आपो वावान्नाद् भूयस्यस्तस्माद्यदा सुवृष्टिर्न भवति ..
उपनिषत् (खण्डः - १० )
अन्नाभिमान्यनिरुद्धाद् अबभिमान्याहङ्कारिकः प्राण उत्तमः
आपो वावान्नाद् भूयस्यस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलिकमाप एवेमा मूर्ता अप उपास्स्वेति ॥ १ ॥
स योऽपो ब्रह्मेत्युपास्ते आप्नोति सर्वान् कामान् तृप्तिमान् भवति यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवो अद्भ्य भूय इति अद्भ्यो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १० ॥
भाष्यम्
....................तैजसाहं भवस्ततः ।। तथा वरिष्ठः प्राणाख्यो वायुः सोऽपां च देवता ।अम्नामा देहसंव्याप्तेः …. ।।
पदार्थकौमुदी
“(१)आपो वावान्नाद् भूयस्यः” इत्येतद् व्याचष्टे - तैजसेति ॥ तथा ततोऽनिरुद्धात् तैजसाहम्भवस्तैजसाहङ्कारादुत्पन्नो वरिष्ठ इत्यन्वयः । स क ( २ ) इत्यत उक्तम् - प्राणाख्यो वायुरिति ॥ परप्राणव्यावृत्त्यर्थं तैजसाहम्भव इत्युक्तम् । अपूशब्दमुपपादयति स इति ॥ देहसंव्याप्तेश्चाम्नामा ।। दशमः खण्डः ।।
खण्डार्थः
आपः उभयविधाबभिमानी तैजसः प्राणोऽन्नाद् भूयान् तस्मादपामन्नकारणत्वादेव हि यदा सुवृष्टिः सस्यहिता वृष्टिर्न भवति तदा प्राणाः प्राणिनः व्याधीयन्ते दुःखिनो भवन्ति । किं निमित्तम् ? कनीयोऽन्नं भविष्यतीति । एवमन्यत् । आप एवेत्युक्तं विशदमाह- येयमिति ॥ पृथिव्यादिपिपीलिकान्तं यत् । इमाः मूर्ता: आप एवेति योजना || १ || २ |
।। इति दशमः खण्डः ॥ १० ॥