अथ घटत्वं पटनिष्ठात्यन्ताभावप्रतियोगि ..

अत्यन्ताभावस्य प्रामाणिक प्रतियोगिकत्वे अनुमाननिरासः

अथ घटत्वं पटनिष्ठात्यन्ताभावप्रतियोगि तद्विशेष्यकप्रनाया अप्रकारत्वात् शशशृंगवत् । इत्याद्यनुमानमपि न विवक्षितार्थसाधकम् । घटनिष्ठघटत्वपक्षाकारे तस्य पटनिष्ठसंसर्गाभावप्रतियोगिनोऽत्यन्ताभाव-प्रतियोगित्वाभावेन बाधात् । घटत्वसंसर्ग एव हि पटनिष्ठात्यन्ताभाव-प्रतियीगीति सजातीयघटत्वपक्षीकारे तु तस्याप्रामाणिकत्वेन तत्र साध्य-सिद्धावपि अर्थान्तरत्वात् । निरुपादानत्व, असत्त्व, सद्विलक्षणत्व, आरोपिततुच्छान्यतरत्वैः सोपाधिकत्वाच्च । पटविषयक 'अयं पट' इत्यादि प्रमायां अप्रकारस्यापि रूपादेः पटनिष्ठात्यन्ताभावप्रतियोगि-त्वाभावेन व्यभिचाराच्च । तथा तद्विशेष्यक इदं प्रमेयं इत्याकारक-प्रमायां अप्रकारस्यापि पटत्वादेः पटनिष्ठात्यन्ताभावाप्रतियोगित्वाद्य- भिचाच्च । घटत्वाभाववान् पट इति तद्विशेष्यकप्रमायां घटत्वस्यापि प्रकारत्वादसिद्धेश्च । पटत्वं पटनिष्ठात्यन्ताभावप्रतियोगि तद्विशेष्यक-प्रमाऽप्रकारत्वात् शशशृङ्गवदित्याभाससमानयोगक्षमत्वाच्च । इमौ घट-पटौ इति समूहालम्बनरूपतद्विशेप्यकप्रमायां प्रकारत्वादसिद्धेश्च ।
एतेन पटधर्मिकघटत्वाभावः अत्यन्ताभावः प्रागभावध्वंसान्यत्वे सति संसर्गाभावत्वात् कूर्मरोमाभाववदित्यनुमानमपि निरस्तम् । घटत्वसंसर्गाभावस्योक्तरीत्या घटत्वात्यन्ताभावत्वानुपपत्तेः घटत्वप्रति-योगिकात्यन्ताभावस्य तत्संसर्गाभावत्वानुपपत्तेः ।
किं नामेदं संसर्गाभावत्वमपि । किं संसर्गप्रतियोगिकाभावत्वं, संसर्गावच्छिन्नप्रतियोगिकाभावत्वं वा । आद्येऽपि किं प्रामाणिक- प्रतियोगिकाभावत्वं उत तत्संसर्गारोपपूर्वकप्रतीतिविषयाभावत्वम् । नाद्यः । पटे घटत्वसंसर्गस्य प्रामाणिकत्वायोगात् । योगे वा तन्निषेध स्यैवायोगात् । न द्वितीयः । दृष्टान्तस्य साधनवैकल्यात् । कुर्मरोम्णो- ऽत्यन्तासन्त्वेन तत्संसर्गस्य कुत्राप्यभावात् प्रधानाभावेनारोपानुपपत्तेः । घटप्रतियोगिकप्रागभावप्रध्वंसयोस्तत्संसर्गप्रतियोगिकताऽभावेन तदन्यत्व-विशेषणवैयर्थ्याच्च । नान्त्यः । अवच्छेदकसंसर्गस्य प्रामाणिकत्वारो-पितत्वयोः पूर्वदोषस्यैवानुषङ्गात् । तुच्छत्वाङ्गीकारेऽपि तदवच्छिन्न- प्रतियोगिताशालिनः घटत्वस्यापि शबलब्रह्मवचुच्छत्वापातात् । संसर्गा-वच्छिन्नप्रतियोगिकाभावस्य तत्त्वविवेकटीकादौ दूषितत्वेन स्वरूपासिद्धेः । साधनविकलत्वाच्च दृष्टान्तस्य । अत्यन्ताभावत्वं प्रामाणिकप्रतियोगिक-निष्ठं अभावत्वसाक्षाद्याप्यधर्मत्वात् प्रागभावत्ववत् । इति तृतीयानु-मानेऽपि किं प्रामाणिकत्वप्रतियोगित्वयोः समानकालीनत्वमुच्यते भिन्नकालीनत्वं वा । नाद्यः । प्रतिषेधप्रतियोगित्वरूपधर्मस्य स्वाश्रय-सत्ता विरोधितायाः प्रागुपपादितत्वेन बाधात् । दृष्टान्तस्य साध्यविकल-त्वाच्च । धर्म्यभिन्नधर्मनिष्ठत्वेन सोपाधिकत्वाच्च । भेदसादृश्यादौ साध्यव्यापकत्वात् । पक्षे साधनाव्यापकत्वाच । न द्वितीयः । प्रतियोगिनः प्रामाणिकतादशायां प्रागभावाद्यभाववदत्यन्ताभावस्यापि अभावस्याङ्गीकर्तव्यतापत्या तस्य त्रैकालिकत्वाभावप्रसङ्गात् ॥