तदेवमादिषु विस्पष्टतया निरवकाशतया

उदाहृतप्रमाणानां निरवकाशता
तदेवमादिषु विस्पष्टतया निरवकाशतया च अत्यन्ताभावमात्रस्य अप्रामाणिकप्रतियोगित्वं स्थापयत्सु सुबहुषु प्रमाणवचनेषु सत्सु तद्विरुद्ध-वत्प्रतीयमानानि अभिनवताण्डवे लघुप्रभायां च निरूपणानि शिष्य-बुद्धिवैशद्याय प्रौढिवादमवलम्ब्यैव कृतानि न तु पुनः स्वसिद्धान्तानु-रोधेनेति निर्मत्सराः सहृदया सुलभतयैव निश्चिन्वन्ति ।
कथञ्चिदेतेषां वचनानामन्यथानयनं तु अत्यन्ताभावस्य द्वैविध्य-सिद्ध्युत्तरकालीनं तत्तत्पूर्वोत्तरवाक्यसन्दर्भाद्यननुगुणं च ।
विस्तरस्तु उत्तरत्र वक्ष्यते ।
किञ्च तिष्ठतु सूक्ष्मेक्षिका । अविरोधाध्याये प्रत्यधिकरणं विरोधाभावः समर्थ्यते । तत्र अभावः अत्यन्ताभाव एव, विरोधश्च अप्रामाणिक एवेति चाविवादम् । तेनाप्रामाणिकस्यैवात्यन्ताभाव इति संसिध्यति ।
अपि च तत्त्वविवेकादौ भावतस्त्वेऽप्यवान्तरविभागः चेतना-चेतनत्वादिना निरूपितः । एवं चेतनादिष्ववान्तरविभागोऽपि । यदि नामात्यन्ताभावेऽप्यवान्तरविभागोऽभविष्यत् तर्हि अवश्यमेव न्यरूप-यिष्यत । न च निरूपितः । न केवलमेतावत् । अत्यन्ताभावे असार्वत्रिकत्वं सुबहुत्र सोपपत्तिकं निराकृतम्।तेन तथाविधो विभागो नास्त्येवेत्यवसीयते ।
प्रमितस्य निषेद्धुमनर्हत्वात् आरोप्यस्यैव निषेध इति एतत् मन्दारमञ्जयाँ गगनादेः अनादित्वसमर्थनावसरे व्युत्पादितम् । 'आरोप्य बुद्धिपूर्वम् सा गगनादौ निषिध्यत' इति कारिकोक्ता प्रतिज्ञैवो-त्तरत्रैकवाक्यतया समर्थितेति तस्या निरवकाशता सुस्फुटा । एवमुदा- हृतानामन्येषां प्रमाणानां सर्वेषामपीति सन्तोष्टव्यम् ।

Load More