यदत्रोक्तं 'न चाभावबुद्धेरभावाधिकरणे प्रतियोगिप्रतीति-सापेक्षत्वाभावे ..

प्रतियोगिप्रसक्तिप्रकाराः
यदत्रोक्तं 'न चाभावबुद्धेरभावाधिकरणे प्रतियोगिप्रतीति-सापेक्षत्वाभावे प्रतिषेधस्य प्रतियोगिसापेक्षत्वप्रवादविरोध इति वाच्यम् । प्रतिषेधप्रतिपादनस्य प्रतियोगिसापेक्षताप्रतिपादनपरत्वात्तस्ये' ति तन्न । प्रसज्यप्रतिषेधं प्रतिपादयति वाक्यमिति व्यवहारस्य प्रतियोगिप्रसक्त्यपेक्षप्रतीतिकमभावं प्रतिपादयतीत्यर्थकत्वेन प्रवादविरोधस्य दुष्परिहरत्वात् । अत एव प्रतिषेधप्रतिपादनं प्राप्तिपूर्वकमिति न टीकोक्तिविरोधः । अयमत्र टीकाशयः । प्रतियोगिप्रसक्तिरनेकधा । तत्रानाहार्यारोपप्रतियोगिप्रसक्तावेवाभावप्रतिपादकं वाक्यमुपादेयं भवति ।  अन्यथा बोध्यस्याहार्यरूपप्रतियोगि- प्रसक्तिसद्भावे तत एव तन्निषेधबुद्धेरप्यग्रत एव जातत्वात्तदर्थ-वाक्यस्यानुपादेयत्वधरवव्यात् । परार्थत्वाद्वाक्यस्य ॥ यत्र जनिष्यमाणा वाsनाहार्यभ्रमरूपा प्रसक्तिः संभाविनी तत्र निषेधप्रत्यायकत्व संभवेन अप्राप्तबाधत्वव्यवहारः । यथा तार्तीयबाधस्य । यत्र तु साऽपि नास्ति न निषेधप्रत्यायनं वाक्यफलत्वेनेष्टम् । नित्यानुवाद इति च गीयते । यथा नान्तरिक्ष इत्यादि । इति । तथा च प्रतिषेघप्रत्ययमात्रस्य प्रतीतिसापेक्षत्वनियमेऽपि वाक्यस्य अनाहार्य- रूपप्रतियोगिप्रसक्तिविशेषसापेक्षत्वतात्पर्येण टीकावाक्यं प्रवृत्तम् ।
एतेनैतदपि निरस्तम् । अत्यन्ताभावप्रतीतेः प्रतियोगिप्रतीतिसापेक्षत्वधौव्ये कथं सूच्यग्रे हस्तिशतं नास्तीत्यादेरप्रसक्तप्रतिषेधकत्वव्यवहारः तत एवानुपादेयत्वव्यवहारश्च । यतस्तत्रापि व्युत्पन्नस्याभावप्रतीत्यनुरोधेन आहार्यरूपा प्रतियोगिप्रसक्तिरावश्यकी इति ।
अनाहार्य रूपारोपप्रतियोगिप्रसक्तावेवाभावप्रतिपादकं वाक्यमुपादेयं भवतीत्युक्तत्वात् । प्रतिषेधप्रतिपादनं प्राप्तिपूर्वकं इति वाक्योपादेयत्वापेक्षिता प्रसक्तिश्च वाक्यबोध्यनिषेधधर्मिण्येवेति न वीथ्यादिधर्मिकगज शतप्रकारकप्रसक्तिसंभवेऽपि सूच्यग्रे तन्निषेधकवाक्यस्योपादानप्रसक्ति: । सूच्यग्रधर्मिकगज शतप्रकारकानाहार्यारोपाभावेऽपि तेन वाक्येन तदभावप्रत्ययमात्रं त्वनिवारितम् । तथा तत्प्रामाण्यमपि । इत्थं च वाक्योपादेयत्वापेक्षितं प्राप्ताप्राप्तबाधसाधारणमनाहार्यभ्रम-तत्सामथ्र्यन्यतरदेव न पुनरनाहार्यारोप एव वा तत्सामय्येव वा ।

आद्यस्याप्राप्तबाधाग्यापनात् । अन्यस्याः प्रागभावादिगर्भितायाः प्राप्तबाधाव्यापनात् । प्रतिषेधप्रत्ययमात्रं तु आहार्यादिसाधारणप्रतियोगि- प्रसक्तिमात्रमपेक्षत इति न कोऽपि विरोधः ।
यच्चोक्तं 'नापि अनारोपपूर्वकप्रतिषेधस्यानुपपत्तेरित्यभियुक्तोक्तिविरोधः तत्र निषेधपदस्य बाघधीपरत्वादिति तदपि न । अस्माभिरपि प्रतिषेधस्य प्रतियोगिप्रत्ययपूर्वकत्वं एव न तु सर्वत्रारोपपूर्वकत्वमेवेत्युक्तत्वात् । न च प्रत्ययपूर्वकत्वं अपि बाधधिय एवेति युक्तम् । प्रतियोगिप्रत्ययं विहाय तदभावबुद्धेरेवाभावस्य समर्थितत्वात् पण्डितपामरसाधारणस्य प्रतियोगिप्रतीतिसापेक्षत्वव्यवहारभ्य तथाविधटीकाऽदिवाक्यानां च कथञ्चिद्वाधधीपरतया लाक्षणिकत्वेन व्याख्यानेऽपि प्रतीतेः प्रतियोग्यविनाभावग्राहिणोऽशक्यव्याख्यानात् ।
यदपि 'नापि प्रसज्य प्रतिषेधति निषेधवाक्यं इति लोक- व्यवहारेण ल्यपाऽभावाधिकरणे प्रतियोग्यारोपस्य पौर्वकालिवत्वोक्ते- स्तद्विरोध: प्रतियोगित्वेनोपादायेत्येव तदर्थस्वीकारात्' । इति । तन्न । तत्स्वीकारस्याशाब्दत्वात् । प्रत्यायकत्वं विहाय वाक्ये उपादानान- वकाशात् । तस्य च निषेध्यत्वेन प्रतिषेधतीत्यनेनोक्तेः । विधाय- कत्वेनोक्तौ तदारोपानिवारणात् । तथा च वाक्यभेदव्याघातयोरापत्तेः । न चास्मन्मतेऽपि तत्प्रसक्तिः । निषेधार्थमेवारोपेण समप्रधानयोर्विधि- निषेधयोर्वाक्यतात्पर्याभावेन तयोरप्रसक्तेः । ल्यपाऽऽरोपस्य निषेधार्थत्वोक्तेः । परैस्तथाऽनङ्गीकारात् । अङ्गीकारे व्याघातापत्तेः । 'विजरो विमृत्युरित्यादौ वेदेऽस्माभिः अनुमानाभासादिना तदारोपोपगमेन वाक्यभेदाभावात् । व्याघातस्याप्यप्रसक्तः । प्रतियोग्यारोपस्याभाव- प्रमितिहेतुत्वस्याशेषदोषनिरासेन समर्थितत्वेनाभावप्रमितेः प्रागेवारोपा- भ्युपगमाच्च । अभावज्ञाने प्रतियोग्युल्लेखसिद्ध्यर्थमेव प्रतियोगिप्रतीतेः सन्निकर्षत्वस्यावश्यकत्वात् ।