अनन्तगुणसम्पूर्ण सर्वदोषविवर्जितम् । मूलरामं सदा वन्दे चतुरानन पूजितम्
|| श्री दिग्विजयरामो विजयते ॥
भगवतो निर्दोषत्वलक्षणम्
अनन्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।
मूलरामं सदा वन्दे चतुरानन पूजितम् ॥ १ ॥
यद्भूविभ्रममात्रं हि जगत्सृष्ट्यादिकारणम् ।
रामं दिग्जयिनं वन्दे दुर्वादिजयसिद्धये ॥ २ ॥
परैरारोपितान्दोषान् संखण्ड्य श्रुतिभिहरेः ।
निर्दोषत्वं स्थापयन्तं मध्वाय नौमि संविदे ॥ ३ ॥
यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।
लभन्ते सुजना वन्दे तं जयार्यगुरूत्तमम् || ४ ||
पञ्चाभिनवकृत्सत्यनाथपादरजः श्रये ।
तत्कृतिप्रतिपाद्यार्थयथार्थज्ञानसिद्धये ॥ ५ ॥
व्याख्यानैरवगाह्य यस्य सुकृतीः सच्छास्त्रतीर्थापगाः ।
सम्प्राप्ताः कृतकृत्यतां सुविमलाः सत्याभिनूत्नादयः ||
तेऽमी योगिवराः सुपूज्यचरणाः संवन्दिताः सादरम् ।
सन्दध्युर्मयि सत्यनाथसुकृतेर्भावावबोधं शुभम् ॥ ६ ॥
आनन्दतीर्थसत्कीर्तेः स्मारकं चरितैः स्वकैः ।
संसेभिऽमिनवानन्दतर्थम् सध्यानयोगिपम् ॥ ७ ॥
श्री सत्यप्रज्ञतीर्थार्यपादपङ्कजपांसवः ।
प्रपुनन्तु पटीयांसः पापपञ्जरपाटने ॥ ८ ॥
यस्य कारुण्यसरणिम् सत्याभिज्ञमुनीशितुः ।
प्रपन्न इत्यहं मान्यः सेवे तच्चरणौ सदा ॥ ९ ॥
श्रीश्रीनिवासतीर्थोक्तनिर्दोषत्व परिष्कृतेः ।
संशुद्धि मूलसम्मत्या वक्ष्यामि गुरुतुष्टये ॥ १० ॥
यत्र क्वापि विरुद्धेव प्राचामुक्ति: प्रदृश्यते ।
प्रौढ्यैव सा न सिद्धान्तोक्तिरित्येतच्च प्रदर्श्यते ॥ ११ ॥