अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति ..

उपनिषत् ( खण्डः - ६)

हृदयस्थनाडीषु भगवद्रूपोपासना

अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ १ ॥

भाष्यम्

स एष हृदि नाडीषु पञ्चरूपः प्रतिष्ठितः । विष्णोरणिनो रूपाणि पञ्चनाडीस्थितानि तु ॥ नारायणाख्यं सौषुम्नं मध्यस्थं रक्तवर्णकम् । शुक्लं तु वासुदेवाख्यं नान्दिन्यामग्रतः (१) स्थितम् ॥ पिङ्गलायां पिङ्गलं च (२) रूपं सङ्कर्षणाभिधम् । पश्चिमे वज्रिकायां च पीतं प्रद्युम्ननामकम् ॥ इडायामनिरुद्धाख्यं नीलरूपं व्यवस्थितम् । सूर्येऽप्येवं पञ्चरूपो भगवान् संव्यवस्थितः ॥ आदित्यनामा चाऽदित्वात् …………..

पदार्थकौमुदी

अथ या एता हृदयस्य नाड्यः" इत्यारभ्यलोहितस्यइत्यन्त- वाक्यतात्पर्यमाह स एष इति । ननु कथमिदं तात्पर्यम्? श्रुतावप्रतीते- रित्यतस्तां व्याचष्टेविष्णोरिति ॥ अनेन या एता हृदयस्य नाड्यस्ताः पिङ्गलस्य शुक्लस्य नीलस्य पीतस्य लोहितस्याणिम्नोऽधिष्ठानभूता इति योजनोक्ता भवति । कस्यां नाड्यां किंरूपमास्थितमिति जिज्ञासायामुक्तं विविच्य दर्शयतिनारायणाख्यामित्यादिना ॥ सौषुम्नं सुषुम्नागतम् । मध्यस्थं नाडीचतुष्टयमध्यगसुषुम्नासंस्थमित्यर्थः । अग्रतः पूर्वभागे स्थितायां नादिन्यामिति सम्बन्धः । यद्यपि नादिनीशब्देन सुषुम्नैवान्य- त्रोक्ता तथाऽपि पञ्चनाडीत्युक्तत्वादन्यत्रान्यैव तन्नाम्नी ग्राह्या । " परि- शेषात् पिङ्गलेडानाड्योर्दक्षिणोत्तरभागसंस्थितत्वं ज्ञातव्यम् ।असौ वा आदित्यः " इति वाक्यं प्रसिद्धादित्यपरमिति प्रतीतिवारणाय व्याचष्टे - सूर्य इति ॥ अनेन श्रुतावादित्यशब्दस्तदन्तर्गतभगवत्पर इत्युक्तं भवति । तत् कथमित्यतस्तस्मिन्नादित्यशब्दं निरुच्य दर्शयति - आदित्येति ॥

Load More