ननु चास्याभावस्य दोषारोपपूर्वकप्रतीत्यनुपहिता स्वाभाविकी..
स्वसंसृष्टदोषात्यन्ताभाववत्त्वस्यापि लक्षणत्वसमर्थनम्
ननु चास्याभावस्य दोषारोपपूर्वकप्रतीत्यनुपहिता स्वाभाविकी सत्ताऽस्ति न वा । नेति चेच्छुक्तिरूप्यादिवदसत्वापत्तिः । आद्ये तन्मात्रस्य लक्षणतोपपत्तौ किं विशेषणेनेति । सत्यम् । मञ्जर्युक्तरीत्यनुरोधेन स्वदोषात्यन्ताभावस्यैव लक्षणत्वसंभवेऽपि स्वदोषरूपप्रतियोगिनोऽप्रसिद्धत्वात्तदभावरूपलक्षणस्यापि दुर्ज्ञानत्वेन असंभव इत्याशङ्कां लक्षणवाक्येनैव परिहर्तुं विशेषणमुपात्तमिति न दोषः । यदात्वसंभवशङ्का बहिरेव परिजिहीर्ध्यते तदा नापेक्षितमेव विशेषणम् । अत एव तावन्मात्रस्यैव लक्षणत्वं प्रागभिहितम् ।
यदप्युक्तं 'वास्तवस्य जैवदोषस्य ब्रह्मण्यभावाभावे तत्सद्भावापच्या आरोपासंभवात् तत्सत्वे तेनैव निर्दोषत्वापच्या कल्पनावैयर्थ्याच्च । दोषारोपपूर्वकप्रतीतिविषयाभावस्यापि ईश्वरगतस्यैवाधिकरणभेदेनाभाव भेदाभावेनाप्रामाणिकप्रतियोगिकतया केवलान्वयित्वेन च जीवादौ सत्वेन अतिव्याप्तितादवस्थ्याचे'ति । तदप्युक्तरीत्या निरस्तप्रायमेव । ब्रह्मणि जैवदोषप्रतियोगिकात्यन्ताभावाभावेऽपि तत्संसर्गाभावस्य विद्यमानत्वात् तत्सजातीयदोषारोपोपपत्तेः । अधिकरणभेदेन भेदाभावेऽपि अभावस्य स्वाधिकरणाधिष्ठानकारोपपूर्वकता- रूपविशेषणविशिष्टस्य विवक्षिततया जीवे तदभावादतिव्यात्यनवकाशात् । अभावमात्रस्य केवलान्वयित्वेऽपि प्रोक्तविशेषणविशिष्टस्या- केवलान्वयित्वोपपत्तेश्च ।
यदुक्तं 'अश्वे गोत्वं नास्तीत्यादौ आरोपविषयगोत्वसंसर्गस्य निषेधाङ्गीकारे अधिकरणसंसृष्टगोत्वस्य वा निषेध प्रतियोगित्वोपगमें आहार्यानाहार्यत्वादिविकल्पमुखानेकदूषणगणग्रासाच्च' इति तदपि पूर्व निरस्तम् । अभावप्रत्ययत्वावच्छिन्नं प्रति प्रतियोगिप्रतीतित्वेनैव कारणत्वस्य निर्णीतत्वेन विकल्पमुखदोषानवकाशादेव
यदप्युक्तं 'अश्वगोत्वसंसर्गत्वाश्वसंसृष्ट गोत्वादिरूपारोप्यतावच्छे-दकाकान्तस्याप्रसिद्धतया प्रधानाभावेनारोपायोगाच्च' इति । तन्न । तथा सति शुक्तिकारजतत्व संसर्गत्वरूपारोपावच्छेदकाकान्तस्यापि दुःश-कप्रसिद्धित्वेन तत्राप्यनुपपत्तेः । अथ तत्र रजतत्वसंसर्गस्यैव प्रसिद्धस्य प्रधानत्वाभ्युपगमेऽत्रापि गोत्वसंसर्गत्वावच्छिन्नस्यैव सुप्रसिद्धस्य प्रधान- वसौघट्याच्च ।
यच्वोक्तं 'अभावस्याधिकरणसाकाङ्क्षतापत्तेश्च । अभावरूपकर्तृद्वारा सत्तारूपक्रियायामन्वये अधिकरणकारकसप्तम्ययोगाच्च'ति । तन्न । अस्मन्मते अत्यन्ताभावस्य सर्वगतत्वेनाङ्गीकारात् अश्वमात्राधिकरणत्वाभावेनाश्वस्य प्रतियोगिशरीरप्रविष्टत्वेऽपि शशविषाणं नास्तीत्यादाविव सिद्धाधिकरणत्वात् अधिकरणाकाङ्क्षाऽनुत्थानात् । अश्वे गोत्वमित्यनेन अश्वगोत्वयोराधाराधेयभावरूपसंसर्गस्यैव विवक्षितत्वेनाधारत्वज्ञापक- सप्तम्या अपेक्षितत्वात् । आरोपायोगेऽपि उक्तरूप संसर्गस्य तुच्छत्वेन तस्य स्वाभावप्रतीतौ स्वज्ञानस्य पृथगनपेक्षणात् प्रतियोगिजातीयस्मृति-मात्रेण अभावज्ञानोपपत्तेः उक्तत्वात् । यद्वा अश्वे गोत्वं नास्तीत्यादौ अश्वाभावं प्रत्यधिकरणमेवास्तु । प्रतियोगि तु न प्रामाणिकं गोनिष्ठं गोत्वं किन्तु तत्सजातीयं अश्वसम्बन्धिगोत्वमेव । तचाप्रामाणिकम् ।
अतस्तदत्यन्ताभावोऽश्व सुलभ एव इति नाधिकरणसाकाङ्क्षता । नाप्यधिकरणसप्तम्ययोगः । प्रतियोगिप्रतीतेरभावेऽपि तत्सदृशत्वस्मृतिमात्रेणाभावज्ञानमप्युपद्यते । अत्र प्रतियोगिनस्तुच्छत्वाङ्गीकारात् । यदा त्विदमेव कदाचिदारोप्यते तदा तदभावज्ञाने प्रतियोगि समर्पकतया आरोपः कारणमित्युच्यते इत्युक्तमेव ।
'नन्वीश्वरः अन्यारोपानुवादरूपप्रतियोगिज्ञानमनपेक्ष्यैव जीवे दोषान् पश्यन् तज्जातीयानात्मन्यनुपलभमानो मयि तादृशा दोषा न सन्तीत्यनुभवति तदा निर्दोषत्वस्य दोषारोपपूर्वकप्रतीतिविषयत्वाभावादसंभव: स्यादिति चेन्न । प्रकारान्तरेण दोषाभावस्य प्रमितिकालेsपि परारोपानुवादरूपप्रतीतिपूर्वकप्रतीतेर्विद्यमानत्वेनासंभवाभावात् । अन्यथा परारोपज्ञानाभावकाले सार्वज्ञाभावप्रसङ्गात् ।