अथ होवाचेन्द्रद्युम्नं भाल्लवेयं ..

उपनिषत् (खण्डः - १४ )

वैश्वानरस्य प्राणो वायुनामक इति निरूपणम्

अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथग्वर्त्माऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वां पृथग्वलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ १ ॥

अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ २ ॥ १४ ॥

भाष्यम्

वाय्वादिप्राणशक्यं न यत्तत्कर्ता हरेर्यतः । प्राणस्तेन पृथग्वर्त्मा वायुर्ज्ञानायुरूपतः ॥ वायोरप्याश्रयो नित्यं …..

पदार्थकौमुदी

" इन्द्रद्युम्नं भाल्लवेयम्' इति खण्डतात्पर्यमाह - वाय्वादीति ॥ हरेः प्राणो यतो वाय्वादिप्राणशक्यं यन्न भवति तत्कर्ता तेन पृथग्वर्त्मा वायुश्चेति सम्बन्धः । वायुनामकत्वे निमित्तान्तरम् - वायोरपीति ।।

खण्डार्थः

वैयाघ्रपद्य व्याघ्रपाद्गोत्रापत्य वायुं वायुस्थं ज्ञानायुरूपतो वायुनामानमेव । पृथग्वर्त्मा पृथग् विलक्षणो वर्त्म मार्गो यस्यासौ तथोक्तः । वाय्वादिप्राणशक्यं यन्न तत्कर्तृत्वात् । पृथग्बलयो विलक्षण- पूजासाधनानि पृथग् रथश्रेणयो विलक्षणरथपङ्कयः ।। १ ।।

प्राणः प्राणवायुः ॥ २ ॥

।। इति चतुर्दशः खण्डः ।।