विस्पष्टवचनाभाववचनं प्रौढिमात्रतः

अत्यन्ताभावोऽप्रामाणिकप्रतियोगिक एवेत्यत्र मूलग्रन्थसंमतिः

विस्पष्टवचनाभाववचनं प्रौढिमात्रतः ।
सुधातत्वविवेकादिरत्नाकरविहारिणाम् ||
तथा हि ।
१) यद्धि सकलदेशकालासत् तदत्यन्ताभावप्रतियोगीत्युच्यते । इति जिज्ञासाविकरणीयन्यायसुधायाम् ।
२) क्वचित्कदाचिन्मूर्तसद्भावे तदत्यन्ताभावानुपपत्तेः । इति वियदधिकरणसुधायाम् ।
३) मिथ्यात्वं खलु अत्यन्ताभावप्रतियोगित्वम् । इति पृथगधिकरणसुधायाम् ।
४) शशविषाणादीनां चाभावः अत्यन्ताभाव इति स एव तत्प्रतियोगी । इति तत्त्वविवेकटीकायाम् ।
५) सर्वात्यन्ताभावेष्वप्रामाणिक प्रतियोगिकत्वानुगतिसूचनाय शशविषाणादीनामिति बहुवचनं प्रयुक्तम् । स एव च प्रतियोगीत्यत्र ग्रन्थे शशविषाणमेव तदभावप्रतियोगि नान्यदनिरूपकत्वात् । तथा चास्मिन्पक्षे न प्रतियोग्यनियमः इति दर्शयितुं स एव च प्रतियोगी- त्येकवचनं प्रयुक्तमित्यविरोधः । इति तत्त्वविवेकमन्दारमञ्जर्याम् ।

६) अत्यन्ताभावो हि प्रत्युत प्रतियोग्यसत्त्वमेवापेक्षते । अत्यन्ताभावस्य प्रतियोगिसत्वानपेक्षत्वात् ।
इति उपाधिखण्डनमन्दारमञ्जर्याम् ।
७) किञ्चह भूतले घटो नास्तीति प्रतीतेः संसर्गाभावो विषयः । न घटाभावः । इह भूतले घटो नास्तीत्यत्र संसर्गो निषिध्यते इति उदयनोक्तेः । भूतले घटोऽस्तीतिबुद्धेस्तत्संबन्धविषयकत्वेन घटो नास्तीति बुद्धेस्तदभावविषयकत्वाच्च । किञ्च न तावदयं घटस्य प्राग-भावः प्रध्वंसो वा, प्रतियोगिसमानकालीनत्वात् । नाप्यत्यन्ताभावः कदाचिद्धटस्य तत्रानयनात् । संबन्धस्य तु भूतत्वे ध्वंसः भावित्वे प्रागभावः । कदाप्यभावे तदधिकरणकैतत्पटनिरूपित संबन्धस्यासत्वेन तदत्यन्ताभावसंभवः । इति न्यायामृते ।
८) मिथ्यात्वं खलु अत्यन्ताभावप्रतियोगित्वम् । तच्च बुद्धि-द्वारेणैव । अत्यन्तासतोऽपि प्रतीतिरङ्गीक्रियते ।
इति पृथगधिकरणसुधायाम् ।
९) सत्संबन्धिनोऽत्यन्ताभावस्याभावादित्युक्तम् । न्या. सु. प्र. अ. द्वि. पा. (प.सं.४३)
१०) एतच्चोपलक्षणं प्रामाणिकप्रतियोगिकात्यन्ताभावाभावा-दित्यपि द्रष्टव्यम् । कंभालुरीये प्र. द्वि. पा. (प.सं. १४)

११) प्रागभावादेः कथं अल्पतरत्वम् इत्यतः अनादिसंबन्धिनः प्रागभावस्य नित्यसंबन्धिनो ध्वंसस्य, सत्संबन्धिनोत्यन्ताभावस्याभावा- दित्याशयेनाह नित्येति । शेष. वा. चं., प्र. द्वि. पा. सुधा प. ४३
१२) प्रामाणिकप्रतियोगि कात्यन्ताभावस्यानुपपन्नत्वात् पटो-त्पत्तिपूर्वसमये सतोऽभावस्यात्यन्ताभावत्वे प्रागभावस्यैव नामान्तरं कृतं स्यात् । सार्वकालिकसार्वदेशिक निषेधस्यैवात्यन्ताभावत्वात् । इति शे.वा.चं. २०२ पत्रे ।
१३) कुत एवमित्यतः एवं साधने सत्वासत्त्वयोरलीकतापत्तेः इति भावेन तद्व्यनक्ति यद्धीति ॥ जिज्ञासानयन्यायसुधापरिमळे ।
१४) ननु अत्यन्ताभावप्रतियोगीत्येव साध्यार्थः । न चैव-मुक्तरूपसत्वासत्वयोर्नृशङ्गवदलीकता । यथा गोत्वं अश्वे नास्तीत्युक्तौ गोत्वस्य नालीकत्वम् अपि तु गोत्वाश्वसंसर्गस्यैव अत्यन्ताभावप्रात्या संसर्गस्यालीकत्वम् । एवं सत्त्वासत्त्वयोरेकधर्मिसंसर्गस्यैव निषेधः न सत्वासत्त्वयोः । येन तयोरलीकत्वप्रात्या घटादौ तह्राहकप्रत्यक्षबाधः इति भावेन शङ्कते 'एकस्मिन्न स्तः' इति ॥ इति । जिज्ञासाधिकरणसुधापरिमळे ।
१५) 'नित्येति' ॥ नित्यसंबन्धिनो ध्वंसस्य अनादिसंबन्धिनः प्रागभावस्य चासंभवात् । एतच्चोपलक्षणम् । प्रामाणिक संबन्धिनोऽत्यन्ताभावस्यासंभवादित्यपि द्रष्टव्यम् । कंभालूर रामचन्द्रतीर्थीया सुधा प्र. द्वि. पा. प. १४
१६) 'घटादिवदिति' देशकालव्यवस्थया सत्त्वं असत्त्वं च घटादौ प्रत्यक्षसिद्धमिति सत्त्वासत्त्वयोः सार्वदेशिकसार्वकालिकनिषेधरूपात्यन्ताभावप्रतियोगित्वसाधने बाधितविषयत्वमेवेत्यर्थः । कंमालूरे प. ५२
१७) यद्यपि स्वाधिष्ठाने विद्यमानस्य घटादेः परोपाधौ न तावत्प्रागभावप्रध्वंसरूपौ प्रतिषेधौ संभवतः तयोः प्रतियोगिसत्तादशा-यामनुपपत्तेः । नापि अत्यन्ताभावरूपः प्रतिषेधः । प्रामाणिकप्रति-योगिकस्य तस्यानङ्गीकारात् । तथा च परोपाधौ तत्प्रतियोगित्वादित्य-नुपपन्नम् । तथापि परोपाधौ तत्संसर्गनिषेधस्य सत्वेन परोपाधौ तत्प्रतियोगिकत्वादित्यस्य परोपाधिनिष्ठनिषेधप्रतियोगितत्संसर्गकत्वादि- त्यर्थो द्रष्टव्यः ॥ इति ।
कंभालूर जिज्ञासाधिकरणे ।
१८) यच्चान्यैरत्यन्ताभावस्वरूपमुक्तम् संसर्गप्रतियोगिको भावो-ऽत्यन्ताभाव इति यथैतद्घटतद्भूत संसर्गाभाव इति तदपि निराकर्तु-मेतत् । तस्य निरवधिकत्वाभावात् । तद्युदाहृतश्चतुर्थः स्यादिति चेन्न । तस्यापि यथासंभवं प्रागभावादिष्वन्तर्भावात् । इति ॥ तत्त्वसंख्यानटीकायाम् ।
१९) ननु अश्व गोत्वं कदाऽपि नास्तीत्यादौ प्रतीयमानगोत्वा-द्यभावश्चतुर्थः स्यात् । निरवधिकत्वेन तस्य प्रागभावाद्यनन्तर्भावात् । प्रामाणिकप्रतियोगिकत्वेन सदाऽभावाद्यनन्तर्भावाच्च इति चेत् उक्तरीत्या गोत्वसंसर्गस्यैव तत्र निषेधेन तस्य चाप्रामाणिकतया तदभावस्य सदा- भावान्तर्भावादिति । त. सं. वेङ्कटभट्टीयायाम् ।
२०) उत्तरमाह । लक्षणस्येति । लक्षणस्यापि निरवधिक- सदाभावत्वापरपर्यायस्याप्रामाणिक प्रतियोगिकाभावत्वरूपलक्षणस्येत्यर्थः । इति । त. सं. गुरुराजीये ।
२१) किं च सत एव रजतत्वतद्वैशिष्ट्यस्य भाने अभ्रमत्व-प्रसङ्गात् । विशेष्यनिष्ठात्यन्ताभावप्रतियोगिप्रकारकत्वेन भ्रमत्वोपपत्ति-रिति चेन्न । सत्त्वेन रजतादेः स्वात्यन्ताभावसमानकालीनत्वविरोधात् इति ।त. सं. विजयीन्द्रतीर्थीये ।

२२) अथवा भावः सत्वं तदभावोऽसत्त्वं संबन्धाभाव इत्यर्थः । ततश्चतद्धघट तद्भूतलसंसर्गाभाव उच्यते । यद्वा घटात्यन्ताभावोऽभिनव-गदाद्युक्तप्रकारेण प्रामाणिकप्रतियोगिको वर्तते इति परोक्तानुवादतया वा ग्राह्यः । अप्रामाणिकप्रतियोग्येव नापि परोक्तानुवाद इति पक्ष पूर्वोक्तः संसर्गाभाव इति विवेकः । त. सं. सत्यधर्मीयायाम् ।
२३) उक्तं चोदयनेनापि इह भूतले घटो नास्तीत्यत्र च संयोग एव निषिध्यते इति । न च वाच्यं घटवत् तत्संयोगस्यापि अन्यत्र सत्त्वेन अप्रतियोगित्वमिति । एतद्भूतलघटसंयोगस्य कुत्राप्य-भावात् इति सङ्क्षेपः । त. सं. काशीटिप्पण्याम् ।
२४) अन्यत्र च न हि घटस्य प्रतिषेध्यस्वरूपत्वरूपं प्रतियोगित्वं संभवति । तथा हि । भूतले घटो अस्तीति प्रतीतौ घटसंबन्धवत् भूतले घटो नास्तीत्यत्रापि घटसंबन्धाभावस्यैव प्रतीतेः ॥ इति ।
२५) अन्यत्र च कदापि घटसंसर्गशून्ये घटो नास्तीति प्रतीयमानत्वात् न प्रागभावादिः । ध्वंसप्रागभावयोः प्रतियोगिसमानदेशत्व नियमात् । नापि अत्यन्ताभावः । तस्यासन्मानप्रतियोगिकत्वात् । घटादेश्च

त्वात् इति चेत् अत्राहुः । तत्र घटो नास्तीत्यादौ तद्देशघट संसर्ग एव प्रतियोगितया भासते । तस्य चासत्वात् । तत्प्रतियोगि कात्यन्ता- भाव एव तत्र विषय इति ।
२६) अन्यत्र च यदि तु घट एव तद्देशनिष्ठात्यन्ताभावप्रतियोगितया भासते तदापि तद्देशे आरोपित एव तथा । न चैव घटवत्यपि घटो नास्तीति प्रतीत्यापत्तिः । प्रतियोगिनः असत्वादिति वाच्यम् । प्रतियोगिन इव प्रतियोग्यारोपे प्रधानेनापि अभावस्य विरोधात् । घटवति च प्रति-योग्य सन्त्वेऽपि प्रधानभूतघटस्यैव सत्त्वात् । प्रधानत्वादेव च तस्यापि प्रतियोगित्वव्यवहार इति दिक् इति ।
२७) अन्यत्र च तदेवं भूतले घटो नास्तीत्यत्र संसर्ग एव निषिध्यते । घटस्य तु तत्काले सत्त्वेन प्रतियोगित्वासंभवेऽपि विरोधित्वसाधर्म्येण अमुख्यत एव प्रतियोगिताव्यवहारः इति उक्तमेव युक्तम् ॥ इति ॥
२८) यदि घटसंसर्गः भावी तदा प्रागभावः यदि भूतः तदा ध्वंसः न कदापि चेत् तदा अत्यन्ताभाव इत्येव यथासंभव- मित्यर्थः ॥ इति त. सं. राघवेन्द्रतीर्थीयायाम् ।

२९) अस्तीति प्रमितस्य घटादेः कालत्रयवर्तिनिषेधरूपात्यन्ता- भावप्रतियोगित्वाभावात् । अन्यथा नास्त्येव शशविषाणमिति प्रतीति-वत् कालत्रयेऽपि नास्ति शशविषाणमिति प्रतीतिवच्च नास्त्येव घट इति प्रतीतिः कालत्रयेऽपि नास्ति घट इति प्रतीतिश्च घटस्य स्यात् । कालत्रयेऽपि असदस्तीति वचनस्य व्याहतत्वेनास्तीति प्रमितस्य घटादेः कालत्रया सत्त्वरूपात्यन्ताभावप्रतियोगित्वायोगात् । अन्यथा घटस्य स्वकाल इव स्वदेशेऽपि अत्यन्ताभावस्य सत्वापातात् । ननु तर्हि यत्र नास्ति घटः तत्र भूतले घटो नास्तीति प्रतीतेः निर्विषयता स्यादिति चेन्न । इह भूतले घटोऽस्तीति प्रतीतेः एतद्भूतलसंसृष्टघटविषयकत्वेन तद्विरुद्धाया इह भूतले घटो नास्तीति प्रतीतेरपि एतद्भतलसंसृष्टघट-निषेधविषयकत्वात् । अन्यथा देशान्तरसंसृष्टघट निषेध विषयकत्वे देशान्तरसंसृष्टघटस्य दत्तजलाञ्जलितापातात् । अत्यन्ताभावस्य स्वदेशे प्रतियोगिविरोधित्वात् अत्यन्ताभाव: स्वदेश संसृष्टघटविरोधि न तु देशान्तरसंसृष्टघटविरोधि इति नोक्तदोष इति चेत् तर्हि सिद्धमेतद्देशस्थ-घटात्यन्ताभावस्य स्वविरुद्धैतद्देश संसृष्टघटप्रतियोगिकत्वम् । तथा च एतद्देशसंयुक्तो घटो यदि प्रमितः तर्हि तस्य तत्र त्रैकालिकनिषेधरूपा-त्यन्ताभावो न युक्त एवेति अप्रमित एवैतद्देशसंयुक्तो असत्प्रतियोगी-त्यवश्यमभ्युपेयमिति सिद्धमप्रामाणिकस्यैवात्यन्ताभावप्रतियोगित्वं इति । त. सं. विठ्ठलभट्टीये ।
३०) सत्त्वैकस्वभावस्य प्रपञ्चस्य सदसत्वानङ्गीकारात् । मिथ्यात्वानुमानखण्डनटीकायाम् ।

३१) सत्वैकस्वभावस्येत्यत्र सर्वदेशकालसंबन्धाभावरूपात्यन्ता-भावाप्रतियोगित्वं सत्त्वं विवक्षित्वा सत्त्वैकस्वभावत्वमित्युक्तम् । मिथ्यात्वानुमानखण्डनमन्दारमञ्जर्याम् ।
३२) अत्रोच्यते । 'घटादौ प्रमिता तावत्प्रागभावेन युक्तता । आरोष्य बुद्धिपूर्वं सा गगनादौ निषिध्यते' ॥ स्वप्रागभावप्रतियोगित्व-मेवानादित्वम् । यत्तु स्वप्रागभावाप्रसिद्धौ स्वप्रागभावाप्रतियोगित्वमप्य-प्रसिद्धमेव इति । तत्किम् प्रतियोगिनः असत्वे अभावोऽपि न स्यादि-त्यर्थो विवक्षितः । किं वा प्रतियोगिनोऽसत्त्वेन तज्ज्ञानोपायाभावेन प्रतियोगिज्ञानपूर्वकं अभावज्ञानं च न स्यादिति । नाद्यः । प्रागभाव-प्रध्वंसाभावयोः प्रतियोगिसत्त्वेन व्याप्तत्वेऽपि अत्यन्ताभावस्य तेन व्यात्यभावात् । अत्यन्ताभावो हि प्रत्युत प्रतियोगिनोऽसत्वमेवापेक्षते । इति ॥ उपाधिखण्डनमन्दारमञ्जर्याम् ।
३३) अन्यत्र च अथ कालान्तरे घटे विद्यमान एव एतद्भूतले घटो नास्तीति घटाभावोऽनुभूयते । न चायं प्रागभावप्रध्वंसाभावयोरन्यतरः । प्रतियोगिसमानकालीनत्वात् । नाप्यन्योन्याभावः । भूतलं घटो न भवति इति प्रतीतिप्रसङ्गात् । ततः परिशेषात् अत्यन्ताभाव इति गम्यते । ततश्च अत्यन्ताभावः कथं निष्प्रतियोगिकः स्यात् । इति चेन्न । 'इह भूतले घटो नास्ति' इत्यादौ भूतलघटसंसर्गस्यैव निषिध्य-मानत्वात् । अवश्यं चैतत्त्वयाऽप्यङ्गीकरणीयम् । घटस्य भूतलान्तरे सन्त्वेन स्वरूपेण निषेधासंभवात् । संसृष्टत्वाकारेण निषिध्यते घट इति चेत् तर्हि प्राप्ताप्राप्तविवेकेन संसर्ग एव निषिध्यत इत्यायातम् ॥ इति । उपाधिखण्डनमन्दारमञ्जर्याम् ।
३४) न चात्यन्ताभावोऽपि सर्वधर्मरहितः । किमुत प्राग- भावादिः । प्रामाणिकप्रतियोगिक इति शेषः ।
प्रमाणलक्षणटीकायाम् ।
३५) न च तत्र साध्येन विना हेतोर्या उपपत्तिस्तदभावरूपा-ऽनुपपत्तिरयुक्ता । तेन विना तदुपपत्तेरप्रामाणिकत्वेन तदभावस्य तत्र हेतावसंभवादिति वाच्यम् । सिद्धान्ते अप्रामाणिकस्यैव निषेधप्रति-योगित्वात् ॥ इति ॥
प्रमाणलक्षणराघवेन्द्रतीर्थीयायाम् ।
३६) अस्य परस्यावयवित्वादिना एतत्तन्तुनिष्ठात्यन्ताभाव- प्रतियोगित्वसाधनमपि अत्यन्ताभावस्य निष्प्रतियोगित्वेन बाधितम् । इति ॥ वादावल्याम् ।
३७) अन्यत्र च सत्वनिषेधे चैतत्तन्तुनिष्ठपदवैयर्थ्यम् । न च सिद्ध-साधनतापरिहारार्थं विशेषणमिति वक्तव्यम् । एतत्पटात्यन्ताभावस्या-स्माकमसिद्धेः । एतेन दृष्टान्तोऽपि साध्यविकलतया प्रत्युक्तो वेदितव्यः इति ॥
३८) ननु तार्किकमते अस्य पटस्य तन्त्वन्तरनिष्ठात्यन्ताभाव-प्रतियोगित्वोपगमात् सिद्धसाधनता निवृत्त्यै तदुपात्तमित्याशङ्कय तथापि मन्मते तद्व्यर्थमित्याह न चेति ॥ इति ॥ वादावली राघवेन्द्रतीर्थीये ।
३९) तस्मात्स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वे अत्यन्तासत्त्वं दुर्वारम् । तदुक्तम् । 'नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधस्तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः' इति ॥ इति ॥ न्यायामृते प. ३७
४०) अन्यत्र च 'त्रिकालसर्वदेशीय निषेधाप्रतियोगिता । सत्तोच्यते-ऽध्यस्ततुच्छे तं प्रति प्रतियोगिनी' ॥ इति ॥
४१) अन्यत्र च इह भूतले घटो नास्तीत्यत्र संयोगो निषिध्यते इत्युदय-नोक्ते: भूतले घटोऽस्तीति बुद्धेस्तत्संबन्धविषयकत्वेन नास्तीति बुद्धेरपि तत्संबन्धाभावविषयकत्वाच्च । किञ्च न तावदयं घटप्रागभावो ध्वंसो वा प्रतियोगिसमानकालीनत्वात् । नाप्यत्यन्ताभावः कदाचित्तत्र घटस्य सत्वात् । यदि चैतत्कालावच्छेदेनात्यन्ताभावः तर्हि अत्यन्ताभावाति- रिक्तः प्रागभावादिः न सिध्येत् । संयोगस्तु भूतत्वे ध्वंसः भावित्वे प्रागभावः कदाप्यभावे त्वत्यन्ताभावः इत्यसतः संसर्गप्रतियोगित्व- सिद्धिः इति ॥
४२) सर्वकाले सर्वदेशे सर्वावच्छेदेन संसृष्टसर्वसंसर्गकाभावं प्रति प्रतियोगित्वमसत्त्वम् । तदभावः सत्वम् इति तार्किकादिसाधा-रणसत्वलक्षणमभिधाय विशिष्यापि सत्त्वलक्षणमाह । अश्वे गोत्वमिति ॥ सार्वकालिक निषेधप्रतियोगित्वं तुच्छस्यैव । न पुनर्घटादेः । अश्व गोत्वं नास्तीत्यत्रापि गो-अश्वत्वसंसर्ग एव निषिध्यते स चासन्नेव न तु गोत्वमिति मन्यन्ते तेषां मते सार्वकालिकनिषेधप्रतियोगित्वं असत्त्वं तदभावः सत्वंमित्येव लक्षणं देशपदं तु न देयम् इत्यादि । न्यायामृततरङ्गिण्याम् ।
४३) प्रामाणिकस्यात्यन्ताभावो नास्त्येवेति सिद्धान्ते देशपद-मनपेक्षितं व्यावृत्त्यभावात् इत्याह स्वेति ॥ इति ॥
न्यायामृतलक्ष्मीनाथीये ।
४४) योऽत्यन्ताभावमेवाह घटस्य स हि सर्वदा । जलाहरणयोग्यस्याभावाच्छुष्यद्गलो भवेत् ॥ न चेदत्यन्तशब्दोऽयं शोषयेहू हु जल्पतः ॥ ७६१ ॥प्रागभावादयोऽप्यत्यन्ताभावाः स्युर्न चेत्तव ।
४५) अन्यत्र च युक्तिमल्लिका भेदसौरभे । अत्यन्ताभावमात्रे तु प्रतियोगिन्यसत्यता । नियता कथमत्यन्ताभावः सोऽपि सतो यदि ॥ ७६६ ॥ कालत्रयेऽप्यभावं हि तच्छब्दार्थं विदुर्बुधाः ॥
४६) अन्यत्र च इह भूमौ घटो नेति यो निषेधः प्रतीयते । स तत्संसर्गनाशो वा तस्य प्राङ्नास्तितैव वा ॥७७९॥ संसर्गो यत्र नैव स्यात्तत्र त्वत्यन्तनास्तिता । यो घटोऽस्ति कथं नास्ति स एव व्याहतं च तत् ॥७८०|| संसर्गो नेत्यभावस्तु तत्संबन्धस्य नास्तिता । काश्यामयं च संसर्गो नेति चास्य निषेधनम् ॥७८१ ॥ घटसंसर्गवत्संसर्गस्य संसर्गनास्तिता ।
स चाप्रामाणिकस्तस्य ह्यनन्ताभाव एव सः ॥ ७८२ ॥
४७) अन्यत्र च विमतं शुक्तिरजतं नासतो व्यतिरिच्यते । त्रिकाल्यां च निषेध्यत्वान्मायिमस्तकशृङ्गवत् ॥८५७॥
युक्तिमल्लिका विश्वसौरभे ।

४८) 'तदत्यन्ताभावेति ।' तदसत्त्वप्रसङ्गादित्यर्थः । न्यायसुधा यादुपत्ये द्वि.अ.प्र.पा. ।
४९) 'तदत्यन्ताभावेति ।' सर्वथाऽज्ञेयस्य आमादेः सत्वे प्रमाणाभावेन तदत्यन्तासत्त्वप्रसङ्गादित्यर्थः । न्यायसुधा द्वि. प्र. शेषवाक्यार्थ चन्द्रिकायाम् ।
५०) तदत्यन्ताभावेति । शशविषाणादेरिवाप्रामाणिकतया अत्यन्तासत्त्वापातादिति । न्यायसुधा द्वि. प्र. परिमळे ।
५१) तदिति । ग्रामादे: सर्वथाऽज्ञेयत्वे अत्यन्तासत्वमेव स्यादित्यर्थः । न्यायसुधा द्वि. प्र. श्रीनिवासतीर्थीये ।
५२) सार्वकालिकसार्वदेशिकनिषेधस्यैवात्यन्ताभावत्वात् । न्या. सु. जिज्ञासाधिकरणवाक्यार्थचन्द्रिकायाम् ।
५३) अप्रामणिकप्रतियोगि काभावोऽत्यन्ताभावः।न तु प्रामाणिकप्रतियोगिकः । स च नित्यः । मध्वसिद्धान्तसार प. २१
५४) न चायं कालविशेषणावच्छेदेनात्यन्ताभाव एवेति वाच्यं । तथात्वे प्रागभावादेरपि तथात्वापातात् । इह घटो नेत्यत्रापि घट- भूतलसंबन्ध एव प्रतियोगी न तु घटः । वक्ष्यते चैतदभावप्रस्तावे || तर्कताण्डवे शक्तिवादे
५५) अत्यन्ताभावप्रतियोगिन एव तुच्छत्वेनाभावस्यातुच्छ-त्वात् । | अप्रामाणिकस्य प्रामाणिकात्यन्ताभावप्रतियोगि- त्वरूपत्वेन हेतोर्विरुद्धत्वात् च । तस्याप्यभावत्वाप्रामाणिक प्रतियोगि-कत्वादिधर्माश्रयत्वाच्च । तदुक्तं न चात्यन्ताभावोऽपि सर्वधर्मरहित इति । तर्कताण्डवे अनुमानपरिच्छेदे
५६) यत्काले नास्तीति प्रतीतिः तत्कालवृत्तितद्भूतलसंसर्ग- विशिष्टघटरूपप्रतियोगिनोऽसत्त्वादेव युज्यते । प्र. पद्धतौ आदर्शटिप्पण्याम् प ४४४
५७) तस्माद्धकालीनस्यास्य निषेधस्य घटप्रध्वंसत्वादिवद्धट-प्रतियोगि कत्रैकालिक निषेधप्रतियोगित्वमपि न संभवति । तथाऽप्यस्त्यत्र घट इति प्रतीतेः तत्संसृष्टघटविषयत्वेन तद्विरुद्धाया नास्त्यत्र घट इति प्रतीतेस्तत्संसृष्टघटनिषेध एव विषयः । इति ॥ प्र. पद्धतौ विठ्ठलभट्टीये प. ४४६
५८) अत्यन्ताभावप्रतियोगित्वस्य स्वाश्रयसत्ताऽसहन स्वभाव-त्वात् तत्प्रतियोगिनो घटस्यात्यन्तासत्त्वापत्तेः । त. सं. यादुपत्ये

५९) यो यस्याभाव इत्यादि । अत्र भावाभावयोः सवा-सत्त्वयोर्वा यत्परस्परनिषेधप्रतियोगित्वमुच्यते तन्न निषेध्यत्वरूपं विव-क्षितं किन्तु निषेधप्रमितिजनकारोपप्रधानत्वरूपमन्यदेव पारिभाषिकम् । तेन सिद्धान्ते प्रामाणिकस्य निषेधप्रतियोगित्वाभावात् कथमेतदिति शङ्काऽनवकाशः । प्रामाणिकस्य प्रतिषेध्यत्वरूपप्रतियोगित्वाभावेऽपि निरुक्तप्रतियोगित्वसंभवात् । एवं यस्याभाव इत्येतत् यत्प्रधानकारोप-विषयस्याभाव इति व्याख्येयम् । यस्याभावस्य प्रतियोगीत्येतदपि यदभावप्रमितिजनका रोपप्रधान इत्येव व्याख्येयम् । आरोपप्रधाने कथमारोप्यप्रतिषेधप्रतियोगित्वमिति चेन्न । आरोप्यवत्तस्यापि तत्प्रति-षेधविरोधित्वेनानुभवात् । एवं च प्रतियोगित्वं अभावविरोधीत्यादि- कमपि सिद्धान्ते समञ्जसं भवतीति ज्ञातव्यम् । अनेनैवाभिप्रायेणाग्रेतनं व्याइत्युपपादनं ध्येयम् । न्यायसुधा यादुपत्ये अ. ४-१-२ ।
६०) अत्यन्ताभावशून्यं तज्ज्ञानं स्यात्परमार्थसत् । युक्ति मल्लिका शुद्धिसौरभे १०३ ।
६१) न च गोव्यक्तेः कचिदत्यन्ताभावः तावदस्ति । तर्कताण्डवे अनुमानपरिच्छेदे ।
६२) अन्यत्र च गोत्ववति प्रलयकाले गोव्यक्तिध्वंसस्य सत्त्वेऽपि गोव्य-क्त्यत्यन्ताभावाभावात् ।

६३] अन्यत्र च तव तु घटापनयनकाले सतो घटाभावस्य घटोपनयन-कालेऽपि सन्त्वेन सत्प्रतीतिर्दुर्वारा । न हि घटसत्वकाले घटाभावोऽ-न्यत्र गतः । अमूर्तत्वात् । नापि नष्टो नित्यत्वादिति चेन्न । घटोपनयापनयकाले भूतले घटसंयोगतदभावयोरेव स्वीकृतत्वेन अपनय-काले सतः संयोगाभावस्य उपनयकालेऽभावात् । तर्कताण्डवे समवायवादे
६४) ननु प्रकृतप्रमाणविरोधरूपप्रतियोगिनोऽप्रामाणिकत्वात् तदभावः कथं प्रामाणिकः स्यादिति चेत्काऽत्र कथन्ता । प्रतियोग्य-प्रामाणिकत्वस्याभावप्रामाणिकत्वं प्रत्येव प्रयोजकतायाः शुक्तिरूप्यता-दात्म्यादौ दर्शनात् । तर्कताण्डवे योग्यतानिरूपणवादे
६५) ननु कथमसतो निःस्वरूपस्यात्यन्ताभावप्रतियोगित्वं नाम धर्म उपपद्यतामित्यत आह प्रपञ्चितम् चैतदिति । धर्मिसत्तानिरपेक्षत्वादिना प्रपञ्चितमाद्य परिच्छेदेऽसतोऽत्यन्ताभावप्रतियोगित्वसमर्थनवादे इत्यर्थः।त. तां. न्यायदीपे
६६) रक्तरूपस्यापि श्यामतादशायां एव जपाकुसुमे सत्त्वात् । इह नास्तीति चेत् । विशेषणे तस्य विशेष्येण संसर्गे च सति विशेष्ये विशेषणाभावस्यासंभवात । न हि प्रतियोगिनि रूपे रूपसंसर्गे च सति रूपसंसर्गाभावः संभवी ।त. तां. समवायवादे
६७) अत्यन्ताभावप्रतियोगित्वलक्षणस्यासत्त्वस्य विद्यमानत्वात् । तत्वोद्योतटीका
६८) 'घटादौ प्रमिता तावत् प्रागभावेन युक्तता । आरोप्य बुद्धिपूर्व सा गगनादौ निषिध्यते ॥'उपाविखण्डनम् मन्दारमञ्जरी
६९) प्रामाणिकप्रतियोगिकत्वेनात्यन्ताभावानन्तर्भावाच्चेति चेत् । अत्र ब्रूमः । उक्तरीत्या अश्वे गोत्वसंसर्गस्यैव निषेध्यत्वेन तदभावरूपा-त्यन्ताभावान्तर्भावसंभवात् । प्रमाणचंद्रिका प्रमेयपरिच्छेदः
७०) अश्व गोत्वसंसर्गस्यैव तत्र निषेध्यत्वेन तस्य चाप्रामाणिकतया तदभावस्य सदाऽभावान्तर्भावात् । त. सं. सत्यप्रज्ञतीर्थीयम् ।
७१) अन्यत्र च किञ्च गोत्वं नास्तीति वाक्यं अयोग्यम् । अश्वपद-समभिव्याहृतं तु योग्यं इति सर्वसिद्धम् ।
| विशिष्टाभाव-सम्पादकतया भवति योग्यम्, इति संसर्गस्यैव निषेध आवश्यकः ।

७२) अत्यन्ताभावस्य तु संसर्गप्रतियोगिकाभावत्वं अनुमतमेव इति न दूषितम् इति ध्येयम् । प्रतियोग्यप्रामाणिकत्वस्य अत्यन्ताभावे भूषणत्वात् । त. सं. भगवत्कृतमन्दारमालायाम् ||