अत्र निर्दोष- ग्रहणेन पारतन्त्र्यराहित्यादीनि अनन्तानि लक्षणानि सूचितानि

२) निर्दोषत्वलक्षणविवरणम्, पारतन्त्र्यराहित्यादीनि लक्षणानि इति टीकाऽर्थः

श्रीभगवत्पादैर्विष्णुतत्वनिर्णये निर्दोषाशेषसद्गुणमिति निर्दोषत्वं रमापतेर्लक्षणमभिहितम् । तदर्थः टीकायां एवं वर्णितः 'अत्र निर्दोष- ग्रहणेन पारतन्त्र्यराहित्यादीनि अनन्तानि लक्षणानि सूचितानि' इति ।

अत्र श्रीनिवासतीर्था:ननु दोषात्यन्ताभावरूपं निर्दोषत्वं कथं भगवलक्षणम् । सिद्धान्ते प्रामाणिकप्रतियोगिकात्यन्ताभावाभावेन दोषाणां जीवे प्रामाणिकतया तत्प्रतियोगिकात्यन्ताभावासंभवादिति चेत् अत्र ब्रुमः । निर्दोषत्वं नामारोपितदोषात्यन्ताभावः स एव च भगव-लक्षणम् इति । न च वाच्यं जीवे वास्तवदोषाणामेव विद्यमानत्वेन आरोपितदोषात्यन्ताभावोऽस्तीति लक्षणस्यातिव्याप्तिरिति । जीवे वास्तवदोषाणामेव विद्यमानत्वेन आरोपितदोषात्यन्ताभावायोगात् । तथा हि आरोपितदोषात्यन्ताभावो नाम दोषारोपपूर्वकप्रतीतिविषयाभाव इत्यर्थस्य विवक्षितत्वात् । दोषारोपपूर्वकप्रतीतिविषयाभावो नाम दोषा आरोप्य निषिध्यन्त इति यावत् । तथा च जीवे दोषारोपपूर्वकप्रतीति- विषयाभावरूपारोपितदोषात्यन्ताभावो न वक्तुं शक्यः । तत्र दोषारोपे प्रधानभूतवास्तव दोषाणामेव विद्यमानत्वेन जीवे दोषा न सन्तीति दोषानारोप्य न निषेधः कर्तुं शक्यते । अत्यन्ताभावस्य प्रतियोगिनेव प्रतियोग्य रोपे यत्प्रधानं तेनापि साकं विरोधात् । भगवति च प्रधान- वास्तवदोषाणामभावेन दोषा न सन्तीति दोषानारोप्य निषेधः कर्तुं शक्य इत्येवं दोषारोपपूर्वक प्रतीतिविषयाभावरूपारोपितदोषात्यन्ताभावस्य भगवति संभवाज्जीवे चासंभवान्नातिव्याप्तिरिति ।
इति सांप्रदायिकेन ऋजुना पथा निर्दोषत्वलक्षणं निरूपयन्ति ।
यदपि, अभिनवताण्डवे लघुप्रभायां चेति केवलं स्थानद्वये प्रामाणिकप्रतियोगिकमप्यत्यन्ताभावप्रभेदमङ्गीकृत्यापि लक्षणं रीत्यन्तरेण परिष्क्रियते तत्तु पररीत्यैव प्रौढिवादेन न स्वसिद्धान्तानुरोधेनेति अवसीयते । अत्र च श्रीसत्यधर्मतीर्थानां त.सं.टिप्पणीवचनं तथा लघु प्रभाकृदनुयायि-पूर्णबोधार्य शिष्य-कृष्णाचार्यवचनं च प्रमाणम् ।
तामेव प्रौढिवादतां लेशतोऽत्र तदुक्तीरनूद्य प्रदर्शयिष्यामः ।