अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय ..

उपनिषत् (खण्डः - ४)

निर्दुःखभगवत्प्राप्तितो दुःखनाश इति कथनम्

अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय नैतंसेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥

तस्माद्वा एतं सेतुं तीर्त्वाऽन्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतं सेतुं तीर्त्वाऽपि नक्तमहरेवाभिनिष्पद्यतेऽसकृद्विभातो ह्येवैष ब्रह्मलोकः ॥२॥

तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥ ४ ॥

भाष्यम्

...........................सेतुश्चापि विधारणात् ।सितमस्मिन् जगत्सर्वमिति सेतुरितीरितः ।। एतं सेतुं प्रति पुमानन्यत् तीर्त्वा ह्यदोषवान् ॥ स प्राप्यो ब्रह्मचर्येण मनोवाक्कर्मभिस्तु यत् । चरणं ब्रह्मणि परे ब्रह्मचर्यं हि तत् स्मृतम् ॥

तेनैव ब्रह्मचर्येण भवेयुर्ब्रह्मलोकगाः । एतेषां (१) ब्रह्मलोकः स्यात् परं ब्रह्मैव लोकनात् ।। ब्रह्मलोक इति प्रोक्तं तस्य लोकोऽऽपि कथ्यते ॥ खण्डः - ४ ॥

पदार्थकौमुदी

‘“सेतुर्विधृतिः’’इत्यस्यार्थमाह- सेतुरिति ॥ अपिशब्देन विधृतिरिति समुच्चीयते । विधारणाद् विधृतिरित्यन्वयः । विधुतिशब्दागतार्थत्वेन सेतुशब्दं व्याचष्टे - सितमिति ॥ सितं बद्धम् । सम्बद्धमिति यावत् ।एतं सेतुं तीर्त्वा ' इति सेतुनामकपरमात्मातिक्रमानन्तरं स्वरूपाविर्भावः कध्यत इत्याशङ्कानिरासायापेक्षितं पूरयन् व्याचष्टे - एतं सेतुमिति । प्रति गन्तुमिति शेषः । " तद्य एवैतं ब्रह्मलोकम्" इत्यादि व्याचष्टे - स प्राप्य इति । अनेन ब्रह्मलोकशब्दो ब्रह्म चासौ लोक आश्रयश्चेति व्याख्यात इत्यवगन्तव्यम् । ननु ब्रह्मचर्यं नाम गुह्येन्द्रियनियमनम् । तेन कथं ब्रह्म- प्राप्तिः ? ज्ञानमात्रसाध्यत्वात् तस्या इत्यतोऽत्र विवक्षितं ब्रह्मचर्यमाह - मन इति ।। चरणं ज्ञानमपि भवति । किं तत इत्यत उक्तं वाक्यार्थं विशदमाह - तेनैवेति ॥ नन्वेवं तर्हि " तेषामेवैषः" इति वाक्यं व्यर्थमित्याशङ्कायां यथा तन्न व्यर्थं तथा तदनूद्य व्याचष्टे - एतेषामिति ।। लोकनाद् अवलोकनकर्तृत्वादित्यर्थः । तथाचैतान् स्वलोकगान् ब्रह्मावलोकत इत्युक्तं भवति । प्रकारान्तरेणापि ब्रह्मलोकशब्दार्थमाह् - तस्येति । तथाचैतेषामपि ब्रह्मविषयकावलोको भवतीत्युक्तं भवतीति ज्ञातव्यम् । अथवा स प्राप्य इत्यनेन ब्रह्मलोकशब्दः कर्मधारयाभिप्रायेण व्याख्यातः । इदानीं तमेव षष्ठीतत्पुरुषत्वाभिप्रायेणापि व्याचष्टे - तस्येति ।। अत्र लोको वैकुण्ठादिः ॥ चतुर्थः खण्डः ॥ ४ ॥

खण्डार्थः

हृद्गतस्यैव महिमान्तरमाह - अथेति । य आत्मा हृत्पद्मस्थत्वेनोक्तः सः एषां लोकानामसम्भेदायामेलनाय अविदारणाय वा सेतुराश्रयः विधृतिर्विधारणसमर्थः । यदि भगवानाश्रयो न स्यात् तदा लोका निराधारा एकत्र मिलिता विदारिता वा स्युरिति भावः । पूर्वोक्तमपहतपाप्मत्वं न मुक्तवत् प्राप्तस्य पापादेर्ध्वसरूपम् । किन्तु नित्यनिवृत्त्यभिप्रायमिति वक्तुमाह - नैतं सेतुमित्यादिना ।। एवं सेतुं भगवन्तमहोरात्रे न तरतः । एतमतीत्य न गच्छतः । एतस्मिन्न स्वकृतविकारापाद इति यावत् । तदेवाह - न जरा न मृत्युरिति । जरादिकं न तरति । न प्राप्नोतीत्यर्थः । किं बहुना ? सर्वे पाप्मानोऽतो भगवतो निवर्तन्ते नित्यनिवृत्ता भवन्ति । अत एवैष ब्रह्मलोकः । ब्रह्मरूपसर्वाश्रयः अपहतपाप्मा हि प्रसिद्धः ॥ १ ॥

नैवं मुक्त इत्याह - तस्मादिति । तस्मादेतस्यापहतपाप्मत्वादेवैतं सेतुं प्रति गन्तुमन्यत् तीर्त्वा पूर्वमन्धः सन् अज्ञानावृतः सन्ननन्धो भवति तदनावृतो भवति । विद्धो दुरुक्तिबाणैः । उपतापी रोगी । उपलक्षणमेतत् । सर्वपापविनिर्मुक्तो भवतीत्यर्थः । तस्मादेवमस्य मुक्तस्यापि निष्पापत्वा- देव । भगवत्प्रसादादेव वा । एतं सेतुं प्रति गन्तुमन्यत् तीर्त्वा विद्यमानस्य नक्तमप्यहरेव निष्पद्यते । तदेव विशदमाह - असकृदिति ॥ एष ब्रह्मलोको विष्णुलोको वाऽसकृद्विभातो हि न मुक्तवदित्यर्थः ॥ २ ॥

एवं भगवत्स्वरूपवेत्तुः फलं ज्ञानसाधनप्रदर्शनपूर्वकमाह - तद्य इति ॥ तत् तत्राधिकारिषु य एवाधिकारिणः एतं ब्रह्मलोकं पूर्णं सर्वाश्रयं विष्णुं तल्लोकं वा ब्रह्मचर्येण परे ब्रह्मणि मनोवाक्कर्मभिश्चरणेनानुविन्दन्ति प्राप्नुवन्ति । तेषामेवैष ब्रह्मलोकः ब्रह्मकर्तृककृपावलोकः तत्कर्मकावलोको वा भवतीत्यर्थः । सर्वेषु लोकेषु स्वयोग्येषु || ||

॥ इति चतुर्थः खण्डः ॥