लवणमेतदुदकेऽवधाय मा प्रातरुपसीदथा इति ..
उपनिषत् (खण्डः - १३ )
‘परमात्मनः कार्यं प्रत्यक्षम्' इति विषये लवणोदकदृष्टान्तः
लवणमेतदुदकेऽवधाय मा प्रातरुपसीदथा इति तद्ध तथा चकार तं होवाच यद्दोषा लवणमेतदुदकेऽवधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ १ ॥
यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमिति अन्त्यादाचामेति कथमिति लवणमिति अभिप्रास्यैतदथ मा उपसीदथा इति तद्ध तथा चकार तच्छश्वत् संवर्तते । तं होवाचात्र वाव किल स सोम्येतमणिमानं न निभालयसे अत्रैव किलेति ॥ २ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १३ ॥
भाष्यम्
कथं दृश्येत तच्छक्तिः पृथक् तस्य ह्यदर्शने । इति भावयुतं प्राह पुत्रमुद्दालकः पुनः ॥ यथाऽप्सु लवणं व्याप्तं रसदृष्टौ न दृश्यते (१) I एवं चेतनगो विष्णुस्तद्भिन्नोऽपि न दृश्यते ॥ १३ ॥
पदार्थकौमुदी
यदि तत् सज्जगंतो मूलं तर्हि कस्मान्नोपलभ्यत इत्येतद् दृष्टान्तेन विज्ञापयत्विति प्रश्नाभिप्रायवर्णनमयुक्तम् । त्वन्मते सन् घट इत्यादा- वप्यधिष्ठानसदर्थोपलब्धेरेवं प्रश्नायोगात् । परमसूक्ष्मत्वान दृश्यत इति पूर्वखण्ड एवोक्तत्वाचेति भावेन स्वयं प्रश्नाभिप्रायमाह – कथमिति ॥ यदि हरिर्जीवात् पृथगेवोक्तरीत्या न दृश्येत तर्हि तस्यादर्शने तच्छक्तिः कथं दृश्येत ? दृश्यते च वटावस्थानादिनानाविधकार्येणेश्वरसामर्थ्यं तावत् प्रत्यक्षमिव । एवं तत्सामर्थ्ये दृश्यमाने तस्यादर्शनमित्येतत् कथमिति भावयुतमिति भावः । तदुत्तरत्वेन लवणरसदृष्टान्तकथना- भिप्रायमाह - यथेति । अप्सु व्याप्तमित्यन्वयः । यथाऽप्सु व्याप्तं लवण-मत एव तद्भिन्नं तद्गुणरसदृष्टावपि न दृश्यते । एवं चेतनस्तद्भिन्नो विष्णुस्तत्सामर्थ्यं दृश्यमानेऽपि न दृश्यत इत्यर्थः । त्रयोदशः खण्डः ।।
खण्डार्थः
|| लवणमित्यादि । हे अन्गैतत्पिण्डरूपं लवणमुदके घटादि-स्थेऽवधाय निक्षिप्य मा मां प्रातरुपसीदथाः उपागच्छेति पित्रोक्तः स ह तथा चकार । तद्ध तथा चकारेति क्वचित्पाठः । तत्र यथा पित्रोक्तं तत्तथा चकार पुत्र इत्यर्थः । तं होवाच पिता । हे अङ्ग दोषा रात्रौ यल्लवणमुदकेऽवधाः अवाधास्तदाहरेति । तत् लवणमुदके हस्तेनावमृश्य न विवेद पुत्रः । यथा विलीनमेवात्यन्तं विनष्टं वस्तु न विन्दति तथाऽङ्गास्योदकस्यान्तात् पूर्वदिगवस्थितादवयवादुद्धृत्यैक-देशमा- चामेति पिता । आचान्तवन्तं कथं तिष्ठतीति पप्रच्छ पिता । लवणं लवणरसोपेतमित्याह पुत्रः । एवं मध्यादित्यादि व्याख्येयम् ।अन्त्यात् पश्चिमदिगवस्थितात् । एतद् उदकमभिप्रास्य निरस्याथ मा माम् उपसीदथा इति पिता । तद्ध तथा चकार पुत्रः । तल्लवणं शश्वदुदक एव संवर्तते । नह्यपगतमिति श्रुतेः स्ववाक्यं तत् तद्ध तथा चकारेति वाक्यं शश्वदङ्ग तदाहरेत्याद्यनन्तरं संवर्तते । अनुवर्तनीयमिति वा । तं होवाच पिता । हे सोम्यात्र वावाऽत्रैवोदके सद् विद्यमानं लवणं तद्गुणे दृश्यमानेऽपि न निभालयसे । अत्रैव किलेति पुनर्वचनमादरार्थम् । इत्युवाचेति सम्बन्धः । यथेदं तथा सामर्थ्ये दृश्यमानेऽपि भगवान्न दृश्यत इति भावः ।। १-२ ।
इति पित्रोपदिष्टेन पुत्रेणैवंविधो हरिरविद्यापिहितनयनेनानेन केनोपायेन दृश्यते प्राप्यते चेति जिज्ञासावता भूय एवेति पृष्टे तथा सोम्येति होवाच पिता ॥ ३ ॥
।। इति त्रयोदश: खण्ड: ।।