आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् ..

उपनिषत् (खण्डः १९)

आदित्ये भगवदुपासना

आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् तत्सदासीत् तत्समभवत् तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥

तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौर्यज्जरायु ते पर्वता यदुल्बं स मेधो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रोऽथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन् सर्वाणि च भूतानि च सर्वे च कामास्तस्मात् तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे चैव कामाः ॥ ३ ॥

स य एतदेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥४ ॥ १९ ॥

॥ १९ ॥ ॥ इति श्रीमच्छान्दोग्योपनिषदि तृतीयोऽध्यायः ॥ ३ ॥

भाष्यम्

अगम्यत्वादसन्नाम ब्रह्म नारायणाभिधम् । प्रलये (१) वासुदेवाख्यं गम्यं सदभवद् विदाम् ॥

तत्प्रकृत्या समभवत् तत आण्डमजायत । तस्मिन्नादित्यनामाऽसावभवत् सूर्यमण्डले ॥

नियन्तैव च सूर्यस्य भगवान् पुरुषोत्तमः । तस्मादादित्यनामानमादित्यस्थं जनार्दनम् ।

ब्रह्मोपासीत परमं सर्ववेदज्ञता ततः ।। ' इति ब्रह्मतत्त्वे । उलूलव उरूरवः । अतिमहान्तो गायत्र्यादिघोषाः उप च निम्रेडे- रन् । मुक्ते तस्मिन्नेव वसेयुः । 'सूर्यबिम्बस्थिते विष्णौ जायमाने परात्मनि । गायत्रीपूर्वकैर्वेदैर्ब्रह्माद्या: समुपस्थिताः ॥ उपतिष्ठन्त्यतो नित्यं गायत्र्यादिभिरञ्जसा । तद्विद्वान् मुक्त आवासो वेदानां सर्वदा भवेत् ॥

इति च ॥ १९

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छान्दोग्योपनिषद्भाष्ये तृतीयोऽध्यायः ।। ३ ।।

पदार्थकौमुदी

यत्प्राप्त्या पुरुषस्य ज्ञानद्वारा मोक्षो भवति तेषां वेदानां प्राप्ति- सम्पादिकामादित्यनिष्ठां काञ्चन भगवदुपास्तिमाह - आदित्य इत्यादिना || " असदेवेदमग्र आसीत् ' इति वाक्यं प्रलये शून्यावस्थान- प्रतीतिं व्याहतिं च परिहर्तुं प्रमाणेनैव व्याचष्टेअगम्यत्वादिति ॥ ‘“सत्’” इत्यनुवादेन विदां विदुषां गम्यमिति व्याख्यानम् । सदेर्गत्यर्थ- त्वात् । ‘“तत् समभवत्" इत्येतदप्रतीतेरपेक्षितं पूरयन् व्याचष्टे तत्प्रकृत्येति ॥ तद्वासुदेवाख्यं ब्रह्म प्रकृत्या मायया समभवत् सम्भोगमकरोत् । ‘‘तदाण्डं निरवर्तत" इत्येतद् व्याचष्टे - ि ततः सम्भोगानन्तरं तत्त्वसृष्ट्यादिद्वारा अण्डमजायतेत्यर्थः ।

"अथ यत्तदजायत सोसावादित्यः " इति वाक्यं प्रसिद्धादित्य- परमिति प्रतीतिनिरासाय व्याचष्टे - तस्मिन्निति । तस्मिन्नण्डे । ननु भगवत आदित्यनामकत्वे मण्डलान्तर्गतसूर्ये कथं तच्छब्दप्रयोग इत्यत उक्तम् मण्डले विद्यमानस्य सूर्यस्य नियन्तैवेति । तथाच " तदधीनत्वात्' इति न्यायेन तत्र तच्छब्दप्रयोग इत्युक्तं भवति । चो हेतौ । भगवानेवेत्येवशब्दसम्बन्धः ।पुरुषोत्तमः" इत्युत्तरवाक्य- तात्पर्यकथनम् । तथा च यतः पुरुषोत्तमो ब्रह्मादिसर्वदेवोपस्थाप्यत्वेनो- त्तरवाक्ये कथितोऽतो भगवानेवाऽदित्यनामा, न प्रसिद्ध इति योजना ।

असदेवेदमग्र असीत्इत्यारभ्य " सोऽसावादित्यःइत्यन्तं वाक्यंआदित्यो ब्रह्म" इति प्रथमवाक्यार्थे हेतुप्रतिपादकमित्याशयेन हेतुहेतुमद्भावं दर्शयन्नादित्यो ब्रह्मेत्यादिसाध्यांशं व्याचष्टे - तस्मादिति ॥

एवमुत्पन्नाण्डगर्भरूपत्वात् ।यदेनं साधवो घोषा (१) आ च गच्छेयुः " इत्यादिफलवाक्यतात्पर्यमाह - सर्वेति ॥उलूलव:" इत्येतदप्रतीतेरनूद्य व्याचष्टे - उलूलव इति ॥ एवं पदार्थमुक्त्वाउलूलवो घोषाः" इति वाक्यार्थमाह अतिमहान्त इति ॥ घोषा वेदा इत्यर्थः । तेषामतिमहत्त्वमानन्त्यं, व्याप्तत्वं वा ।अनन्ता वै वेदाः” “यावद् ब्रह्म विष्ठितं तावती वाक्इति श्रुतेः । " उप च निम्रेडेरन्" इत्येतदनू- द्यापेक्षितं पूरयन् व्याचष्टेउप चेति । एवं स्ववचनेनोक्तार्थदायतं जायमानम्" इत्यादिवाक्यव्याख्यानरूपं प्रमाणमुदाहरति सूर्येति ॥ " वेदैः" इत्यादिना " घोषाः " इत्यादि प्रथमा तृतीयार्थे व्याख्यातेति ज्ञातव्यम् । " सर्वाणि भूतानिइत्यस्यार्थः - ब्रह्माद्या इति ।। ‘“उदतिष्ठन्’” इत्यस्यार्थः - उपस्थिता इति ॥उलूलवोऽ- नूत्तिष्ठन्तिइत्यस्यार्थः- उपतिष्ठन्तीत्यादि ॥तस्मात्’”इत्यस्यार्थः त इति ।। तथाच यस्माद् ब्रह्माद्या उपस्थिता अतोऽद्यतना अप्युप- तिष्ठन्तीति योजना | प्रति प्रत्त्यायनमित्यनयोरर्थः नित्यमञ्जसेति ॥ " स य एतदेवम्" इति फलवाक्यमैहिकमात्रपरमितिप्रतीतिवारणाय व्याचष्टे - तद्विद्वानिति ।। मुक्तो भवेत् । वेदानामावासोऽपि भवेदित्यर्थः । तथाच श्रुत्युक्तमुपलक्षणमिति द्रष्टव्यम् || खण्डः - १९ ॥

खण्डार्थः

आदित्य आदित्यस्थः आदानादित्यनामा परं ब्रह्मेति आदिश्यते उपदिश्यत इत्यादेशः । आदित्यान्तर्गतमादित्यनामानं जनार्दनं परं ब्रह्मेत्युपासीतेति यावत् । नन्वादित्यान्तर्गतस्यैव कुत उपास्तिः कर्तव्येति जिज्ञासायां तस्याण्डान्तर्गतजराय्वादिरूपपर्वताद्यपेक्षया गर्भरूपत्वेना- तिशयितत्वादिति वक्तुं तावदण्डोत्पत्तिं निरूपयितुमाह- तस्येत्या- दिना || तस्याऽदित्यान्तर्गतस्य भगवतः उपास्यत्वोपपत्त्यर्थं व्याख्यानम् । सृष्टेरिति शेषः । सृष्टिनिरूपणं क्रियत इति यावत् । कारणस्य पूर्वभावं दर्शयितुमाह - असदेवेति । इदमस्य जगतोऽग्रे पूर्वं प्रलये असत् सद्यते गम्यत इति सत् । न सत् असद् अगम्यं ब्रह्मैवाऽसीदित्यर्थः । तद् अगम्यं ब्रह्म सद् विद्वद्गम्यं वासुदेवाख्यमासीत् । तस्माद् वासुदेवाख्यं रूपान्तरमासीदित्यर्थः । एवं प्रकृतिरपि मायाssसीदिति वक्तव्यम् । तद् वासुदेवाख्यं रूपं समभवत् मायया सम्भोगमकरोत् । तत्तस्मात् पुन्नामक- ब्रह्मादिमहत्तत्वादिचाण्डमण्डपर्यन्तं निरवर्तताजायत । अण्डमपि जात- म् । तद् अण्डं संवत्सरस्य कालस्य मात्रां परिमाणं प्रमाणान्तरे यावदुक्तं तावत्पर्यन्तमित्यर्थः । अशयत अनिर्भिन्नस्वरूपमेव स्थितं बभूव । तत् ततः प्रमाणसिद्धसंवत्सरकालपरिणामादूर्ध्वं निरभिद्यत । अधोलोका- श्रयकपालद्वयवत्त्वविवक्षया निर्भिण्णमिव । नतु निर्भिण्णमेव । प्रमाणा- न्तरविरोधात् । अन्तर्लोकादिकल्पनाक्षमावकाशविशेषवज्जातमिति भावः । ते लोकाश्रयत्वेन विवक्षिते आण्डकपाले अण्डसम्बन्धिनी ऊर्ध्वा- धोभागकपाले रजतं च सुवर्णं चाभवतामधोभागगं रजतमयमूर्ध्वभागगं च सुवर्णमयमित्यभवतामित्यर्थः ॥ १ ॥

तद् यद्रजतमयमाण्डकपालमधोभागगं सेयं पृथिवी, पृथिवी लोकस्तत्र वर्तत इत्यर्थः । अत्र पृथिवीशब्देनातलादयोऽपि गृह्यन्ते । लोकत्रय- विवक्षायां तेषामपि भूत्वेन विवक्षितत्वादिति ध्येयम् । यत्सुवर्णं सुवर्णमयमाण्डकपालमूर्ध्वभागगं सा द्यौर्द्युलोकस्तत्सम्बद्ध इत्यर्थः । अत्रापि धुशब्देन महरादीनां ग्रहणम् । अस्याण्डस्य प्रसिद्धाण्डसाम्य- मधिकारिणाऽवश्यं ज्ञातव्यमित्यभिप्रेत्य तत्साम्यमाह - यज्जराय्वित्या- दिना । यद् जरायुर्गर्भपरिवेष्टनं ते तत्स्थानीयाः पर्वताः । यदुल्बं कललं सः तत्स्थानीयः समेघो मेघैः सहितो नीहारः । या धमनयः (२) सिरास्ताः तत्स्थानीयाः नद्यः । यद् वास्तेयं तस्य वस्तौ भवमुदकं सः तत्स्थानीयः समुद्रः ।

अथ यत्तत् तत्राण्डे जायत गर्भरूपं सः तत्स्थानीयोऽसावादित्यनामा तत्संस्थो जनार्दनः । अत्रान्तरिक्षलोकोऽप्युभयकपालगलोकमध्यस्थ- स्तत्राऽदित्यादिनिरूपणेन निरूपितप्राय इत्यवधेयम् । एवं चैवमुत्पन्ना - ण्डगर्भरूपत्वादादित्यान्तर्गतस्य भगवत उक्तमुपास्यत्वं युक्तमित्युक्तं भवति । नन्वत्राऽदित्यशब्देन प्रसिद्ध आदित्य एव किं न स्यात् । न स्यात् । अस्य गायत्र्यादिसर्ववेदवेद्यत्वात् । ब्रह्मादिदेवतोपास्यत्वाच्च । नहीदं प्रसिद्धादित्ये सम्भवतीत्याशयेनाऽह - तं जायमानमिति ॥ तं जायमानं प्रकटीभवन्तं सर्वाणि भूतानि ब्रह्मादीनि उलूलवोऽति- महान्तोऽनन्ता व्याप्ताश्च घोषाः गायत्र्यादयो वेदाः । प्रथमा तृतीयार्थे । गायत्र्यादिभिर्वेदैः सर्वे च कामाः सर्वैर्मङ्गलद्रव्यैरिति यावत् । अनूद- तिष्ठन्नुपासामकुर्वन् यस्मात् तस्मादद्यतनानि सर्वाणि भूतानि सर्वे कामा: सर्वैर्मङ्गलद्रव्यैरुलूलवो घोषाः अतिमहद्भिः गायत्र्यादिभिर्वेदैस्तस्योदयं प्रति । अयनमस्तमयं च प्रति प्रत्त्यनूत्तिष्ठन्ति नित्यमञ्जसोपस्थानं कुर्वन्ति ॥ २-३ ॥

एवं वेत्तुः फलमाहस य इत्यादिना ॥ स यः प्रसिद्धोऽधिकारी एतद् आदित्यान्तर्गतम् एवमुक्तरीत्या विद्वान् आदित्यं तत्संस्थं तन्नामकं ब्रह्मेत्युपास्ते एनमधिकारिणं साधवोऽपौरुषेयाः घोषाः वेदाः आगच्छेयु- रिति यत् तदभ्याशः समीप एव शीघ्रमेव सर्ववेदप्राप्तिर्भवतीत्यर्थः । प्राप्ताश्च वेदाः न विस्मृता भवन्तीत्याह उपनिम्रेडेरंश्चेति ॥ सर्वदा उपवसेयुश्चेत्यर्थः । इदमुपलक्षणम् । मुक्तो भवतीत्यपि द्रष्टव्यम् । द्विरुक्तिरुक्तावधारणार्थेत्युक्तम् ॥ ४ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमच्छान्दोग्योपनिषद्भाष्यस्य टीकायां वेदव्यासतीर्थपूज्यपादशिष्यवेदेशभिक्षुविरचितायां पदार्थकौमुद्यां तृतीयोऽध्यायः ।। ३ ।।