यत्कारुण्यैकबलतो लब्धात्मेयं कृतिर्मम श्रीशे समर्पयन्त्वेनां सत्याभिज्ञगुरूत्तमाः

उपसंहारः
तदेवं अत्यन्ताभावस्य प्रामाणिकप्रतियोगिकत्वस्य प्रमाणलेशासंस्पर्शित्वात् शास्त्रानुभक्युक्तिशतविरुद्धत्वात् न प्रामाणिकानामभावो लक्षणमिति परिशेषादभावप्रतीतेरारोपपूर्वकत्वे साधक पौष्कल्याद्बाधकगन्धाभावात्तदनङ्गीकारे बाघकबाहुल्याच्च पारतन्त्र्याद्यारोपपूर्वक प्रमितिविषयाभाववत्वं लक्षणमक्षुण्णमिति सिद्धम् ।
यत्कारुण्यैकबलतो लब्धात्मेयं कृतिर्मम ।
श्रीशे समर्पयन्त्वेनां सत्याभिज्ञगुरूत्तमाः ॥