न च प्रामाणिकप्रतियोगिकात्यन्ताभावे किमपि प्रमाणम्
अत्यन्ताभावस्य प्रामाणिकप्रतियोगिकत्वे प्रत्यक्षनिरासः
न च प्रामाणिकप्रतियोगिकात्यन्ताभावे किमपि प्रमाणम् । तथा हि -घटः पटत्वाभाववानित्यादि प्रत्यक्ष तु पटत्वं अभावप्रतियोगितामात्रेण विषयीकरोति न प्रामाणिकतयाऽपि । तथा हि । किं घटे निषिध्यमानं पटत्वं पटवृत्त्येव उत तत्सजातीयम् । द्वितीये फलित-मस्मन्मनोरथद्रुमेण । सजातीयस्य अकामनयाऽपि अप्रामाणिकत्वसिद्धेः । आद्ये पटेऽपि किं तन्न निषिध्यते । पटान्तरवृत्तिपटत्वानाधारत्वात्तस्य । अथ तत्सजातीयस्य पटत्वस्य विद्यमानत्वान्न तस्य निषेध इति चेत्तर्ह्यागतं विधिवन्निषेधोऽपि सजातीयविषय एवेति । न हि पटः पटत्वान्तरेण पटत्ववान् न भवति किन्तु स्वनिष्ठेनैव; घटस्तु पटनिष्ठेनैव पटत्वेन तदभाववानिति युक्तम् । तुल्यन्यायस्वात् ।
तत्कि पटनिष्ठं पटत्वं घटे विद्यते इति वक्तुमुद्यतो भवान् इति चेन्न । तदभावस्याप्यङ्गीकारात् । न चैवं प्रतियोगिनः प्रामाणिकता-प्रसङ्गः । तत्संसर्गस्यैव प्रतियोगित्वाङ्गीकारात् । संसर्गस्य च पटे अप्रामाणिकत्वात् । न च संसर्गप्रतियोगिकस्य तदभावत्वानुपपत्तिरिति । संसर्गवत्पटत्वस्यापि संसर्गाभावविरोधित्वेन उपचारप्रतियोगित्वोपगमात् । अत एव तत्त्वोद्योतटीकायां बन्धसंसर्गाभावस्य हेतुत्वादिति बन्धसंसर्गा-भावस्य बन्धाभावरूपमुक्तत्वमङ्गीकृतम् । सुधायामपि 'सत्त्वं असत्त्वा नधिकरणानात्मनिष्ठसंसर्गाभावप्रतियोगि' इत्याद्यनुमाने सत्त्वादे: संस- र्गाभावप्रतियोगित्वमभ्युपगम्यैव दूषणममिहितम् ।
नन्वयमभावः पटत्वप्रतियोगिक एव किं न स्यात् । किं तस्य संसर्गप्रतियोगिकत्वमभ्युपगम्य पटत्वे प्रतियोगिताया औपचारिकताया अङ्गीकारेणेति चेन्मैवम् । निषेधप्रतियोगित्वस्य सत्तादशायां स्वाश्रय-सत्ताऽसहनस्वभावत्वेन तत्कालविद्यमानपटत्वावृत्तित्वात् । न च तादृश-स्वभाव एव कुत इति वाच्यम् । घटसत्तादशायां तस्मिन् प्रागभाव- प्रतियोगित्वादर्शनात् । अविद्यमान एव घंटे तद्दर्शनात् । प्रतियोगि-त्वस्य रूपादिवद्धर्मिसत्ताऽनपेक्षत्वात् । अन्योन्याभावस्य चाप्रतिषेध-स्वरूपत्वात् प्रतिषेधप्रतियोगित्वस्यैवोक्तस्वभावकल्पनात् । न चात्यन्ता- भावप्रतियोगित्वमात्रं स्वाश्रयसत्ताऽविरोधीत्यत्र किञ्चिन्नियामकम् । तत्प्रतियोगिनां शशविषाणादीनां सत्त्वापत्तेश्च ।
तथाच 'निषेधप्रतियोगित्वं न सन्निष्ठं स्वाश्रयसत्ताऽसहन स्वभाव-त्वात् व्यतिरेकेण रूपादिवदित्यनुमानविरोधेन, 'क्वचित्कदाचिन्मृर्त-सद्भावे तदत्यन्ताभावानुपपत्तेरित्यादिवचनबाधया च, एतः पटत्वस्या- भावप्रतियोगित्वानुपपत्तौ, अभावस्य च प्रमितत्वेन हातुमशक्यत्वादन्य-थाऽनुपपत्त्या संसर्गप्रतियोगिकत्वं, पटत्वस्य च व्यवहारान्यथाऽनुपपत्त्या औपचारिकं प्रतियोगित्वं च अङ्गीकर्तव्यमिति ।
एतेन 'अत्यन्ताभावः स्वकालासत्प्रतियोगिक: अभावत्वात् प्रागभाववत्' इत्यस्मदभिप्रेत्यनुमानस्य अत्यन्ताभावः सदातनो न भवति अभावत्वात् प्रागभाववत् इत्याभाससाम्यं ब्रुवाणा निराकृता वेदि-तव्याः ! तदनुमानस्य उदाहृतसुधादिप्रमाणबाधितत्वेन तत्साम्योक्ते-रसम्भवदुक्तिकत्वात् ।
प्रागभावप्रतियोगिनः अन्यत्र सत्ता मास्तु अत्यन्ताभावप्रति-योगिनस्तु सास्तु इति वचनस्यैवालौकिकत्वात् ।
अयमेव च न्याय: इह भूतले घटो नास्ति इत्यादौ सर्वत्र प्रामाणिक निषेधेऽनुसन्धेयः ॥
एतेन एतदपि निरस्तं यदुक्तं इह भूतले घटो नास्ति इत्यादौ तत्संसर्गस्यैव निषेध्यत्वे देशकालानवगाहिप्रत्ययाभावेन शशविषाणं तत्स्वरूपं वा सर्वत्र नास्ति सर्वदा नास्ति इत्यादि प्रत्ययस्यापि संसर्ग-निषेधकत्वापत्त्या तत्स्वरूपनिषेधविषयकत्वानापत्तिः इति । शशविषा-णस्य स्वरूपत एवासत्वेन निषेधप्रतियोगित्वाङ्गीकारे बाधकाभावात् । संसर्गाभावस्यापि तत्राङ्गीकारेण तत्प्रत्ययस्य संसर्गनिषेधकत्वस्येष्टत्वात् । संसृष्टत्वविशिष्टशशशृङ्गनिषेधभियैव विशेष्ये बाधाभावेन सविशेषणे हि प्राप्ताप्राप्तन्यायानवतारेण स्वरूपनिषेधस्यापि सिद्धेश्च । भूतले घटो नास्तीत्यत्र तु घटस्यान्यत्र सत्वेन सविशेषणे हि इति न्यायावतारेण स्वरूपनिषेधासंभवात्।प्रमेयसाम्याभावेन प्रतिबन्दीग्रहणायोगात् ।
किं च इह भूतले घटो नास्तीति प्रतीतेर्घटप्रतियोगिकात्यन्ता-भावविषयकत्वाङ्गीकारे तस्याः प्रमात्वं न स्यात् । कदाचित्तत्र घटसत्वे तदभावस्यात्यन्तिकत्वानुपपत्तेः । सदाऽभावो हि अत्यन्ताभावः ।
नन्वेवं इह भूतले घटो नास्ति इत्यादौ तत्संसर्गस्य निषेध्यत्वे इह भूतले घटसंसर्गो नास्तीत्यादावपि तत्संसर्गस्य निषेध्यत्वापत्त्याऽन-वस्थितिरिति चेन्न । घटसंसर्गस्यैव तत्संसर्गत्वाङ्गीकारात् ।
एतद्भूतलघटसंसर्गः काश्यां नास्तीति योऽभावः प्रतीयते सोऽध्ये-तद्भूतलघटसंसर्गस्य यः काशीसंसर्गः तस्यैव । स च प्रामाणिक एवेति न क्वापि प्रामाणिकस्यात्यन्ताभावप्रतियोगिता । तदुक्तं युक्तिमल्लिकायां भेदसौरभे-इति ॥
संसर्गो नेत्यभावस्तु तत्संबन्धस्य नास्तिता ॥ काश्यामयं च संसर्गो नास्तीत्यस्य निषेधनम् ॥ ७८१ ॥ घटसंसर्गवत्संसर्गस्य संसर्गनास्तिता ॥ स चाप्रमाणिकस्तस्य ह्यत्यन्ताभाव एव सः ॥ ७८२ ॥
तदेवं घटः पटत्वाभाववानित्यादिप्रत्यक्षमन्यविषयत्वेन नाभि- मतार्थसाधकमिति स्थितम् ॥