न ते महित्वमन्वश्नुवन्ति
अत्यन्ताभावस्य प्रामाणिकप्रतियोगिकत्वे श्रुतिसूत्रादिनिरासः
यदत्र 'न ते महित्वमन्वश्नुवन्ति' इति श्रुतिस्मृतिसूत्रादीन्युदा-हृतानि तानि सर्वाण्यपि निरवकाशतया अत्यन्ताभावस्याप्रामाणिक-प्रतियोगिकतामेव समर्थयन्ति । तथा हि ।
'न ते महित्वमन्वश्नुवन्ति' इत्यत्र भगवन्महित्वप्रधानकब्रह्माद्यधिष्ठानकारोपविषयमहित्वस्यैव निषेधः । तच्च महित्वं अप्रामाणिक-मेव । 'ब्रह्म्हेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते' इति व्याख्यानानुसारेण
'न अश्नुवन्ति' इति भगवदीयमहित्वस्य प्राप्तेः निषेधो वा । महित्व-स्यैव, स्वरूपेण निषेधाभिनाये 'महित्वं न' इत्येतावता पूर्तेः । प्राप्तिस्तु 'हिरण्यगर्भः समवर्तताग्रे' इत्यादिश्रुत्यापातजप्रतीत्या, कुसमयैः, गत्त्रष्टृत्वाद्यानुमानाभासैः । महित्वस्य भगवत्स्वरूपत्वेन स्वरूपेण तन्निषेधे भगवत्स्वरूपस्यैव निषेधापत्या शून्यवादप्रसङ्गो बाधकः ।
अन्यथा अन्यस्यान्यमहित्वाप्रात्या सर्वसाधारण्येन तावता विष्णोः सर्वोत्तमत्वासिद्धेः ।
'अदुःखमसुख' इत्यत्रापि न विद्यते दुःखं यस्मिन् इति विग्रहघटकसप्तम्या यत्पदार्थब्रह्मनिरूपितदुःखनिष्ठाधेयत्वस्य उपस्थापनेन अप्रामाणिकसंसर्गस्यैव निषेधप्रतीतेः । दुःखशब्दस्य मात्रादिशब्दवत् ससंबन्धिकत्वेन भगवदीयदुःखस्याप्रामाणिकस्यैव निषेधलाभात् ।
यद्वा 'नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते' इति प्रमाणानुसारेण भगवत्संबन्धिनीचोच्चते एवाप्रामाणिके निषिध्येते इति वा विभावनीयम् ।
'वर्जितः सर्वदोषैश्च' इति वाक्यमपि सर्वदोषनिरूपित संबन्धा-भावाधिकरणत्वं भगवतो बोधयति । स च संबन्ध: अप्रामाणिक एव । धनवर्जित इत्यादौ स्वकीयधनाद्यभावस्येव भगवदीय सर्वदोषाभावस्यैव ततः प्रतीतेः । भगवदीयदोषाश्चाप्रामाणिका एव ।
अवश्यं चैतदेवम् । अस्याः श्रुतेः दोषकर्तृकवर्जनाधिकरणत्वं नार्थः । भगवतो हेयत्वप्रसक्तेः । किन्तु निष्क्रान्तो दोषेभ्य इति टीका-नुसारेण दोषनिरूपितवर्जनाधिकरणत्वमेव । वर्जः वर्जनम् । भावे घञ् । सोऽस्य सञ्जात इत्यर्थे इनचि निष्पन्नो वर्जनाधिकरणवाची वर्जितशब्दः । वर्जन पृथग्भावः । स च संयोगाभावः । तथा च सर्वदोषनिरूपित संबन्धाभावाधिकरणत्वं अर्थः ।
'न च स्वातन्त्र्यमन्यगं करोति' इति वाक्यमपि भगवदीय-स्वातन्त्र्यस्य अन्यसाधारण्यकर्तृत्वस्य अप्रामाणिकस्यैव निषेधपरम् ।
'संभोगप्राप्तिरिति चेन्न वैशेष्यात्' इति सूत्रे पूर्वपक्षिणा भगवतः जीवशरीरस्थत्वं बाधकतर्कोपन्यासेन आक्षिप्यते 'यदि भगवतः सर्वशरीरणतत्वं स्यात् तदा तत्तच्छरीरगतसुखदुःखादिभोगवत्त्वं स्यात्' इति । अत्र च संभोगप्राप्तेरापाद्यत्वेन अनिष्टत्वम् अत एव अप्रामाणिकत्वम् तस्या एव सिद्धान्ते निषेध इति नात्र प्रामाणिकप्रति योगिकात्यन्ताभावोक्तिः ।
किच्चात्र प्राप्तिः अनुमानेन वक्तव्या । परः जीवसमानभोग-प्राप्तिमान् एकशरीरस्थत्वात् इति । अनुमानं च बहुदोषदूषितम् । सूत्रे वैशेष्यादिति सामर्थ्य वैशेष्याभावः उपाधिरुट्टङ्कितः । तेन चाग्निष्टम्भसामर्थ्यवति योगिनि सामान्यव्याप्तेः व्यभिचार उन्नीतः । अपि चात्र भोक्तृत्वं भोगानुकूलव्यापाराश्रयत्वम् । व्यापारश्च कार्यो-स्पत्यनुकूल क्रियाविशेषः । तौ च व्यापारौ जीवेश्वरगतौ भिन्नावेव । 'मित्राश्च भिन्नधर्माचे' त्युक्तेः । किञ्च ईश्वरीयव्यापारः जन्मरहितः जैवस्तु अतथाविध इति परमात्मनि जीवभोगभोक्तृत्वं अप्रामाणिकमेव ।
'न च स्मार्तमतद्धर्माभिलापात्' इत्यत्र विषयवाक्ये तद्धर्मा-भिलापसंबन्धस्य अप्रामाणिकस्यैव निषेधः ।
यदि स्मार्तमनुमानं वा प्रधानमिह प्रतिपाद्ये स्यातां तत्र तद्धर्माभिलापतच्छब्दौ स्यातां न चात्र तौ स्तः । तस्मान्न स्मार्तमनु-मानं वा प्रधानमिह प्रतिपाद्येते इति तर्करूपदूषणस्येह विवक्षितत्वेन, तस्य चानुमानप्रभेदत्वेन, निर्ज्ञातपदार्थसंसर्गस्यैव चानुमानप्रमेयत्वस्य शास्त्र एव समर्थितत्वेन, तन्न्यायेन तद्धर्माभिलापादेर्विषयवाक्यसंबन्ध- स्यैव निषेद्धव्यत्वेन, तस्य चाप्रामाणिकस्यारोपं विहाय प्रसक्त्यन्तरा-संभवेन, विषयवाक्ये तद्धर्माभिलापादिसंसर्गारोपस्यावश्यकत्वम् । अन्यथा प्रसज्यप्रतिषेधात्मकनिषेधायोगात् ।
'नानुमानमतच्छब्दादि'त्यत्र अप्रामाणिकः तच्छब्दप्रयोग एव निषिध्यते ।
'अन्यभावव्यावृत्तेश्च' इति सूत्रे प्रत्यक्षानुमानागमाभासेभ्य: भगवति प्राप्तानां स्थूलत्वादीनां निषेध्यत्वेन तेषामप्रामाणिकत्वमेव । 'अरूपवदेव हि तत्प्रधानत्वात्' इत्यत्रापि ब्रह्मीयतया अप्रामाणिकस्य प्राकृतदेहस्यैव निषेधः ।
'तद्भूतस्य च तद्भावो जैमिनिरपि नियमातद्रूपभावेभ्यः' इत्यत्र 'नासुराणां दैवं रूपं' इत्युदाहृतश्रुतौ प्रसक्तानां अप्रामाणिकानां तद्रूप-भावानामेव निषेधः । निषेधः प्रसक्तिपूर्वक इति स्थिते: । एवं 'अभावं बादरिराह ह्येवम्' 'अत एव चानन्याधिपतिः' इति सूत्रयोरपि प्रसक्तस्य अप्रामाणिकस्यैव निषेधः यथायोग्यं अनुसन्धेयः ।
' तदभावस्य तज्ज्ञानपूर्वकत्वं तु अन्यत्र तस्य सत्त्वादेवेष्टं' इति मूले 'अन्यत्र देशान्तरे कालान्तरे च तस्य सत्त्वादेवे'ति टीकायां च अभावपदं प्रागभावप्रध्वंसान्यतरपरम् । कालान्तरस्थितस्य अत्यन्ता-भावानुपपत्तेः । देशान्तरस्थिताभावस्तु घटादिसंसर्गप्रतियोगिक एव । तथा च तदभावस्य तत्प्रधानकारोपिताभावस्य तज्ज्ञानपूर्वकत्वं च प्रधान-ज्ञानपूर्वकत्वं च प्रधानस्य अन्यत्र सत्वादेव युक्तम् इत्यर्थः । तदभावस्येत्यत्र तच्छब्देन तत्प्रधानकारोपितस्य ग्रहणं तानेव शालीन् भुंज्महे इत्यत्रेव सादृश्यनिमित्त औपचारिकम् । रूढोपचारश्चायं इति न प्रयोजनापेक्षा । निषेध्यस्यैव अन्यत्र सस्वोपगमे तु तार्किक-मतप्रवेशापत्तिः स्पष्ठैव ।
'स्वोपाधौ अनिषेधात् परोपाधौ निषेधादिति सुधायां उभयत्र सर्वस्येत्येतत्संबध्यते । सप्तम्यन्तार्थद्वयेनान्वयात् परोपाधिसंसृष्टत्वेन निषेधस्य प्राप्ताप्राप्तविवेकेन संसर्गनिषेध एव पर्यवसानम् । संसर्गश्च अप्रामाणिक एव । अधिकरणविशेष संसृष्टतया निषेधातात्पर्यकत्वे उपाधिशब्दो व्यर्थ आपद्यते ।
एवं 'अनात्म्ये जैवगुणविधुरे' इति टीकाऽपि जीवगुणसदृशानां आरोपितगुणानां निषेघपरतया व्याख्येया ।