यादिश्रुतेः स्वापकाले प्रसिद्धप्राणे सर्वभूतसारेन्द्रियलयाद्युक्तिद्वारा सर्वभूतलयादिपरायाः प्रत्यक्षरूपमानांतरसंवादित्वेन प्रबलत्वात्, ब्रह्मणि भूतलयादिबोधिकायाश्च "यतो वा इमानि" इत्यादिश्रुतेस्तदननुगृहीतत्वेन दुर्बलत्वात् । प्रस्ताववाक्यमपि प्रबलानुसारेण प्रसिद्धप्राणे सर्वभूतलयादिपरं, न तु ब्रह्मणि सर्वभूतलयादिपरं । यद्वाप्रबलस्वापवाक्यानुसारेण प्रस्ताववाक्यमपि प्रसिद्धे प्राणे इन्द्रियमात्रलयादिपरम्, “आकाशाद्वायुः" इत्यादिवाक्ये तु न मानान्तरानुगृहीतमिति तदनुसारेण "सर्वाणि हवा इमानि भूतान्याकाशादेव" इति वाक्यं न वाय्यादि नात्र कारणभूताकाशपरमिति पूर्वस्मादधिकाशङ्कायां पुंवाक्ये मानांतरानुग्रहतदभावाभ्यां प्राबल्यदौर्बल्ये स्तः अपुंवाक्येऽनाशङ्कितदोषे न ताभ्यां ते स्त इति तन्निरासार्थत्वादस्येत्याहुः । तदुक्तं भामत्या-
पुंवाक्यस्य बलीयस्त्वं मानान्तरसमागमात् ।
अपौरुषेये वाक्ये तत्सङ्गतिः किं करिष्यति ।।
इति । तन्न, पूर्वपक्षे प्राणस्य जटवायुत्वे प्रश्ने "कतमा सा देवता" इति, प्रतिवचने च "सैषा देवता" इति देवताशब्दायोगात्, तदभिमानिचेतनत्वे च "वायुविकारस्य पंचवृत्तेः प्राणस्योपादानं युक्तं" इत्यादित्वत्पूर्वपक्षभाष्यविरोधादिति यदुक्तं,
रामसुब्ब_११
(रा.) तन्न, "हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि । तासां त्रिवृतं त्रिवृतमेकैकां करवाणि" इत्यादिश्रुतिषु अचेतने देवताशब्दस्यास्यामेवोपनिषदि असकृदुक्तत्वेन न चेतनैकान्तमिति मन्यमानपुरुषरीत्या पञ्चवृत्तित्रायुरत्र प्राणशब्देन ग्राह्य इति मत्वा पूर्वपक्षकरणादिति, यत् परेणोक्तं,
खण्डनं_११
(खं.) तत्तुच्छं, "तत्तेज एक्षेत, ता आप ऐक्षन्त" इत्यत्रेक्षणकर्तृत्वनिर्देशात् "तेजआदिशब्देन तदभिमानिदेवतैव व्यपदिश्यते" इति अभिमान्यधिकरणशाङ्करभाष्याच्च अचेतने देवताशब्दप्रयोगासिद्धेः देवताशब्दस्य चेतनैकान्तत्वाभावशङ्काया एवायोगेन, भामत्यां “अपि चोदगीथ प्रतिहारयोः सामभक्त्योर्ब्रह्मणोन्ये आदित्यश्चान्नं च देवते अभिहिते कार्यकारणसङ्घातरूप । तत्साहचर्यात्प्राणोऽपि कार्यकारणसङ्गतरूप एव देवता भवितुमर्हति" इति प्राणशब्दस्य देवतापरतायाः सम्भवकथनेन च तथामन्यमानपुरुषरीत्या पञ्चवृत्तिवायुरत्र प्राणशब्देन ग्राह्य इति पूर्वपक्षकरणायोगात् ॥
चन्द्रिकानुवाद:_२
(चं.) स्वापवाक्ये मानांतरसंवादस्यैवाभावेन तं स्वीकृत्य पूर्वोत्तरपक्षोक्त्ययोगाच्च । तथा हि
न हि स्वापे पृथिव्यादे रक्षाणां वा विनाशधीः ।
प्रत्यक्षादनुमानाद्वा देवतायां जडेऽथवा ॥ १ ॥
न तावत्स्वापकाले जडे देवतायां वा महाभूतानां लयादौ मानांतरसंवादः, तेषां स्वापकालेप्यलीनानामेवानुभवात् । दृष्टि सृष्टिमते च तदा वायुविकारादेरप्यभावेन तत्र भूतलयायोगात् । नापि स्वापकाले जडे वा देवतायां चेन्द्रियाणां लये प्रत्यक्षसंवादः, तेषामतींद्रियत्वात् । नापि स्वापकाले वायुवृत्तेरलोपादिद्रियवृत्तीनां च लोपात्तत्र तेषां लयोऽनुमीयत इत्यनुमानसंवादोऽस्तीति वाच्यं त्वया जन्मादिसूत्रे ब्रह्मण उपादानत्वेऽपि श्रुतिसंवाद्यनुमानानामुक्तत्वात् । यस्मिन् सव्यापारे सति यन्निर्व्यापारं तत्तत्र लीयत इति व्याप्तयभावाच्च ।
पूर्वेद्युर्येन दृष्टं तेनैव चक्षुषा पश्यामीत्यादिप्रत्यभिज्ञाविरोधाच्च । “यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते एवं हवै तत्सर्वं परे आत्मनि संप्रतिष्ठत" इति प्रक्रम्य "चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च" इत्यादिना चक्षुरादीनामनाशस्यैव श्रवणाच्च । भूतानामिद्रियाणां च स्वापकाले लयस्य प्रत्यक्षादिप्रमाणांतरसिद्धतोक्तिरयुक्तेति यदभिहितं,
रामसुब्ब_२१
(रा.) तन्न, सुप्तोत्थितस्य एतावन्तं कालं किमपि भूतं नादर्शनाश्रौषमिति प्रत्यवमर्शरूमप्रमाणेन सुप्तिकाले भूतादर्शनादेः सिद्धतया तददर्शनस्य निमित्तं वाच्यम् । तत्किं विषयस्य भूतस्य लीनतया तदभाव उत भूतदर्शनजनकस्येन्द्रियस्यलीनतया तदभावो वेति विमर्शे निनिगमकाभावात् भूतेन्द्रियोभयलयस्य च प्राणवृत्तिमात्रप्रधाने स्वापकाले प्रमाणान्तरवेद्यत्वोक्त्यविरोधात् । यस्मिन् गङ्गाप्रवाहे पूर्वद्युर्मया स्नानं कृतं तस्मिन्नेवाहं स्नास्यामीत्यादौ पूर्वपूर्वप्रवाहविनाशेऽपि तत्तज्जातीयोत्तरोत्तरचक्षुः प्रवाहाभिप्रायेण चक्षुरैक्यव्यपदेशोपपत्त्या चक्षुर्लयोक्त्यविरोधात् । वयसां संचरणकाले सव्यापारपक्षद्वयविशिष्टत्वावस्था या दृश्यते तादृतावस्थाया वासोवक्षकोटरावस्थानकाले विनाशवच्चक्षुद्रष्टव्यादीनामपि सूक्ष्मरूपेण ब्रह्मण्यवस्थानेऽपि स्थूलावस्थानाशस्य स्वापकालानुभूतस्यैव "यथा सोम्य वयांसि” इति श्रुत्युक्त्या तया चक्षुरादिलयाभावाप्रतीतेरिति यदुक्तं,
खण्डनं_२१
(खं.) तत्तुच्छम्, अद्वैतमतानुवादकाले सर्वभूतसारेन्द्रियलयायुक्तिद्वारा सर्वभूतलयादिपरायाः प्रत्यक्षरूपमानांतरसंवादित्वेन प्रबलत्वादिति त्वया संवादितया प्रत्यक्षस्योक्तत्वेन सूप्तोत्थितस्येत्यारभ्य 'प्रमाणांत रवेद्यत्वोक्त्यविरोधात्' इत्यन्तेन वाक्येन प्रत्यक्षस्य प्रमाणतयानुपन्यासात् । न चेदं वाक्यं इतरप्रमाणसंवादित्वज्ञापकमिति वाच्यं, त्वदीयवाक्यसूचितेतरप्रमाणस्याप्यासम्भवात् । तथाहि त्वदीयवाक्येन प्रतीयमानं प्रमाणं अर्थापत्तिर्वा अनुमानरूपं वा । नाद्यः, सुप्तिकाले भूतादर्शनस्य सिद्धत्वेऽपि लोके पदार्थादर्शनस्य विषयाभावेन वा विषयस्य विद्यमानत्वेऽपि इन्द्रियाभावेन वा विषयेन्द्रियोरुभयोः सतोरपि सन्निकर्षाभावेन वा प्रतिबन्धेन वा दृष्टत्वेन तद्वदेव भूतादर्शनस्यापि भूतनाशेन वा भूतस्य विद्यमानत्वेऽपीन्द्रियनाशेन वा भूतेन्द्रिययोरुभयोर्विद्यमानत्वेऽपि सन्निकर्षाभावादिना वा संभवेन भूतेन्द्रिययोरुभयोर्नाशं विनाऽनुपपत्त्यभावेन तयोर्नाशकत्वकल्पकत्वासम्भवात् । न च विनिगमकाभावादुभयलयसिद्धिरिति वाच्यं, दिवाऽभुञ्जानत्वे सति पीनत्वस्य विनिगमकाभावात् योगार्द्धरात्रभोजनोभयसाधकत्वप्रसंगात् । न द्वितीयः, स्वापकालः इद्रियभूतोभयलयवान् भूतदर्शनाभाववत्त्वात् इति हि अनुमानं वक्तव्यम् ॥
एतादृशानुमाने यः कालः यद्दर्शनाभाववान् स तद्दर्शनप्रयोजकेद्रियोभयलयवानिति सामान्यव्याप्तिर्वा यः कालः भूतदर्शनाभाववान् स भूतेन्द्रियोभयलयवानिति विशेषव्याप्तिर्वा वक्तव्या । नाद्यः, घटसत्ताकालीन चक्षू रहित पुरुष संबंधिघटदर्शनाभाववत्कालस्य घटलयाधिकरणत्वाभावेन घटनाशकालीनचक्षुष्मत्पुरुषकर्तृकघटदर्शनाभाववतः कालस्य घटतद्दर्शनप्रयोनकेन्द्रियोभवलयाधिकरणत्वाभावेन च व्यभिचारात् । न द्वितीयः, साध्यसाधनाधिकरणस्थलस्यैवाभावेन व्याप्तिग्रहाभावात् । इन्द्रियभूतोभयलयाभाववति इन्द्रियभूतान्यतराधिकरणकाले भूतदर्शनस्याभावेन व्यभिचारितया यः इन्द्रियभूतोभयलयाभाववान् स भूतदर्शनाभाववानिति व्यतिरेकव्याप्तेरप्यसंभवात् ॥
तुष्यत्विति न्यायेन स्वापकाले भूतेन्द्रिययोर्लय सिद्धयङ्गीकारेऽपि प्रसिद्धप्राणे लयासिद्धया "यदा वै पुरुषः स्वपिति प्राणं तहि वागप्येति प्राणं चक्षुः" इति श्रुतेः मानांतरसंवादित्वाप्राप्त्या बलवत्त्वासिद्धेः । प्रतिदिन मिद्रियणामुत्पत्तिविनाशाङ्गीकारे पूर्वेद्युर्येन चक्षुषा दृष्टं तेनैव चक्षुषा पश्यामि इत्यादिप्रत्यभिज्ञाविरोधोक्तौ चक्षुरैक्यव्यपदेशोपपत्त्येति व्यपदेशोपपत्तिकथनस्यासंमतत्वात् । यस्मिन् गङ्गाप्रवाहे पूर्वेद्युर्मया स्नानं कृतं तस्मिन्नेवाहं स्नास्यामीति व्यपदेशस्य प्रत्यक्षविरोधेन सादृश्यार्थकतया योजनेऽपि पूर्वेद्युर्येन चक्षुषा दृष्टमित्यादिव्यपदेशस्य प्रत्यक्षविरोधाभावेन सादृश्यार्थकतया योजनाऽसंभवाच्च । अन्यथा पूर्वोत्तरवस्तुनोरैक्य ग्राहक प्रत्यभिज्ञः देरपि सादृश्यादिविषयकत्वस्य वक्तुं शक्यत्वेन प्रत्यभिज्ञादिना क्षणिकत्वादिनिराकरणं न स्यात् । कस्मिन् सर्वे प्रतिष्ठिता भवन्तीति प्रथममन्त्रोक्त प्रश्नस्योत्तरभूतेन "स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठते एवं हवैत्सर्वं परे आत्मनि संप्रतिष्ठते" इति वाक्येन यथा पक्षिणः स्वावासस्थानभूतं वृक्षं संप्रतिष्ठते एवं खल्वेतत्सर्वं पृथिव्यादितत्वजातं परे परमात्मनि विष्णौ संप्रतिष्ठते तदाधारं सत् वर्तते इति सर्वेषामीश्वराधारतया स्थिति विधाय उत्तरवाक्ये "पृथिवि च पृथिविमात्रा च चक्षुश्च द्रष्टव्यं च" इत्यादिना सर्व पदार्थस्य विवरणादिति । अस्यां श्रुतौ पक्षिणां वा इन्द्रियाणां वा लयस्याकथनात् । प्रत्युत 'संप्रतिष्ठते' इति स्थितेरेव कथनात् । सव्यापारपक्षद्वयविशिष्टत्वावस्था दृश्यते तादृशावस्थाया वासोवृक्षकोटरावस्थानकालेऽभावमात्रेण पक्षिणां नाशाङ्गीकारे संवरणकालेऽपि निर्व्यापारपक्षद्वयविशिष्टावस्थाया अभावेन पक्षिणां नाशाङ्गीकारप्रसंग्गस्य भोजनकाले भाषणकाले च भोजनाद्यभावविशिष्टावस्था या अभावेन पुरुषो नष्ट इति व्यवहारस्य चापत्तेः । चक्षुरादीनामेतादृशल्यस्य सर्वदा सत्त्वेन "यदा वै पुरुषः स्वपिति" इति कालविशेषकथनस्यायुक्तत्वापत्तेश्च । "परे आत्मनि सम्प्रतिष्ठते" इत्युक्त्या प्राणे इंद्रियलयकथनस्यायुक्तत्वाच्च ॥
चन्द्रिकानुवाद:_३
(चं.) कि चाकाशाद्वाय्वाद्युत्पत्तिरपि मानांतरसंवादिनी, आकाशात्पवनस्य पवनाच्च फूत्काराद्दहनस्य दहनाच्चोष्मतः स्वेदस्य वृष्टितश्च पार्थिवपदार्थनामुत्पत्तेर्दर्शनात् इति नाकाशवाक्यात्प्राणवाक्येऽधिकाशंकेति यदुक्तं,
रामसुब्ब_३१
(रा.) तन्न, यथा संचिकाधारितवस्त्रं प्रति संचिकाया आधारत्वमात्रं न तु वस्त्रं प्रति जनकत्वं, तथाकाशावस्थितपवनं प्रति आकाशस्य प्रत्यक्षादिनाऽऽधारत्वमात्रावगमेऽपि आकाशस्य तज्जनकत्वानवगमेनाssकाशवाक्यस्य मानांतरानुगृहीतत्वासंभवादिति यत्परेणोक्तं,
खण्डनं_३१
(खं.) तत्तुच्छं, च्छान्दोग्ये "तत्तेज ऐक्षत बहुस्यां प्रजायेयेति, तदपोऽसृजत तस्माद्यत्र क्व च शोचिति स्वेदते वा पुरुषः तेजस एव तद्धयापो जायन्ते" इति "अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवति अद्भय एव तद्धयन्नाद्यं जायते" इति च अबादीनां तेज आदिकार्यत्वे लोकानुभवस्य दर्शितत्वेन अवकाशाभावे पवनोत्पत्तरननुभवेन आकाशस्य पवनं प्रति आधारत्वमात्र कल्पने नियामकाभावान्मानांतरानुगृहीतत्त्वासंभवात् ॥
चन्द्रिकानुवाद:_४
(चं.) "कतमा देवतोद्गीथमन्वायत्ता आदित्य इति होवाच" इत्यादिना उद्गीथादावादित्यादेरब्रह्मण एव देवतात्वेनोक्तत्वात्तत्सन्निहिते प्रस्तावेऽब्रह्मण एव देवतात्वमित्यधिकाशङ्केत्यद्वैत्युक्तमयुक्तं, पूर्वाधिकरणेपि "अपां कागतिरिति असौ लोक इति होवाच" इत्यादिकेनाब्रह्मण एव गतित्वेनोक्ततया तत्सन्निधानात् “अस्य लोकस्य का गतिः" इति वाक्येप्याकाशस्याब्रह्मत्वं युक्तमिति साम्यादिति यदुक्तं,
रामसुब्ब_४१
(रा.) तन्न, "अन्तवद्वै किल ते दाल्भ्य साम" इत्यादिना अन्तवद्गतिरूप लोकानां निदापूर्वकं "अस्य लोकस्य कागतिराकाश इति होवाच" इति प्रश्नप्रतिवचनयोः प्रवृत्तत्वेन निंदिताब्रह्मगतिसन्निधानस्याकाश वाक्यगताकाशाब्रह्मत्वाप्रयोजकत्वात् । प्रत्युतांतवत्त्वशून्यं ब्रम्हैवाकाश इत्यर्थं प्रत्येव प्रयोजकत्वाच्च आकाशप्राणवाक्ययोस्तौल्याभावादिति यत्,
खण्डनं_४१
(खं.) तत्तुच्छम्, अन्तरिक्षलोकस्य "अप्रतिष्ठितं वै किल" इति निन्दापूर्वकं उक्तस्यापि पृथिवीलोकस्य अब्रह्मत्वमिव तन्निन्दापूर्वक मुक्तस्याप्याकाशस्याब्रह्मत्वसंभवात् । पूर्वनिन्दाया उत्तरस्य ब्रह्मत्वं प्रत्यप्रयोजकत्वात् । अन्यथा पृथिवीलोकस्य बह्मत्वापत्तेः । पूर्वनिन्दापूर्वक मुक्तस्यापि अन्तवत्त्वेन तादृशाकाशस्याप्यंतवत्त्वे भाधकाभावेनाकाशप्राणवाक्ययोः साम्यानपायात् ॥
ॐ अत एव प्राणः ॐ अत्राध्यात्मिकप्राणादिशब्दसमन्वय उच्यते "तद्वै त्वं प्राणोऽभवः महान्भोगः प्रजापत्तेः भुजः करिष्यमाणः" इति विषयवाक्यम् । अत्रापि प्राणशब्दप्रवृत्तिनिमित्तं जीवनादिहेतुत्वमन्वयव्यतिरेकाभ्यां प्राणशब्दार्थत्वेन प्रसिद्धस्य वायोरेवेति स एव प्राणशब्दवाच्यो न तु विष्णुरित्याद्यधिकाशङ्कानिरासेन पूर्वन्याय एवातिदिश्यत इत्याति-देशिकीसङ्गतिः । भूताकाशस्य त्ववकाशहेतुत्वेऽन्वयव्यतिरेकौ न स्तः, परिच्छिन्नस्य तस्याभावेऽपि क्वचिदवकाशदर्शनात् । अत्र प्राणः मुख्यवायुरुत ब्रह्मेति चिंता । तदर्थं किं प्राणश्रुतिप्रसिद्धयनुसारेण श्रीपतित्वादिलिंगं बाध्यं किं वा विपरीतमिति । तदर्थं प्रसिद्धिबाधे श्रुतेर्मुख्यत्वहानिरुत नेति । तदर्थं प्राणशब्दप्रवृत्तिनिमित्तं जीवनहेतुत्वं कि ब्रह्मणि नास्ति उतास्तीति ? तदर्थं कि जीवनंमुख्यप्राणान्वयव्यतिरेकानुविधायि उत्तेश्वरान्वव्यतिरेकानुविधायीति । पूर्वपक्षस्तु--"तद्वैत्वं प्राणः" इत्यत्रोक्तः प्राणः मुख्यवायुरेव, न विष्णुः। प्राणशब्दप्रवृत्तिनिमित्तस्य जीवनहेतुत्वस्य वायावेवसम्भवात् । सर्वगते ब्रह्मणि जीवनान्वयतिरेकाभावेनासम्भवादिति ।
सिद्धान्तस्तु--वायुवृत्तिर्यथा मुख्यप्राणदेहस्तथैव स विष्णोर्देहः । ततस्तस्यैवान्वयव्यतिरेकिता। "तद्वैत्वं प्राणः" इत्यत्रोक्तप्राणः विष्णुरेव । श्रीलक्ष्मीपतित्वादिलिङ्गात् । प्राणश्रुते: “प्राणस्य प्राणः" इत्यादौ ब्रह्मणि प्रयोगेन प्राणशब्दप्रवृत्तिनिमित्तस्य जीवनहेतुत्वस्याधिकरणतया, स्वामितया वा विष्णोस्सम्भवेन च सावकाशत्वात्। श्रीलक्ष्मीपतित्वादिलिङ्गस्य निरवकाशत्वात्। निरवकाशलिङ्गेन सावकाशायाश्श्रुतेः बाधादिति, चन्द्रिकाभिप्रायोपरि,
रामसुब्ब_४२
(रा.) तन्न, "तद्वैत्वं प्राणोऽभव:" इत्यत्रास्मिन् वाक्ये भवदुक्तलक्ष्मीपतित्वरूप विष्ण्वसाधारणलिङ्गादर्शनात् । पूर्ववाक्ये लक्ष्मीपतित्वलिङ्गसद्भावेपि तादृशवाक्ये तु "ह्रीश्चते लक्ष्मीश्च पत्न्यौ" इत्यस्ति । भवद्भिश्च "श्रीश्च ते लक्ष्मीश्च पत्न्यौ” इति पूर्ववाक्यं पाठितम्, तच्चासङ्गतमेव । तैत्तिरीयशाखायां तया पाठाभावेऽपि वाजसनेयशाखायां "श्रीश्च ते लक्ष्मीश्च पत्न्यौ" इति पाठो दृश्यत इति न शक्यम्। तादृशवाजिसनेयशाखावाक्यस्य भवदुदाहृत "तद्वैत्वं प्राणोऽभवः” इति तैत्तिरयवाक्यस्थ प्राणशब्दार्थनिर्णायकत्वासम्भवादिति, यदुक्तम्,
खण्डनं_४२
(खं.) तत्तुच्छं, न हि विष्णुत्वसाधनस्यान्यथानुपपत्या श्रीश्च ते लक्ष्मीश्च पत्न्यौ” इति शाखान्तरस्थपाठी गृहीतः । लक्ष्मीपतित्वलिङ्गमात्रेण प्राणस्य विष्णुत्वसिद्धेः । किंतु शाखान्तरस्य वाक्यानामप्यत्रोदाहर्तव्यत्वसूचनार्थम् । तच्छाखासमाख्यया ह्रीशब्दस्य अर्थकत्वसूचनार्थं चेति ॥
॥ इत्यद्वैतखण्डनपूर्वक चन्द्रिकामण्डने प्राणाधिकरणम् ॥