उदाहृतं सौधम् निर्वचनं पररीत्यैव ..

अत्यन्ताभावद्वैविध्यनिराकरणम्
एतेन यदुक्त बालनाम्ना, 'उदाहृतं सौधम् निर्वचनं पररीत्यैव । तन्मते अतीतादौ प्रातिभासिके चातिव्याप्तिवारणाय निषेधस्य सार्व-कालिकत्वविशेषणं अश्वत्वादौ तद्वारणाय सार्वदेशिकत्वविशेषणं चे 'ति । तदपि निरस्तम् । परेण अभावविरहात्मत्वरूपप्रतियोगित्वस्यात्यन्ता-सत्यनङ्गीकारात् । तदन्यथाऽनुपपत्यैवासद्वैलक्षण्यस्य तेन साधनात् ।

रूपरसदृष्टान्तस्य साधनवैकल्यापत्तेश्च । 'अविद्या सह कार्येण नासी-दस्ति भविष्यति' इति खलु तत्सिद्धान्तः । अतीतादौ प्रातिभासिके च त्रैकालिकनिषेधप्रतियोगिकत्वं तेनाभ्युपगतमेव । एवं प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं मिथ्यात्वमिति परिष्कुर्वता अश्वेऽपि अश्वत्वनिषेध- स्तेन स्वीकृत एवेति यत्किञ्चिदेतत् ।
एतेनैव, प्रामाणिकप्रतियोगिकोऽत्यन्ताभावो नास्तीति क्वापि विस्पष्टवचनाभाव इत्युक्तं प्रत्युक्तं वेदितव्यम् । सुबहूनां निरवकाशो-क्तीनां प्रदर्शितत्वात् । दर्शयिष्यमाणत्वाच्च । यच्चात्र विकल्पितं आत्यन्तिकत्वमपि त्रैकालिकत्वं निषिध्यते इत्यादि तत्र आत्यन्तिकत्वं निषिध्यते इति ब्रूमः । न च तथा सति घटत्वादिनिषेधस्य पटादौ सर्वदा प्रतीयमानत्वेन त्रैकालिकत्वस्य निषेद्धमनर्हत्वमिति वाच्यम् । निषेधस्य प्रसक्तिपूर्वकत्वस्य व्यवस्थापितत्वेन प्राप्तस्याप्रामाणिकस्य घटत्वादेस्तत्संसर्गस्यैव वा निषेधाङ्गीकारात् ।
तत्र एतेनैव च "अत एव तर्कताण्डवे 'केवलान्वय्यभावप्रतियो-गित्वे गगनादेरत्यन्तासत्वं स्यात्' इति अभावस्य उभयविधात्यन्ति- करवेन प्रतियोगितोऽत्यन्तासत्वमापादितं" इति तर्कनाण्डवोक्त्युदाहरण मपि निरस्तम् । तत्र अभावमात्रश्रवणादत्यन्ताभावस्याश्रवणात् । तत्र च केवलान्वयि विशेषणस्य प्रागभावादिव्यावृत्त्यर्थमावश्यकत्वात् । सिद्धान्ते सर्वदेश संसृष्टस्यैव केवलान्वयिरूपत्वात् । केवलं अन्वयो यस्येति केवलान्वयिशब्देन तस्यैव ततः प्रतीतेः । तार्किकैः अत्यन्ता-भावस्य सत्प्रतियोगिकत्वाभ्युपगमादूदूषणस्य परन्यायेन भाव्यत्वाद्वा ।
इदं च परन्यायेन प्रवृत्तमित्यत्र 'तार्किकमते नित्यद्रव्याणामवृ-त्तित्वेन तदत्यन्ताभावः केवलान्वयीति न दृष्टान्तः साध्यविकलः' इति न्यायामृतवाक्यमेव प्रमाणम् ॥
एतेनैव च 'घटादौ सत्त्वं अभावप्रतियोगित्वलक्षणमसत्त्वं च प्रत्यक्षादिसिद्धमि' ति सुधोदाहरणमपि पराकृतम् । तत्राभावशब्दस्य प्रागभाव पध्वंसान्यतरपरत्वस्योक्तत्वात् । अन्यथा यद्धि सकलदेश-कालासत् तदत्यन्ताभावप्रतियोगीत्युच्यते इति अव्यवहितपूर्ववाक्य-विरोधात् । न च तत्रापि अत्यन्ताभावपढं सार्वदेशिकसार्वकालिक-रूपात्यन्ताभावैकदेशिपरं उत्तरत्र अभावपदं सार्वकालिकात्यन्ताभावपरं अतो भिन्नविषयत्वान्न विरोध इति वाच्यम् । एवं विवक्षाया निर्मूल- त्वात् असंभवित्वाश्च । सत्त्वासत्त्वे एकवस्तुनिष्ठात्यन्ताभावप्रतियोगिनी इत्यत्र साध्यशरीरे अत्यन्ताभावपदेन मायिना भवदभिमतात्यन्ताभाव- प्रभेदस्य निवेशयितुमशक्यत्वात् । तथा सति तेन रूपरसादिदृष्टान्ती- करणासान्गत्यापत्तेः
अतो वस्तुवृत्त्याऽत्यन्ताभावस्यैव यद्धीत्यादिना सुधायां निर्वचनमिति सिद्धम् । परानभिप्रेतद्वितीयाभावमाश्रित्य सुधायां दोषोक्तिकल्पने क्लृप्तहान्यक्लृप्तकल्पनादिदोषापत्तेः । सत्त्वाभावोक्तेः संसर्गाभावार्थकत्वेन सावकाशितत्वात् । सत्त्वाभावः संसर्गाभाव इति चानर्थान्तरम् । यद्धीत्यादिवाक्यं निरवकाश, स्वोपाधावित्यादिकं तु सावकाशम् । अतः स्वोपाधावित्यादिकस्यैव उक्तरीत्या संसर्गाभावार्थ-कत्वमुपादाय व्याख्यानं विशिष्टव्याख्यानकर्तृभिराज्ञापितम् । अतः अत्यन्ताभावस्यैव द्वैविध्येन विभागानुपपत्तौ तन्मूलकप्रतियोगिविभाग-चिन्ताऽभित्तिचित्रायिता ।
यच्चोक्त 'अपि च प्रागभावप्रध्वंसानधिकरणकालस्यात्यन्ताभावा-नधिकरणत्वे प्रतियोग्यधिकरणकालत्वनियमवत् देशस्यापि तथात्वेन ब्रह्मणोऽपि तात्विकदोषप्रागभावप्रध्वंसात्यन्ताभावानधिकरणस्य तदधि-करणत्वापत्या त्वदभिलषित निर्दोषत्व भङ्गप्रसङ्ग' इति । तदपि न चारु ।
अत्यन्ताभावस्य प्रामाणिकप्रतियोगिकत्ववादिभिरपि तस्य सार्वदैशिकत्वानङ्गीकारेऽपि त्रैकालिकत्वस्य नियमेनाभ्युपगमात् अत्यन्ता-भावानधिकरणकालस्य तन्मतेऽप्यप्रसिद्धेः देशस्यापि तथात्वेनेत्युक्तेरयोगात् । ब्रह्मणो दोषाधिकरणत्वापादने आपाद्यापादकयोर्व्याप्तिः जीवे प्रदर्शनीया । न च तत्संभवति । जीवस्य दोषप्रागभावप्रध्वंसा- नधिकरणत्वाभावेन तस्मिन्नापादकासिद्धेः । दोषस्वरूपेषु कल्यादिषु आपादकसंभावनायामपि तेषु आपाद्यस्य दोषाधिकरणत्वस्यासिद्धेः । विशेषबलेनैव हि केवलं तेषु तथात्वव्यवहारः ।
अथ मतम् । यत्र यत्प्रागभावध्वंसात्यन्ताभावानधिकरणत्वं तत्र तद्वत्वं इति सामान्यव्याप्तिराश्रीयते । तद्बलेन च ब्रह्मणो दोषवत्त्व-मापाद्यते इति चेन्न । तथापि घटसंसर्गाभावाधिकरणे भूतले घटवत्त्वा- दर्शनेन व्याप्तिभङ्गात् । यदि तद्वारणाय संसर्गाभावानधिकरणत्वमपि आपादकशरीरे प्रवेश्यते तर्हि दोषसंसर्गाभावाधिकरणे ब्रह्मण्यापादक - सिद्धिः ।
आनीतानेष्यमाणघटवति भूतले भवदुक्तसामान्यव्याप्तेर्व्यभिचारः सुस्फुट: । विशेषणे च पूर्वोक्तदोष इति ।
किञ्च दोषाः तात्विकाः, अत्यन्ताभावप्रतियोगिनश्चति व्याहतम् । तदुक्तं वादावल्यां अंशित्वानुमानभङ्गे 'अत्यन्ताभावस्य निष्प्रतियोगिक-त्वेन बाधितं' इति । 'एतत्पटात्यन्ताभावस्यास्माकमसिद्धेरिति च ।
'दोषात्यन्ताभावानधिकरणत्वे दोषित्वं स्यात्' इति व्याप्तिरपि तत्रैव दूषिता । ' पटान्तरस्य अत्यन्ताभावो न चेत् पटः किं न स्यात् । किमत्र पटसंसर्गः स्यात् पटो वा । आद्ये न व्याप्तिसिद्धिः । द्वितीये सिद्धसाधनमिति । तदिदं विकल्प्य दूषणमत्रापि समानम् । व्याप्त्य- सिद्धिः स्पष्टीकृता टिप्यण्यां श्रीराघवेन्द्रतीर्थेः । 'मन्मते अश्व गोत्वा- त्यन्ताभावाभावेऽपि गोत्वसंसर्गस्याभावात्' इति । 'पटान्तरस्य एतत्तन्तुषु संयोगेनावस्थानसंभवादिति च तर्कस्येष्टापादनत्वं चोक्तम् । एवं दोषाणां नियम्यनियामकभाव संबन्धेन ब्रह्मण्यस्थान संभवादिति ब्रह्मण्यवस्थानसंभवादिति समाधिरत्रापि समः ।
यदत्रोक्त बालनाम्ना, वादावल्यां अत्यन्ताभावस्य निष्प्रतियो-गिकत्वे उक्तो बाधः परस्य अपसिद्धान्तार्थक एव इति तन्न । प्रबल- प्रमाणविरोधात्मकस्य बाधस्य स्ववचनविरोधात्मकापसिद्धान्तरूपत्वानुपपत्तेः । उत्तरत्र मूले टिप्पणीषु च सिद्धान्त एव प्रबलप्रमाणविरोध-व्युत्पादनस्यैव स्पष्टं दर्शनाच्च ।
अस्तु वा अत्यन्ताभावस्य भवदभिमतो विभागः अथापि तत्पदेनात्र सः सार्वत्रिक: अभिमतः उत भवदभिमतः असार्वत्रिकः अथ साधारणः ॥
आद्येऽपि किं प्रतियोगिभूता तात्विकामिमता दोषा ब्रह्मीयाः किं वा जैवाः । नाद्यः । तदत्यन्ताभावस्यास्माभिरनिषेधात् । तेषां तात्विकत्वायोगाच्च । भूतले तात्विकं शशविषाणं नास्तीतिवत् तात्विकत्वेन सहैव निषेधोपपत्तेः । तथा च तर्के आपादकासिद्धिः । न द्वितीयः । जैवदोषाभावस्य सार्वत्रिकताया भवद्भिरनङ्गीकारात् । अङ्गीकारे वा जीवेऽपि दोषाभावापत्या भवदभिमतप्रतियोगिप्रामाणिकताया अलाभात् ॥
असार्वत्रिक इति द्वितीयेऽपि पुनः प्राग्वद्विकल्पः । तत्र ब्रह्मीया इति आद्यपक्षे व्याघातः । तर्कस्य विपर्ययपर्यवसानावश्यंभावेन ब्रह्मणि ब्रह्मीयतात्विकदोषात्यन्ताभावाधिकरणत्वमेवेति पर्यवसातव्यम् ।
तथा च कथं न व्याघातः । तद्वति तदभावायोगात् । जैवा इति द्वितीये तदत्यन्ताभावाधिकरणस्यापि तत्संसर्गाभावाधिकरणत्वेन तदनधि- करणत्वोपपत्त्या न निर्दोषत्वभङ्गः ।
नापि साधारण इति अन्त्यः । असार्वत्रिकात्यन्ताभावस्यास्मा-मिरनङ्गीकारात्तयोः साधारण्यासंप्रतिपत्तेः इति ।
यदप्यभिहितम् 'किञ्च प्रतियोगितावच्छेदकात्यन्ताभावस्य प्रतियांग्यन्योन्याभावव्यापकतया ब्रह्मणस्तात्विकदोषाभावे व्यापक निवृत्ति न्यायेन दोष्यान्योन्याभावस्यापि अभावापातेन, परस्परविरुद्ध योरिति न्यायेन तद्विरोधिदोषितादात्म्यापातेन जितमद्वैतवादिनेत्यादि तदपि न समञ्जसम् । प्रतियोगिताऽवच्छेदकसजातीयात्यन्ताभावो वा प्रति-योगितावच्छेदकसंसर्गाभावो वा प्रतियोग्यन्योन्याभावव्यापक इत्यङ्गी-कारेण ब्रह्मणि च तदुभयसन्त्वेन व्यापक निवृत्त्यभावात् व्याप्यनिवृत्त्यनुपपत्तेः । प्रतियोगितावच्छेदकात्यन्ताभावस्यैवालीकत्वेन व्याप्यव्यापक-भावस्यैवाभावाच्च ।
यञ्चोक्तं 'किञ्च योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति' इत्यादिश्रुत्या आनुभाविकदोषाभावस्यैवोक्त्या तद्विरोध इति । तदपि न साधु । अत्र सजातीयाशनायाद्यभावस्यैव श्रुत्यभिप्रेतत्वात् । अन्यथाऽन्यदीयाशनायाद्यभावस्य सर्वत्र सौलभ्येनाविशेषापातः ।
किञ्चात्येतीति अत्ययशब्दस्योपचार उभयोरविशिष्टः । केवलं उपचारपटकसा दृश्यहेतुर्भवन्मतेऽत्यन्ताभावः अस्मन्मते तु संसर्गाभावा-दिरिति तु वैधर्म्यमात्रम् । आरोपितानां सजातीयानामप्यानुभाविकत्वे-नानुभाविकपदस्याकिञ्चित्करत्वात् । न चारोपिनाशनायाद्यभावस्य श्रुत्यर्थत्वा संभवः । ईश्वरे अपरोक्षारोपासंभवेन परोक्षारोपस्य च धर्मिणो निर्दोषतयैव श्रुत्या ज्ञायमानतयाऽयोगादिति वाच्यम् । श्रुत्यर्थतात्पर्य-निर्णयात्पूर्वं चेतनत्वाद्याभासानुमानानुगृहीततात्पर्य कदुःखिबद्धावरादि-श्रुत्यापातजनितप्रतीतिरूपतत्प्रसत्ते रावश्यकत्वात् । अन्यथैक्य निषेधरूप- भेदप्रतिपादनाय शास्त्रे तत्प्रसक्त्युपपादनानर्थक्यापत्तेः ।
यदप्युक्तं, तात्विकधर्माणामत्यन्ताभावाभावे तेषां केवलान्वयि- त्वापत्त्या व्यतिरेक्यसाधारणधर्मत्वरूपलक्षणाभावेन तैरितरभेदानुमाना- नुपपत्तिरिति तदपि न साधु । तात्विकधर्माणामत्यन्ताभावाभावेऽपि तत्संसर्गाभावादेरुपपादितत्वेन सास्त्रादिमत्त्वादेः तद्गर्भित केवलान्वयित्वा-द्यप्रसक्त्या तल्लक्षणस्याक्षुण्णत्वेन इतरभेदानुमानानुपपत्त्यभावात् । अन्यथा केवलान्वयित्वेनाभिमतानामपि प्रमेयत्वादीनां सिद्धान्ते प्राति-स्विकत्वेन परोपाधौ अत्यन्ताभावप्रतियोगित्वे अवश्यमङ्गीकार्ये अकेव-लान्वयित्वापत्तेः ।
एतेन केवलान्वयिलिङ्गमात्रावशेषप्रसङ्गोऽपि समाहितः । एवं लक्षणोक्तिव्याघातोऽपि परास्तः । अत्यन्ताभावस्थाने संसर्गाभावस्याभिषिक्तत्वात् ।
यच्चामिहितं 'हेतूनां विपक्षवृत्त्यभावाभावेन व्यभिचारित्वापत्तिश्च । तात्विकसाध्यप्रतियोगिकाभावाभावेन विपक्षत्वानुपपत्तिश्च ।साध्यविपरीतधर्मो विपक्ष इति विपक्षलक्षणविचक्षणवचनविरोधश्च' ति तत्सर्वमनेनैव दत्तोत्तरं वेदितव्यम् । हेतोः हेतुजातीयस्य वा प्रामा-णिकस्य विपक्षवृत्तिसंसर्गाभावप्रतियोगित्वेन वा अप्रामाणिकस्यैव हेतु- जातीयस्य विपक्षवृत्त्यन्ताभावप्रतियोगित्वेन वा हेतूनामव्यभिचारित्वोपपत्तेः । तात्विकसाध्यप्रतियोगिकाभावाभावेऽपि तत्सजातीयाभावेन विपक्षत्वोपपत्तेः । अन्यथा धर्माणां प्रातिस्विकत्वेन साध्यवह्निप्रतियोगि-काभावस्य महानसे सत्त्वेन दृष्टान्तस्य साध्यवैकल्यापत्तेः । अत एव तर्कताण्डवे, “धूमजातीयस्य वह्निजातीयरहिते अवृत्तिः धूमस्य वह्नि- व्याप्तिः, लक्षणजातीयस्य लक्ष्यजातीयेऽवृत्तिरव्याप्तिः' इत्यादिना साजात्यगर्भिततयैव लक्षणनिर्वचनं कृतम् ।
एवमपि व्याहतिमनालोच्य तात्विकानामेवात्यन्ताभावोक्तौ तस्य निःस्वरूपत्वेन तदभावस्य सर्वगामित्वेन निर्दोषत्वस्य लक्षणत्वासंभवेन जीवेश्वरयोर्भेदकत्वासंभवेन तेनैव न्यायेन जगति भेदकधर्माभावेन भेदमात्रविलयापच्या बहुविप्लवापातः । प्रमाणप्रमेयतदुपपाद का शेष-विलयापातेन तदुपपादकाशेषश्रुतिस्मृतिव्याकोपप्रसङ्गश्च ।
च्चोक्तं 'किञ्च प्रामाणिकप्रतियोगिकात्यन्ताभावाभावे निर्गुण-श्रुतेर्गुणत्रय निषेधपरत्वानुपपत्तिरि'ति तदपि न विचारसहम् । तथा हि । किमियं श्रुतिः गुणत्रयं स्वरूपेण निषेधतीत्यभिप्रायः उत तत्संबन्धं आहोस्वित्तत्कृतनीचत्वादिकम् । नाद्यः उपादानाभावेन महत्तत्वाद्यनुत्पत्तिप्रसङ्गः । न द्वितीयः सर्वाधारत्वश्रुतिव्याकोपापातात् । आत्मकृतेः परिणामादित्यादिसूत्रभाष्यादिभिर्गुणत्रयसंबन्धस्य प्रमितत्वात् । न तृतीयः तस्याभासत्वेनाप्रामाणिकतया तन्निषेधस्य सूत्रभाष्यादिभिः कृतत्वेन इष्टत्वात् । तेन प्रामाणिकप्रतियोगि कात्यन्ताभावासिद्धेः ।
किञ्च गुणकृतबन्धो नैक एव सर्वत्रानुगतः । किन्तु प्रातिस्विक एव । अतोऽत्र निषेधः सजातीय एव वाच्यः । स चाप्रामाणिक एवेति ।
यदत्रोक्तं 'किञ्च सत्त्वलक्षणे प्रतिपन्नोपाधाविति विशेषणवैय-र्ध्यम् । मन्दारमञ्जर्यां तु परमतेन प्रत्याग्रहमात्रं न तु व्यवस्थितिः । अन्यथा 'क्वापि शशशृङ्ग नास्तीत्यत्रापि प्रतियोग्यधिकरणसंसर्गाभावो विषय इति प्राश्या असतः शशशृङ्गादेः न क्वाप्यत्यन्ताभावः स्यात् ' इति तदपि न युक्तम् । अश्वे गोत्वसंसर्गाभावस्य त्रैकालिकतया तत्प्रतियोगित्वेन व्यवहियमाणे गोवे अव्याप्तिवारणाय प्रतिपन्नोपाधा-वित्यस्य सार्थक्यात् । ननु गोत्वादेः संसर्गाभावं प्रति प्रतियोगित्वं औपचारिकमेव । न तु मुख्यम् । अतः कथं व्यवहारमात्रेण तत्रा-व्याप्तिः इति चेत्सत्यम् । निर्दोषाशेषसद्गुणमित्यत्र दु:खादीनामपि गुणत्वव्यवहारात्सदिति विशेषणवदत्राप्युपपत्तेः । अत एवान्यत्रोक्त उपरञ्जकत्वेनोपपत्तिरिति ।
यद्वा, यद्यपि प्रतिपन्नोपाधावितिपदमनपेक्षितमेव । तार्किकादि-साधारण्येन सत्वलक्षणपरिष्करणायेदमुपात्तम् । तन्मते गोत्वादेरश्व- निष्ठात्यन्ताभावप्रतियोगिताङ्गीकारात् । अत एव च ' त्रिकार सर्व-देशीयनिषेधाप्रतियोगिता सत्तोच्यते' इति सस्वलक्षणे सर्वदेशीयपद- मुपात्तम् । उक्तं च न्यायामृते 'अश्व गोत्वं कदाऽपि नास्ति, तत्संसर्ग एव निषिध्यत' इति मते देशपदमनपेक्षितमेवेति । न चात्र मत इत्युक्तेः नैतत्स्वमतानुसारेणेति भ्रमितव्यम् । देवदत्तः पितरि साधुः मातरि साधुरित्यादौ स्वपित्रादिप्रतीतिवदन्तरङ्गतया स्वमत इत्येव प्रतीतेः उदयनमतरीत्येति कल्पनस्यानुपादेयत्वात् । प्रामाणिकप्रतियोगिकमेवा-त्यन्ताभावं वदता तेन संसर्गोऽपि प्रामाणिक एव निषिध्यते इति ब्रुवता घटादेः त्रैकालिकनिषेधप्रतियोगित्वस्याभ्युपगमेन तन्मतार्थत्व-ग्रहणत्वस्यान्याय्यत्वाच्च । तन्मते तुच्छस्य निषेधप्रतियोगित्वानभ्युप-गमात् अध्यस्तस्यान्यत्र सत्वेन तन्निषेधस्य सार्वदेशिकत्वानभ्युपगमात् । गगनाद्यभावस्य केवलान्वयित्वाभ्युपगमाच्च तन्मतेन लक्षणस्याशक्य- व्याख्यानत्वाच्च ।
तन्मते इत्युक्तिमात्रस्य परमते इत्युत्प्रेक्षायां 'आकाशस्य भेदो नास्तीति मते इत्याचार्या' इत्यादावपि एवमेव व्याख्यानोत्प्रेक्षाssपत्तेः । एवं 'स्वभावाज्ञानवादस्य' इत्यादावपि स्वपदाप्रयोगमात्रेण तद्वादस्यापि परकीयवादत्वकल्पनापत्तेः ।
किंचात्रैव न्यायामृते उत्तरत्र विवरणादिदं लक्षणं स्वमते- नैवेत्यवसीयते । 'किञ्च इह भूतले घटो नास्तीति प्रतीतेः संसर्गाभावो विषयः न घटाभाव' इति अनिर्वाच्यत्वसाधकनिषेधप्रतियोगित्वान्यथा-ऽनुपपत्तिभंगे लक्षणस्य स्वसिद्धान्तमेवेति निरूपितम् । एवं 'भूतले घटो नास्तीत्यादौ भूतलघट संसर्गस्यैव निषिध्यमानत्वादि' त्यादि मन्दारमञ्जर्यांच ।
क्वापि शशशृङ्गं नास्तीति धियः संसर्गनिषेधविषयत्वं तु नानिष्टम् । न च स्वरूपनिषेधासिद्धिः । शशशृङ्गं नास्तीति प्रतीत्या तत्सिद्धेः । क्वापि इति सर्वदेश संबन्धनिषेधे तत एव स्वरूपनिषेधस्यापि सिद्धेश्च ।
यदत्रोक्तं 'न चात्र प्रतियोगिनोऽन्यत्र सत्त्वाद्वैषम्यादिति वाच्यम् । अन्यत्र सन्त्वस्य तत्रात्यन्ताभावप्रतीत्यविरोधित्वादि'ति । तत्तु उदाहृतसकलप्रमाणविरोधादेव निरस्तम् । निषेधप्रतियोगित्वस्य सत्तादशायां स्वाश्रयसत्ताऽसहनस्वभावत्वस्य व्यवस्थापितत्वात् ।
यच्चापि कथितं 'किञ्च न तौ पशौ करोति न सोमे अध्वरे न चतुस्त्रिंशदिति ब्रूयात्, न गिरा गिरेति ब्रूयात्, नास्यान्नमद्यात्, नास्य पल्पूलनेन वास: पल्पूलयेयुः' इत्यादि प्रामाणिकप्रकृतनिषेध एवेष्ट इति पूर्वमीमांसाविरोध' इति ।
तदपि न युक्तम् । पूर्वमीमांसाविरोधस्याकिञ्चित्करत्वात् । अन्यथा तद्भीरुभिः सिद्धार्थे शक्तिग्रहाद्यभावोऽङ्गीकार्यः स्यात् ।
वस्तुतस्तु विरोध एव नास्ति । श्रुत्यर्थस्यान्यथाव्यवस्थितत्वात् । तत्र हि पश्वाद्यधिकरणकाज्यभागसंबन्धस्यैव निषेधः स्पष्टमवगम्यते । अन्यथा पशाविति श्रुतप्राकरणिकसप्तम्यन्तपदवैयर्थ्यप्रसङ्गात् । आज्य-भागादेः प्रकृतौ सतः स्वरूपनिषेधासंभवात् । अन्यथा बहुधिकरणप्रमेयोपप्लवापत्तेः ।
किञ्च किमत्र न चतुस्त्रिंशदिति ब्रूयादित्यादौ प्रामाणिकत्वेन प्रकृतं यदत्र निषिध्यते इत्युच्यते चतुर्विंशदित्यादिब्रुवणादिकं वा तस्य कार्यता वा । नाद्यः प्रामाणिकस्यापलापानर्हत्वाद् । न द्वितीयः तस्य इष्टसाधनत्वरूपत्वेन सुरापानादाविवाप्रामाणिकत्वात् । ब्रुवणे इष्ट- साधनतानिषेधस्येष्टत्वात् । न तृतीयः प्रकृतानुपयोगेनास्या श्रुतेरनु-दाहरणीयत्वात् ||
वस्तुतस्तु प्रवृत्तिनिवृत्योः फलत्वासंभवात् विधाविष्टसाधनत्व-मिव निषेधेऽप्यनिष्टसाधनत्वमेवाज्यभागादेवगम्यते इति कस्याप्यभावो नावगम्यते इति बोध्यम् । अत एव कस्यचिदज्ञानप्रमादादिना पश्चादौ तदनुष्ठानेऽपि न विधिशास्त्रस्याप्रामाण्यं नापि प्रायश्चित्तशास्त्राप्रामाण्य-मिति तत्वम् । तदुक्तं भगवत्पादै: 'ज्ञात्वैव हि इष्टसाधनतां प्रवर्तते निवर्तते च विपर्ययेण' इति ।
यच्चाप्यत्रोक्तं 'अपि चाभावाभावस्य भावत्वं न स्यात् प्रथमा-भावप्रतियोगिनोऽप्रामाणिकस्य भावत्वायोगात् । भावाभावयोर्विरोध-वार्तैव न स्यात् प्रतियोगिनो भावत्वस्यैवासंभवादिति । तदपि न । प्रथमाभावस्यैवाप्रामाणिकत्वेन तत्प्रतियोगिनो भावत्वानुपपत्यभावात् । भावकाले अभावस्य अभावकाले भावस्य सत्त्वाभावोपगमात् प्रतियोगिनो भावत्वासंभवेऽपि तयोर्विरहाक्षतेः ।

यच्चोक्तं 'अपि च जीवदोषाः किं ब्रह्मणि सन्ति उत न । आद्ये तेनैव निर्दोषित्वभङ्गप्रसङ्गः । द्वितीये कथं प्रामाणिकस्य प्रति- योगित्वाभावः इति तन्न । आद्यपक्षस्त्वशक्यशङ्कः । जीवदोषसंसर्गा- भावस्य ब्रह्मण्यङ्गीकारेण द्वितीयपक्षदूषणस्यालत्वात् ।
यदप्युक्तं 'किं चैवं अन्योन्याभावप्रतियोगित्वमपि प्रामाणिकस्य न स्यात् । अप्रामाणिकतादात्म्यमात्रस्य निषिध्यमानत्वात्' इति तदपि न । अनिषेध्यस्यापि प्रतियोगित्वसंभवात् । अन्योन्याभावो हि तादात्म्यं प्रति अत्यन्ताभावरूपेणैवानुयोगी न स्वरूपेण । पटं प्रति तु स्वरूपेणैवानुयोगी नात्यन्ताभावरूपेण । अतः तादात्म्यमात्रं निषेध- प्रतियोगि न पटः । पटस्तु प्रतियोगिमात्रम् । न चैतदनुपपन्नम् । गोसादृश्यनिरूपकगवयादौ प्रतियोगितामात्रस्य दृष्टत्वात् । तस्मात् प्रामाणिकस्यात्यन्ताभावप्रतियोगित्वासंभवेऽपि अन्योन्याभावप्रतियोगित्वं
निर्बाधमेव ।
यच्च कथितंअपि च मा कुर्वच्युतविस्मृतिम्' इत्यादौ निषेध्यस्याच्युतविस्मृत्यादेरप्रामाणिकत्वस्यावश्यमङ्गीकर्तव्यत्वे जीवानां संसारस्यैवाभावापत्तिरिति । तदपि नोपपन्नम्।अच्युतविस्मृतेः कार्यतामात्रनिषेधात् स्याश्चाप्रामाणिकत्वादिति ॥
तदेवमनङ्गीकारे बाधकानामप्रसरात् तत्साधकप्रमाणाभावाच्च पूर्वोदाहृतविस्पष्टवचनैः प्रामाणिक प्रतियोगि कात्यन्ताभावाभावः सुलभ एव ।

तथा च मुनित्रयवचनेषु क्वापि प्रामाणिकप्रतियोगिकोऽत्यन्ता- भाव इति विस्पष्टोल्लेखाभावात् प्रत्युत अप्रामाणिकप्रतियोगिक एव स इति सुस्पष्ट निरवकाशक्तीनां सोपपत्तिकानां सुबहुलमुपलम्भात् यादवा-चार्य, तरङ्गिणीकृदाचार्य, परिमळाचार्य, कंभालूर रामचन्द्रतीर्थ, लक्ष्मीकान्त, वेङ्कटभट्ट प्रभृतिभिरशेषैः प्राचीनैर्व्याख्यातृभिस्तथैव व्याख्यानात् । युक्तिमल्लिकायामपि युक्तिपुरःसरं 'अत्यन्ताभावमात्रे तु प्रतियोगिन्यसत्यता नियता' इति समर्थनात्, अत्यन्ताभावः अप्रामा-णिकप्रतियोगिक एवेति स्थितम् ।
तेषां वचनेऽश्रद्धा तु निर्मत्सराणां निर्निमित्तैव ।
तथाच अत्यन्ताभावे सार्वकालिक इति सार्वदेशिकसार्वकालिक-इति च द्वैविध्यकल्पनं अप्रामाणिकं प्रमाणविरुद्धं च | तत एव तत्प्रतियोगिनोः असदिति अत्यन्तासदिति च विभागकल्पनमपि । किं नाम कालविशेष संबन्धित्वे सति कालविशेषासंबन्धिनोः प्रागभाव- प्रध्वंसाभावयोः यत्प्रतियोगि तस्यासदिति त्रैकालिक निषेधप्रतियोगिनश्च अत्यन्तासदिति च विभाग एवोचितः । अन्यथाऽभावत्रैविध्यस्य तत्त्व-संख्यानोक्तस्य भङ्गप्रसङ्गात् । चातुर्विध्यस्य स्वीकारापत्तेः । अत्यन्ता-सदित्यत्र अत्यन्तपदव्यावर्त्य कादाचित्कारत्वमेव ।
सदात्वेन भवदुक्तात्यन्ताभावयोरेकत्वविवक्षायां कदाचिदभाव-त्वेन प्रागभावप्रध्वंसयोरप्येकत्वविवक्षाऽस्तु । ततश्च पुनरभावत्रैविध्य-भङ्गः तदवस्थः । अर्धजरतीयानुपपत्तेः ।

तदेवं अत्यन्ताभावस्य काचित्कत्वाभावे श्रुतिस्मृतिसिद्धे अनुमानानि ।
अत्यन्ताभावो न स्वप्रतियोगिसमानकालीनः प्रतिषेधस्वरूपत्वात् प्रागभाववत् ।
अत्यन्ताभावप्रतियोगी न स्वाभावसमानकालीनः प्रतिषेधप्रति- योगित्वात् प्रागभावादिप्रतियोगिवत् ।
अत्यन्ताभावाधिकरणकालः न प्रतियोगिसत्तासंबन्धी अभावाधिकरणकालत्वात् घटप्रागभावाधिकरणकालवत् ।
घटकालो वा न तदभावत्वावच्छिन्नाधारः तदभावाभावाधार-कालत्वात् व्यतिरेकेण तदभावाधारकालवत् । इत्यादीनि ।
शशविषाणं नास्तीत्यादावपि शशे विषाणं नास्तीत्यर्थसंभवेन आन्यत्रिकविषाणात्यन्ताभावपरत्वोपपत्तौ सार्वत्रिकात्यन्ताभावाङ्गीकार- वैयर्थ्याच्च ।
एकत्र सतोऽन्यत्र तदत्यन्ताभावोपपत्तौ एकदा सतोऽप्यन्यद तदत्यन्ताभावस्याङ्गीकार्यत्वापाताच्च । सदातनत्वलक्षणविरोधान्नाङ्गीक्रियते इति चेत् हन्त तर्हि किमत्रापि न तद्विरोध:  प्राक् तत्रासतोऽन्यत्र स्थितस्य पुनः तत्र स्थापनोपपत्तेः । यो ह्यभावस्त्रैकालिकः स एवा-त्यन्ताभाव: यथा अश्वे गोत्वाभाव:, यस्तु न त्रैकालिकः स प्रागभावो वा प्रध्वंसाभावो वा यथेह भूतले घटाभाव:, तथा च न लक्षणविरोध- इति चेन्न । अत्यन्ताभावलक्षणविरोधाभावेऽपि प्रागभावादिलक्षण-विरोधानिरोधात् । प्रागभावप्रध्वंसाभावयोः प्राक्प्रध्वंससदात्वेनेत्युक्तं प्राक्त्वं अनन्तरत्वं च प्रतियोग्युत्पत्तिध्वंसापेक्षमेव न तत्संबन्धनिब-न्धनम् । तथात्वे संसर्गस्यैव तत्प्रतियोगित्वापत्या प्रागभावप्रध्वंसयो: घटप्रतियोगिकत्वविलोपपत्तेः । अस्मन्मनोरथसिद्धेश्च । प्रतियोग्युत्पत्तेः प्रागेवाभावोऽस्ति इति प्रतियोगिप्रध्वंसाभावानन्तरमेवाभाव इत्यादि तत्त्वसंख्यानादिटीका विरोधाच्च । भूतलाद्धटेऽपसारिते प्रध्वस्तो घट इति पुनःस्थापिते च उत्पन्न इति व्यवहारापत्तेश्च । दैशिकसंबन्धस्य प्रागूर्ध्वमभावेऽपि कालिकसंबन्धस्य प्रागूर्ध्वं विद्यमानत्वात् न तथा व्यवहार इति चेन्न । तर्हि कालिकसंबन्धमात्रनिबन्धनस्योत्पत्त्यादि- व्यवहारस्य दैशिकसंवन्धकारणकताया एव दुरवधारणतया इह भूतले घटाभाव इत्यादेः घटप्रागभावादिविषयकत्वकल्पनोपायाभावापत्तेः । ननु सत्यपि कालिकसंबन्धे दैशिकसंबन्धभावाभावमात्रेण सूर्यो जातः प्रविलीन इति च व्यवहारदर्शनात् अस्यापि कारणताऽवगम्यते इति चेन्न । प्रादुर्भूतो दर्शन गत इत्येव तदर्थत्वात् । अत एव सूर्य उदितः अस्तंगत इत्येव सर्वो लोको व्यवहरतीत्यलम् ।
किञ्चात्यन्ताभावस्य नित्यत्वेन घटकालवत् घटध्वंसकालेऽपि सत्त्वस्याङ्गीकार्यत्वेन तदानीं प्रतियोगिभूतस्य विरोधिनो घटस्याभावे तत्प्रागभावाद्यधिकरणेऽपि तदत्यन्ताभावस्य स्थित्युपपत्त्या तस्य सार्व-दैशिकस्यापि संभवेन तत्र सार्वदेशिका सार्वदेशिक विभागानुपपत्तिः ।
अपि च तुल्यन्यायत्वात् अनादिनित्यस्य भूतसूक्ष्मादेरप्यन्यत्रा-त्यन्ताभावेऽवश्यमङ्गीकार्ये नित्यानादिसंबन्धिनः प्रागभावादेरभावादिति सुधाविरोधो दुरात्मा दुष्परिहरः ।
तदेवं साधकप्रमाणाभावात् बाधकसत्त्वाच्च प्रामाणिकप्रतियोगि-कात्यन्ताभावनिश्चयो दुर्लभ एवेति सिद्धम् ।
तत् साधूक्तमभियुक्तः दोषारोपपूर्वकप्रमितिविषयात्यन्ताभाववत्वं भगवल्लक्षणमिति ।