अथ होवाचोद्दालकमारुणिं गौतम ..
उपनिषत् (खण्डः - १७)
वैश्वानरपादयोः पृथिवीनामकत्वकथनम्
अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठाऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ १ ॥
अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ॥ २ ॥ १७ ॥
१७॥
भाष्यम्
प्रथनात् पृथिवीनामा (1) प्रतिष्ठा च प्रतिष्ठितेः । पादौ भगवतो विष्णोः पृथिव्याश्रय एव च ।।
उत्तमानां हि पादेन सर्वं रूपं हि कथ्यते । विष्णोः पदमिति ह्यस्मात् प्रथितिर्वैदिकी स्मृता ॥
पदार्थकौमुदी
"उद्दालकमारुणिम्' इति खण्डतात्पर्यमाह प्रथनादिति ॥ " पृथिवीनामा' इत्यादी द्विवचनं ग्राह्यम् । एकवचनप्रयोगस्तु श्रुत्यनु- सारात् । पृथिवीनामकत्वे निमित्तान्तरम् - पृथिवीति ॥ एवेत्यभेद- व्यावृत्तिः ।
ननु विष्णोः पादस्य " तद्विष्णोः परमं पदं दिवीव चक्षुराततम् " इत्याततत्वश्रवणात् कथं पृथिव्याश्रयत्वेन पृथिवीमात्रस्थत्वोक्तिरित्यत आह- उत्तमानामिति ।। हि यस्मात् पादशब्देनोत्तमानां सर्वं रूपं कथ्यते । न पादमात्रमस्माद् विष्णोः पदमिति वैदिकी प्रथितिः स्मृता । तथाच श्रुतेः स्वरूपव्याप्तत्वपरत्वात् पादस्य पृथिवीस्थत्वेन तद्विरोध इति भावः । (१)यद्वा, ननु ‘“स्थूलभुग् वैश्वानरः प्रथमः पादः ” इति श्रुत्यन्तरे पादशब्दस्य समग्रत्रैश्वानररूपे प्रयुक्तत्वादत्र पृथिव्येव पादौ इति एकावयवे प्रयोगः कथमित्यत आह उत्तमानां हीति ॥ तत्कुत इत्यतस्तत्पर्यायशब्दप्रयोगादित्याह विष्णोः पदमिति ॥ तथाच श्रुत्यन्तरस्थपादशब्दस्य सर्वरूपवाचित्वादत्रत्यस्य प्रसिद्धचरणवाचि-त्वान्न तद्विरोध इति भावः ।
खण्डार्थः
पृथिवीमेव प्रथनात् पृथिवीनामकं पृथिव्याधारमेव । प्रतिष्ठा प्रतिस्थितेः ॥ १ ॥
व्यम्लास्येतां भज्येयाताम् ॥ २ ॥
॥ इति सप्तदश: खण्ड: ।।