श्वेतकेतुर्हाऽरुणेय आस त ह पितोवाच श्वेतकेतो ..

॥ अथ श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते षष्ठाध्याये प्रथमः खण्डः ॥

निषत्

( श्वेतकेतुवृत्तान्तः )

ॐ श्वेतकेतुर्हाऽरुणेय आस त ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ।

( श्वेतकेतोरहङ्कारपरिहारः )

स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तं ह पितोवाच श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः ॥

येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति । कथं नु भगवः स आदेशो भवतीति ॥

( भगवति विज्ञाते सर्वं विज्ञातप्रायमिति निरूपणम् )

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

जीवजडात्मकात् प्रपञ्चाद् भिन्नं ततोऽधिकं भगवन्तं जानतां स्वर्गमोक्षफलिका उपास्तय उक्ताः पूर्वाध्यायेषु । षष्ठाध्याये तु जीवेश्वरभेदविषये सन्दिग्धं विपर्यस्तं वा प्रतीश्वराद् भेदो मोक्षोपयोगी युक्तिभिर्बोध्यते । तत्र तावत् श्वेतकेतुं निमित्तीकृत्य जीवानां भगवतो भेदं बोधयन् भेदबोधनाय अभेदप्रसक्तिमाह- श्वेतकेतुरित्यादिना ॥ श्वेतकेतु- र्नामतः, अरुणस्य पौत्र आरुणेयः आस । ह प्रसिद्धम् । तं पिता उवाच ह । ब्रह्मचर्यं वेदाध्ययनमुद्दिश्य वस, गुरुकुले वेदाध्ययनादिकं कुर्वित्यर्थः । कुतः? हे सोम्य अस्मत्कुलीनः अस्मत्कुले जातः यः कोऽप्यननूच्यानधीत्य ब्रह्मबन्धुरिव ब्राह्मणाभास इव न वै नैव भवत्यत इत्युवाचेत्यन्वयः । एवं पित्रोक्तः श्वेतकेतुः द्वादशवर्ष: द्वादशवर्षवयस्कः गुरुकुलमुपेत्य प्राप्य चतुर्विंशतिवर्षः तावद्वयस्कः सन् सर्वान् वेदानधीत्यानूचानमानी साङ्गवेदाध्ययनवानहमित्यभिमानवान्, अत एव महानस्मीति मनो यस्यासौ महामनाः, अत एव स्तब्धः अविनीतः एयाय आजगाम । तमागतं पुत्रं पिता स्तब्धोऽसीत्यन्तं वाक्यमुवाच । स्तब्धोऽसीतीदं यन्नु किच्चित्यर्थः । येन श्रुतेन मतेन विज्ञातेनान्यदश्रुतममतमविज्ञातमपि श्रुतं मतं विज्ञातं भवति तमादेशमुद्दिश्यमानार्थमप्राक्ष्यः पृष्टवानभूः । उत तत् (४) किं यद्विषयश्रवणमननविज्ञानेन कर्मदेवतादिजगद्विषयश्रवणादि भवति तद्वस्तु श्रुतवानसि किम् ? प्रायेण न श्रुतवान्, अन्यथा कथं ते महामनस्त्वादिकं भवेदिति चोवाचेत्यन्वयः । अन्यज्ञानेनान्यज्ञानस्य काप्यदर्शनादिति भावेन पुत्रः पृच्छति - कथमिति ॥ हे भगवः ! स आदेशः अन्यज्ञानेनान्यज्ञानं भवतीत्युपदेशः कथं नु कीदृश इति पप्रच्छ पुत्र इत्यर्थः । इति पृष्टः पिता उद्दालकः अन्यज्ञानेनान्यज्ञानप्रकारं षड्भिर्दृष्टान्तैरुपपादयतियथेति ॥ हे सोम्य ! एकेन मृत्पिण्डेन विज्ञान सर्वं मृन्मयं मृद्विकारजातं मृत्त्वसादृश्यहेतुना विज्ञातं भवति । एकस्मिन् मृत्पिण्डे ज्ञाते सति मृन्मयेषु सर्वेषूपदेशं विनैव विज्ञातमृत्पिण्डसादृश्यादेते मृदूपा इति यथा ज्ञायन्ते तथा भगवति सत्यत्वादिना ज्ञाते सति सत्यत्वप्रामाणिकत्वादिसादृश्याद् जगदपि तथा ज्ञायत इत्यर्थः । भगवतः प्रधानत्वाद् जगतोऽप्रधानत्वात् प्रधानज्ञाना- दप्रधानं ज्ञातवद् भवतीत्येतद्' दृष्टान्तेनोपपादयति वाचाऽऽरम्भण-मिति || यथा सोम्येत्यनुषज्यते । हे सोम्य ! वाचा वागिन्द्रियेण नाम्नां संस्कृतेतरभाषाशब्दानामारम्भणमुच्चारणं विकारः उत्पादनम् । न तु संस्कृतानामिव व्यञ्जनम् । अतस्तान्यनित्यानि | मृत्तिकेत्युपलक्षणम् । मृत्तिकेत्यादिसंस्कृतं नामधेयम् अविकारः अत एव सत्यं नित्यमित्यर्थः । अतो नित्यत्वात् संस्कृतं नामधेयं प्रधानम् । संस्कृतान्यनामानि तु पुरुषभेदेन विक्रियमाणतयाऽनित्यत्वेनाप्रधानानि । संस्कृतेतरापभ्रंश- भाषाशब्दज्ञानेन यत् फलं तत् फलं संस्कृतशब्दज्ञानेन यथा भवति, तथा कर्मदेवतादिजगज्ज्ञानेन यत्फलं तत्सर्वं प्रधानभूतभगवज्ज्ञानेन भवतीति भावेन येन श्रुतेन मतेन विज्ञातेनाश्रुतममतमविज्ञातं जगत् श्रुतमत- विज्ञातफलं भवतीत्युक्तमिति स्वाभिप्रायं प्रकटितवानुद्दालक इत्यर्थः । अनुव्याख्यानसुधयोस्तूक्तम् । वाचारम्भणमिति बहुव्रीहिः । वाचा वागिन्द्रियेणाऽरम्भणम् उच्चारणं यस्य तद्वाचारम्भणम् । नामधेयं विकारः । विक्रियमाणमुत्पत्तिमत् । अत एवानित्यम् । तस्मात्तदप्रधानम् । मृत्तिकेत्यादिकं वैदिकं नामधेयं सत्यं नित्यं तत एव प्रधानमिति । तात्पर्यं तु प्राग्वत् ।। १ ।।

निषत्

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् ॥   

छान्दोग्योपनिषत्खण्डार्थः

प्रधानज्ञानादप्रधानं ज्ञातफलं भवतीत्यत्र दृष्टान्तान्तरमाह यथा सोम्येति ।। एकेन लोहमणिना सुवर्णेन ज्ञातेनेति शेषः । यथा स्वर्णस्य विज्ञानात् साधनानुष्ठानेन तल्लाभे च सति सर्वे लोहमयाः ज्ञातलब्धफला भवन्ति, एवं प्रधानेन विष्णुना श्रुतादिना निमित्तेन कर्मदेवतादि-जगदश्रुताद्यपि श्रुतमतादिफलं भवतीति भावेन येनाश्रुतमिति वाक्येन एकविज्ञानेन सर्वज्ञानमुक्तमिति । अत्रैवार्थे दृष्टान्तान्तरम् - वाचेत्यादि । यथा सोम्येत्यनुषज्यते । पूर्ववाक्य इवास्याप्यर्थ: । 'लोहमणि:' इत्येव वैदिकं नामधेयं सत्यं नित्यमित्यर्थः ॥ २ ॥

निषत्

यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यमेवं सोम्य स आदेशो भवतीति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

कैमुत्येनाप्येकज्ञानेन सर्वविज्ञानं दृष्टान्तेन व्यनक्ति - यथा सोम्येति ॥ एकेनात्यल्पेनापि नखनिकृन्तनेन विज्ञातेन तत्सादृश्यात् सर्वं काष्र्णायसं विज्ञातं भवति । किम् ? महतो भगवतः सत्यत्वचिद्रूपत्वादिना ज्ञाने सति तत्सादृश्यात् सर्वं जीवजडादिकं ज्ञायत इति किमु वाच्यमिति भावेन 'येनाश्रुतम्' इत्याद्युक्तमिति । प्रधानज्ञानादप्रधानं ज्ञातफलं भवतीत्यत्र दृष्टान्तान्तरं - वाचेत्यादि ॥ प्रागिवार्थः । ' न च वाचा ' इत्यादिदृष्टान्तत्रयं लोहमणिदृष्टान्तश्चैक इति दृष्टान्तचतुष्टयम् एकस्मि- नेवार्थे किमर्थमिति शङ्कयम् । तत्त्वस्य दुर्गमत्वेनानेकदृष्टान्तोक्ते- रर्थवत्त्वात् । अत एवात्र पूर्वाध्याये एकस्मिन्नेवार्थे एकपाद् व्रजन् रथो वा एकेन चक्रेणेति लवणेन सुवर्णमित्याद्यनेकदृष्टान्तोक्तिः । तदाह सूत्रे 'अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके' ( ब्र.सू.१.४.१९) इति कथं नु भगवः स आदेश इति प्रश्नस्थोत्तरमुक्त्वोपसंहरति एवं सोम्येति || 3 ||

निषत्

न वै नूनं भगवंस्तस्य एतदवेदिषुर्यद्ह्येतदवेदिष्यन् कथं मे नावक्ष्यन्निति भगवांस्त्वेव मे तद्ब्रवीत्विति यथा सोम्येति होवाच ॥। ४ ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवमुक्तः पुत्र आह-न वा इति । भगवन्तस्ते मह्यमुपदेष्टारः एतत् त्वयोक्तं एकविज्ञानरूपतत्त्वं नूनं नवै नैवावेदिषुः न ज्ञातवन्तः । कुतः ? यद् यदि अवेदिष्यन् ज्ञातवन्तः, 'कथं मे मह्यं नावक्ष्यन् इति हेतोर्नूनं प्रायो नावेदिषुरिति हि यतोऽतः भगवानेव तु तत् मे मह्यं ब्रवीत्विति पुत्र उवाचेत्यर्थः । तथाऽस्त्विति पितोवाच हेति ॥ ४ ॥

॥ इति प्रथमः खण्डः ॥

अथ द्वितीयः खण्डः

निषत्

( एकमेवाद्वितीयं ब्रह्म )

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्वैक आहुरसदेवेद-मग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत इति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

प्रधानत्वाद् ब्रह्मणि ज्ञाते अप्रधानं जगदपि ज्ञातफलं भवतीत्युक्तम् । कथं ब्रह्मजगतोः प्राधान्याप्राधान्ये ? इत्यतः स्रष्टृसृष्टभावेनेति भावेन सोपोद्घातं सृष्टिमाह - सदेवेत्यादिना || इदम् अस्य जगत: । अग्रे पूर्वं प्रलये । सर्वोत्तमत्वहेतुना सदेव सन्नामकं ब्रह्मैवाऽसीद् अवर्तत । तद्विशिनष्टिएकमिति । एकं स्वीयगुणकर्मरूपादिभेदहीनं, एवं गुणकर्मादिभिर्भेदाभेदहीनम् अद्वितीयं समाभ्यधिकहीनम् । स्वमत- विरुद्धमनुवदन् दूषयति श्रुतिः तद्वैक इत्यादिना ॥ तत् तत्र सृष्टिविषये एके शून्यबादिनः इदं जगदग्रे प्रलये असदेव शून्यात्मकमेवाऽसीत् । एकमेव भेदशून्यमेव । अद्वितीयं द्वितीयवस्तुहीनम् आसीत् तस्मादसतः शून्यातू सज्जायते सदजायत इत्याहुर्हेत्यर्थः ।। १ ।।

निषत्

कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

तद् दूषयतिहे सोम्य ! कुतस्तु खलु एवम् असतस्तत्त्वं प्रलये स्यादिति असतः सज्जायेतेति च कथं स्यान्न कथमपीति च होवाच पिता । एवं परमतं विनिन्द्य पुनः स्वमतमेव स्थिरीकरोति - सत् त्वेवेति ॥ सर्वोत्तममेव ब्रह्म प्रपञ्चस्याग्रे एकमेवाद्वितीयं भूत्वा आसीदिति । तुशब्देन तस्य सस्वरूपत्वादासीदिति सत्त्वं जगत्कर्तृत्वं च युक्तमिति सूचयति ।। ।।

निषत्

( भगवतः सकाशादादिसृष्टिकथनम् )

तदैक्षत बहु स्यां प्रजायेय इति तत् तेजोऽसृजत तत् तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तद्ध्यापो जायन्ते ॥ ३ 

छान्दोग्योपनिषत्खण्डार्थः

तस्य ब्रह्मण: प्रलयान्त्यभागे सृष्ट्यर्थं विचारः समजनीत्याह - तदैक्षतेति ।। तत् सच्छब्दितं ब्रह्म । ऐक्षत व्यचारयत् । कथम् ? बहु नियामकनानारूपं स्यां भवेयम् । नियामकनानारूपभवनार्थं नियम्यानि प्रजायेय प्रजनयेयं उत्पादयानीत्यैक्षतेत्यर्थः । तदाह सूत्रे - 'ईक्षति - कर्मव्यपदेशात् सः' (ब्र.सू. १ - २ - १३ ) इति । तद् एवमीक्षमाणं सच्छब्दितं ब्रह्म । तेजः, ते तते व्याप्ते हरौ प्रकृतौ वा स्थितेन रूपेणाजत्वेनानुत्पत्तिमत्त्वेन वर्तत इति वा ते पञ्चम्यर्थे सप्तमी, तात् व्याप्ताद्धरेर्जायते विद्याख्यजगत्स्रष्टृरूपेण प्रादुर्भवतीति वा तेजः शब्दिता श्रीः । तां तदभिमन्यमानं तेजोभूतं चासृजत । तत्तेजः तेजोभूतमानिनी श्रीरैक्षत । कथम् ? बहुस्यामित्यादि प्राग्वत् । तत् तेजः अपः अबभिमानिनमप्शब्दितं प्राणं तदभिमता अपश्चासृजत । अपां तेजःकार्यत्वमनुभवारूढं करोति तस्मादिति । अपां तेजःकार्यत्वाद् यत्र क्व च देशे काले वा शोचति तापो जायते स्वेदते वा पुरुषः तत् तत्र तदा वा तेजस एवाऽपो जायन्ते || 3 ||

निषत्

ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद् यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदन्नाद्यं जायते ॥ ४ ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

ता आपः प्राण ऐक्षन्तेत्यादि प्राग्वत् । ताः अबभिमानी प्राणः अन्नम् अन्नशब्दितपृथिवीमानिनं रुद्रम् । अत्र तेजःप्रभृतिशब्दा अभिमानिपरा अपि ध्येयाः, 'अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ' ( ब्र.सू. २- १-६) इति सूत्रात् अन्नं पृथिवी ग्राह्या । 'पृथिव्यधिकार - रूपशब्दान्तरादिभ्यः' (ब्र.सू. २ - ३ - १२) इति सूत्रात् । अन्नस्या- ब्जातत्वमनुभवारूढं करोति तस्मादिति ॥ अन्नस्याब्जातत्वादेव यत्र क्व च वर्षति तदेव तत्रैव भूयिष्ठमन्नं पार्थिववस्तुजातं भवति जायते । निगमयति- अद्भ्य एवेति ॥ ४ ॥ २ ॥

॥ इति द्वितीयः खण्डः ॥

अथ तृतीयः खण्डः

निषत्

( नामरूपात्मकप्रपञ्चस्य सृष्टिकथनम् )

तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं जीवजमुद्भिज्जमिति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

अभिमानिसहिततेजोबन्नोत्पत्तिमुक्त्वा तत्प्राधान्यज्ञापनाय तानि चतुर्विधभूतकारणानीत्याह-तेषामिति ॥ तेषां प्रसिद्धानामेषां वक्ष्यमाणानां भूतानां प्राणिनां त्रीण्येव बीजानि कारणानि भवन्ति खल्विति । उक्तभूतान्याह - अण्डजमिति । अण्डजं पक्ष्यादि । जीवजं जरायुजं मनुष्यादि । उद्भिद्य जायत इति उद्भिज्जं वृक्षादि । स्वेदजं च ग्राह्यम् ॥ १ ॥

निषत्

सेयं दैवतैक्षत हन्ताहमिममास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

तेजोबन्नसृष्ट्यनन्तरं विचारपूर्वकं कृतमाह श्रुतिः - सेयमिति ॥ सा सदेवेत्युक्ता इयं तेजोबन्नस्रष्ट्री विष्ण्वाख्या देवता ऐक्षत । कथम् ? हन्त हर्षे | अहं ता इमास्तिस्रस्तेजोबन्नाख्या देवताः । साभिमन्यमाना इति ग्राह्यम् । अनेन जीवेन जीवाख्येनानिरुद्धात्मना अनुप्रविश्य नामरूपे शब्दात्मकार्थात्मकजगती करवाणि कुर्यामित्यैक्षतेत्यन्वयः ॥ २ ॥

निषत्

तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरोत् ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

नामरूपनिर्माणार्थं तासां मध्ये एकैकां तदभिमन्यमान- तेजःप्रभृतिष्वेकैकं च त्रिवृतं करवाणि तिसृभ्यो देवताभ्यस्त्रिभ्यः तेजोबन्नेभ्यश्च क्रमात् त्रीन् चेतनांशान् त्रीन् जडांशांश्चोद्धृत्यांशषट्कं मिश्रीकृत्य एकं तेजआख्यमबाख्यं पृथिव्याख्यं च मिश्रीभूतवस्तुत्रयं करवाणीति चैक्षतेत्यर्थः । एवमीक्षित्वा तत् तथा कृतवानित्याह - सेयं देवतेति || देवता: अभिमन्यमानसहिता इति योज्यम् । नामरूपे देवदानवमानवादीनामिन्द्रायादिनामानि तत्तच्छरीरादिरूपशब्दित-

वस्तूनि च व्याकरोद् विशिष्याकरोत् ॥ ३ ॥

निषत्

तासां त्रिवृतं त्रिवृतमेकैकामकरोद् यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत् त्रिवृदेकैका भवति तन्मे विजानीहीति ॥४॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

अत्र तासां त्रिवृतं कृत्वा पश्चानामरूपे व्याकरोदिति त्रिवृत्करणनामरूपकरणयोः पौर्वापर्यं ध्येयम् । त्रिवृत्करणपूर्वकं नामरूपकर्ता विष्णुरेवेत्युक्तं सूत्रकृता - 'सञ्ज्ञामूर्तिक्लप्तिस्तु त्रिवृत्कुर्वत उपदेशात्' (ब्र. सू. २.४.२१ ) इति । अत्रायं क्रमः । पूर्वं लक्ष्म्यादीन् तदभिमन्यमानतेजः प्रभृतिसहिताननुप्रविश्य तत्तदंशैस्त्रिवृत- मेकैकं कृत्वा तेभ्य इन्द्रादिनामरूपाण्यकरोत् । तानपि साभिमन्यमानान् तेजःप्रभृतिदेवतांशैरनुप्रविश्य तेषामंशान् मिश्रीकृत्य तेभ्य अभिमन्यमान- सहिताग्र्यादिनामरूपाण्यकरोत् । पुनरग्यादिषु सर्वत्र तेजोबन्नदेवाननु- गतानकरोदिति । एवमन्यादयः सर्वे भावाः साक्षात् परम्परया वा तेजोऽन्नकार्याणीत्युक्तम् । सर्वेषां नामरूपे अपि तेजोबन्नाद्यभिमानि- लक्ष्म्याद्युद्भवत्वात् तदधीने इति चोक्तम् । एतदुभयमनुभवारूढं दर्शयितुं प्रतिजानीते - यथेति ॥ हे सोम्य इमास्तिस्रो देवता एकैका त्रिवृत् त्रिवृद् भवति यथा खलु सर्वं तत्कार्यं च भवति । सर्वेषां नामरूपे तदधीने इति यत् तत्सर्वं वदतो मे विजानीहि । यज्ज्ञाने सति न कमपि नमस्कुर्या महाप्राज्ञोऽहम् इत्यहङ्कारं जह्या:, इत्युवाच पितेत्यर्थः ॥४॥ ३ ॥

।। इति तृतीयः खण्डः ।।

अथ चतुर्थः खण्डः

निषत्

( सृष्टेः लक्ष्मीप्राणरुद्रद्वारा भगवदधीनत्वनिरूपणम् )

यदग्ने रोहित रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां, यत् कृष्णं तदन्नस्यापागादग्नेरनित्वं वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

अहङ्कारमोचनाय प्रतिज्ञामाह-यदनेरिति ॥ अग्रेर्यलोहितं रूपं तत्तेजसो रूपम् । तेजोरूपसमुद्भवं तत् तेजोदेव्यधीनं च । यदग्नेः शुक्लं रूपं तद् अपां रूपं अब्रूपसम्भवम् अब्देवप्राणाधीनं च । यदग्नेः कृष्णं रूपं तद् अन्नस्य पृथिव्याः रूपं पृथिवीदेवशिवाधीनं चेत्यर्थः । न केवलं रूपमेवान्याधीनत्वादिना न मुख्यम् । किन्तु नामापीत्याह- अपागा- दिति ।। अग्नेरग्निनाम्नो यदग्नित्वमग्निनामप्रवृत्तिनिमितं तदग्नेः सकाशाद- पागात् अपगतमभूत् । मुख्यतो नास्त्यतोऽग्निनामापि मुख्यं नास्तीत्यर्थः । कुत इत्यत आह- वाचेति । यस्याग्निनाम्नोऽग्नौ वाचा वागिन्द्रियेण आरम्भणमुच्चारणं तन्नामधेयं विकारः जनिमत् । अन्यत्र मुख्यं सदग्नौ साङ्केतिकम् । न त्वनादितस्तस्यैव सिद्धमतोऽमुख्यम् । तर्हि कुत्र मुख्यमित्यत आह त्रीणीति || तेजोबन्नाख्यानि यानि त्रीणि श्रीप्राणशिवाख्यमेतत् त्रयमेवाग्निनाम्नः सत्यं मुख्यवाच्यमित्यर्थः ॥ १ ॥

निषत्

यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापगादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ २ ॥

यच्चन्द्रमसो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापगाच्चन्द्रात् चन्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ३ ॥

यद्विद्युतो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद् विद्युतो विद्युत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवमादित्यस्येत्यादिवाक्यत्रयस्यापि व्याख्या ध्येया ।। २-४ ।।

निषत्

एतद्ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो विदञ्चक्रुः ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

एकविज्ञानेन सर्वविज्ञानादिकमुपदेशपरम्परागतं चेत्याह-एतद्ध स्मेति ॥ तत्सादृश्यप्राधान्यरूपहेतुभ्यां ब्रह्मज्ञानेन कर्मदेवतादि सर्वं जगज्ज्ञातमिव भवति । प्राधान्यं च हरेर्जगत्कर्तृत्वेन । कर्तृत्वं च तेजोबन्नानां सचेतनानां त्रिवृत्करणेनेत्यादि प्रमेयं विद्वांसो जानन्तो महाशाला महाश्रोत्रियाः पूर्वे नोऽस्माकमश्रुतममतमविज्ञातमस्तीति कश्चन कोऽप्यद्यतनो नोदाहरिष्यति न व्यवहरिष्यतीत्येतदाहुर्ह स्म वै । प्रधान- भगवज्ज्ञानेन सर्वस्य ज्ञातफलत्वादिति भावः । एभ्यः तद्विद्वांस इत्यत्रोक्तप्रमेयज्ञानिभ्यः पूर्वेभ्यः अन्ये विदाञ्चक्रुः एकविज्ञानेन सर्वविज्ञानादिप्रकारं ज्ञातवन्तः ॥ ५॥

निषत्

यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद् विदाञ्चकुर्यदु शुक्लमिवाभूदित्यपारूपमिति तद् विदाञ्चक्रुर्यदु कृष्णमिवा- भूदित्यन्नस्य रूपमिति तद् विदाञ्चकुः ॥ ६ ॥

छान्दोग्योपनिषत्खण्डार्थः

तैर्ज्ञातप्रकारं लेशतोऽनुवदति श्रुतिः - यदु रोहितमिति ॥ रोहितमिव लोहितमिवाभूदिति यत् । उ खलु अस्ति तत् तेजसो रूपं तेजोरूपसम्भूतम् । तेजोदेव्यधीनं चेति तद् विदाञ्चकुरित्यर्थः । यदु शुक्लमित्यादि-वाक्यद्वयमप्येवं ध्येयम् । इवशब्दोऽमुख्यत्वद्योतकः ॥ ६ ॥

निषत्

यद्वविज्ञातमिवाभूदित्येतासामेव देवानां समास इति तद्विदाञ्चक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ७ ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

यदु यत्खलु अविज्ञातमिव तेजः प्रभृत्यात्मकत्वेन स्फुटमविज्ञात-मिवाभूत् तदप्येतासां तेजोबन्नदेवतानां समास इति सङ्क्षेपः समुदाय इति तद् विदाञ्चक्रुरित्यर्थः । पृथिव्यादेस्तेजआद्यात्मकत्वं प्रकारान्तरेण ज्ञापयितुं प्रस्तावयति -- यथा तु खल्वित्यादिना || इमाः तेजोबन्नसहिताः श्रीप्राणशिवाख्यास्तिस्रो देवताः । पुरुषं जीवशरीरम् । इत्युवाच पितेत्यर्थः ॥ ७ ॥

।। इति चतुर्थः खण्डः ।।

अथ पञ्चमः खण्डः

निषत्

(लक्ष्मीप्राणरुद्राः तेजोपुपृथिव्यश्च अन्योन्यांशयुक्ताः इति निरूपणम् )

अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत् पुरीषं भवति यो मध्यमस्तन्मासं योऽणिष्ठस्तन्मनः ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

'तन्मे विजानीहि ' इति प्रतिज्ञातं दर्शयति- अन्नमिति || अन्नम् अदनयोग्यं पार्थिवं वस्तु प्राणिभिरशितं भक्षितं स त्रेधा विधीयते । कथं यद् यः स्थविष्ठः स्थूलतमस्तस्याशितस्य धातुभागः तत् पुरीषं विष्ठा भवति । यो मध्यमः धातुरित्यनुषङ्गः, तन्मांसम् । योऽणिष्ठस्तन्मनस्तस्येति मध्यमोऽणिष्ठ इत्युभयत्राप्यनुषज्यते । अत्रान्नपदेन पृथिव्याः प्रकृतत्वेऽपि तस्या अदनायोगात् तदुपादानकतया तदात्मकं पार्थिवमदनार्हं ग्राह्यम् । अन्नाबादिशब्दैश्च पृथिव्यप्तेजोभिमान्यंशैरुपेतान्येवाद्यमानजडानि ग्राह्याणि । अभिमान्यंशानामद्यमानत्वं प्राणिभिरुपजीव्यत्वमेव । चिदचिन्मिलितमेव अन्नादिकमद्यमानं सत् स्वस्वांशैस्त्रेधा भूत्वा मांसाद्यात्मकं भवति । चिदंशस्य मांसादिभावस्तत्र सन्निधिविशेष एवेति ध्येयम् । प्रत्यहं भुज्यमानान्नादिमध्यमाणिमाभ्यां मांसमनः प्रभृतेर्भवनं नामोपचयो ध्येयः । गर्भे च मातृभुक्तान्नादिना च परिणामः केषाञ्चित्केषाञ्चिदुपचय इति ज्ञेयम् ।। १ ।।

निषत्

आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तलोहितं योऽणिष्ठः स प्राणः॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

आपः अबभिमान्यंशोपेता आपः पीताः द्विरूपाशैस्त्रेधा विधीयन्ते । शिष्टं व्यक्तम् । विष्ठामूत्रयोरपभ्रष्टदेवांशावित्येके । अत एव भाष्ये देवता एव मांसादिशब्दवाच्यास्तत्र प्रवेशादित्येवोक्तमित्याहुः । अन्ये तु अन्नाभिमान्यंशयोस्तत्रापि सत्त्वाङ्गीकारेऽपि निर्लेपत्वात् तयोर्न दोष इत्याहुः ॥ २ ॥

निषत्

तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

तेजोऽशितं तैजसं घृतादिसारवस्तु अभिमानिसहितं व्यक्तमन्यत् ॥ ३ ॥

निषत्

अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥४॥५॥

छान्दोग्योपनिषत्खण्डार्थः

उत्तरग्रन्थोपयुक्ततयोक्तं मध्ये प्राधान्यान्मन आद्यंशमेवानुवदति अन्नमयं हीति || आपोमयोऽम्मय इत्यर्थः अत्र मांसादीनामन्नाद्येकै कभूतमयत्वोक्तावप्यन्नशब्दितपृथिव्यादेस्त्रि- वृत्करर्णेन त्र्यात्मकत्वात् मांसादस्त्रयात्मकत्वमेव ध्येयम् । तदुक्तं 'मांसादिभौमं यथाशब्दमितरयोश्च' (ब्र. सू. २.४.२२.) इति । अन्नमयत्वादिविशेषोक्तिस्तु 'वैशेष्यात्तु तद्वादः' (ब्र.सू.२.४.२३) इत्युक्तदिशा ध्येया । अन्नमयं हि मन इत्याद्युक्तमर्थं दृष्टान्तेन स्पष्टं बोधयेति भावेनाऽह पुत्रःभूय इति । भगवान् मा मां भूय एव पुनरेव विज्ञापयतु विशेषेण बोधयतु इति पुत्रेणोक्तः पितोक्तवानित्याह तथाऽस्त्वित्युवाचेति (१) ॥ ४ ॥ ५ ॥

|| इति पञ्चमः खण्डः ।।

अथ षष्ठः खण्डः

निषत्

( वाक्प्राणमनांसि लक्ष्मीप्राणरुद्रायत्तानि )

दध्नः सोम्य मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत् सर्पिर्भवति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

उक्तमर्थं दृष्टान्तेन बोधयति दन इति । सोम्य दनो मथ्यमानस्य समुदीषति । नवनीतरूपेणोद्गच्छति ॥ १ ॥

निषत्

एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति ॥ २ ॥

अपां सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवति ॥ ३ ॥

तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग् भवति ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

अश्यमानस्यौदनादेरन्नस्य वैश्वानरेण पच्यमानस्य योऽणिमा सारांशः । एवमग्रेऽपि । शिष्टं व्यक्तम् । मनआदिभवनं मन आदेरुपचयो ज्ञेयः ॥ ४ ॥

निषत्

अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान् विज्ञापयत्विति यथा सोम्येति होवाच ॥ ५ ॥६॥

छान्दोग्योपनिषत्खण्डार्थः

उक्तमुपपाद्योपसंहरति अन्नमयं हि सोम्येत्यादिना ॥ मनआदेरन्नमयादित्वमनुभवारूढं कुर्विति भावेनाऽह पुत्रः-भूय एवेति ।। पिता वक्ति - तथेति ।। ५ ।। इति षष्ठः खण्डः ।।

।। इति षष्ठः खण्डः ।।

अथ सप्तमः खण्डः

निषत्

( ‘अन्नाभिमानिदेवतायत्तं मनः' इत्येतदनुभववेद्यम् )

षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः काममपः पिबाsपोमयः प्राणो न पिबतो विच्छेत्स्यत इति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

मनआदेरन्नादिमयत्वमनुभवारूढं व्यतिरेकान्वयोक्त्या करोति - षोडशकल इत्यादिना || हे सोम्य ! पुरुषो जीवः । षोडशकलःस प्राणमसृजत प्राणाच्छ्रद्धाम्' इत्यादिना षट्प्रश्नोक्तदिशा प्राण- वाणी- विनायक-प्राणसुतमरुत्-पावक-बुध-शनि इन्द्र- रुद्र-चन्द्र-वरुण-वह्नि-स्वाहा-पुष्कर-पर्जन्योषाख्यषोडशदेवैरभिन्यमानप्राण-श्रद्धा-ख- वायु - ज्योतिरपृपृथिवीन्द्रियमनोन्नवीर्यतपोमन्त्रकर्मलोकनामाख्यषोडश- कलः । पञ्चदशाहानि दिवसान् । माशीः न भुङ्क्ष्व कामं यथेष्टमपः पिब | कुतोऽपां पानम् आपोमयः प्राणो न पिवतोऽपि तो विच्छेत्स्यते छिन्नो भविष्यति हि यतोऽत इति ॥ १ ॥

निषत्

स ह पञ्चदशाहानि नाशाथ हैनमुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूंषि सामानीति स होवाच न वै मा प्रतिभान्ति भो इति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

स एवमुक्तः पुत्रः नाशीत् (१) न भुक्तवान् । अथानन्तरम् एनं पितरमुपससाद ह । भो पितः ! किं ब्रवीमि अधीतमध्ये किं वदामीत्युवाचेति योज्यम् । पिता वक्ति ऋच इत्यादि ॥ ब्रूहीत्युवाचेति शेषः । स पुत्र उवाच । भो पितः ! इमा ऋगाद्या न वा नैव प्रतिभान्तीति ॥ २ ॥

निषत्

तं होवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् तेन ततोऽपि न बहु दहेदेवं सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टा स्यात् तयैतर्हि वेदान्नानुभवस्याशानाथ मे विज्ञास्यसीति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

तं पुत्रमुवाच पिता । हे सोम्य ! महतोऽभ्याहितस्योपचितस्य वह्निराशेरेकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् । तेन खद्योतमात्रा- वशिष्टत्वहेतुना ततस्तादृशाङ्गारादपि बहुवस्तुजातं न दहेद् दग्धं न भवेत् यथा, एवमेव ते तव षोडशानां कलानां एका कलाऽतिशिष्टाऽवशिष्टा स्याद् अभूत् । तया कलया एतर्हि इदानीं वेदान्नानुभवसि । अज्ञान भुङ्क्ष्व ॥ ३ ॥

निषत्

स हाशाथ हैनमुपससाद तं ह यत्किञ्च पप्रच्छ सर्वं ह प्रतिपेदे ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथ पश्चान्मे मम सकाशाद् विज्ञास्यसीति पितोवाच । स एवमुक्तः पुत्र आशीद् (२) भुक्तवान् । अथानन्तरम् एनं पितरमुपससाद समीप- मगात् । तं पुत्रं यत्किञ्चित् पप्रच्छ पिता । तत्पृष्टं सर्वं प्रतिपेदे ज्ञातवान् पुत्रः । तं पुत्रं पितोवाच ॥ ४ ॥

निषत्

तं ह होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्रज्वलयेत् तेन ततोऽपि बहु दहेत् ॥५॥

छान्दोग्योपनिषत्खण्डार्थः

॥ यथा सोम्येत्यादि । व्यक्तोऽर्थः । अभ्याहितस्योपचितस्य तेन समाहितत्वहेतुना । ततोऽपि परिशिष्टादपि ॥५॥

निषत्

एवं सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टाऽभूत् साऽन्नेनोपसमाहिता प्राज्वालीत् तयैतर्हि वेदाननुभवस्यन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयो वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥ ७ ॥

छान्दोग्योपनिषत्खण्डार्थः

उपसमाहिता उपचिता । तया षोडश्या कलया । एतर्हि इदानीं । व्यतिरेकान्वयाभ्यां मनसोऽन्नमयत्वमुपपाद्य प्राणादेरप्येवमुपपादनं सिद्धं मत्वोपसंहरतिअन्नमयं हीति । तत् मनआदेः अन्नाद्यंशोपचितत्वं, अन्नदेवताद्यधीनत्वं च, अस्य अनेन पुत्रेण । विजज्ञाविति ज्ञातमभूदिति वेदपुरुषवाक्यम् । द्विरुक्तिर्विज्ञातमेवेत्यवधारणार्था । यद्वाऽस्य पितुः सकाशाद् विजज्ञौ ज्ञातवानेव श्वेतकेतुरिति योजना ॥ ६ ॥

॥ इति सप्तम: खण्ड: ।।

अथ अष्टमः खण्डः

निषत्

( सुषुप्तिजाग्रदवस्थयोर्जीवः परमात्माधीन इति निरूपणम् )

उद्दालको हाऽरुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं ज्ञानाधिक्येनाऽत्मानमीश्वरं मन्यमानस्य श्वेतकेतोरीश्वरस्य सर्वप्राधान्यं तस्याप्राधान्यं च प्रबोध्य तस्य सुत्यादावभेदशङ्कां प्रस्ताव्य तत्रापीश्वराधीनत्वज्ञापनेन परिहरन् भेदमुपदिशतीत्याह श्रुतिः - उद्दालक इत्यादिना ।। उद्दालको नामतः अरुणस्यापत्यं आरुणिः । हे सोम्य स्वप्नस्यान्तं स्वप्नान्तं सुषुप्तिं मे मम सकाशाद् विजानीहि बुध्यस्वेति पुत्रमुवाच । एतत्पुरुष: एष पुरुषो यत्र यदा स्वपिति निद्राति, नाम प्रसिद्धं, तदा सता सन्नाम्ना हरिणा सम्पन्नो भवति । तद् व्यनक्तिस्वमिति । स्वं स्वतन्त्रं हरिं हृदब्जगम् अपीतः इतरैरज्ञेयत्वेनानुप्रविष्टो भवति । कुत: ? हि यस्मात् स्वं स्वतन्त्रहरिम् अपीतः प्राप्तो भवति तस्मादेनं स्वपितीत्याचक्षते जना इत्यर्थः । तदाह सूत्रे - ' तदभावो नाडीषु तच्छ्रुतेरात्मनि ह' (ब्र.सू.३.२.७) इति । जाग्रत्स्वप्नयोः श्रान्तो जीवः स्वप्नान्तरूपसुषुप्तौ श्रमापनोदाय भगवता स्वान्तर्निवेशितत्वात् तदा केवलं ईश्वराधीनो न स्वतन्त्र इत्युक्तम् ।। १ ।।

निषत्

स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वाऽ-न्यत्राऽयतनमलब्ध्वा बन्धनमेवोपाश्रयत एवमेव खलु सोम्यैत- न्मनो दिशं दिशं पतित्वाऽन्यत्राऽयतनमलब्ध्वा प्राणोमेवोपाश्रयते प्राणबन्धनं हि सोम्य मन इति ॥२॥

छान्दोग्योपनिषत्खण्डार्थः

ईश्वराधीनत्वं सदृष्टान्तं व्यनक्ति यथेति ॥ स प्रसिद्धो दृष्टान्तो यथा-शकुनिः पक्षी सूत्रेण प्रबद्धः दिशं दिशं प्रतिदिशं पतित्वा उत्पन्न अन्यत्र पतितदेशे आयतनं विश्रान्तिकराश्रयम् अलब्ध्वा अप्राप्य बन्धनमेव बध्यतेऽि बन्धनं स्वपादलग्नसूत्रबन्धनशङ्कुभव श्रान्तिनिवृत्त्यर्थमुपश्रयते । तत्समीप एवाऽस्ते । एवमेव खलु हे सोम्य ! एतन्मनः मनुते अवबुध्यते इति मनोनामैष जीवः प्राणमेव प्रणयनहेतुना प्राणनामकं हरिमेवोपश्रयते । शिष्टं प्राग्वत् । कुतः ? हि यस्मात्, मनो जीवः प्राणबन्धनं प्राणेन बध्यमानस्तस्मादिति । इतिशब्दः सुप्तौ भगवदधीनत्वोक्तिसमाप्तौ

॥ २ ॥

निषत्

( जाग्रदवस्थायां जीवः परमात्माधीन इति प्रतिपादनम् )

अशनायापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रैतच्छुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

जाग्रदवस्थायामपि जीवस्येशाधीनत्वं प्रस्ताव्य बोधयति- अशनायेति ।। अशनाया भोजनेच्छा, पिपासा पानेच्छा । त उभे न जीवाधीने तावदतो यदधीने तद् विजानीहीति पितोवाचेत्यर्थः । कस्मि-न्नायत्ते तद् विज्ञापयेति पुत्रेणोक्तः पिता वक्ति - यत्रेति । एतत्पुरुषः एष जीवः यत्र यदा अशिशिषति अशितुं भोक्तुमिच्छति तदा अप एव आप एवाभिमानी प्राण एवान्नेच्छामुत्पाद्य पश्चादशितं भुक्तमन्नं पाकेन तेजःसंयोगेन रसवीर्यादिकरणेन नयन्ते । 'अन्नं रसादिरूपेण प्राणः परिणयत्यसौ' इत्युक्तेः । अशितनेतृत्त्वमपां कुत इत्यतोऽशनायाशब्द- वाच्यत्वादिति सदृष्टान्तमाह - तद् यथेति ॥ वक्ष्यमाणं निदर्शनं यथा । गां नयतीति गांनायोऽश्वं नयतीत्यश्वनायः पुरुषं नयतीति पुरुषनायो यथा एवं तदपस्ता आपः अशं नयन्तीत्यशनायेत्याचक्षते । अबभिमानी च प्राणः तेजोमानि श्रीद्वारा भगवदधीन इति सिद्धमेवेति भावः । 'यत्रैतत्पुरुषः पिपासति नाम' इत्यादिवाक्यं 'यत्रैतत्पुरुषोऽशिशिषति' इति वाक्यसमाप्त्यनन्तरं ध्येयम् । योजना च तद्वदेव ध्येया । तेजः तेजोमानिनी श्रीः । सदेव सोम्येत्यादिना हरेर्जगत्कर्तृत्वेन प्राधान्यात् तव तत्सृज्यत्वेना- प्रधानत्वात् तद्भिन्नस्तदधीनोऽसीत्युक्तमर्थं तात्पर्यद्योतनाय पुनराह - तत्रैतच्छुङ्गमित्यादिना ।। तत्र भगवतो जगत्कर्तृत्वे । तेन प्राधान्ये च एतत् शुङ्गम् अङ्कुराख्यं कार्यं ज्ञापकमुत्पतितमुत्पन्नं प्राप्तमिति वा सोम्य विजानीहि इदं शुङ्गं जगद्वृक्षाङ्कुरममूलम् अकारणकं न भविष्यति ॥ ३ ॥

निषत्

तस्य क्व मूलं स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापोमूलमन्विच्छदि्भः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ४ ॥

अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

इति हेतोस्तस्यान्नात् पृथिवीमानिन: शिवादन्यत्र अन्यत् क किम्मूलं स्यात् । अन्नशब्दितः शिव एव मूलं कर्तेत्यर्थः । अन्नेन च शुङ्गेन कार्येणाब्रूपमूलमन्विच्छ विजानीहीति यावत् ॥ ५ ॥

निषत्

तस्य क्व मूलं स्यादन्यत्राद्भ्योऽद्भ्यः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥

छान्दोग्योपनिषत्खण्डार्थः

अद्भ्यः अभिमानि प्राणात् तेजोरूपं मूलं श्रीतत्वमन्विच्छ । तेजसा सोम्य शुङ्गेन सच्छब्दितं मूलं कर्तृ अन्विच्छ । इमाः प्रजाः सन्मूलाः सच्छब्दितब्रह्मकर्तृकाः, सदायतनाः सत्स्थितिकाः, मुक्तौ सत्प्रतिष्ठाः ।

भगवदधीनलक्ष्म्याद्यधीनत्वात् सुतरां भगवदधीनः पुरुष इत्याह यथेति || इमाः श्रीप्राणशिवाख्याः देवताः शरीरादिकर्तृत्वात् लक्ष्म्याद्या ध्येयाः तदीशितृत्वेन भगवांश्चावश्यं मुमुक्षुणा ध्येय इत्यनुसन्धान- कर्तव्यताज्ञापनायोक्तम्तदुक्तमित्यादि । पुरस्तात् पूर्वमेव तदुक्तं भवतीत्यर्थः । मृतिमुक्त्योः परम्परयेशाधीनत्वान्न त्वमीश्वराभिन्न इत्याह- अस्येत्यादिना || हे सोम्य ! प्रयतो म्रियमाणस्य मुच्यमानस्य चास्य जीवस्य वाग् वाग्देवी उमा मनसि मनः प्रेरके रुद्रे सम्पद्यते । मनो रुद्रश्च प्राणे, प्राणस्तेजसि श्रीतत्त्वे सम्पद्यत इत्यन्वेति । प्राणस्य तेजसि सम्पत्तिर्द्वारमात्रं न लय इति ज्ञेयम् । तेजः श्रीतत्वं च परस्यां देवतायां सम्पद्यते । पुरुषाः मृत्यादौ वाग्देवीमुमां प्राप्य परम्परया ईश्वरं प्राप्नुवन्तीत्यर्थः ॥ ६ ॥

निषत्

( अतत्त्वमसिवाक्यार्थः )

स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ७ ॥ ८ ॥

छान्दोग्योपनिषत्खण्डार्थः

सर्वनियामकत्वादिरूपत्वाच्चेश्वरस्य न त्वमीश्वरोऽसीत्याह स य इति ।। सारत्वात् सः । नियामकत्वाद् यः । अप्रतिहतसर्वेच्छारूपत्वादेषः। सूक्ष्मज्ञानेन मीयते विषयीक्रियत इत्यणिमा । इदं सर्वम् ऐतदात्म्यम् एष आत्मा स्वामी अस्येत्येतदात्मा । तदेवैतदात्म्यम् । स्वार्थे ष्यञ् । एतत्स्वामिकम् । यद्वा, कर्मधारयात् स्वस्वामिसम्बन्धे ष्यञ्प्रत्ययः । ततत्वात् तत्, परमानन्दरूपत्वात् सत्यम् । स विष्णुरात्मा पूर्णगुणः । त्वमतदसि तद्भिन्नवस्त्वसि श्वेतकेतो इत्युवाच पितेति योज्यम् । स य इत्यादिना नियामकतया जीवेषु हरिस्तिष्ठतीत्युक्तम् । सता सोम्येत्यादिना सुप्तौ प्राप्य इति चोक्तम् । तर्हि कुतो न दृश्यते तद्वदेति भावेनाऽह पुत्रः भूय एवेति ।। तथा सोम्येति होवाच पितेत्यर्थः ॥७॥

।। इति अष्टमः खण्डः ।।

अथ नवमः खण्डः

निषत्

( जीवब्रह्मभेदविषये पुष्परसदृष्टान्तः )

यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसानां समवहारमेकतांं गमयन्ति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

स्वस्माद् भिन्नत्वेनादर्शनान्नास्तीति शङ्कां हेतोः  पुष्परसेष्वनैकान्तिकत्वोक्त्या निराह-यथेति । मधुकृतो भ्रमराः मधु निस्तिष्ठन्ति निर्मम । कथम् ? नानात्ययानां नानागतीनामन्योन्यवि- लक्षणानां वृक्षाणां रसानां समवहारं समूहम् एकतां मिश्रतां गमयन्ति ॥ १ ।।

निषत्

ते यथा तत्र न विवेकं लभन्ते अमुष्याहं वृक्षस्य रसोऽस्मि अमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पत्स्यामह इति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

यथा च ते नानावृक्षरसाः तत्र मिश्रतायां विद्यमानमपि विवेकमन्योन्यभेदं न लभन्ते न जानन्ति अमुष्या म्रवृक्षस्याहं रसोऽस्मि अयं त्वन्यस्येति । तथाऽन्योऽपि अमुष्य पनसवृक्षस्याहं रसोऽस्म्ययं त्वन्यस्येति । एवमेव खलु सोम्येमाः सर्वाः प्रजाः परमेश्वरशक्तिभिरेव स्वे स्वे शरीरे सति सच्छब्दार्थेश्वरे सम्पद्य तेन मिश्रीभावं प्राप्य सति सम्पत्स्यामहे । उपलक्षणमेतत् । सम्पन्नाः, सम्पद्यामह इति न विदुः || ||

निषत्

त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत् भवन्ति तत्तदा भवन्ति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

इह लोके ते प्रसिद्धाः व्याघ्रो वेत्यादि यद् यद् भवन्ति तत्तदा परमेश्वराश्रितत्वाज्ञानापराधाद् भवन्तीति । एतेन यो यमात्मनो भेदेन न पश्यति स ततो न भिद्यत इति व्याप्तेर्भङ्गो दर्शितो भवति ।। ३ ।।

निषत्

स एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ(s) तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ४ ॥ ९ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं व्याप्तिं निरस्य स्वतो भिन्नोऽन्यो नियामकोऽस्तीत्युक्तं सूक्तमित्याह-स य इति ।। प्रागिवार्थः || ||

।। इति नवमः खण्डः ।।

अथ दशमः खण्डः

निषत्

( जीवब्रह्मभेदविषये नदीसमुद्रदृष्टान्तः )

इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते पश्चात् प्रतीच्यस्ताः समुद्रात् समुद्रमेवापियन्ति । स समुद्र एव भवति । ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

अस्त्वचेतनानां वृक्षरसानामज्ञानं, मया तु यश्चेतनो यमात्मनो भेदेन न पश्यति स ततो न भिद्यत इति व्याप्यांशे विशेषणं दीयते । अतो न व्याप्तिभङ्ग इत्यभिप्रायेण भूय एवेति पुनः पृष्टे पितोवाच-इमाः सोम्येत्यादि । इमाः प्रसिद्धाः गङ्गाद्याः नद्यभिमानिदेवताः प्राच्यः प्रागञ्चनाद् गमनात् प्राचीशब्दवाच्याः पुरस्तात् स्यन्दन्ते स्रवन्ति तथा प्रत्यगञ्चनात् प्रतीचीशब्दवाच्याः पश्चात् स्यन्दन्ते । एवमत्यन्त-विलक्षणास्ताः मेघादिद्वारेण समुद्रादुत्पन्नजलत्वात् समुद्रमेवापियन्ति प्रविशन्ति । तथाऽपि स समुद्र एव भवति । ता नदीदेवताः यथा तत्र समुद्रे । इयं गङ्गाऽहमस्मि, इयं तु यमुना, अयं तु समुद्रः; इत्येवमन्या अपि न विदुः ॥ १ ॥

निषत्

एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामहे इति । त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद् भवन्ति तत्तदा भवन्ति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवमेव खलु सोम्येमा प्रजाः सतः परमेश्वरादागम्योत्पद्यापि सत आगच्छामहे उत्पन्नाः स्मः इति न विदुः । एवमीश्वरे स्थित्वाऽपि तमाश्रिताः स्म इति न विदुः । त इहेत्यादि पूर्ववत् । अनेन चेतनत्व- विशेषितस्यापि व्याप्यत्वाभिमतस्यानैकान्त्यमुक्तं भवति ॥ २ ॥

निषत्

स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १० ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं सविशेषणव्याप्तिं च निरस्य स्वतो भिन्नो नियामकोऽ- न्योऽस्तीत्येतत् सिद्धमेवेत्याह- स य इति ॥ ३ ॥

|| इति दशमः खण्डः ।।

अथ एकादशः खण्डः

निषत्

( ' जीवोऽस्वतन्त्रः' इत्यस्मिन् विषये वृक्षदृष्टान्तः )

अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन् स्रवेद् यो मध्येऽभ्याहन्याज्जीवन् स्रवेद् योऽग्रेऽभ्याहन्याज्जीवन् स्रवेत् स एष जीवेनाऽत्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति

छान्दोग्योपनिषत्खण्डार्थः

अस्त्वीश्वरः स्वतो भिन्नः, तथाऽपि जीवस्य तदधीनत्वं कुतः ? कथं चाहं जानीयाम् ? इत्यभिप्रायवता पुनर्भूय एवेति पृष्टः पिताऽब्रवीत् - अस्य सोम्येति ।। हें सोम्य अस्य महतो वृक्षस्य यः कश्चिन्मूले अभ्याहन्याद् जीवन् जीवेन भगवताऽधिष्ठितश्चेत् स्रवेद् रसमेवोद्भिरेत् न तु म्रियते । एवं यो मध्य इत्यादि । एवं स एष वृक्षजीवः अनेन प्रकृतजीवेनाऽत्मना परमेश्वरेणानुप्रभूतः प्राप्तोऽधिष्ठितदेहः पेपीयमानः पुनः पुनः भृशं वा पिवन् तिष्ठति

निषत्

अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यत्येवमेव खलु सोम्य विद्धीति होवाच ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

अन्वयमुक्त्वा व्यतिरेकमाह-अस्येति । अस्य वृक्षस्य यदा एकां शाखां जीवो हरिः जहाति त्यजति अथानन्तरं सा शाखा शुष्यति । यदि द्वितीयां शाखामित्यनुषङ्गः ॥ २ ॥

निषत्

जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते इति स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति यथा सोम्येति होवाच ॥ ३ ॥ ११ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवमेव खलु सोम्य विद्धीत्युक्तं विशदयति-जीवापेतमिति । जीवेन हरिणाऽपेतं त्यक्तमिदं प्राणिजातं म्रियते । न जीवो हरिः म्रियते । अनेनेदमुक्तं भवति । यथा वृक्षजीवस्य सदाऽनुपहतात्यक्तदेहेन सुखिनैव स्थातव्यमितीच्छायामपि कदाचिदीश्वरानुग्रहे सति विघातिषु बाह्य- कारणेषु सत्स्वप्यवस्थानं भवति । कदाचिदीश्वरानुग्रहाभावे बाह्यकारण- बलवत्त्वाभावेऽपि शरीरशोषत्यागाद्यनिष्टं भवति । एवं मानुषशरीरेऽपि जीवस्येशाधीनत्वं ज्ञातव्यमिति । एवं स्वतोऽन्यं जीवनियन्तारं वृक्षदृष्टान्तेन विज्ञाप्य स य इत्यादिना यत् प्रागुक्तं तत् सुस्थमित्याह- स इति ।। ३ ।।

।। इति एकादश: खण्ड: ।।

अथ द्वादशः खण्डः

निषत्

( परमात्मनोऽप्रत्यक्षत्वविषये वटबीजदृष्टान्तः )

न्यग्रोधफलमत आहरेतीदं भगव इति भिन्धीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामजैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं जीवस्य सत्तादिप्रदः परमात्मैव शरीरे वर्तमानोऽपि जीवेन कुतो न दृश्यते । सौक्ष्म्यादिति चेन्न । वालाग्रशतभागस्यापि जीवात्मनः स्वस्य सूक्ष्मस्य दर्शनादिति भावेन भूय एवेति पृष्टः पितोवाच - न्यग्रोधेति ॥अतः पुरः स्थिताद् वृक्षात् न्यग्रोधफलं वटफलमाहरेत्युवाच पिता । आहृत्येदं न्यग्रोधफलमाहृतं भगव: ! इति पुत्र उवाच । इदं फलं भिन्धीति पिता । तद् भित्वा भिन्नं फलमिति पुत्रः । अत्र भिन्ने फले किं पश्यसीति पिता । अण्व्य इवेमाः सूक्ष्मा धाना बीजानि पश्यामीति पुत्रः । हे अङ्ग ! आसां धानानां मध्ये एकां धानां भिन्धीति पिता । भित्त्वा भिन्नेति पुत्रः । अत्र भिन्नायां धानायां किं पश्यसीति पिता । किञ्चन न पश्यामीति पुत्रः ।। १ ।।

निषत्

तं होवाच यं वै सौम्य एतमणिमानं न निभालयसे एतस्य वै सोम्यैषोऽणिम्नः एवं महान् न्यग्रोधस्तिष्ठति श्रद्धस्व सोम्येति ॥२॥

स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १२ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवमुक्तवन्तमुवाच पिता । यमेतमणिमानं भावभवित्रोरभेदात् परमसूक्ष्मं परमात्मानं न निभालयसे न पश्यसि । अस्याणिम्नः सूक्ष्मभगवतः सामर्थ्याद् एवं परिदृश्यमानप्रकारेण महान् न्यग्रोधस्तिष्ठति । श्रद्धत्स्व विश्वासं कुरु, सोम्येति पिता । अत्र, वृक्षः, प्रपञ्चः फलं, शरीरं, धानाः, जीवाः, तत्र यथा सूक्ष्मे वटबीजे दृश्यमानेऽपि यत्प्रभावाद् वृक्षावस्थानं स बीजान्तर्गतो हरिः परमसूक्ष्मत्वान्न दृश्यते, तथा जीवादपि सूक्ष्मत्वात् तदन्तर्गत (१) इत्युक्तं भवति । अतो यदुक्तं नियन्ताऽन्योऽस्तीति तत् सुस्थमित्याह स य इति ।। २-३ ।।

॥ इति द्वादश: खण्ड: ।।

अथ त्रयोदशः खण्डः

निषत्

( ‘परमात्मनः कार्यं प्रत्यक्षम्' इति विषये लवणोदकदृष्टान्तः )

लवणमेतदुदकेऽवधाय मा प्रातरुपसीदथा इति तद्ध तथा चकार तं होवाच यद्दोषा लवणमेतदुदकेऽवधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

वटावस्थानादिकार्येणेश्वरसामर्थ्यं दृश्यमानेऽपि तस्यादर्शनमित्येतत् कथमहं जानीयामिति भावेन भूय एवेति प्रार्थितः पितोवाच - लवण- मित्यादि ॥ एतल्लवणखण्डं कुम्भोदके दोषा रात्रौ अवधाय निक्षिप्याथानन्तरं प्रातः मा माम् उपसीदथाः प्राप्नुयाः इत्युवाच पितेत्यर्थः । यद् यथा पित्रोक्तं तत् तथा चकार ह पुत्रः । तं प्रातः समीपमागतं पुत्रमुवाच ह पिता । किमिति ? दोषा रात्रौ यल्लवणमुदकेऽवधाः अवाधाः निक्षिप्तवानसि हे अङ्ग तदाहरेति । तत्कुम्भमानीय तन्मध्ये हस्तं स्थापयित्वा अवमृश्य परामृश्य न विवेद नापश्यत् । विलीनमेव अत्यन्तं वस्तु यथा न दृश्यते तथा न विवेदेत्यन्वयः ॥ १ ॥

निषत्

यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमिति अन्त्यादाचामेति कथमिति लवणमिति अभिप्रास्यैतदथ मा उपसीदथा इति तद्ध तथा चकार तच्छश्वत् संवर्तते । तं होवाचात्र वाव किल स सोम्येतमणिमानं न निभालयसे अत्रैव किलेति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

हे अङ्ग अस्योदकस्यान्तात् पूर्वदिगवस्थितादवयवादुद्धृत्यैकदेश- माचामेति पिता । आचान्तवन्तं पुत्रं प्रति कथमिति पप्रच्छ । लवणं लवणरसोपेतमिति पुत्रोऽब्रवीत् । एवं मध्यात् मध्यभागादन्त्यात् पश्चिमदिगवस्थिताच्चोद्धृत्याचामेत्यादिप्रश्नप्रतिवचने ध्येये । एतदुदक- मभिप्रास्य निरवास्य मामुपसीदथाः इति पिता । तद्ध तथा चकार पुत्रः । तल्लवणं कुत्र गतमिति जिज्ञासायां वेदपुरुषः स्वयमाह तदिति ॥ तल्लवणं शश्वत् साकल्येनोदक एव संवर्तते । नापगतमिति । तत्त्वनिर्णयटीकायां तु तद्ध तथा चकारेति वाक्यं शश्वद् अङ्ग तदाहरेत्यनन्तरं संवर्तते, अनुवर्तनीयमिति वार्थ इत्युक्तम् । तं होवाच अत्र वावेति ।। एतमणिमानं सूक्ष्मलवणं यत्र न निभालयसे तल्लवणमत्रैवोदके सद् विद्यमानं किल । अत्रैव किलेति पुनरुक्तिरादरार्था । अनेन लवणगुणे रसे दृश्यमानेऽपि लवणं न दृश्यते तथा हरेः सामर्थ्य दृश्यमानेऽपि न भगवानित्युक्तं भवति ॥ २ ॥

निषत्

स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १३ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं पुत्रशङ्कितानुपपत्तिं परिहृत्य त्वदन्यो नियामकोऽस्तीत्युक्तं सूक्तमित्याहस य इति । एवम्भूतो हरिरविद्यापटलपिहितनयनेन कथं दृश्यते प्राप्यते चेति तमुपायं वक्तुं प्रार्थयते-भूय एवेति ।। ३ ।।

।। इति त्रयोदशः खण्डः ।।

अथ चतुर्दश: खण्ड:

निषत्

( गुरूपदेशादेव भगवत्प्राप्तिः )

यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत् स यथा तत्र प्राङ्ग्वोदङ्ग्वाऽधराङ्ग्वा प्रध्मायीताऽभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

गुरूपदेशस्तद्दर्शनप्राप्त्योर्हेतुरिति सदृष्टान्तमाह पिता--यथा सोम्येति ॥ हे सोम्य ! पुरुषं धनिकं गन्धारसञ्ज्ञकेभ्यो जनपदेभ्यः अभिनद्धाक्षंणह बन्धनेबद्धाक्षम् । अक्षिणी बद्ध्वेति यावत् । ततोऽनन्तरम् आनीय अतिजने जनरहिते अरण्ये विसृजेच्चोरः । स यथा तत्रारण्ये अभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्ट इति प्राङ् चोदङ् वाऽधराङ् वा प्रागादिदिगभिमुखो भूत्वेति यावत् । प्राध्मात 'ध्मा शब्दाग्निसंयोगयोः' उच्चैर्ब्रयात् ॥ १ ॥

निषत्

तस्य यथाऽभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैमेवेहाचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्यत इति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

यथा कश्चित् कृपावान् तद्वाक्यं सम्यक् श्रुत्वा तस्याभिनहनं बन्धनं प्रमुच्य ब्रूयाद् एतां दिशम् अस्यां दिशि गन्धारा जनपदाः सन्ति एतां दिशं ब्रजेति । स एवमुक्तः पुरुषः तदुपदिष्टाद् ग्रामान्निर्गत्यापरं ग्रामं पृच्छन् पण्डितः प्राज्ञो मेधावी स्मृतिमान् गन्धारानेवोपसम्पद्येत एवमेवानाद्य- विद्यादिभिराच्छादितनिजज्ञानो जीवः संसारे पतितः परमेश्वराद् जात-जिज्ञासो गुरूपदेशं लब्ध्वा क्रमापन्नानि श्रवणादीनि साधनान्यनुष्ठाय स्वजन्मभूमिं भगवन्तं पश्यतीति भावेनोक्तम्-आचार्यवान् पुरुषो वेदेति ।। तस्य भगवद्वेदिनो यावन्न विमोक्ष्ये प्रारब्धकर्मणो न विमोक्ष्यते, तावदेव चिरं विलम्बो ब्रह्मप्राप्तौ । अथ भोगेन प्रारब्धक्षयानन्तरं सम्पत्स्यते ब्रह्म प्राप्नोति चेति ॥ २॥

निषत्

स य एषोऽणिमैतदात्म्यमिद सर्वं तत् सत्यं स आत्मा-तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १४ ॥

छान्दोग्योपनिषत्खण्डार्थः

दर्शनादिप्राप्तिहेतुमुक्त्वा प्रागुक्तं नियामकाद्धरेर्भिन्नो जीव इति सुस्थमित्याह स य इति । जीवस्यास्वातन्त्र्यं वृक्षदेहे अवगतं मानुषदेह एव बोधयेति प्रार्थयते-भूय एवेति ॥ ३ ॥

॥ इति चतुर्दशः खण्डः ॥

अथ पञ्चदश: खण्ड:

निषत्

( मनुष्यस्यास्वातन्त्र्यविषये मरणावस्थानिदर्शनम् )

पुरुषं सोम्योपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

तत्पृष्टमन्वयव्यतिरेकाभ्यां बोधयतिपुरुषमिति ॥ हे सोम्य ! उपतापिनं रोगिणं ज्ञातयो बान्धवाः पर्युपासते परित उपविशन्ति । कथम् ? जानासि मां जानासि मामिति वदन्तः । तस्योपतापिनः यावद् वा उमा मनसि रुद्रे न सम्पद्यते मुक्तव्यापारा सती न रुद्रे तिष्ठतीति यावत् । एवमग्रेऽपि । मनः रुद्रः प्राणे न सम्पद्यते, प्राणस्तेजसि श्रीतत्वे न सम्पद्यते, तेजः परस्यां देवतायां न सम्पद्यते तावज्जानाति ॥ १ ॥

निषत्

अथ यदाऽस्य वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथ अनन्तरं (१) यदाऽस्योपतापिनः । अथ तदा । न जानाति ॥ २ ॥

निषत्

स य एषोऽणिमैतदात्म्यमिदसर्वं तत्सत्यं स आत्मा-तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥३ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं जीवस्य मानुषदेहेऽपि परम्परया ईशाधीनत्वं स्पष्टं प्रबोध्य यदुक्तं नियम्याद् भिन्नत्वं तस्य स य इत्यादिना तत् सुस्थमित्याहसय इत्यादिना ॥ एवं सर्वप्रेरकं भगवन्तमात्मनो भेदेन यो जानाति, यश्च सोऽहमस्मीत्यभेदेन जानाति तयोः कीदृशं फलमिति भावेनाऽह - भूय एवेति ॥३ ॥

॥ इति पञ्चदश: खण्ड: ।।

अथ षोडशः खण्डः

निषत्

( अभेदज्ञानस्यानर्थकारित्वे चोरदृष्टान्तः )

पुरुषं सोम्योत हस्तगृहीतमानयन्ति अपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति । स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

द्वयोरपि फलं दृष्टान्तेनाऽह पुरुषमिति ॥ राजद्रव्येऽपगते शङ्कास्पदं पुरुषमानयन्ति राजभटाः । कथम् ? अयमपहार्षीत् स्तेय - मकार्षीदिति वदन्त इति शेषः । पश्यतोहरत्वमपहारः, अन्यत् स्तेयम् । ततश्चोरेणेदं मया न कृतमित्युक्ते, भटान् प्रति राजा वक्ति । परशुमस्मै अस्य परीक्षार्थं तपतेति । परशुं तप्तमस्य हस्ते दत्तेति यावत् । स पुरुषो यदि तस्यापहारादेः कर्ता भवति नेति च ब्रूते, तत एव कर्ता सन्नपि नेति वदतीति हेतोरेवाऽत्मानमनृतमसत्यं कुरुते । सोऽनृताभिसन्धः, अनृते अभिसन्धो बुद्धिर्यस्य सोऽनृताभिसन्धः अनृतेनासत्यवचनेनाऽत्मानमन्तर्धायाऽच्छाद्य तप्तं परशुं प्रतिगृह्णाति । स दह्यते । अथानन्तरं स हन्यते राजभटैः ॥ १ ॥

निषत्

अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते । स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथ यदि तस्येत्यादि व्यक्तम् । स यथा तत्र न दह्यते, एवमेव भगवतः भेदज्ञानी न दह्यते । न हन्यते मुच्यते चेत्यर्थः ॥ २ ॥

निषत्

स यथा तत्र नादाह्येतैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति तद्धास्य विजज्ञाविति ॥ ३ ॥ १६

॥ इति श्रीमच्छान्दोग्योपनिषदि षष्ठोऽध्यायः ॥

छान्दोग्योपनिषत्खण्डार्थः

तथाऽभेदज्ञानी च चोरत्वादेव दह्यते हन्यते, अन्धे तमसि पात्यते । तथा च प्रागुक्तं सुस्थमित्याह- स य इति । अस्य पितुः सकाशात् तत्पित्रोक्तं सर्वं विजज्ञौ ज्ञातवान् पुत्र इति श्रुतिवाक्यम् । द्विरुक्तिरवधारणार्था

।। ३ ।। १६ ।।

।। इति श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते षष्ठोऽध्यायः ।।