लोकेषु पञ्चविधं सामोपासीत पृथिवी हिङ्कारोऽग्निः ..
उपनिषत् (खण्डः- २)
लोकेषु भगवदुपासना
लोकेषु पञ्चविधं सामोपासीत पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यूर्ध्वेषु ॥ १ ॥ अथावृत्तेषु द्यौर्हिङ्कार आदित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निधनम् ॥ २ ॥
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्ते ॥ ३ ॥ खण्डः २ ॥
भाष्यम्
'नारायणाख्य उद्गीथ उद्गेयः प्रणवेन यत् । उद्गच्छन्ति यतोऽस्माद्वा वासुदेवादिमूर्तयः ॥
प्रथमावताररूपत्वाद् वासुदेवः परः पुमान् । प्रस्तावो निधनं चापि सङ्कर्षण उदाहृतः ।। सङ्कर्षणो हि संहर्ता प्रद्युम्नः परमेश्वरः । हिङ्कार इति सम्प्रोक्तो हीति सृष्टिरुदीर्यते ॥ प्रसिद्धता हि सृष्टिः स्यादनिरुद्धः परो विभुः । प्रतिहार इति प्रोक्तः स हि कार्येष्विदं जगत् ।। प्रतिप्रति हरेन्नित्यं मूर्तिप्रतिहृतेस्तथा । ते पृथिव्यादिषु सदा तन्नामानः प्रतिष्ठिताः ।। पृथिवीत्यादिशब्दार्थास्ते हि मुख्यत ईरिताः । तत्सम्बन्धात् तदर्थत्वं पृथिव्यादेरमुख्यतः ।। प्रथनादेव सस्यादेः पृथिवीत्वमुदाहृतम् । अग्रत्वमदनाचैव ह्यन्तरीक्षणयोगतः ॥ अभावाद् व्यवधानस्य त्वन्तरिक्षमितीयते । आदानादायुषश्चैव स आदित्य उदीरितः । द्यौः क्रीडाकारणत्वाच्च तत् सर्वं हि परे हरौ ॥' इति च ।
'पञ्चात्मकं यो लोकेषु सदोपास्ते हरिं परम् । ऊर्ध्वाधः संस्थितास्तस्य पञ्चैव दशमूर्तयः । मोक्षादिकमभीष्टं यत् कल्पन्तेऽस्य सदैव हि ' इति च ॥ २ ॥
पदार्थकौमुदी
लोकेषु पञ्चभक्तिकसामप्रतिपाद्यस्य भगवत उपास्तिमाह- लोकेष्वित्यादिना ॥ अत्र “पृथिवी हिङ्कारः" इत्यादिना सामानाधि- करण्येन पृथिव्यादीनां हिङ्काराद्यभेदः प्रतीयते । तदयुक्तम् । हिङ्कारादेः शब्दत्वेन पृथिव्यादित्वानुपपत्तेः । अत्र सङ्करः - पृथिवीदृष्ट्या “पृथिवी हिङ्कारः” इत्युपासीतेति व्याख्येयमित्याह । तदसत् । “लोकेषु पञ्चविधं सामोपासीत” इति प्रक्रमविरोधात् । नचोत्तरवाक्यानुसारेण लोकेष्वित्य- स्यापि प्रथमात्वेन विपरिणामः । “पञ्चविधं साम" इत्यस्य द्वितीया- न्तत्वेन लोका इत्यनेन सामानाधिकरण्यायोगेनानन्वयप्रसङ्गात् । इति- शब्दकल्पने चाश्रुतकल्पनाप्रसङ्गात् । हिङ्कारादौ पृथिव्यादिदृष्टे - मिथ्यादृष्टित्वेनानर्थहेतुत्वस्य वक्ष्यमाणत्वाच्च । अतोऽत्र सर्वत्र भगवदुपासनमेव कथ्यत इति भावेन खण्डं प्रमाणेनैव व्याचक्षाणस्तावदत्र बहुषु खण्डेषु सतां हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनशब्दानामर्थमाह - नारायणाख्य इत्यादिना || अवतारक्रमानुसरणेन श्रुतिक्रमोल्लङ्घनम् । उद्द्रेय उच्चतया गातुं योग्यः । उद्गीथशब्दस्यार्थान्तरमाह- उद्गच्छन्तीति ॥ प्रस्तावशब्दार्थमाह प्रथमेति । प्रस्तावशब्दस्य प्रारम्भार्थत्वादिति भावः || निधनशब्दार्थमाह - निधनमिति ॥ चापिशब्दावबधारणार्थौ । वासुदेव एव प्रस्तावः । सङ्कर्षण एव निधनमिति सम्बन्धः । तेन परोक्तार्थनिरासः । तत्र तं शब्दमुत्पादयति – सङ्कर्षण इति ॥ निधन-शब्दश्च संहर्तृत्वार्थक इति भावः । हिङ्कारशब्दार्थमाह - प्रद्युम्न इति ॥ हीति कथं सृष्टिरुदीर्यत इत्यत उक्तम् - प्रसिद्धता हीति । प्रसिद्धता खलु हिशब्दार्थः । सृष्टिश्च प्रागसिद्धानां प्रसिद्धतैव । अतो हीति सृष्टिरुदीर्यते । तथाच हिं सृष्टिं करोतीति व्युत्पत्त्या सृष्टिकर्ता प्रद्युम्नो हिङ्कार इति प्रोक्त इति भावः । प्रतिहारशब्दार्थमाह अनिरुद्ध इति ॥ स हि प्रति प्रतिकार्येष्विदं जगद्धरेदित्यनेन स्थितिकर्तृत्वमुच्यते । मूर्तिप्रतिहृतेः स्वमूर्तीनां स्वात्मन्येकीकरणादिति प्रतिहारशब्दस्यार्थान्तरम् । तथाशब्दः समुच्चये ।
अस्त्वेवं हिङ्कारादिनामको भगवान्, तथाऽपि "पृथिवी हिङ्कारः " इत्यादिनोक्तं पृथिव्याद्यात्मकत्वं कथं तस्येत्यतः खण्डं व्याचष्टे - ते पृथिव्यादिष्विति । ते प्रद्युम्नाद्याः । अनेन “ पृथिवी हिङ्कारः” इत्यादौ पृथिव्यादि शब्दाः “लोकेषु" इत्युपक्रमानुसारेण सप्तम्यर्था इत्युक्तं भवति । अनन्वयपरिहाराय प्रतिष्ठिता इति शेषोक्तिः । “तन्नामानः” इत्यनेन पृथिव्यादिशब्दानां प्रथमान्तत्वेऽपि नानुपपत्तिरिति सूचितम् । पृथिव्यादिषु स्थितेः प्रद्युम्नाद्याः पृथिव्यादिनामान इत्युक्ते पृथिव्यादय एव तच्छब्दमुख्यार्थाः, भगवन्मूर्तयस्तु तत्सम्बन्धात् पृथिव्यादिनामिका इति प्रतीतावाह - पृथिवीत्यादीति । ते प्रद्युम्नाद्याः । के पृथिव्यादिशब्दार्थाः ? ये भगवति मुख्या अन्यत्रामुख्या इत्यतः पृथिव्यादिशब्दानिर्वक्ति- प्रथनादिति । चशब्दोऽवधारणार्थ उत्तरत्र सम्बध्यते । अग्ग्रत्वादि- निमित्तान्तरसमुच्चये वा । " अन्तरीक्षणयोगत अन्तरिक्षमितीर्यते" इति सम्बन्धः । अन्तरीक्षणं किं परोक्षेण ? नेत्युक्तम्- अभावाद् व्यवधान- स्येति ।। आयुषश्चेति चशब्दो रससमुच्चयार्थः । कारणत्वाच्चेति चशब्दोऽ- वधारणार्थः । " कल्पन्ते हास्मै लोका ऊर्ध्वाश्चाऽवृत्ताश्च" इत्यत्र लोकानामेवाभीष्टकल्पकत्वमुच्यत इति प्रतीतिनिरासाय प्रमाणेनैव तद् व्याचष्टे – पञ्चात्मकमिति || "मोक्षादिकमभीष्टम्' इति शेषोक्तिः ।।
खण्डार्थः
लोकेषु पृथिव्यादिषु पञ्चविधा हिङ्काराद्याः यस्य तत्पञ्चविधं साम सामनामकं ब्रह्मोपासीत । कुत्र कस्योपासनं कर्तव्यमित्यतस्तद्विशदमाह - पृथिवीत्यादिना ॥ हिङ्कार: सृष्टिकर्तृत्वाद्धिङ्कारनामकः तन्नामकसाम- भक्तिप्रतिपाद्यः प्रद्युम्नः पृथिवी सस्यादेः प्रथनात् पृथिवीनामकः पृथिव्यां स्थितश्च । प्रस्तावः प्रथमावताररूपत्वात् प्रस्तावनामकः प्रस्तावरूपसाम- भक्तिप्रतिपाद्यो वासुदेवोऽग्निरदनादग्निनामकोऽग्निस्थश्च । उद्गीथः प्रणवेनोद्द्वेयत्वाद् वासुदेवादिमूर्त्यद्गमावधित्वाद् बोद्गीथनामोद्गीथाख्य- सामभक्तिप्रतिपाद्यो नारायणोऽन्तरिक्षमन्तरीक्षणादन्तरिक्षनामकोऽन्त- रिक्षस्थश्च । प्रतिहारः कार्येषु जगतः प्रति प्रति हरणान्नित्यं मूर्तिप्रतिहृतेर्वा प्रतिहारनामकः प्रतिहाररूपसामभक्तिप्रतिपाद्योऽनिरुद्ध आदित्य आयुष आदानाद् आदित्यनामाऽऽदित्यस्थश्च । निधनं संहारान्निधननामा निधनाख्यसामभक्तिप्रतिपाद्यः सङ्कर्षणो द्यौः क्रीडाकारणत्वाद् द्युनामा द्युस्थश्च ।इत्युक्तप्रकारेणोर्ध्वेषु उत्तरोत्तरेषु लोकेषु पञ्चविधं सामो- पासीतेत्यन्वयः ।। १ ।।
अथाऽवृत्तेषु प्रतिलोमेषु लोकेषु पञ्चविधं सामोपासीत । तदेव विशदयति – द्यौरित्यादिना ॥योजना तु पूर्ववदेव || २ ||
एवं ज्ञात्वोपासकस्य फलमाह - कल्पन्त इति ॥ योऽधिकारी तत् प्रद्युम्नादिरूपं पञ्चविधसामनामकं ब्रह्मैवमुक्तरीत्या विद्वांल्लोकेषूर्ध्वष्वा- वृत्तेषु च पञ्चविधं सामोपास्ते अस्मा अस्योपासकस्य “अभीष्टम्” इति शेषः । ऊर्ध्वश्वाऽवृत्ताश्चोर्ध्वाधः संस्थिता लोकाः प्रकाशरूपत्वाल्लोक-नामानः प्रद्युम्नाद्याः पञ्चैव दशमूर्तयः कल्पन्ते कल्पयन्तीत्यर्थः ।। ३ ।।
॥ इति द्वितीयः खण्डः ।।