अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि ..

उपनिषत् (खण्डः -११)

अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैशिषं भगवतो वा अहमवित्त्याऽन्यानवृषि भगवांस्त्वेव मे सर्वैरार्त्विज्यैरिति ॥ १ ॥

तथेत्यथ तर्ह्येत एव महतिसृष्टास्तुवन्तां यावत्तेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ २ ॥

अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति ॥ ३ ॥

प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति ॥ ४ ॥

अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वान् उद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेत्यादित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेत्यथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेत्यन्नमिति होवाच ॥ ५ ॥

सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ ६ ॥ ११ ॥

भाष्यम्

'प्राणस्थविष्णुना सर्वे प्रसूयन्ते यतस्ततः । प्रस्तावदेवता स स्यात् प्रस्तावस्तु जनिर्यतः ।। आदित्यसंस्थितो विष्णुर्यत् सदा सर्वगीतभुक् । राजादौ गीतमप्यज्ञैर्भुङ्क्ते गानस्य देवता ।। उद्गीथदेवता तस्मात् स एव पुरुषोत्तमः । अन्नस्थेनैव जीवन्ति भूतान्येतानि विष्णुना । प्रतिहारदेवताऽतः स प्रतिहारो हि भोजनम् ॥' इति च ।

उच्चैः सन्तमुत्तमं सन्तम् ॥ ११ ॥

पदार्थकौमुदी

" कतमा सा देवता" इति प्रश्नेप्राण इति होवाच " इति प्रसिद्धप्राणस्यैव प्रस्तावदेवतात्वमुच्यत इत्यसत् ।।सर्वाणि’” इति वाक्यशेषे भगवल्लिङ्गश्रवणादिति भावेन तद्भगवत्परतया व्याचष्टे प्राणस्थेति ॥ स विष्णुः प्रस्तावदेवता स्यात् । तत्र हेतुः प्राणस्थविष्णुनेति ।अनेन " सर्वाणि भूतानि प्राणमभ्युज्जिहते "इत्येतद् व्याख्यातम् ।

ननु सर्वप्रसवितृत्वेऽपि प्रस्तावंदेवतात्वं कुत इत्यत आह प्रस्ताव इति ।। जनिर्जनिकर्तृत्वम् । भावार्थकथनं चैतत् ।कतमा सा देवतेत्यादित्य इति होवाच'' इत्यत्र प्रसिद्धादित्यस्यैवोद्गीथदेवतात्वमुच्यत इति प्रतीतिनिरासाय तद्व्याचष्टेआदित्येति ।। आदित्यसंस्थितः स एव पुरुषोत्तमो विष्णुरुद्गीथदेवतेत्यन्वयः । स्थानभेदेन भेदशङ्कानिरासायस एव'' इत्युक्तम् । तत्र हेतुमाहगानस्य देवतेति ॥ तदपि कुत इत्यत उक्तम् - यत् सदा सर्वगीतभुगिति । सर्वगानानुभवितेत्यर्थः । राजादि- पुरतो यद्गीतं तद्भोक्तृत्वाभावे कथं सर्वगीतभोक्तृत्वमित्यत आह राजादाविति । अनेन सर्वाणि ह वा इमानि भूतान्यादित्यमुचैः सन्तं गायन्तिइत्येतद् व्याख्यातम् ।कतमा सा देवतेत्यन्नम्इत्यत्र प्रसिद्धान्नस्यैव प्रतिहारदेवतात्वमुच्यत इति प्रतीतिनिरासाय तद् व्याचष्टे- अन्नस्थेनैवेति ।। सोऽन्नस्थो विष्णुः प्रतिहारदेवता । तत्र हेतुः अन्नस्थेनेति । अनेनसर्वाणि हवा इमानि भूतान्यन्नमेव प्रतिहर - माणानि जीवन्ति' इत्येतद् व्याख्यातम् । अन्नस्थेन विष्णुना भूतानां जीवनेऽपि विष्णुः प्रतिहारदेवतेति कुत इत्यत आह - प्रतिहार इति ॥ उच्चैः सन्तम् ऊर्ध्वं सन्तमुपरि वर्तमानमित्यन्यथाप्रतीतिनिरासाय तदनूद्य व्याचष्टेउच्चैरिति ॥ उच्चैरित्यस्याव्ययत्वादुत्तममिति व्याख्यानम् । अर्थान्तरं तु प्रत्यक्षादिसिद्धमिति न वक्तव्यम् || एकादशः खण्डः ।।

खण्डार्थः

अथ तेषां तूष्णीम्भावानन्तरमेनं चाक्रायणं प्रति यजमानो राजोवाच अहं भगवन्तं पूजार्हं, वैशब्देनैवंज्ञानिनस्तव पूजार्हत्वं प्रसिद्धमित्याह । विविदिषाणि त्वं किंनामकः कस्य पुत्र इति वेत्तुमिच्छामीति । एवमुक्तो मुनिरहं नाम्नोषस्तिरस्मि चाक्रायणः चक्रायणस्य पुत्रोऽस्मीति होवाच । एवमुक्तः स राजोवाच । भगवन्तमेवाहमेभिः सर्वैरार्त्विज्यैः ऋत्विक्कर्मभिः पर्यैषिषं पर्येषणं कृतवानस्मि । भगवन्तमेव सर्वैः ऋत्विक्कर्मभिर्वृणीतुं विचारितवानस्मीति यावत् । तर्हि पूर्वं किमर्थमेते प्रस्तोतृत्वादिना वृता इत्यत आह भगवत इति ।। पूर्वमहं भगवतोऽगतेरवित्त्या वा अज्ञानेनैवान्यान् प्रस्तोत्रादीनवृषि । यद्वा, भगवतोऽवित्त्या वा अलाभेनैवेत्यर्थः । इदानीं भगवाक्लब्धः । अतो भगवानेव तु विशेषेण मे मया सर्वैर्त्विज्यैर्वृत इति ॥ १ ॥

एवमुक्तो मुनिर्यद्यहमेवैतत्कर्म कुर्यां तर्हि ब्राह्मणद्रोहो यद्यत्रान- ङ्गीकारस्तर्हि धनाप्राप्तिरिति विचार्य तथाsस्त्वित्युवाच । किन्तु अथ तर्हि एवं तर्हि ये पूर्वं त्वया वृता एत एव समतिसृष्टा मदाज्ञप्ताः स्तुवन्तां स्तुवन्तु। त्वया त्वेतत्कार्यम्। यावत्तेभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः तावन्मम दद्या इति । एवमुक्तो यजमानस्तथेति होवाच । हेति यजमानस्य हर्षद्योतकम् । उभयविधब्राह्मणापराधाभावो मम सम्पन्न इति ।। २ ।।

अथैवं चाक्रायण राजसंवादानन्तरमेनं चक्रायणं प्रति प्रस्तोतोपससाद गुरुभावेनोपजगाम । 'प्रस्तोतर्या देवता" इत्यादिना मा मां भगवानवोचत् पूर्वम् । कतमा सा देवता या प्रस्तावभक्तिमन्वायत्तेति पृष्टः प्राणो मुख्यप्राणस्थ: प्राणनामा विष्णुरिति होवाच । युक्तं प्राणस्थविष्णोः प्रस्तावदेवतात्वं प्रस्तावशब्दार्थस्यात्रैव सत्त्वादिति भावेनाऽह - सर्वाणि हवा इमानि भूतानि प्राणमभ्युज्जिहत इति ॥ अभ्युज्जिहते त्यजन्ति । प्राणान्निस्सरन्ति उत्पद्यन्त इति यावत् । अनेन प्रसूयन्तेऽनेनेति प्रस्ताव इति प्रसवकर्तृत्वं प्रस्तावशब्दार्थः । तच्च प्राणस्थविष्णोरेव वर्तत इति स एव प्रस्तावदेवतेत्युक्तं भवति । लोके पितुरन्यस्य मारकत्वदर्शनात् संहर्ताऽन्य एवेति न मन्तव्यमिति भावेनसर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति" प्रलयकाल इत्युक्तम् । सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यस्तर्हि मया तथोक्तस्य "तां चेदविद्वान् प्रस्तोष्यसि " इत्याद्युक्तस्य ते मूर्धा शिरो व्यपतिष्यत् । मद्वचनस्यामोघत्वात् । त्वं तु तथा न कृतवान् । अतो महान् प्रमादः परिहृत इति भावः ।

अथ प्रस्तावदेवतानिर्णयानन्तरम् । अन्यत् पूर्ववत् । आदित्यः आदित्यस्थो विष्णुः । युक्तमादित्यस्थस्य विष्णोरुद्गीथदेवतात्वम् । तस्य गानदेवतात्वादिति भावेन तत्र हेतुमाहसर्वाणीति ॥ यद्वा, उद्गीथ- शब्दार्थस्य तत्रैव भावात् स एवोद्गीथ इति युक्तमित्याहसर्वाणीति ॥ सर्वाणीमानि भूतानि गानकर्तॄणि आदित्यमादित्यस्थं विष्णुमुच्चैः सन्त- मुत्तमं सन्तं गायन्ति । हवा इति बहुप्रमाणसिद्धिमाह । अनेनाऽदित्यस्थस्य सर्वगीतभुक्त्वाद् गानदेवतात्वमित्युक्तं भवति ।। ३-५ ।।

सैषेत्यादि पूर्ववत् । अन्नमन्नस्थो विष्णुः । युक्तमन्नस्थविष्णोः प्रतिहारदेवतात्वम् । प्रतिहारशब्दार्थस्य तत्रैव मुख्यतो भावादिति भावेनाऽह - सर्वाणीति ॥ सर्वाणीमानि भूतान्यन्नमेवान्नस्थं भगवन्तमेत्र प्रतिहरमाणानि भोजनं कुर्वाणानि तदुपजीवकानीति यावत् । जीवन्ति । अन्यद् व्याख्यातम् । ६ ॥

।। इति एकादशः खण्डः