अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः ..
उपनिषत् (खण्डः-१२)
शौवोद्गीथोपासना
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्वशनायाम वा इति ॥ १ ॥
तान् होवाचेहैव सा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हिञ्चक्रुरो३मदा३मोम्पिबा३मों देवो वरुणः प्रजापतिः सविता३न्नमिहा३हरदन्नपते३न्नमिहा३हराऽहरोमिति ॥ २ ॥ १२ ॥
भाष्यम्
दमपुत्रो बको मित्रया पुत्रार्थं स्वीकृतो ( १ ) ग्लाववत् तूष्णीं स्थितत्वात् तया ग्लावेत्युक्तो ग्ला नामको जातः । अत उभयथाऽस्य निर्देशो भवतीत्यर्थः ।
‘प्रसादार्थं बकस्यापि वायुनोक्तः स्वरूपिणा । शौवोद्गीथ इति प्रोक्तो रुद्रादीनां श्वरूपिणाम् ॥
उपासितः पौर्णमास्यां शौवोद्गीथेन केशवः । सर्वाभीष्टं ददातीति प्रातरित्याह मारुतः ॥
ओमदामादिकं मन्त्रं वायुनोक्तं तु देवताः । वायुस्थविष्णुमुद्दिश्य हिहृत्य प्रापुरीप्सितम् ॥
देवौ विष्णुश्च वायुश्च सर्वज्ञत्वात् क्रमेण तु । वरुणौ वरणीयत्वात् सवितारौ प्रसूतितः ।
प्रजानां च पती तद्वत् क्रमादेव प्रकीर्तितौ ॥' इति च ॥१२॥
पदार्थकौमुदी
पूर्वमुद्गीथोपासकस्य पापाविद्धत्वादिकं फलमुक्तम् । इदानीमन्न- प्राप्तिलक्षणफलमाख्यायिकयाऽऽह - अथेति ॥ "बको दाल्भ्यो ग्लावो वा मैत्रेयः” इत्यत्र बको दाल्भ्य इत्येको ग्लावो मैत्रेय इत्यपर इत्यसत् । तथा सति विकल्पार्थकवाशब्दायोगात् । उद्वव्राज प्रतिपालयाञ्चकारे - त्येकवचनानुपपत्तेश्च । कथं तर्हि एकस्यैव बको दाल्भ्य इति ग्लावो बा मैत्रेय इति चोभयथा निर्देश इत्यत आह दभपुत्र इति ॥ दभपुत्रो दाल्भ्यः, बको नामतः मित्रया पुत्रार्थं स्वीकृतो मित्रापालितपुत्रोऽतो मैत्रेयः, प्रयोजनार्थमाह्वानेऽपि ग्लाववत् तूष्णीं स्थितत्वात् तया ग्लावेत्युक्तो ग्लावनामको जात इत्यर्थः । किं तत इत्यत आह अत इति ॥ को दाल्भ्य इत्येको निर्देशः । ग्लावो मैत्रेय इत्यपरः । उभय- निर्देशज्ञापको वाशब्द इति भावः । श्वभिर्दृष्टः शौव इत्यन्यथा- प्रतीतिनिरासाय शौव उद्गीथ इत्येतद् व्याचष्टे - प्रसादार्थमिति ॥ श्वरूपिणां रुद्रादीनां बकस्यापि प्रसादार्थं श्वरूपिणा वायुनोक्त उद्गीथः शौवोद्गीथ इति प्रोक्त इत्यन्वयः । यद्यपि श्वसम्बन्धित्वमेव शौवशब्दार्थः । तथाऽपि श्वरूपवायुनोक्तत्वमेव शौवशब्दप्रवृत्तिनिमित्तम् नतु श्वभिर्दृष्टत्वम् । श्वरूपदेवानां वायूक्तमन्त्रश्रोतृत्वेन तद्द्रष्टृत्वाभावादिति भावः । रुद्रादीनामित्यनेन " तमन्ये श्वानः" इत्युक्ताः श्वानः सन्द- र्शिताः ।
ननु “अन्नं नो भगवानागायतु’” इत्यन्नयाचनावसर एवोद्गीथमनुक्त्वा "इहैव मा प्रातरुपसमीयात" इति बचने कोऽभिप्राय इत्यत आह -- उपासित इति । ते श्वान " आससृपुस्ते ह समुपविश्य हिञ्चक्रुरोमदाम'' इत्यनेन वायूपदेशं विनैव देवा ओ३मदा ३ मेत्यादिमन्त्रं हिरिति प्रतीयते, तदयुक्तम् । तथा सति श्वेतशुनः प्रादुर्भावोक्त्य- योगात् । प्रातरेनं प्रत्यागमनायोगाच्चेति भावेन तद् व्याचष्टे - ॐमदामा- दिकमिति ॥ ओमदामेत्यादिकमित्यर्थः । " वायुस्थविष्णुमुद्दिश्य” इत्यनेन “देवो वरुणः” इत्यादिकं वायुस्थविष्णुपरमित्युक्तं भवति । तेन वायोरपि देववरुणादिशब्दवाच्यत्वममुख्यतोऽस्तीति गम्यते । तत्र विष्णुवाय्वोर्देववरुणसवितृप्रजापतिशब्दप्रवृत्तिनिमित्तान्याह देवा-
विति ॥ दीव्यतेर्गत्यर्थत्वाद् गत्यर्थानां ज्ञानार्थत्वात् “सर्वज्ञत्वात्”” इत्युक्तम् । तुशब्दोऽवधारणार्थः । क्रमेणैव सर्वज्ञत्वात् । स्वपरगत- सर्वज्ञत्वाद् विष्णोः । अन्यत्राऽलोचन एव सर्वज्ञत्वाद् वायोरित्यर्थः ।।
खण्डार्थः
अथशब्दः प्रकरणान्तरद्योतकः । अतः प्रयोजनसद्भावात् । शौवः शुनोक्त उद्गीथ उच्यते । तद् तदा कदाचिद् बको नामतः, दाल्भ्यो दल्भ्यपुत्रो ग्लावो वा आह्वानेऽपि ग्लाववत् तूष्णीं स्थितत्वान्मित्रया ग्लावेत्युक्तत्वाद् ग्लावनामको मैत्रेयो मित्रया पुत्रार्थं स्वीकृतः ।उभयथानिर्देशज्ञापको वा शब्दः । स्वाध्यायमुद्दिश्योद्वाज ह । तदित्येतदुत्तरत्र वा सम्बध्यते । तद् तदा तस्मै बकाय बकस्य प्रसादार्थमिति यावत् । उपलक्षणमेतत् । देवानां प्रसादार्थमित्यपि ग्राह्यम् । श्वेतः श्वा श्वरूपो वायुः प्रादुर्बभूव । तं श्वरूपं वायुम् अन्ये श्वानः श्वरूपा देवा उपसमेत्य समीपं प्राप्योचुः । उपलक्षणमेतत् । बकश्चेत्यपि ग्राह्यम् । किमिति ? नोऽस्माकमन्नमुद्दिश्य भगवानागायतु अन्नप्राप्तिहेतूद्गीथो- पासनमुपदिशेति भावः । वयं तु अशनायाम वै अशितुमिच्छामो वै ॥ १ ॥
“उपासितः पौर्णमास्यां शौवोद्गीथेन केशवः । सर्वाभीष्टं ददाति" इति भावेन तान् होवाच श्वरूपो वायुः । इहैवात्रैव मा मां प्रति प्रातःकाले उपसमीयातेति । तत् तदा बको दाल्भ्यो ग्लावो वा मैत्रेयः श्वरूपं वायुं प्रतिपालयाञ्चकार ह । ते श्वानः प्रातःकाले यथेदं निदर्शनं बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणाः संरब्धाः संरम्भवन्तस्त्वरिताः सर्पन्त्येवं संरब्धाः सन्तः आससूपुः निर्दिष्टस्थलं प्रतिसंरब्धाः अन्योन्यसंलग्नाः सर्पन्त्येवं मुखेनान्योन्यस्य पुच्छं गृहीत्वा ससूपुरिति वा । तेष्वागतेषु श्वरूपो वायुरोमदामेत्यादिकं मन्त्रं तेषामुपदिदेशेति ग्राह्यम् । ते वायुनोपदिष्टाः श्वरूपा देवाः समुपविश्य वायुं तत्स्थविष्णुं चोद्दिश्य हिञ्चक्रुर्हिङ्कारं कृतवन्तः । तत्प्रकारमेव दर्शयति - ओमिति ॥ ॐ हे गुणपरिपूर्ण वायो तत्स्थभगवंश्च । वयमन्नमदाम ओं पिबाम । ॐ अतो गुणपूर्णत्वा- दोंनामकः, सर्वज्ञत्वाद् देवः, वरणीयत्वाद् वरुणः प्रजानां पालनात् प्रजापतिः, प्रसवितृत्वात् सविता वायुस्तद्गतो विष्णुश्चेहान्नमाहरद् आहरतु । एवं परोक्षतः प्रार्थयित्वाऽपरोक्षतोऽपि प्रार्थयते अन्नपतइति ॥ हे अन्नपते वायो तद्गतविष्णविहास्मदर्थमन्नमाह । द्विरुक्तिः विद्यार्थावधारणार्थे | इतिशब्दो विद्यासमाप्त्यर्थ इत्युक्तम् ।। २ ।। ।। इति द्वादश: खण्ड: ।।