पारतन्त्र्यस्य प्रसिद्धसाधारणदोषस्य ग्रहणेन दोषतया प्रामाणिकत्वं..
प्रकारान्तरेण लक्षणोक्तिनिरासः
यदत्रोक्तम् । "पारतन्त्र्यस्य प्रसिद्धसाधारणदोषस्य ग्रहणेन दोषतया प्रामाणिकत्वं, राहित्यपदेनात्यन्ताभावं सूचयता दोषतया प्रामाणिकप्रतियोगिकात्यन्ताभावो निर्दोषत्वम् । न त्वप्रामाणिक- प्रतियोगिकः । तस्य जीवेऽपि सत्त्वादिति सूचितम्" इति ।
तन्न । अम्बादिशब्दानामिव पारतन्त्र्यादिशब्दानामपि ससंब- न्धिकतया ब्रह्मसंबन्धिपारतन्त्र्यस्य चाप्रामाणिकत्वेन, अप्रामाणिकस्यैव प्रामाणिकत्वभानस्याशाब्दत्वेनासंभवात् । च तस्य स्फुरणात् । असद्धेतुरित्यत्र हेतुपदस्य तदाभासपरत्वमिव राहित्यपदसमभिव्याहृत- पारतन्त्र्यपदस्य तदाभासपरत्वावश्यंभावात् । अन्यथा नास्तिपदसमभि- व्याहारेऽपि शशशृङ्गस्यापि प्रामाणिकत्वापत्तिः ।
न च पारतन्त्र्यस्याप्रामाणिकत्वे तद्राहित्यस्य केवलान्वयित्वे- नातिव्याप्त्यापत्तिलक्षणस्येति वाच्यम् । तदारोपप्रधानस्य प्रामाणिक-पारतन्त्र्यादेः तद्राहित्यविरोधित्वेन तद्वति जीवे तदसंभवात् । एवं राहित्यपदसमभिव्याहारेण चिन्तासन्तापादीनामपि अप्रामाणिकत्वमेव ।
किञ्च जीवगतपारतन्त्र्याभावेऽपि कुतो ब्रह्मणस्तदभावः । स्वयं पारतन्त्र्यवत्यपि तत्संभवात् । न ह्येकमेव पारतन्त्र्यं सर्वत्रानुगतम् । मिन्नाश्च भिन्नधर्माश्चति श्रुतेः । न हि जराग्रस्तः परकीयजराऽभाव मात्रेण युवा भवति । तथा च लक्षणासंभवः ।
यदप्यत्र 'निर्दोषत्वं यत्किञ्चिद्दोषाभावो वा यावद्दोषाभावो वा । आद्येऽप्यन्यदीयदोषाभावो वा तत्सजातीयदोषाभावो वा ब्रह्मीयदोषा- भावो वा इति विकल्प्य अन्यदीयदोषाभाव इत्याद्ये आद्यं तावदङ्गी कुर्मः । तत्र परकीयस्यापि पारतन्त्र्यरूपसाधारणदोषस्य किञ्चित्पदेन ग्रहणात् ब्रह्मेतरसर्वस्यापि तद्दोषत्वेनातिव्याप्त्यभावात्' इत्यभिहितम् । तन्न । पारतन्त्र्यस्याननुगतत्वेन इतरवृत्तिपारतन्त्र्याभावेऽपि स्वस्य पारतन्त्र्यवत्त्वसंभवादित्यनेनैव दत्तोत्तरत्वात् । तथा चासंभवस्यानिस्तारः । जीवे अतिव्याप्तिश्च । ब्रह्मणि समन्वयनदशायां ब्रह्मेतरमात्रस्य परपदार्थत्वेऽपि जोवेऽतिव्याप्तितत्परिहारावसरे ससंबन्धिकपरशब्देन तदितरस्यैव व्युत्पत्तिबललभ्यत्वेन तादृशदोषाभावस्य जीवेऽपि धौन्यात् ।
यदपि 'जीवदोषसदृशदोषस्य जीवान्तरे प्रामाणिकत्वात्तद- भावोऽपि लक्षणमिति अन्यदीयदोष सजातीयदोषाभावस्यापि लक्षणत्व-कल्पनं तदपि अनेनैव निरस्तम् । अतिव्याप्तेस्तादवस्थ्यात् । तथा हि अन्यशब्देन किं स्वमित्रसर्वमुच्यते उत यत्किञ्चित् । आद्ये सर्वेषामपि दोषाणां अन्यदीयत्वेन तत्सजातीयस्याभावात्तस्य जीवान्तरे प्रामाणिकव- प्रत्याशाऽयोगात् । द्वितीये देवदत्तस्यापि यज्ञदत्तदोषसजातीयचैत्रादि-दोषाभाववत्वेन अतिव्याप्तेः ।
यदप्युक्तं प्रामाणिकयावद्दोषाभावोऽपि लक्षणमिति तदपि चिन्त्यम् । अत्र यावत्वं दोषस्य विशेषणम् । अभावोऽप्यत्यन्ताभाव इति वक्तव्यम् । एवमपि प्रामाणिकत्वस्य अन्यविशेषणीभूतार्थबोधक-यावत्पदव्यवधानेन दोषविशेषणताऽयोगात् । अभावविशेषणत्वे वैयर्थ्यम् । लक्षणत्वकथनेनैव तस्य प्रामाणिकत्वलाभात् । अन्यथा प्रामाणिकसास्त्रादिमत्त्वं गोलक्षणमिति लक्षणकथनप्रसङ्गात् ।
प्रामाणिकत्वस्य दोषविशेषणत्वेऽपि वैयर्थ्यमेव । न चाप्रामा- णिकदोषाभावं केवलान्वयिनमादाय जीवेऽतिव्याप्तिपरिहारार्थं तदिति वाच्यम् । प्रामाणिकदोषवतस्तस्य यावद्दोषाभाववत्त्वाभावेन अतिव्या- त्यप्रसक्तः । तद्विशेषणपरित्यागेऽपि यावन्तो दोषाः ब्रह्मीया वा अन्यदीया वा इत्यादिविकल्पदोषानिस्तारः । दोषत्वावच्छिन्नाभावोऽपि न विवक्षार्हः । यावद्विशेषाभावातिरिक्तसामान्याभावस्य शास्त्र एव निरस्तत्वात् ।
यदप्यत्रोक्तम् 'अत एव तत्त्वप्रकाशिकायां चिन्तासन्तापेत्यादिना प्रामाणिक यावद्दोषपरतया दोषवर्जितपदं व्याख्यातम् । एवं च केनापि अस्पृष्टमित्यर्थलाभात् न क्वाप्यतिव्याप्तिः । तदुक्तं चन्द्रिकायां 'अस्पृष्ट- दोषगन्धाय' इति, इति सर्वं सुस्थम्" इति । तदपि न समञ्जसम् । चिन्तासन्तापेत्यादिटीकायां न किमपि चिन्तादीनां प्रामाणिकत्वद्योतक- मस्ति । न च चिन्तादिपदवाच्यत्वमेव तज्ज्ञापकम् । ब्रह्मीयदोषाणा- मपि तद्वाच्यत्वात् । अन्यथा शशशृङ्गमिति व्यवहारानापत्तेः । किञ्च दूरमित्येतावतैव पूर्वौ यदतिदूरमित्युक्तं तेन दोषसंबन्धस्यात्यन्तासत्वमेवा- भिप्रेयते । चन्द्रिकायामपि अस्पृष्टशब्दप्रयोगस्वारस्यात् दोषगन्धानाघ्रा-तत्वमेव लक्षणं इति विवृतम् । न त्वेव दोषाणां प्रामाणिकत्वं तदभिप्रेतम् ।
यत्रोक्तं ब्रह्मीयदोषस्य चाप्रामाणिकत्वात्तदभावो न लक्षणमिति । तन्न । अस्य लक्षणस्य निरवद्यत्वात् । न च जीवेऽतिव्याप्तिः । अस्य स्वीयदोषाभाव इत्यर्थकत्वेन स्वशब्दस्य च समभिव्याहृतपरत्वेन जीवे च तदीयदोषाणां विद्यमानत्वेन अतिव्यात्यप्रसक्तेः । अत एव स्वसंसृष्ट-दोषात्यन्ताभावो भगवलक्षणमिति प्राचा वाचः ।
एतेन यदुक्तम् 'ब्रह्मीयत्वस्य व्यधिकरणधर्मतया तदवच्छिन्न-स्यालीकत्वेन तदभावस्य सार्वत्रिकत्वापत्तिरि'ति तदपि ब्रह्मीयेत्यस्य स्वीयेत्यर्थकत्वकथनेनैव दत्तोत्तरम् ।
यदप्युक्तम् दोषाणां आरोपितत्वे तदभावस्य सार्वत्रिकत्वेनाति- व्याप्तिरिति । तदपि न । आरोपितत्वस्य लक्षणे निवेशाभावेन दोषानव- काशात् । न हि विद्यमानमात्रेण लक्षणे प्रवेशः ।
वस्तुतस्तु स्वारोपितदोषात्यन्ताभावो लक्षणम् । जीवे च वास्तवदोषाणामेव सद्भावेन तत्र तदारोपासंभवात् तत्र दोषारोपपूर्वक- प्रतीतिविषयाभावरूपविवक्षितलक्षणस्यातिव्यात्यनवकाशात् ।
अत एव प्राहुः श्री श्रीनिवासतीर्थाः "दोषात्यन्ताभावरूपं निर्दो- घत्वं कथं भगवलक्षणम् । सिद्धान्ते प्रामाणिकप्रतियोगिकात्यन्ताभावा- भावेन दोषाणां जीवे प्रामाणिकतया तत्प्रतियोगिकात्यन्ताभावासंभवात्' इत्याशङ्कय 'निर्दोषत्वं नाम आरोपितदोषात्यन्ताभावः । आरोपित-दोषाणां चाप्रामाणिकत्वात् तत्प्रतियोगिकात्यन्ताभावः संभवति । आरोपितदोषात्यन्ताभावश्च दोषारोपपूर्वकप्रतीतिविषयाभावरूप इति न वास्तवदोषाधारे जीवेऽतिव्याप्तिः" इति ।
यच्च अन्यदीयदोषसजातीयदोषाभावो वा इति विकल्प्य तत्पक्षे दूषणमुक्तम् । भगवति आरोपितदोषाणां अलीकत्वेन जीवे च दोषाणां सवेन सदसतोरेकजात्यसंभव इति । तन्न । साजात्यरूप-धर्मेण सहैव धर्मिणो दोषस्य निषेधात् । गवादिविषाणसजातीयं विषाणं शशस्य नास्तीतिवत् ।
किञ्च कुतः सदसतोरेकजातीयत्वासंभवः । दोषत्वप्रकारक-ज्ञानविषयत्वादिना सादृश्यसंभवात् । हेतुशब्दस्य हेत्वाभास इव दोषशब्दस्यापि आरोपितदोषेऽमुख्यवृतेर्व्याय्यत्वात् । असदप्रामाणिक-तुच्छादिशब्दैरसतो वाच्यत्वस्यापि 'एतेन सर्वे व्याख्याता' इत्यादि- सूत्रभाष्यटीकाऽऽयैः निरूपितत्वाच्च । उक्तं हि द्वैतद्युमणौ । 'अतः शाब्दबोधानुकूलज्ञानविषयीभूतशक्त्यंशे अविशेष्यत्वात्तत्रा शक्यत्वव्यव-हारः । एवं च तादृशप्रतियोगित्वांशे विशेषणतया वाच्यत्वसत्वादुक्त-टीका सङ्गतैव ।' इति । विस्तरस्तत्रैव 'तथा च मिथ्यैव रजतमित्यस्य नास्ति रजतं रजतात्यन्ताभावोऽस्तीत्यर्थः” इति टीकाव्याख्याने द्रष्टव्यः । 'अधिष्ठानं च सदृशं तथ्यवस्तुद्वयं विना' इति वाक्यटीका- व्याख्यानावसरे आरोप्यस्य अधिष्ठानप्रधानोभयसादृश्यस्य लघुप्रभायां निरूपितत्वाच्च ।
अत्र एकजातीयत्वं नाम सादृश्यमेव । पराभिमतानुगतजातेरप्रामाणिकत्वात् । तच्च सादृश्यं पदार्थान्तरमखण्डम् । न तु तद्गत-भूयोधर्मवत्त्वं येनारोपिते तदसंभव इति शङ्काऽवकाशः ।
यद्वा आरोप्यस्य यत्किञ्चित्प्रतियोगिकसादृश्यानाश्रयत्वेऽपि किञ्चिन्निष्टसादृश्यप्रतियोगित्वसंभवात् प्रतियोगित्वस्य रूपादिवद्धर्मिसत्ता-सापेक्षत्वाभावात् नोक्तदोषः ।
न चैवं न च धूमत्ववन्मिथ्यात्वमित्युभयसंप्रतिपन्नं सामान्य-मस्ति' इति वचनविरोधः । तत्र घूमत्वेनेव अत्र चिन्तात्वसन्तापत्वा-दिना सादृश्योक्तावेव तत्प्रसरात् । अत्र तु न तथेत्युक्तम् ।
तदेवं सिद्धान्ते प्रामाणिकप्रतियोगिकात्यन्ताभावाभावेन दोषा-त्यन्ताभावो नाम दोषारोपपूर्वकप्रतीतिविषयाभाव एव निर्वक्तव्यः । तद्वत्वं च भगवतो निर्दोषत्व पदेनाभिहितं लक्षणमिति श्रीश्रीनिवास-तीर्थानां सांप्रदायिक ऋजुः पन्थाः । तदेतत् प्रौढिवादेनैव केचिदेव आक्षिपन्ति ।
'प्रामाणिकप्रतियोगिकात्यन्ताभावो नास्तीति कापि विस्पष्ट-वचनाभावेन तन्निश्चयायोगादिति" ।
तन्न । एतद्विषये परः सहस्राणां प्रमाणानां सुस्पष्टानां निरव-काशानां विद्यमानत्वेन तदभावोक्तिः प्रौढिवादेनैव परमतरीत्या उपक्षिप्त इति सुधियः सुलभतयैव निश्चिन्वन्ति ।अत्र कतिपयानि प्रमाणानि दिग्दर्शनार्थ उदाहरिष्यन्ते ।