अशेषगुणपूर्णाय दोषदूराय विष्णवे । नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने

अथ श्रीमच्छान्दोग्योपनिषदर्थसद्ध हे श्रीराघवेन्द्रयतिकृते

॥ हरिः ॐ ॥

प्रथमाध्याये प्रथमः खण्डः

मङ्गलाचरणम्

ॐ ।। अशेषगुणपूर्णाय दोषदूराय विष्णवे ।

नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ।। १ ॥

श्रीमच्छान्दोग्याभिमता भाष्यकाराद्युदीरिताः ।

र्था ये सङ्ग्रहस्तेषां क्रियते साधुतुष्टये ॥ २ ।।

( ऋष्यादिसङ्कीर्तनम् )

इहामुत्रफलभोगविरक्तस्य शमदमादिमतो मुमुक्षोरधिकारिणोऽ- निष्टनिवृत्तीष्टप्राप्तिसाधनप्रतिपादनाय प्रवृत्ताया अस्याः छान्दोग्योप-निषदो हयग्रीवः प्रथम ऋषिः । रमादेवी तदनन्तरऋषिः । शेषशायी हरिर्देवता । वाक्यरूपत्वान्न छन्दश्चिन्ता ॥

निषत्

( उद्गीथोपासना )

ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

साम्नः प्रस्तावप्रतिहारोद्गीथोपद्रवनिधनभेदेन पञ्चभक्तयः । अंशा इति यावत् । तत्राऽदावुद्गीथलक्षणसामैकदेशे सर्ववेदार्थप्रतिपादकप्रणवार्थभूत-भगवन्निष्ठोपासनमाह- ओमित्यादिना ॥ उद्गीथमुच्चत्वगीतत्व-

सर्वस्थानत्वहेतुभिरुद्गीथनामानं हरिमुपासीत तद्विषयश्रवणमननध्यान- रूपोपासना कार्येत्यर्थः । उद्गीथं विशिनष्टि - ओमितीति ।। अव रक्षण- गतिकान्तिप्रवेशेत्याद्यनेकार्थस्यावतेः 'अवतेष्टिलोपश्च' इति सूत्रेणोमिति रूपसिद्धेरुक्तत्वाद् ओतमस्मिन् जगदिति सर्वोपजीव्यमिति वा, ओतं नियामकतया जगति प्रविष्टमिति वा, अवति माति जानातीति व्युत्पत्त्या जगद्रक्षकं सर्वज्ञमिति वा, अधिकोच्चमिति वा, अधिकच्चत्वेन वेदैर्मितमिति वा, आनन्दौजोभर्तृरूपमिति वा हेतोः ओमिति अव्यय - पदेनोच्यमानम्, एतत् सर्वत्र सन्निहितत्वाद् एतदित्युच्यमानम्, अक्षर- शब्दितचतुर्विधनाशहीनत्वाद् वा अक्षयाद् रतिरूपत्वाद् वा, अक्षेष्विन्द्रियेषु रमणाद् वा अक्षरशब्दितमुद्गीथमुपासीतेत्यर्थः ॥

यद्वा, उद्गीथम् एतत् सर्वत्र सन्निहितम् अक्षरम् ओमित्युपासीत । ओङ्कारार्थगुणयुक्ततयोपासीतेति योजना । ' इत्योमिति सदोषास्यः सोऽक्षरः' :' ( ४ ) इति भाष्योक्तेः । पदानामवयवार्थः प्राग्वदेव ||

ओन्नामार्थत्वं हरेः कुत इत्यत आह- ओमिति हीति ॥ उद्गाता गा कुर्वन्नादावोमित्युच्चार्यैनं हरिमुद्दिश्य गायति हि यतोऽत ओन्नामकत्वं हरेः । अन्यथा हरिमुद्दिश्य गायन् ओमित्यादौ कुत उच्चारयेदिति भावः । अधिकोचत्वेन वेदैः प्रमितत्वहेतुना ओमित्युच्यते हरिरित्युक्तं, तद्व्यक्तीकर्तुं प्रतिजानीते- तस्येति । तस्य ओन्नाम्नो हरेरूप उपपन्नं व्याख्यानं सर्वस्माद् विशिष्टत्वरूपं सर्वोत्तमत्वस्याऽख्यानं निरूपणं क्रियत इत्यर्थः । यद्वा, तस्याक्षरस्य उप वाचकतया समीपस्थस्योमित्य- स्याधिकोनार्थकत्वेन व्याख्यानं क्रियत इत्यर्थः ।। १ ।।

(देवतातारतम्यनिरूपणम् )

निषत्

एषां भूतानां पृथिवी रसः । पृथिव्या आपो रसः । अपामोषधयो रसः । ओषधीनां पुरुषो रसः । पुरुषस्य वाग्रसो वाच ऋग्रसः । ऋचः साम रसः । साम्न उद्गीथो रसः । स एष रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथः ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

तच्चाधिकोच्चत्वं तारतम्यान्तगत्वेन ज्ञातमेव पुमर्थहेतुरिति भावेन सङ्क्षेपेण तारतम्योक्तिपूर्वकमुच्चत्वमाह एषामिति ॥ एषां प्रमितानां स्वावरभूतानां सकाशादिति शेषः । पृथिवी धरादेवी रसः श्रेष्ठा । एवमग्रेऽपि । आपः अबभिमानी वरुणः, ओषधय ओषध्यभिमानी ( १ ) चन्द्रः, पुरुषः पौंस्याभिमानी सदाशिवः, वाक् वागभिमानिनी सरस्वती, ऋक् ऋगभिमानिनी सरस्वत्येव । एकाऽपि वाणी प्राणसंयोग- विशेषवत्त्वदशायाम् ऋगभिमानिनी सती तद्धीनत्वंदशायां वागभमान- रूपात् स्वकीयात् श्रेष्ठेत्यवस्थाभेदेन रावरभावो वाण्या युक्त इति ध्येयम् । सर्वभूतेषु समत्वहेतुना सामनामा साममानी प्राणः । उद्गीथः प्रागुक्तनिरुक्त्योद्गीथनामा हरिः रसः श्रेष्ठ इत्यर्थः । यथा सामनाम्नः प्राणस्य वागादितः श्रैष्ठ्यमेवमुद्गीथनाम्नो हरेः प्राणादितः श्रेष्ठ्यं न, किन्तु निरवधिकमिति भावेनैषां भूतानामित्यादेः सङ्ग्रहरूपवाक्येन हरेर्महान्तं विशेषमाह्- स इति ।। अत्र परम इति पूर्वत्रोत्तरत्र चान्वेति । तथाच रसतम इत्यत्र रस-रसतर- रसतम - परमरसतमेति चतस्रः कक्ष्याः । परमपराद्धर्य इत्यत्रापि परमर्द्ध परमपरर्द्ध परमपरार्द्धर्य परमपराद्धर्यति चतस्रः कक्ष्याः । वाक्यद्वयमेलनेनेयं वचनव्यक्तिः परमपराद्धर्यरसतम इति ।

( हरेः परमपराद्धर्चरसतमत्वयोजनम् )

तथाचायमर्थः । योऽष्टमोऽष्टमकक्ष्यात्वेनोक्त उद्गीथः स एष हरिः रसानां श्रेष्ठानां सकाशात् परमपराद्धर्चरसतमः । आ समन्तादृद्धोऽर्द्धः । पृथिव्या रसत्वं, वरुणस्य रसतरत्वं, चन्द्रस्य रसतमत्वं, पुरुषस्य परमरसतमत्वं, वाचः परमर्द्धरसतमत्वं प्राणस्य परमपरार्द्धरसतमत्व- मुद्गीथनाम्नो हरेस्तु परमपराद्धर्चरसतमत्वं भवति । तर्हि परार्द्ध इत्येव वाच्ये पराद्ध इति किमर्थमुच्यत इति चेत्, प्राणस्य वागादितः श्रेष्ठयवन हरेः प्राणात् श्रेष्ठ्यं, किन्तु परमपरार्द्धरसतमाच्छ्रीतत्वादप्यसङ्ख्या- गोचरत्वेन ज्ञेयो भगवानिति वक्तुं पराद्ध इत्युक्तिः । लोके हि परार्द्धपर्यन्तमेव सङ्ख्यापरिगणनम् । तत उर्ध्वं न सङ्ख्याव्यवहारः, अतोऽसङ्ख्यागोचरत्वलाभाय पराद्धर्च इत्युक्तिरिति भावः वागृचोरवस्थाभेदेन भेदविविक्षायां तु भूतेभ्यः पृथिव्या रसत्वं ततो वरुणस्य रसतरत्वं, सोमस्य रसतमत्वं, ततः शिवस्य परमरसतमत्वं, ततो वाचः परमर्द्धरसतमत्वं, तत ऋचः परमपरर्द्धरसतमत्वं, ततः प्राणस्य परमपरार्द्धरसतमत्वं, ततः श्रीतत्वस्य परमपरार्द्धिरसतमत्वं, ततोऽसङ्ख्या- गोचरत्वेन परार्धिना ज्ञेयतया परमपराद्धर्चरसतम उद्गीथो हरिरिति ज्ञेयम् ॥ २ ॥

( ऋक्-साम-उद्गीथपदानाम् अर्थकथनम् )

निषत्

कतमा कतमर्क् कतमत् कतमत् साम कतमः कतम उद्गीथ इति विमृष्टं भवति । वागेवर्क् प्राणः सामोमित्येतदक्षरमुद्गीथः || ||

छान्दोग्योपनिषत्खण्डार्थः

तरतमभावेन निर्दिष्टेषु पृथिव्यादिषु पृथिव्याः, तथा ओषध्यब्देवतयोः सोमवरुणयोः, रुद्रस्य लिङ्गदेवस्य वाचः सरस्वतीत्वेन च प्रसिद्धत्वात् नत्र प्रश्नमकृत्वा ऋगादेरप्रसिद्धेस्तज्ज्ञानस्य विशिष्टफलहेतुत्वाच्च तत्र

प्रश्नं करोति - कतमेति । द्विरुक्तिः ऋगादिस्वरूपज्ञानकुतूहल- ।। निमित्ता । इति विमृष्टं विचारविषयीकृतं भवति । जिज्ञासितं भवतीति यावत् । ऋगादिस्वरूपमाह - वागेवेति ॥ ऋगिति वाङ्गानिनी वाण्येव । ऋ गताविति धातोः प्राणेन सङ्गता सती ऋगित्युच्यत इत्यर्थः । सर्वभूतेषु समत्वात् साममानित्वाच्च प्राणो मुख्यवायुः सामेत्यर्थः । प्रागुक्तव्युत्पत्त्या ओमित्युच्यमानम्, एतत् सर्वसन्निहितम् अक्षरं प्रागुक्तव्युत्पत्त्या अक्षरमित्युक्तो हरिरुद्गीथ इत्यर्थः ॥ ३ ॥

(विष्णुः सरस्वतीचतुर्मुख ब्रह्मभ्यामुत्तमः )

निषत्

तद्वा एतन्मिथुनं यद्वाक् च प्राणश्च ऋक् च साम च तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

उद्गीथस्य ऋक्सामभ्यां रसत्वोक्तिरयुक्ता, योरतिमहत्त्वादित्यतो मुक्तौ तदायतनत्वादित्याह - तद्वा एतदिति ॥ वाक् च प्राणश्च, ऋक् च साम चेति यत् तदेतद्द्वयं मिथुनं वै । नित्यं दाम्पत्यरूपेणावियुक्तम् | वै प्रसिद्धम् । अवस्थाभेदमादाय वाणीशयोर्वाक् च प्राणश्च ऋक् च साम चेति पृथगुक्तिः । तदेतन्मिथुनं दम्पती ओमित्युच्यमाने सर्वसन्निहिते अक्षरनाम्नि हरौ संसृज्यते सङ्गतौ भवतः । मुक्ताविति शेषः । शेषादीनां हरौ संसर्गसत्त्वेऽपि एतं प्राणं प्रविश्यैतत्प्रसादेनैव न साक्षात् । अनयो- स्तु नान्यद्वारा, किन्तु साक्षादेवेत्यनयोर्विशिष्य तत्संसर्गोक्तिः ॥ ४ ॥

निषत्

यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य काममापयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

वाक्प्राणयोर्मुक्तौ भगवत्प्राप्त्यनन्तरं किं भवतीत्यत आह - यदेति ।यदा वै मिथुनौ दम्पती समागच्छतः हरिं प्राप्नुतः तदा तौ वाक्प्राणौ अन्योन्यस्य काममभीष्टमापयतः प्रापयतः प्राप्नुत इति वा । वाक्प्राणयो- रुद्गीथसंसर्गज्ञानिनः फलमाह आपयितेति ॥ योऽधिकारी एतदक्षरमुद्गीथं सर्वत्र सन्निहितमविनाशादिगुणकतयाऽक्षरमित्युक्त- मुद्गीथनामकं हरिमेवं मुक्तौ वाक्प्राणायतनत्वेन तदभीष्टदातृत्वेन विद्वानुपास्ते सः कामानामापयिता प्राप्ता भवति । हवै प्रसिद्धम् ।। ५ ।।

 ( ओङ्कारार्थपूर्णो हरिः )

निषत्

तद्वा एतदनुज्ञाक्षरम् । यदि्ध किञ्चानुजानात्योमित्येव तदा हैष उ एव समृदि्धर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ६ ॥

छान्दोग्योपनिषत्खण्डार्थः

पूर्वं हरेरोन्नामकत्वम् ' ओमिति ह्युद्गायति' इति साधितम् । इदानीं प्रकारान्तरेण तत्साधयति तद्वा एतदिति ॥ तदेतदोमित्यक्षरमनुज्ञा अनुज्ञाप्रदं वै । कथमनुज्ञाक्षरत्वमस्येत्यत आह- यद्धीति || ' इदं मया क्रियते भवाननुजानातु' इति केनचित् पृष्टोऽन्यः प्राज्ञो हरिस्त्वया क्रियमाणं तथा कुर्यात्' इति यत्किञ्चिदनुजानाति अनुज्ञां दत्ते । तत् तत्र तादृशानुज्ञार्थंविषये ओमित्येतदेवाक्षरमाह । हि यस्मात् तस्मादोन्नामा हरिरिति योज्यम् । हरेरोन्नामकत्वाभावे तादृशानुज्ञार्थविषये ओमिति कथं ब्रूयात्? असङ्गतिप्रसङ्गादिति । ओमित्यस्यानुज्ञाप्रदो हरिरर्थ इति समर्थ्य इदानीं हरेः पूर्णत्वमप्योमित्यस्यार्थ इत्याह- एषो इति ॥ यदनुज्ञा याऽनुज्ञा यदोमित्यनुज्ञाक्षरम् एषो एषा उ एव समृद्धिः । एतत् समृद्धि- वाचि । तव कामं समृद्धं हरिः करोत्विति वाऽनुज्ञादानविषये ओमित्यनु- जानाति प्राज्ञः । समृद्ध्यर्थताभावे समृद्धिदोऽस्तु हरिरित्यस्मिन्नर्थे ओमिति कथमनुजानीयादिति भावः । समृद्धिदो हरिरोमित्यस्यार्थ इति जानतः फलमाहसमर्द्धयितेति ॥ कामितप्राप्तौ शक्तो भवतीत्यर्थः ॥ ६ ॥

( ओङ्कारस्य सर्ववेदार्थबोधकत्वप्रतिपादनम् )

निषत्

तेनेयं त्रयी विद्या वर्तते । ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै । महिम्ना रसेन तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ॥ ७ ॥

छान्दोग्योपनिषत्खण्डार्थः

ओमित्यस्य सर्ववेदार्थबोधकत्वमप्यस्तीति भावेनाऽह - तेनेति । तेन ओमित्येतदर्थभूतेन विष्णुना स्वप्रतिपाद्यतया विद्यमानेनेयं त्रयी विद्या ऋग्यजुःसामरूपा प्रणवार्थं विष्णुं प्रतिपादयन्त्येव वर्तते प्रवर्तत इत्यर्थः । तद्व्यनक्तिओमितीति । एतस्यैवाक्षरस्य हरेरपचित्यै पूजार्थम् ऋगादिवेदः ओमित्युक्त्वा आश्रावयति तदर्थं व्याख्याति । शास्त्ररूपो मन्त्रराशिरोमित्युक्त्वा शंसति तदर्थं व्याख्याति । सामवेदोऽप्यो- मित्युक्त्वा तदर्थमेवोद्गायति । एतस्यैवापचित्या इति वाक्यत्रयेऽप्यन्वेति । एवमोन्नाम्नो हरेः सर्वोत्तमत्वं सर्ववेदार्थत्वं चोक्त्वा सर्वप्रवर्तकत्वं चाऽह- महिम्नेति । सर्ववेदार्थत्वादिमहिमवता रसेन सारभूतेन तेनोन्नामकेन हरिणा उभौ कर्म कुरुतः । कावुभौ ? यश्च तदक्षरम् । एवमुक्तमहिमयुक्ततया वेद, यश्च न वेद, तावुभौ ज्ञाज्ञावित्यर्थः ॥ ७ ॥

( विद्याविद्ययोर्वैलक्षण्योपपादनम् )

निषत्

नाना तु विद्या चाविद्या च । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति । इति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति । अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीत । तस्येतरैः प्राणैरुपव्याख्यानं भवति ॥ ८१ ॥

छान्दोग्योपनिषत्खण्डार्थः

सर्वो जनस्तेन कर्म करोतीत्यनुक्त्वा ज्ञाज्ञविभागोक्तिः कुतः ? इत्यतो विद्याविद्ययोर्विलक्षणत्वादित्याह - नाना त्विति ॥ विद्या चाविद्या चेति नाना विलक्षणफलहेतू । अतो विभागेनोक्तिरिति । विलक्षणफलहेतुत्वं कथमित्यतः प्राधान्यादन्योपलक्षणत्वेन विद्याफलं दर्शयतियदेवेति ॥ उपनिषदा स्वयोग्यया विद्यया यदेव करोति तदेव कर्मापरोक्षज्ञानात् पूर्वतनं चेत् साक्षात्कारद्वारा वीर्यवत्तरं मुक्तिहेतु- भवति । ' भाक्तं वाऽनात्मवित्त्वात्' (ब्र.सू. ३-१-७ ) इत्युक्तेः । साक्षात्कारानन्तरभावि चेत् मुक्तावतिशयफलहेतुर्भवतीत्यर्थः । ' यदेव विद्ययेति हि' ( ब्र.सू. ४- १ - १८ ) इति सूत्रात् । पुरुषार्थनये तु 'तच्छ्रुतेः' (ब्र.सू. ३.४.४) इति सूत्रेऽपरोक्षिणा कृतं कर्म मोक्षेतरफलं वीर्यवत् करोतीत्युक्तम् । ' यदविद्यया करोति न तस्य ( २ ) वीर्यवत्, मुक्तिहेतुर्न' इत्युपलक्ष्यते । तस्योपव्याख्यानमित्युपक्रम्य कृतं प्रणवत्र्याख्यानमुपसंहरति- इति खल्विति ॥ एवमुक्तदिशा खल्वेतस्यैवाक्षरस्योप समीपे वाचकतया स्थितस्योमित्यस्य व्याख्यानम् अधिकोन्च्चत्वाद्यर्थकथनरूपं व्याख्यानमित्यर्थः ॥ ८ ॥

॥ इति प्रथमः खण्डः ।।

॥ अथ द्वितीयः खण्डः ॥

( मुख्यप्राणरूपप्रतीके देवकृताध्यात्मभगवदुपासना)

निषत्

देवासुरा ह वै यत्र संयेतिर उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुः । अनेनैनानभिभविष्याम इति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

उद्गीथमुपासीतेत्युक्तं प्राक् । तदुपासनं कुत्रेत्यतः वायोरेवोद्गीथाख्य- विष्णोर्मुख्यप्रतिमात्वात् तस्य सर्वजीवोत्तमत्वज्ञानपूर्वकं तस्मिन्नेव तत उत्तमत्वेनोपासनं कार्यम् । तत्र तथोपासित एवेष्टफलप्रद इति दर्शयितुं, तदुत्तमत्वं आख्यायिकयाऽऽह - देवासुरा हेति ॥ प्राजापत्याः कश्यपप्रजापतिपुत्रा उभये वर्गद्वयरूपा देवासुराः यत्र यदा संयेतिरे युद्धसन्नद्धा बभूवुः हवै, तद्ध तदा देवाः उद्गीथमुपास्याऽजह्नुरभीष्टदं चक्रुरनेनोद्गीथेनोपासितेन एनान् असुरानभिभविष्यामः पराभूतान् करिष्याम इति बुद्धयोद्गीथमाजहुरित्यन्वयः || ||

( नानोपासनास्थानानि )

निषत्

ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तंहासुराः पाप्मना विविधुस्तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

त एवं निर्णयवन्तः कुत्रोपास्याऽजह्नुरित्यपेक्षायां वायाविति वक्तुमुपासनास्थानान्याहते हेति ॥ ते देवा नासिक्यं नासिकाभिमानिनं वायुपुत्रं प्राणम् सप्तम्यर्थे द्वितीया । नासिक्यप्राणे उद्गीथं हरिमुद्दिश्योपासाञ्चक्रिर इत्यर्थः । एवमग्रेऽप्यर्थो ध्येयः । तं ह नासिक्यप्राणं पाप्मना विविधुः पापवन्तमकुर्वत । पाप्मना हि यतो विद्धस्तस्मात् तेन प्राणेनोभयं जिप्रति जीव इत्यर्थः । एवमग्रेऽपि ॥ २ ॥

निषत्

अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे तां हासुराः पाप्मना विविधुस्तस्मात् तेनोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथ प्राणस्यासुरकृतपापवेधानन्तरं वाचं वह्निं, वाचीत्यर्थः ।। ३ ।।

निषत्

अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतत् विद्धम् ॥ ४ ॥

अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतत् विद्धम् ॥ ५ ॥

अथ ह मन उद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं सङ्कल्पयते सङ्कल्पनीयं चासङ्कल्पनीयं च पाप्मना ह्येतत् विद्धम् ॥ ६ ॥

अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुराः ऋत्वा विदध्वंसुर्यथाऽश्मानमाखणमृत्वा विध्वंसेतैवम् ॥ ७ ॥

(प्राणज्ञानस्य फलम् )

स यथाऽश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसते य एवं विदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माऽऽखणः ॥

छान्दोग्योपनिषत्खण्डार्थः

चक्षुः चक्षुषि सूर्ये श्रोत्रं श्रोत्रे सोमे मनः मनसि रुद्रे, इदमुपलक्षणम् । अहम्मानिनि शेषे चित्तात्मनि गरुडे चेत्यपि ग्राह्यम् । तमिति ॥ तस्मिन् मुख्यप्राणे ऋत्वा प्राप्य विदध्वसुः विध्वस्ता अभूवन् । कथम् ? यथा आखणम् आदारणीयमश्मानमृत्वा प्राप्य लोष्ठ इति शेषः । विध्वंसेत एवमिति । प्राणप्राप्तासुरविध्वंसनवेदिनः फलमाह- स यथेति । वक्ष्यमाणदृष्टान्तो यथेत्यर्थः । विध्वंसते लोष्ठ इति शेषः । एवं हवै स वै विध्वंसते । स कः? य एवंविदि प्राणप्राप्तासुरविध्वंसनवेदिनि पापं प्रतीपकर्णं कामयते यश्चैनं प्राणविदमभिदासति हन्तुमिच्छति स इत्यर्थः । स एष प्राणमहिमज्ञानी आखणोऽश्मा || ||

( मुख्यप्राणस्य महिमा)

निषत्

नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येषः । तेन यदश्नाति यत्पिबति तेनेतरान् प्राणानवत्येतमु एवान्ततो वित्त्वोत्क्रामति व्याददात्येवान्तत इति॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

प्राणविदः फलान्तरं चाऽह - नैवेति । एतेन प्राणमहिमज्ञानेन सुरभि दुर्गन्धि च नैव विजानाति, सुरभ्येव जानातीत्यर्थः । तेन ज्ञानेनापहतपाप्मा ह्येष प्राणज्ञानी भवति । पापाविद्धत्वाद् देहस्थो मुख्यप्राणो महानि- त्युक्तम् । अशनादिना इतर प्राणरक्षकत्वाच्च महानिति भावेनाऽह- यदिति ॥ सर्वप्राणिशरीरस्थो मुख्यप्राणो यदश्नाति यत् पिबति तेना- शनादिना इतरान् घ्राणादिप्राणान् अवति । ततश्च महानिति योज्यम् । किञ्च, एतं मुख्यप्राणमेवान्ततः सर्वजीवोत्तमत्वेन विदित्वोत्क्रामति मुक्तो भवति । मुक्तिहेतुज्ञानविषयत्वाच्च महान् प्राण इत्यर्थः । ननु 'नान्यः पन्था अयनाय' इत्युक्तेः कथमेतदित्यत आह व्याददात्येवान्तत इति । विविशिष्टं विष्णुम् अन्ततः सर्वोत्तमत्वेनाऽददात्येव स्वीकरोत्येव मुख्यप्राणप्रसादाज्जानात्येवेति हेतोर्न दोष इत्यर्थः ॥ ५ ॥

( ऋषिकृतप्राणोद्गीथोपासना )

निषत्

तं हाङ्गिरा उद्गीथमुपासाञ्चक्रे एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसस्तेन ॥

तं ह बृहस्पतिरुद्गीथमुपासाञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते । वाग्घि बृहती तस्या एष पतिस्तेन ॥

तं हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते तेन ॥

तेन तं ह बको दाल्भ्यो विदाञ्चकार || ||

छान्दोग्योपनिषत्खण्डार्थः

न केवलं देवा एव स्वकार्यसिद्धये प्राणमुद्गीथमुपासितवन्तः, किन्तु ऋषयोऽपीत्याह - तं हेति । तस्मिन् मुख्यप्राणे ह अङ्गिरा नाम ऋषिः उद्गीथमुपास्तेत्यर्थः । अन्ये च मुनय उपासतेत्यप्युपलक्ष्यते । प्र उद्गीथमुपास्य ऋषयो न केवलमभीष्टसिद्धिमाप्ताः, किन्तु स्वस्वनामानि च भेजिर इति फलवाक्यमप्यत्र ग्राह्यम् । अङ्गिरःप्रभृतिमुनिनामानि मुख्यतो वायोरेव । तत्प्रसादेनैषां नामानि प्राप्तानीति भावेनाऽह - एतमु एवेति । मुख्यप्राणमेव मन्यन्ते प्राज्ञाः । कुतः ? यद् यस्मादङ्गानां सर्व- प्राणिशरीराणां रसो नियन्ता तेन कारणेनेति । एवमन्यमुनिनाम- निर्वचनमपि प्राणे ग्राह्यम् । एवं देवा अपि प्राणे उद्गीथोपासनया स्वस्वनामानि भेजिरे । तस्यैव तु तानि नामानि मुख्यानीत्याह - तं बृहस्पतिरिति ।। तस्मिन् प्राण इत्यर्थः । चक्र इत्यनन्तरं बृहस्पतिरिति च नाम लेभ इति शेषः । कुत इत्यतो वायावेव तन्नाम्नो मुख्यत्वादित्याह- एतमिति || मुख्यप्राणमिति प्राग्वदर्थः । तमिति तस्मिन्नित्यर्थः । चक्र इत्यनन्तरं अयास्येति नाम लेभ इति शेषः । कुतः ? वायावेव तन्नाम्नो मुख्यत्वादित्याह - एतमिति । आस्यान्मुखादयते गच्छति । दाल्भ्यो दल्भ्यपुत्रो बको नाम मुनिः, तमुक्तमहिमयुक्तं प्राणं विदाञ्चकार ज्ञातवान् ।। ६ ।।

( देवर्षिभिः मुख्यप्राणे कृतायाः भगवदुपासनायाः फलनिरूपणम् )

निषत्

स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥आगता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ।। ७ ॥

छान्दोग्योपनिषत्खण्डार्थः

स प्राणज्ञानी बको नैमिशीयानां नैमिशारण्यवासिनामुद्गाता बभूव । स हैभ्यः कामान् कामितान् आगायत गानेन प्रापितवान् | अतः कारणाद् य एवं प्राणमाहात्म्यं ततोऽतिमाहात्म्यं च हरेः विद्वानक्षरम् उद्गीथं हरिमुपास्ते स कामानामागाता भवति गानेन कामितप्राप्ता भवति । इत्यध्यात्मं देहस्थप्राणादिगतोद्गीथोपास्तिमाहात्म्यं निरूपितमित्यर्थः ।। ७ ॥

॥ इति द्वितीयः खण्डः ॥

॥ अथ तृतीयः खण्डः ॥

अधिदैवं मुख्यप्राणे भगवदुपासना

निषत्

अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीत । उद्यन् वा एष प्रजाभ्य उद्गायत्युद्यंस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथाध्यात्मोद्गीथोपास्त्युक्त्यनन्तरम् अधिदैवतगतोद्गीथोपास्ति- रुच्यत इत्यर्थः । तदाह य एवेति ।। य एवासौ सूर्यमण्डलस्थो वायुस्तपति प्रकाशते तं द्वितीया सप्तम्यर्थे तस्मिन्नुद्गीथं हरिमुपासीत । एष मुख्यवायुः स्वत:उदयास्तमयहीनोऽपि उद्यन्मण्डलोदयेन प्रजाभ्य उद्यभिव सनुद्गायति । हरिमिति शेषः । उद्यन्मण्डलद्वारोद्यनुभयं तमः बाह्याभ्यन्तरं तमोऽपहन्ति । एवंवेदिनः फलमाह - अहन्तेति । एवं (१) उभयतमोहन्तृत्वेन प्राणं वेद स उभयस्य तमसोऽपहन्ता वै भवति ॥ १ ॥

( शरीरस्थप्राणे सूर्यमण्डलस्थप्राणे च भगवदुपासना)

निषत्

समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

अध्यात्माधिदैवतोद्गीथोपासनयोर्मध्ये किमुपासनं साध्वित्यतो -द्वयमपि समानमिति भावेनोभयत्र स्थितवाय्वोरुष्णत्वादिना साम्यमाह समान इति ॥ अयं देहस्थः, असौ मण्डलस्थश्च समान एव । उ खलु । कथम् ? उष्णोऽयं देहस्थो वायुः । उष्णोऽसौ सूर्यमण्डलगः । इमं देहस्थं वायुं स्वर इति स्वे स्वतन्त्रे रमत इति स्वर इत्याचक्षते प्राज्ञाः । अमुं सूर्यमण्डलगं प्रत्यास्वर इति । आ समन्तात्, मां प्रतिमां प्रतिपुरुषाभिमुख्येन स्थितमण्डलस्थत्वात् स्वे विष्णौ रतत्वाच्च प्रत्यास्वर इत्याचक्षते । तस्मादध्यात्माधिदैवगतवाय्वोरुष्णत्वादिना समत्वात् । एतमित्यस्य विवरणमिमममुं चेति सप्तम्यौ । देहस्थे सूर्यगे च वायावुद्गीथमुपासीतेति ॥ २ ॥

( व्याननामके वायौ भगवदुपासना )

निषत्

अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानोऽथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाक् तस्मादप्राणन्ननपानन् वाचमभिव्याहरति या वाक् सर्क् तस्मादप्राणन्ननपानन्नृचमभिव्याह्रति या ऋक् तत् साम तस्मादप्राणन्ननपानन् साम गायति यत् साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायत्यतः ।। ३ ।।

छान्दोग्योपनिषत्खण्डार्थः

व्याननिष्ठाद्गीथोपास्तिमाह् अथ खल्विति ॥ स्थलान्तर उपास्त्युक्त्यारम्भार्थोऽथशब्दः । व्यानस्यातिशयद्योतकः खलुशब्दः । व्यानं व्यानाख्यमुख्यवायुरूपमेव उद्गीथं हरिमुपासीत । को विशेषस्तस्येत्यतो हेतुत्रयं विवक्षुरादौ प्राणापानसन्धिप्रवर्तकत्वं हेतुं तावदाह य उद्गीथेनानुप्रविष्टः सन् प्राणापानयोः सन्धिः सन्धिप्रवर्तकः स व्यान इति । कौ प्राणापानावित्यतः तल्लक्षणोक्तिपूर्वं तावाह यद्वा इति ।। यद् यः प्राणिति, ऊर्ध्वं प्राणनं करोति स प्राणः यद् यो अपानिति अधो मलादि नयति सोऽपान इति । वागृक्सामोद्गीथप्रवर्तकत्वं द्वितीयं हेतुमाह- यो व्यानः । व्यानेऽनुप्रविष्टः प्राणापानसन्धिकर्तोद्गीथः । सा वाक् वाचि तिष्ठति । विधेयापेक्षया सेति स्त्रीलिङ्गम् । बाग्व्यवहारः प्राणादिना किं न स्यादित्यतो नेत्याह - तस्मादिति ॥ व्यानगस्य वाग्गतत्वेन वाग्व्यवहारहेतुत्वादेव अप्राणन्ननपानन् प्राणापानौ निरुध्य वाचमभिव्याहरति । अतो व्यानग एव वाचिगतः सन् वाग्व्यवहारप्रवर्तक इति । या वाक् वाचिस्थः सा ऋक् ऋचिस्थ: । तस्माद् ब्याने वाचि चानुगतस्योद्गीतस्यैव ऋचि स्थिततया ऋगभिव्याहरणहेतुत्वादेव अप्राणन्नित्यादि प्राग्वत् । या ऋक् ऋचिस्थो य उद्गीथनामा हरिः तत् साम स सामगतः । तस्माद् व्यानवागृगनुगतस्यैव सामगत्वेन सामगान- प्रवर्तकत्वादित्यर्थः । यत् साम यः सामगः स उद्गीथः सामभेदरूपोद्गीथ- स्थः । तस्माद् व्यानादिष्वनुगतस्यैवोद्गीथरूपसामभेदस्थत्वेन उद्गानप्रव- र्तकत्वादित्यर्थः ।। अत इति ।। अतो व्यानस्य प्राणादितोऽतिशयितत्वात् तत्रोद्गीथमुपासीतेति योजना || ||

( व्याने उद्गीथोपास्तौ तृतीयकारणनिरूपणम् )

निषत्

यान्यन्यानि वीर्यवन्ति कर्माणि यथाऽग्नेर्मन्धनमाजे: सरणं दृढस्य धनुष आयमनमप्राणन्ननपानन् तानि करोत्येतस्य हेतोर्व्यान- मेवोद्गीथमुपासीत ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

व्याने उद्गीथोपास्ती तृतीयमपि हेतुमाह यानीत्यादिना ॥ यान्यन्यानि वीर्यवन्ति बलवन्ति कर्माणि तान्याह - अग्नेरित्यादिना ||मथनम् अरणिभ्यां मथनं आजे: युद्धस्य सरणं गमनं दृढस्य धनुष आयमनं अवनमनं ज्यारोपणमिति यावत् । तानि च कर्माणि अप्राणन्ननपानन् करोतीत्येतस्य हेतोः एतस्मात् कारणाद् व्यानं व्याने उद्गीथमुपासीतेत्यु- पसंहारः ।। ४ ।।

(उद्गीथाक्षरोपासना )

निषत्

अथ खलूद्गीथाक्षराण्युपासीतोद् गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो हि गिर इत्याचक्षतेऽन्नं थमन्ने हीदं सर्वं स्थितं द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गीरग्निस्थं सामवेद एवोद्यजुर्वेदो गीर्ऋग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

उद्गीथाक्षरप्रतिपाद्यप्राणादिस्थितभगवदुपास्तिमाह अथ खल्वित्या-दिना || अक्षराणि अक्षरप्रतिपाद्यप्राणादिस्थितोद्गीथमुपासीतेत्यर्थः । तान्यक्षराणि निर्दिशतिउद्गीथ इति ॥ अक्षरप्रतिपाद्यान्याह - प्राण एवोदिति । तदुपपादयति- प्राणेनोत्तिष्ठत्युत्पत्त्यादिमद् भवति हि यतोऽतः प्राण उदित्युच्यत इति । वाक् वाणी । गीरित्युक्तं व्यनक्ति- वाच हीति । वाच इति द्वितीयान्तम् । हेति प्रसिद्धिमाह । अन्नं थमित्युक्तं व्यनक्ति अन्ने (न) हीति । सर्वं प्राणिजातं स्थितं -स्थितिमद् हि यतोऽत इति । तस्मादेतद् ब्रह्म नामरूपमन्नं च जायत इत्यादावन्नाभिमानी ब्रह्मा प्रसिद्धः इति भाष्ये तदनुक्तिः । द्यौरित्यादि- पदैरभिमानिनयन्यायेन तत्तदभिमानिन उदाद्यक्षरत्राच्या ध्येयाः । वायुः भूतवायुमानी । ज्ञानिनः फलमाह - दुग्ध इति । योऽधिकारी उद्गीथ इति एतान्युद्गीथाक्षराणि एतेषूद्गीथाक्षरेषु उदाद्यक्षरवाच्येषु प्राणादिषु चतुर्वर्गेष्विति यावत् स्थितं हरिमुपास्ते, अस्मै उपासकाय यो वाचो दोहोऽस्ति प्रसिद्धः तं वाग्दोहं दुग्धे ददाति । उपासितः उद्गीथनामा हरिरिति योजना | अन्नवानन्नादश्च भवतीत्यर्थः ।। ५ ।।

( काम्यसाधकवस्तुषु भगवदुपासना )

निषत्

अथ खल्वाशीः समृदि्धरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन् स्यात् तत्सामोपधावेद्यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन् स्यात् तां देवतामुपधावेद्येन च्छन्दसा स्तोष्यन् स्यात् तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात् तं स्तोममुपधावेद्यां दिशमभिष्टोष्यन् स्यात् तां दिशमुपधावेदात्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ।। ६ ।। खण्डः ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

आशिषां समृद्ध्यर्थं तत्कारणं तत्कारणस्थितभगवदुपासनमाह अथ खल्विति ।। आशीस्समृद्धिः आशिषामाशास्यमानानां समृद्धिः समृद्धिकारणान्युच्यन्त इत्यर्थः । तानि कानीत्यत आह- उपसरणा- नीति ।। उपसारयन्त्यभीष्टमित्युपसरणानि सामदेवताप्रभृतीनि अशीस्स- मृद्धिकारणानि उपसरणानीति मत्वा तान्युपासीत । उपसरणान्याह येनेत्यादिना ।। येन बृहद्रथन्तरादिना साम्ना स्तोष्यन् स्तोत्रं करिष्यन् स्यात् तत्सामोपधावेद् आददीत तत्सामगं हरिं सर्वोत्तमत्वेन ज्ञात्वा तत्साम गायेदित्यर्थः ।। यस्यामृचीति । साम्ना स्तोष्यन् स्यादित्य- नुषज्यते । तामृचमपधावेदित्यनुषज्यते । एतमग्रेऽपि । तादृकूस्थितं हरिं सर्वोत्तमत्वेन ज्ञात्वा तदृगध्यूढं साम गायेदित्यर्थः । यदार्षेयं यदृषिकं सामादि तमृषिं तदृषिगतं सर्वोत्तमत्त्वेन ज्ञात्वा तदृषिकमभिव्याहरेदि- त्यर्थः । यद्देवतां यां देवतामभिष्टोष्यन् स्यात् तां देवतामुपधावेत्, तद्देवतास्थं हरिं सर्वोत्तमत्वेन ज्ञात्वा स्तुवीतेत्यर्थः । तच्छन्द उपधावेदिति ॥ तच्छन्दोभिमानिदेवतास्थं हरिं सर्वाधिक्येन ज्ञात्वा तच्छन्द आददीतेत्यर्थः । तं स्तोमं सामोपेतत्रिवृत्पञ्चदशादिऋग्विशेष- समुदायमुपधावेत् तत्रत्यं हरिमुक्तरूपेण ज्ञात्वा तं स्तोममभि- व्याहरेदित्यर्थः । यां दिशम् अभि प्रति तां दिशं तद्दिगवस्थितं हरिमुक्तरूपेण ज्ञात्वोपधावेद् आददीतेति । पूर्वत्र व्यानमुद्गीथ- मुपासीतेत्यादौ तां दिशमित्येतदन्तं हरेस्तदात्मकत्वेनोपास्तिः प्रतीयते । तां प्रतीतिं उपनिषत् स्वयमेव निवारयति - आत्मानमिति || आत्मानं परमात्मानम् अन्ततः सर्वोत्तमत्वेन सर्वत्र सर्वासूपास्तिषु उपसृत्य ज्ञात्वा स्तुबीत उपासीतेति यावत् । कथम् ? कामं स्वकामितं ध्यायन्नुद्दिश्येति यावत् । अप्रमत्तः प्रमादहीनः सन् स्तुवीतेत्यर्थः । यद्यस्मादस्मै स्तोत्रे स कामः अभ्याशः समीप एव शीघ्रमिति यावत् समृध्येत । यत्कामः स्तुवीत स काम इत्यर्थः । द्विरुक्तिस्तात्पर्यद्योतनार्था समाप्त्यर्था वा ॥ ६ ॥

।। इति तृतीयखण्डः ।।

अथ चतुर्थः खण्डः

( प्रणवोपासना, तत्फलं च )

निषत्

ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् । देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशंस्ते छन्दोभिराच्छादयन्यदेभिराच्छादयंस्तच्छन्दसां छन्दस्त्वं तान् उ तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि सामि्न यजुषि तेऽनुवित्त्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

पूर्वमुद्गीथैकदेशप्रणवोपास्तेः फलानुक्तेस्तामनुवदन् मोक्षरूपफल- माख्यायिकयाऽऽह ओमित्यादिना ।। पूर्ववदर्थो ध्येयः । तस्य अक्षरस्य हरेः उप वाचकतया समीपस्थस्योमित्यस्य व्याख्यानं तदर्थोपा- सनस्य मुक्तिहेतुत्वनिरूपणमाख्यायिकापूर्वं क्रियत इत्यर्थः । देवा वै देवाः खलु मृत्योः मारकत्वहेतुना मृत्युनाम्या दुर्गायाः सकाशाद् बिभ्यतो भीतियुक्ताः सन्तः त्रयीं विद्यां प्राविशन् शरणमिति शेषः । प्रणवेन विना केवलम् ऋगादिवेदाध्ययनतदर्थोपासनादि चक्रुरित्यर्थः । अग्निमीळे वायवायाहीत्यादि । स्वनाम्ना वेदोपबद्धा इत्यर्थ इत्येके । ते देवाः छन्दोभिर्वेदैरात्मानमाच्छादयन् नित्यं तदेकशीला अभूवन् । कथमेतज्ज्ञायत इत्यत आह-- यदिति । एभिश्छन्दोभिराच्छादयन्निति यत् तदेव छन्दसां छन्दस्त्वं, छन्दः पदप्रवृत्तिनिमित्तमिति कृत्वा ज्ञायत इत्यर्थः । तानु तान् उ । तत्रेत्यस्य विवरणं ऋचीत्यादि । ऋगादि- त्रयीविद्यायां स्थितान् पर्यपश्यत् उ पर्यपश्यदेव मृत्युः । कथम् ? यथा मत्स्यम् उदके परिपश्येदेवमिति । ऊर्ध्वा उत्तमास्ते देवाः । वित्त्वा विदित्वा मृत्युरस्मानपश्यदिति विदित्वा । ऋचः साम्नो यजुषः, ल्यब्लोपे पञ्चम्यः । ऋगादि परित्यज्य स्वरमेव प्राविशन् । स्वातन्त्र्यात् स्व विष्णुः, तद्रतेः स्वरो वायुः, तत्र स्वराख्ये वायौ स्थितं स्वरमणतया स्वराख्यं विष्णुमेव स्वराख्यप्रणवप्रतिपाद्यं शरणं प्राविशन्नित्यर्थः ॥ १ ॥

निषत्

 यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरं स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ।। २ ।। खण्डः ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

कथमेतज्ज्ञायत इत्यत आह- यदेति । केवलऋगादीनां मृत्यतो रक्षणे शक्त्यभावादेव खलु इदानीन्तनो यदा ऋचमाप्नोति अधीते तदा ओमित्येवाभिस्वरति । प्राणपूर्वकमेवाधीत इत्यर्थः । एवं प्रणवपूर्वकमेव सामाधीते, यजुरधीत इत्यर्थः । कः स्वरवाच्यः इत्यतः श्रुतिः स्वयमेवाऽ- ह- एष उ एष एव स्वरः स्वराख्यप्रणववाच्यः । यदेतदक्षराख्यं ब्रह्म तस्य महिमानमाह - एतदमृतमभयमिति । तत् प्रविश्य तदुपास्य देवाः ॥ अमृता मुक्ता अभया अभवन्निति । न केवलं देवा एव प्रणवार्थोपासनया अमृतत्वमाप्ताः, किन्त्वन्यस्यापि तदुपासनयाऽमृतत्वं भवतीत्याह- स य इति ॥ योऽधिकारी एतदक्षरं ब्रह्म, एवं प्रणवार्थतयोपासितं सद् देवानां मुक्त्यादिदमिति विद्वान् प्रणौति प्रणवेन स्तौति स एतदेवाक्षरं स्वरं स्वरप्रतिपाद्यममृतम् अभयं हरिं प्रविशति । तदक्षरं प्रविश्य देवाः यदमृता यस्मान्मृत्युतो मृतिहीनाः अभवन् तदमृतः तस्मान्मृत्युतो मृतिहीनो भवति, मुक्तो भवतीति यावत् ॥ २ ॥

।। इति चतुर्थः खण्डः ॥

॥ अथ पञ्चमः खण्डः ॥

( उद्गीथः प्रणवश्चैक एव )

निषत्

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वाऽऽदित्य उद्गीथ एष प्रणव ओमिति ह्येष स्वरन्नेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

द्वितीयखण्डे समग्रोद्गीथोपासकस्य एतमु एवान्ततो विदित्वोत्क्रा- मतीति मोक्षाख्यफलमुक्तम् । इदानीं बहुपुत्रावाप्तिफलां समग्रोद्गीथ- निष्ठामुपास्तिमाख्यायिकयाऽऽह अथ खल्वित्यादिना ॥ अथशब्दो विद्यान्तरारम्भार्थः । य उद्गीथ उच्चैर्गेयत्वहेतुना उद्गीथनामा हरिः स प्रणवः प्रकृष्टत्वनेतृत्वसर्वगतित्वहेतुभिः प्रणवनामा सन् प्रणवाख्यवायुस्थो यः प्रणवः प्रणवाख्यवायुगः स उद्गीथ इति पुनरुक्तिरभेदोपचारनिवृत्त्यर्था । इति खलु प्रसिद्धमित्यर्थः । यद्वा इत्युपास्यन्निति शेषः । उद्गीथो वायुग इत्युक्तम् । कुत्र स्थिते वायौ प्रणवनामोद्गीथस्तिष्ठतीत्यत आह - असा- विति ॥ असावादित्य आदित्यस्थ उद्गीथो हरिः एप उद्गीथः प्रणवः । आदित्यस्थप्रणवशब्दितमुख्यवायुगत इत्यर्थः । एष आदित्यस्थवायुगत उद्गीथो हरिः ओमिति स्वरन् जपन् एति सञ्चरति । हि प्रसिद्धम् || ||

( सूर्यकिरणगतवायौ भगवदुपासनाफलकथनम् )

निषत्

एतमु एवाहमभ्यागासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच रश्मीस्त्वं पर्यावर्तयताद् बहवो वै ते भविष्यन्ती- त्यधिदैवतम् || ||

छान्दोग्योपनिषत्खण्डार्थः

एतमु एवाऽदित्यगतमुख्यवायुस्थमोमिति स्वरन्तमुद्गीथमेकमह- मभ्यगासिषं गानेन स्तुतवानभूवम् । तस्मादेकस्योपासनात् मम त्वमेकोऽसीति ह कौषितकिर्नाम मुनिः पुत्रमुवाच । पुत्रं प्रत्यन्यदप्युक्तवानित्याह - रश्मीनिति । हे पुत्र त्वं रश्मीन् रश्मिषु स्थितवायुगतभगवद्रूपाणि पर्यावर्त्तयताद् उपास्स्व । ते एवं ध्यायतस्तव बहवः पुत्रा भविष्यन्ति । अन्ततो विमुक्तिश्च भविष्यतीति च पुत्रमुवाचेति योजना । इत्यधिदैवतं पुत्रफलकोपास्तिरुक्तेत्यर्थः ।। २ ।

(इन्द्रियगतवायौ भगवदुपासनाफलकथनम् )

निषत्

अथाध्यात्मं य एवायं मुख्यप्राणस्तमुद्गीतमुपासीतोमिति ह्येष स्वरन्नेति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथाध्यात्मं सैवोपास्तिरुच्यत इत्यर्थः । य एवायं देहगो मुख्यप्राणस्तं तस्मिन्नुद्गीथं हरिमुपास्यन् अभ्यगासिषमित्यन्वयः । एष प्राणग ओमिति स्वरन् जपन्नेति ।। ३ ॥

( अग्रिस्थभगवदुपासनया सामगानदोषस्य प्रायश्चित्तनिरूपणम् )

निषत्

एतमु एवाहमभ्यागासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणांस्त्वं भूमानमभिगायताद् बहवो वै ते भविष्यन्तीति ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

एतमु एव देहस्थप्राणगतमुद्गीथमहमभ्यगासिषम् । तस्मादित्यादि प्राग्वत् । प्राणान् प्राणेषु स्थितं भूमानं परिपूर्णं हरिम् । इति पुत्रमुवाचे- त्यनुषङ्गः ।। ४ ।।

निषत्

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुगीतमनुसमाहरतीत्यनुसमाहरतीति ॥ ५ ॥ ।। खण्डः ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथ खल्वति विद्यासमाप्तौ पुनरुक्तिः । दुरुक्त्यादिहेतुक- पापनिवृत्त्यर्थामुपास्तिमाह - होत्रिति ।। ' अग्निर्वै होता' इत्युक्तेर्होता सदनमाश्रयो यस्य स होतृषदनोऽग्निः । होतृषदनात् होतृषदनाख्या- ग्निस्थितात्, ल्यत्र्लोपे पञ्चमी । होतृषदनस्थं हरिमुपास्यैव दुरुगीतमनु समाहरति अनुरूपमेव करोतीष्टहेतुं करोतीत्यर्थः । द्विरुक्तिरादरार्थी विद्यासमाप्त्यर्था वा ।। ५॥ ॥ इति पञ्चमः खण्डः ॥

अथ षष्ठः खण्डः

( सरस्वतीवाय्वीरुपासना )

निषत्

इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते इयमेव साग्निरमस्तत्साम ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

वाच ऋग् रसः, ऋचः साम रस इति प्रकृतऋक्सामयोश्चेश्वरवर्गत्वाद् अधिदैवमध्यात्मं तदुपास्तिपूर्वं तत्परिवृतोद्गीथोपास्तिमाह- इयमेवेत्यादिना ॥ इयमेव पृथिवीस्थैव वाणी ऋगित्युच्यते । अग्निरग्निस्थोऽग्निनामा वायुः साम । साममानी वायुः सर्वत्र समत्वात् सामेत्युच्यते । तदेतस्यामृचि ऋग्देव्यां वाण्याम् अध्यूढमारूढं साम । तस्माद् ऋग्देव्यां सामनाम्नो बायोरध्यूढत्वादेवाखिलैर्जनैर्ऋच्यध्यूढं बाह्यं साम गीयते । वाणीवाणीशावित्येतद् द्वयम् एकशरीरं सामनामकं वर्तत इत्याह इयमित्यादिना ॥ इयमेव पृथिवीस्थैव वाग्देवी सेत्युच्यते, अग्निस्थो वायुरमः तदुभयं मिथुनं सामेत्युच्यते ॥ १ ॥

निषत्

अन्तरिक्षमेवर्ग् वायुः साम तदेतदेतस्यामृच्यध्यूढ साम तस्माद् ऋच्यध्यूढर् साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत् साम ||||

छान्दोग्योपनिषत्खण्डार्थः

एवमन्तरिक्षद्युनक्षत्रादित्यघटिते वाक्यचतुष्टयेऽपि योजना ध्येया । अन्तरिक्षमन्तरिक्षस्था वाग्देवी वायुः भूतवायुस्थः प्राणः ।। २ ।।

निषत्

द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढ साम तस्माद् ऋच्यध्यूढसाम गीयते द्यौरेव साऽऽदित्योऽमस्तत् साम ||||

छान्दोग्योपनिषत्खण्डार्थः

द्यौरेव द्युलोकस्था वाणी आदित्य आदित्यस्थः प्राणः ।। ३ ।।

निषत्

नक्षत्राण्येवकः चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत् साम ॥४॥

छान्दोग्योपनिषत्खण्डार्थः

नक्षत्राण्येव नक्षत्रस्था वाणी । चन्द्रमाः चन्द्रमःस्थः प्राणः || ||

निषत्

अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत् साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयतेऽथ यदेवैतदादित्यस्य शुक्लं भाः सैव साम यन्नीलं परः कृष्णं तदमस्तत् साम ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

शुक्लं भाः शुक्ले भासि प्रकाशे स्थिता वाणी, परः कृष्णम् अत्यन्तकृष्णं यन्नीलं तत्रस्थः प्राणः । सैवेति तत्रस्थेत्यर्थः || ||

(सूर्यान्तर्गतप्राणस्थभगवन्महिमा )

निषत्

अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्म- श्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः ।। ६ ।।

छान्दोग्योपनिषत्खण्डार्थः

किमती वाणीवाणीशौ प्रधानपूज्यावित्यतोऽन्यसेवकतयेति वक्तुं तत्सेव्यं तन्महिमानं चाऽह - अथ य इति ।। अर्थान्तरे अथशब्दः । य एष आदित्यान्तः पुरुषो हिरण्मयः विलक्षणसुखरूपः, स्वर्णवर्ण इति वा दृश्यते ज्ञानदृष्ट्या हिरण्यश्मश्रुः आप्रणखात् नखपर्यन्तं सर्व एव विग्रहः सुवर्णः अत्यन्तसुखरूप इत्यर्थः || ||

निषत्

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम । स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद || ||

छान्दोग्योपनिषत्खण्डार्थः

तस्याऽदित्यस्थस्य हरेः यथा कप्यासं कमुदकं पिवन्नालं कपि, तत्राऽस्त इति कप्यासं पुण्डरीकं रक्तपद्मं यथा एवमेतस्याऽदित्य- स्थस्याक्षिणी । कं पिवन्नालसम्बन्धिनलिनायतलोचन इत्यर्थः । तस्यो- दिति नाम कुत इत्यत आह स एष इति । उदितः उद्गतः । ज्ञानिनः फलमाह - उदेतीति ॥ ७ ॥

निषत्

तस्यर्क् च साम च गेष्णौ तस्मादुद्गीथस्तस्मात् त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात् पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ।। ८ ।। खण्डः ६ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं सेव्यमुक्त्वा तत्सेवकावेतावित्याह - तस्येति ॥ आदित्यस्थस्य ऋक्साम वाक्प्राणौ गेष्णौ गायकौ । तस्माद् वाक्प्राणाभ्या- मुद्गीतत्वादादित्यस्थः उद्गीथः उच्चोऽसौ गीयते चेत्युद्गीथः । तस्मादेव वाक्प्राणयोरेतद्गायकत्वादेवोद्गाता ऋत्विक् । एतस्याऽदित्यस्थस्य गाता हि प्रसिद्धम् । स एष आदित्यस्थः ये च अमुष्मात् स्वर्गात् पराञ्च उपरितनलोकास्तेषां चेष्टे देवकामानां स्वर्ग्यकामानां चेष्टे ईशो वर्तत इत्यधिदैवतमुद्गीथोपास्तिरुक्तेत्यर्थः ।। ८ ।। || इति षष्ठः खण्डः ॥

अथ सप्तम: खण्ड:

( देहगतऋक्साम्रोरुपासना)

निषत्

अथाध्यात्मं वागेवर्क् प्राणः साम तदेतदेस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते वागेव सा प्राणोऽमस्तत् साम ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथाध्यात्मं देहस्थाक्षिगतस्योपास्तिरुच्यत इत्यर्थः । वागेव वागि-न्द्रियस्था वाणी । प्राणः देहस्थप्राणेषु विद्यमानो मुख्यप्राणः । ' वागेव' इत्यारभ्यमनुष्यकामानां च ' इत्यन्तस्य पूर्वत्रेवार्थो ध्येयः ।। १ ।।.

निषत्

चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते चक्षुरेव साप्राणोऽमस्तत् साम ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

चक्षुः चक्षुःस्थः आत्मा जीवः जीवस्थप्राणः सामेत्यर्थः ॥ २ ॥

निषत्

श्रोत्रमेवङ्गर््मनः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते श्रोत्रमेव सा मनोऽमस्तत् साम॥ ३ ॥

श्रोत्रं श्रोत्रस्थं मनः मनोगतः प्राणः ।। ३ ।।

निषत्

अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत् साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयतेऽथ यदेवैतदक्ष्णः शुक्लं भाः सैव साऽथ यन्नीलं परः कृष्णं तदमस्तत् साम ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

शुक्लं भाः शुक्लभासि स्थिता वाणी । परः कृष्णं नीलगतः प्राणः सामेत्यर्थः । सैवेति तत्रस्थेत्यर्थः ॥ ४ ॥

( अक्षिस्थोद्गीथमहिमा)

निषत्

अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क् तत् साम तदुक्थं तद्यजुस्तद् ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

ताभ्यां सेव्यं भगवन्तमाह अथेति ॥ दृश्यते ज्ञानदृष्ट्या सैव चक्षुःस्थः पुरुषः । विधेयापेक्षया स्त्रीलिङ्गनिर्देशः । ऋग्ज्ञानरूपत्वाद् ऋगित्युक्तः । नित्यं समत्वात् तद् अक्षिस्थः पुरुषः सामेत्युच्यते, उत्थापकत्वादुक्थं, याज्यस्वरूपत्वाद् यजुः पूर्वरूपत्वाद् ब्रह्म । तस्यैतस्याक्षिस्थस्य तदेव रूपं यदेव हिरण्मयत्वादिकममुष्य आदित्यगतस्य रूपं तदेवेत्यर्थः । यौ वाक्प्राणावमुष्य सूर्यस्थस्य गेष्णौ तौ गेष्णौ गायकौ । एतस्येत्यनुषज्यते । अमुष्य यन्नाम उदिति तदेवैतस्य

नाम ॥ ५ ॥

निषत्

स एष ये चैतस्मादर्वाञ्च लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात् ते धनसनयः ॥ ६ ॥

छान्दोग्योपनिषत्खण्डार्थः

स एष एवाक्षिस्थः पुरुषो हरिः एतस्माद् भूलोकादर्वाचोऽधस्तन- लोकास्तेषां च मनुष्यकामानां चेष्टे इत्यर्थः । न केवलं वाक्प्राणावेव तस्य गायकौ, किन्तु लोके गायकाः सर्वेऽपि तद्वायका इत्याहतद्य इति ॥ य इमे लौकिका राजादिपुरतः वीणायां गायन्तीति यत् तद् एतमेव हरिं ते गायन्ति । तस्माद् भगवद्गानादेव प्रसन्नाद् राजादौ सन्निहिताद्धरेः सकाशाद् धनसनयो धनप्राप्तिमन्तो भवन्ति । अन्यथा राजादेर- स्वातन्त्र्याद् धनप्राप्तिमन्तो न स्युरिति भावः ।। ६ ।।

निषत्

अथ य देतदेवं विद्वान् साम गायत्युभौ साम गायति सोऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकास्तांश्चाप्नोति देवकामास्तांश्च ॥ ७ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवमधिदैवमध्यात्मं चोक्तप्रमेयज्ञानपूर्वं गानं कुर्वतः फलमाहअथ य इति ।। योऽधिकारी एतद् ऋक्सामयोर्हरेश्व माहात्म्यम् एवमुक्तरूपेण विद्वान् जानन् साम गायति, स उभौ आदित्याक्षिस्थौ तद्विषयमिति यावत् साम गायति । तस्य फलान्तरमाह । स एष एव ज्ञानपूर्वं भगवद्गायकः अमुष्मात् स्वर्गात् पराञ्चो ये लोकास्तांश्चाऽप्नोति देवकामांश्च । लोककामयोर्जयः किं स्वसामथ्येन ? नेत्याह । सोऽमुनैव लोककामयोर्जयोऽमुनैव गानविषयेणाऽदित्यस्थेनैवेति ॥ ७ ॥

निषत्

अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ ८ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथानेनैवाक्षिस्थहरिणैव ये चैतस्माद भूलोकादर्वाचो लोकास्तां-श्चाऽप्नोति मनुष्यकामांश्चेत्यन्योन्यसमुच्चये चशब्दौ । तस्मात् परमात्म- गायकस्यातिशक्तत्वादेव ह एवंविदुद्गाता ब्रूयात् ॥ ८ ॥

निषत्

कं ते काममागायानीत्येष ह्येष कामगानस्येष्टे य एवं विद्वान् साम गायति साम गायति ।। ९ ।। ७ ।।

छान्दोग्योपनिषत्खण्डार्थः

ते यजमानस्य कं कामं कामितार्थमागायानीति ब्रूयादित्यन्वयः । एष ह्येव एवं ब्रुवन् ज्ञानी कामगानस्येष्टे शक्तो भवति । य एवं विद्वान् साम गायति, एष ह्येवेति पूर्वेणान्वयः । अत्र तात्पर्यंगायकस्तस्य विष्णोः ' इत्यादिभाष्याज्ज्ञेयम् । द्विरुक्तिरुक्तार्था ॥ ९ ॥ ७ ॥

अथ अष्टमः खण्डः

उद्गीथनामकभगवद्विषये कथा

निषत्

त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यः चैकितायनो दाल्भ्यः प्रवाहणो जैबिलिरिति । ते होचुरुद्गीथे ये कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

उद्गीथाख्यो भगवान् सर्वोत्तम मीमांसारूपाख्यायिकया समर्थयते इत्युक्तम् तत् त्रय इत्यादिना || उद्गीथे साम-

विशेषे । ह प्रसिद्धम् । त्रीन् निर्दिशति । शिलको नामतः शलावत्यां भवः शालावत्यः, दाल्भ्यो नामतः चिकितायनस्यापत्यं चैकितायनः, प्रवाहणो नामतः जिबिलस्यापत्यं जैबिलिः इत्येते त्रयः उद्गीथे निपुणतया प्रसिद्धा इत्यर्थः । ते त्रयः अन्योन्यमूचुः । हन्त हर्षे । उद्गीथे सामविशेषे वयं कुशलाः स्मः । उद्गीथविषये प्रश्नप्रत्युक्तिरूपां कथां वदामः कुर्म इत्यूचुः ॥ १ ॥

निषत्

तथेति ह समुपविविशुः स ह प्रवाहणो जैबिलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच का साम्नो गतिरिति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

तथाऽस्त्वित्युक्त्वा सहोपविविशुः । ' स ह प्रवाहणः उवाच' इत्यस्यश्रोष्यामिइत्यन्वयः | ब्राह्मणयोर्भवतोरिति शेषः । ब्राह्मणयोरित्युक्त्या प्रवाहणः क्षत्रिय इति दन्ति । शिष्टं व्यक्तम् । त्वा त्वां पृच्छेति होवाच, दाल्भ्य इत्यनुषङ्गः । पृच्छति - का साम्नो गतिरिति ॥ साम्नः सामाभि- मानिनोऽग्नेः का गतिः ? मुक्तौ प्राप्यः क इत्यर्थः ॥ २ ॥

( शिलक कृतप्रश्नानां दाल्भ्याभिहितोत्तराणि )

निषत्

स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाचापां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति || 3 ||

छान्दोग्योपनिषत्खण्डार्थः

उत्तरमाह- स्वर इति ॥ स्वराभिमानी वरुण इत्यर्थः । एवमग्रेऽपि प्रश्नप्रतिवचने ध्येये । सामादिपदानां देवतासु निरुक्तिर्भाष्यादवसेया । प्राणः प्राणवायोरभिमानी सूर्यः । अन्नम् अन्नाभिमानी दक्षः । आपः अबभिमानी शक्रः । असौ लोको द्युलोकमानी शिवः ।। ३ ।।

निषत्

न स्वर्गं लोकमतिनयेदिति होवाच स्वर्गं वयं लोकं सामाभिसंस्थापयामः स्वर्गसंस्तावं हि सामेति । तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यं उवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥४॥

छान्दोग्योपनिषत्खण्डार्थः

उत्तरमाह न स्वर्गमिति । स्वर्गलोकशब्दितं शिवमतिक्रम्य न नयेत् । प्रश्नमिति शेषः । न पृच्छेदिति यावत् । वयं स्वर्गं लोकं शिवं प्रति साम संस्थापयामः, तत्प्रतिपादनेन पर्यवसितं कुर्म इत्यर्थः । कथं साम स्वर्गसंस्तावं स्वर्गाख्यशिवसंस्तुतिपरमेवेति संस्थापयाम इत्यन्वयः । यद्वा हि यतः साम स्वर्गसंस्तावमतः स्वर्गं प्रति संस्थापयाम इति । एवमग्रेऽ- पि । अप्रतिष्ठितं स्वर्गारव्यप्रतिपादनेन न पर्यवसितमित्यर्थः । एवं तर्हि इदानीं स्वर्गसंस्तावं सामेत्यत्तिकाले यस्तु ब्रह्मज्ञानी ते स्वर्गसंस्तावं सामेति वदतस्तव मूर्धा शिरः विपतेदिति ब्रूयाच्चेत् मूर्धा ते विपतिष्यतीत्युवाच शिलक इत्यन्वयः ॥ ४ ॥

( दाल्भ्यकृतप्रश्नानां शिलकाभिहितोत्तराणि )

निषत्

हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः प्रतिष्ठासंस्तावं हि सामेति ।

( प्रवाहणस्याऽशयः )

तं ह प्रवाहणो जैबिलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद् भगवतो वेदानीति विद्धीति होवाच ।। ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं प्रत्याख्यातो दाल्भ्यो वक्ति हन्तेति ॥ भगवत्तोऽहमेतद् वेदानि स्वर्गलोकगतिं जानीयामिति दाल्भ्य उवाचेत्यर्थः । एवमुक्तः शिलक आहविद्वीति होवाचेति । दाल्भ्यः पृच्छतिअमुष्येति ॥ स्वर्गलोकमानिनः शिवस्येत्यर्थः । उत्तरम् - अयं लोक इति ।। पृथिवी- लोकमानी ब्रह्मेत्यर्थः । अस्य लोकस्य चतुर्मुखस्य । प्रतिष्ठां लोकं भूलोकमानिब्रह्माणम् । अन्तवद् वै अपर्यवसितं वै ॥ ५ ॥

|| इति अष्टमः खण्डः ॥

अथ नवमः खण्डः

( उद्गीथनामकभगवानेव सर्वोत्तमः )

निषत्

अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनन्तः ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

शालावत्यः पृच्छति अस्य लोकस्येति । आसमन्तात् काश दीप्यते इत्याकाशो विष्णुः इत्युवाच ह । तस्य महिमानमाह - सर्वाणी- ति ।। इमानि प्रमाणप्रमितानि सर्वाणि ब्रह्मादिभूतानि आकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्ति, तेन प्रविलीयन्त इति यावत् । एभ्यः सर्वभूतेभ्यः परायणं मुख्याश्रयः । सर्वभूतानामित्यनुषङ्गः । स एष आकाशः परोवरीयान् परमवरीयान् । यद्वा,

'परस्मादुत्तमं प्रोक्तं परो इति ततः परम् ।

परोवरं परं तस्मात् प्रोक्तं पारोवरीयकम् ॥'

इत्युत्तराध्याये वक्ष्यमाणदिशा उत्तमोत्तम इत्यर्थः । उद्गीथः उच्चत्वेन गीतत्वाद् उद्गीथः स एषोऽनन्तो देशकालगुणैरपरिच्छिन्नः । तदाह सूत्रे -आकाशस्तल्लिङ्गात्’ (ब्र.सू. १-१-२२) इति ॥ १ ॥

(हरिसर्वोत्तमत्वज्ञानफलम् )

निषत्

परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतमेवं विद्वान् परोवरीयांसमुद्गीथमुपास्ते । तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच यावत्त एनं प्रयाजमुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिंल्लोके जीवनं भविष्यति तथामुष्मिंल्लोक इति स य एतमेवं विद्वानुपास्ते परोवरीय एव हास्यास्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोक इति लोके लोक इति ॥ २ ॥ ९ ॥

छान्दोग्योपनिषत्खण्डार्थः

एतज्ज्ञानिनः फलमाह परोवरीय इति ॥ योऽधिकारी एतं परोवरीयांसमुद्गीथं हरिमेवं ब्रह्मादिगतित्वाद्युक्तप्रकारेण विद्वान् जानन् उपास्ते परोवरीयोsस्य वेदिनो रक्षको भवति । परोवरीयसो ह लोकानुत्तमोत्तमलोकान् विष्णुलोकान् जयति उ प्राप्नोत्येव । तमेतमा - काशनामकमुद्गीथं विष्णुं शुनकपुत्रोऽतिधन्वनामा मुनिः उदरशाण्डिल्याय मुनये उक्त्वा फलमुवाच । तदाह यावत इति । एनमुद्गीथं प्रजायां साधुवर्गे वेदिष्यन्ते ज्ञास्यन्ति, त्रेतायुगे एभ्यो वेदितॄणाम् एषां यावत्तः यावत्कालं यावद्वापरादि तावत्कालमस्मिंल्लोके जीवनं भविष्यती- त्युवाचेत्यर्थः । न केवलमेतावत्, अमुष्मिन् परलोके च जीवनं भविष्यती- त्यनुषङ्गः । द्विरुक्तिर्हर्षातिशयात् विद्यासमाप्तौ वा । एवमुद्गीथोपासकस्य फलमिति जानतोऽप्येवं फलमित्याह स य इति । एवं विद्वान् । उद्गीथोपासकस्यैवमुक्तरूपं फलमिति विद्वान् एतमुद्गीथमुपास्त इत्यर्थः ॥ २ ॥

|| इति नवमः खण्डः ॥

अथ दशमः खण्डः

( उषस्तेर्वृत्तान्तः )

निषत्

मटचीहतेषु कुरुष्वाटक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

सामैकदेशप्रस्तावप्रतिहारोद्गीथनिष्ठां भगवदुपास्तिं वक्तुं तदर्थां काञ्चनाऽख्यायिकामाह - मटचीत्यादिना || उषस्तिर्नामतः । चक्रमयनं यस्यासौ चाक्रायणः । रथचक्राश्रयेण प्रायस्तिष्ठतीति चाक्रायण इत्युक्तः । अन्नपानार्थं तत्र तत्र प्रद्रवन् प्रद्राणक इत्युक्तः । सः मटचीहतेषु स्थूलोपलशब्दिताभिर्मटचीभिर्हतेषु कुरुषु शिलावर्षहतेषु कुरुदेशस्थेषु, आटिक्या आसन्नयौवनया जायया सह इभ्यग्रामे धनिकग्रामे गजाधिपतिग्राम इति वा उवास । स उषस्तिः इभ्यं धनिकं इमाधिपतिं वा कुल्माषानारण्यमाषान् खादन्तं बिभिक्षे याचितवान् ॥ १ ॥

निषत्

तं होवाच नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इत्येतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतं स्यादिति होवाच न स्विदेतेऽप्युच्छिष्टा इति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

तमुषस्तिमुवाच इभ्यः । किमिति ? ये मे भक्षणार्थमुपनिहिता इतोऽन्ये न विद्यन्ते यच्च यस्मात् तस्माद् दातुं न सन्तीत्युवाचेत्यन्वयः । तमिभ्यं उवाच ह किल उषस्तिः । एतेषां मध्ये कांचन मे देहीत्युवाच ह । तानस्मै उषस्तये प्रददाविभ्यः । तान् दत्वाऽनुपानं करपात्रस्थोदकपानं च कुर्वित्यवाच । हन्त हर्षे । इत्युक्तः प्रत्युवाच उपस्तिः । एतदुदकपाने उच्छिष्टां में मया पीतं स्यादतो न पिबेयमिति होवाच । इभ्यो वक्ति | न स्विंदते कुल्माषा उच्छिष्टा इति । स्विदिति काकुः । उच्छिष्टा भवन्ति खल्वित्युवाच इभ्य इत्यर्थः ॥ २ ॥

निषत्

न वा अजीविष्यमिमान् अखादन्निति होवाच कामो म उदपानमिति स ह खादित्वातिशेषान् जायाय आजहार साग्र एव सुभिक्षा बभूव तान् प्रतिगृह्य निदधौ स ह प्रातः संिजहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्रां राजासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

प्राणात्ययसमये उच्छिष्टत्वविचारो ज्ञानिनो न कार्य इति भावेनाऽह- न वा इति ॥ इमान् त्वदुच्छिष्टान् अखादन् नवै नैव जीविष्यम् इति होवाच उषस्तिः । उदपानं तु मे काम: इच्छानुसारि, सर्वत्र वर्षेणोदकसौलभ्यादित्युवाच उषस्तिः । तदाह सूत्रे – 'सर्वान्नानुमतिश्व प्राणात्यये तद्दर्शनात्' (ब्र. सू. ३.४.२८) इति । स होषस्तिः खादित्वाऽतिशेषान् शिष्टान् जायायै आजहार आहृतवान् । सा जायाऽग्र एव प्रागेव सुभिक्षा या या क्षुनिवृत्तिमती बभूव । अतः तान् पत्युर्हस्तात् प्रतिगृह्य निदधौ सङ्ग्रहं चकार । स होषस्तिः संचिहानः शयनादुत्तिष्ठन् उवाच भार्यां प्रतीति शेषः । तदाह । बत खेदे | अन्नस्य मात्रामल्पं वा लभेमहि चेत् तद् भुक्त्वा जीवन्तो धनस्य मात्रां भारं लभेमहि । यद् यस्मादसौ राजा यक्ष्यते यागं करिष्यति । स मा मां सर्वैरार्त्विर्यैः सर्वर्त्विक्कर्मभिर्वृणीतेत्युवाचेत्यन्वयः ।। ३ ।।

निषत्

तं जायोवाच हन्त पत इम एव कुल्माषा इति तान् खादित्वामुं यज्ञं विततमेयाय तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोप विवेश स ह प्रस्तोतारमुवाच प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीत्येवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीत्येवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासाञ्चक्रिरे ॥ ४ ॥ १० ॥

छान्दोग्योपनिषत्खण्डार्थः

तमेवमुक्तवन्तं पतिं प्रति जायोवाच । हन्त हर्षे । हे पते इम व कुल्माषा इति पूर्वेद्युर्निहितान् प्रदइर्योवाचेत्यर्थः । तान् खादित्वा अमुष्य यज्ञं विततं विस्तृतम् एयाय जगाम । तत्र यज्ञे आस्तावे आस्तावाख्ये कर्मणि स्तोष्यमाणान् उद्गातून उपोपविवेश समीपे उपविष्टवान् । उपविष्टः स मुनिः प्रस्तोतारमुवाच । तदाह - हे प्रस्तोतः ! या देवता प्रस्तावं प्रस्तावाक्षरमन्वायत्ताऽधिष्ठायास्ते तां चेद् देवतामविद्वान् प्रस्तोष्यसि ते मूर्धा विपतिष्यतीति प्रस्तोतारमुवाचेत्यर्थः । एवमेवोद्गातार- मुवाचेत्येतद् व्यनक्तिउद्गातरिति ॥ उद्गीथं सामभक्तिम् । एवमेव प्रतिहर्तारमुवाचेत्युक्तं व्यनक्ति - प्रतिहर्तरिति । प्रतिहारं सामभक्ति- रूपाक्षम् । प्रतिहरिष्यसि प्रतिहाराक्षरं वक्ष्यसि । ते ह प्रस्तोत्रादयः समारताः स्वस्वकर्मभ्यो निवृत्तास्तूष्णीमासाञ्चक्रिरे तूष्णीमासन् ।। ४ ।। १० ।।

॥ इति दशमः खण्डः ॥

अथ एकादश: खण्ड:

निषत्

अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैशिषं भगवतो वा अहमवित्त्याऽन्यानवृषि भगवांस्त्वेव मे सर्वैरार्त्विज्यैरिति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

यदर्थमाख्यायिकोक्ता तामुपास्तिमिदानीमाह अथ हैनमिति ।। अथानन्तरमेनमुषस्तिं यजमानो राजोवाच । भगवन्तं पूज्यं त्वामहं विविदिषाणि किन्नामा भवानिति वेदितुमिच्छामीत्युवाचेत्यन्वयः । मुनि- राह - उषस्तिरित्यादि ॥ राजाऽऽह - भगवन्तं त्वामहमेतैः सर्वैरार्त्विज्यैः ऋत्विक्कर्मभिः वरीतुं पर्येषिषम् अन्वेषितवानस्मि । भगवतो गतेरवित्त्या अज्ञानेन अन्यानवृषि वृतवानासम् । इदानीं तु भगवान् स्वोचित- ज्ञानादिमान् भवानेव सर्वैरार्त्विज्यैर्मे वृत इत्युवाच राजेत्यर्थः ।। १ ।।

निषत्

तथेत्यथ तर्ह्येत एव समतिसृष्टाः स्तुवन्तां यावत् तेभ्यो धनं दयास्तावन्मम दद्या इति तथेति ह यजमान उवाच

॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

॥ तथेति ॥ तथाऽस्त्वित्युक्त्वा मुनिः पुनरुवाच । तर्हि एवं हि सति अथ सर्वार्त्विज्यस्य मदीयत्वात् मदतिसृष्टा मदनुज्ञाताः सन्तः एत एव त्वया पूर्वं वृता एव स्तुवन्तां स्तुवन्तु । किन्तु यावदेतेभ्यो धनं दद्याः तावन्मे दद्याः देहीत्युवाच मुनिरित्यर्थः । तथेति ह यजमान उवाच, तावद्धनं दास्यामीत्युवाचेत्यर्थः ॥ २ ॥

निषत्

अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवमनुज्ञाता ऋत्विजो मूर्धपातपरिहाराय प्रस्तावादिदेवताज्ञानाय तं मुनिमुपसृत्य क्रमेण पृष्ट्वा देवतां व्यज्ञासिषुरित्याह अथ हैनं प्रस्तोतेत्यादिना ॥ मा मां भगवान् पूज्यां भवानवोचत् इति प्रश्नेनोपससादेत्यन्वयः ।। ३ ।।

निषत्

प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

इति पृष्टो मुनिरुक्तवानित्याह - प्राण इति होवाचेति ॥ प्राणनामा मुख्यप्राणान्तर्यामी प्रस्ताबदेवतेत्युवाचेत्यर्थः । प्राणस्य प्रस्तावदेवतात्वं जनिरूपप्रस्तावशब्दार्थोक्त्या समर्थयते - सर्वाणीति ॥ भूतानि ।। जीवजातानि प्राणमेवाभिसंविशन्ति सुप्तौ प्रलये च प्रविशन्ति प्राणमभ्युज्जिहते । प्राणान्निःस्सरन्ति उत्पद्यन्ते सृष्टिकाले, सैषा भूतोत्पत्तिलयहेतुभूता प्राणाख्यदेवता प्रस्तावमन्वायत्ता, तां चेदविद्वान् प्रास्तोष्यः प्रस्तावाक्षरमवोचः तर्हि मया तथोक्तस्य मूर्धा ते विपतिष्यतीत्युक्तस्य ते मूर्धा व्यपतिष्यद् इत्युवाच मुनिरित्यर्थः । एवमुपरितनवाक्येऽप्यर्थो ध्येयः ॥ ४ ॥

निषत्

अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वान् उद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेत्यादित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेत्यथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेत्यन्नमिति होवाच ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

आदित्यः आदित्यस्थः आदित्यनामा हरिः । तस्योद्गीथदेवतात्व- मुद्गीथशब्दार्थोक्त्या साधयति सर्वाणीत्यादिना || आदित्यमादित्य- स्थमुच्चै: सन्तं सर्वोत्तमत्वेन स्थितम् अन्नम् अद्यमानवस्तुगतोऽन्ननामा हरिः ॥ ५ ॥

निषत्

सर्वाणि हवा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति तथोक्तस्य मयेति ।। ६ ।। ११ ।।

छान्दोग्योपनिषत्खण्डार्थः

अन्ननाम्नो हरेः प्रतिहारदेवतात्वं भोजनरूपप्रतिहारशब्दार्थ- व्युत्पादनेन समर्थयते भुञ्जानानि जीवन्ति सर्वाणित्यादिना ।। प्रतिहरमाणानि द्विरुक्तिराख्यायिकापूर्वमुक्तविद्यासमाप्त्यर्था ।। ६ ।। ११ ।।

॥ इति एकादश: खण्ड: ।।

अथ द्वादश: खण्ड:

( शौवोद्गीथोपासना )

निषत्

अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्वशनायाम वा इति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

पूर्वत्रोद्गीथोपासकस्य पापाविद्धत्वं मुक्तावानन्दातिशयः बहुपुत्रोप-लक्षितेष्टान्नपानादि च फलान्युक्तानि । तत्रोद्गीथमुपास्य स्वाभीष्टं प्राप्ताः सन्ति किम् ? इत्यतः सन्तीत्याख्यायिकयाऽह - अविद्यान्तरम् । अत उद्गीथोपासनया फलवन्तः सन्ति किमिति पृष्टत्वात् तत्परिहाराय शौवोद्गीथरूपविद्यान्तरमाख्यायिकयोच्यत इत्यर्थः । शुनो-क्तः श्वभिरनुष्ठितः शौव उद्गीथः उच्यत इत्यर्थः । दल्भ्यपुत्रो दाल्भ्यः बकनामा मुनिः मित्रया पुत्रार्थमाहूतो ग्लाववत् तूष्णीं स्थितत्वाद् ग्लावनामा मित्राहूतत्वान्मैत्रेय इत्युक्तः स्वाध्यायमुद्दिश्योद्वव्राज क्वचिज्जगाम । तस्यानुग्रहार्थं वायुः श्वा श्वरूपः सन् श्वेतः श्वरूपैः रुद्रादिभिरितो युक्तः सन् प्रादुर्बभूव । तं श्वरूपं वायुमन्ये श्वरूपा रुद्रादयो देवा उपसमेत्य समीपं प्राप्य ऊचुः । किमिति ? नोऽस्माकं अन्नमुद्दिश्य भगवान् ज्ञानादिसम्पन्नो भवानागायतु अशनायाम वै अशनमिच्छाम वै, इत्यूचुरित्यर्थः ।। १ ।।

निषत्

तान् होवाचेहैव सा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हिञ्चक्रुरो३मदा३मोम्पिबा३मों देवो वरुणः प्रजापतिः सविता३न्नमिहा३हरदन्नपते३न्नमिहा३हराऽहरोमिति ॥ २ ॥ १२ ॥

छान्दोग्योपनिषत्खण्डार्थः

तान् श्वरूपरुद्रादीनुवाच श्वरूपो वायुः । इहैवास्मिन्नेव स्थले श्वः प्रात:काले मा मां समायात समागच्छतेति एतच्छुनोक्तं श्रुत्वा बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार प्रातःकालं प्रतीक्ष्य तस्थावित्यर्थः । ते ह एवमुक्ता अन्ये श्वरूपा देवाः यथैवेदं निदर्शनं बहिष्पमानेन स्तोष्यमाणा ऋत्विजः संरब्धा संरम्भवन्तः अन्योन्यं कच्छग्रहणेन संरब्धाः पिपीलिका पङ्कयाकारेण सर्पन्त्येवमाससूपुः, पूर्वेद्यु- निर्दिष्टस्थले प्रसर्पितवन्तः । ते ह एवमुपसृप्तास्ते श्वानः समुपविश्य हिञ्चक्रुः हिमित्यूचुः । हिङ्कृत्य च ओं हे मुख्यप्राणान्तर्गतभगवन्नन्न-मदाम । ओं भगवन् पिबामोदकम् । देवः गत्यर्थत्वाद् दीव्यतेः यथायोगं सर्वज्ञो हरिः मुख्यवायुर्वरणीयत्वाद् वरुणो हरिः वायुश्च । प्रजानां पतित्वात् प्रजापतिः हरिर्वायुश्च । जगत्प्रसवितृत्वात् सवितेत्युक्तो हरिर्वायुश्चान्नमिहास्मास्वाहरत् आनयतु, अन्नपते ! हरे बायो अन्नमिहाऽहराऽहमिति मन्त्रं जप्तवन्तः । ततश्चाभीष्टं प्राप्तवन्त इत्यपि ध्येयम् ।। २ ।। १२ ।।

॥ इति द्वादशः खण्डः ॥

अथ त्रयोदशः खण्डः

( स्तोभाक्षरेषु देवतोपासना )

निषत्

अयं वाव लोको हावुकारो वायुर्हायिकारश्चन्द्रमा अथकार आत्मेहकारोऽग्निरीकार आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोयिकारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नं याया वाग्विराडनिरुक्तस्त्रयोदशः स्तोभः सञ्चरो हुप्कारो दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेवं साम्नामुपनिषदं वेदोपनिषदं वेद इति ॥ १ ॥ १३ ॥ ॥ इति श्रीमच्छान्दोग्योपनिषदि प्रथमोऽध्यायः ॥

छान्दोग्योपनिषत्खण्डार्थः

सामैकदेशोपास्तेः प्रकृतत्वात् तदेकदेशभूतहाव्वित्यादित्रयोदश- स्तोभाक्षरनिष्ठोपास्तिमाह अयमित्यादिना । अयं लोकः पृथिवी-लोकः तन्मानिनी धरादेवी, हूयते अत्राग्निहोत्रादिकमिति हा इत्याक्रियत इति हावुकार इत्युपासीतेति सर्वत्र ध्येयम् । हावुकारस्तोभो रथन्तरसाम्नि प्रसिद्धः । एवमन्येऽपि हायिकारादयो वामदेवादिसामसु प्रसिद्धाः । वायुराश्चर्यवदायातीति वा हेति सुखमस्मादायातीति वा हायिकारो वायुः । चन्द्रमाः सूर्यानन्तरप्रकाश इत्यथकारः । आत्मा व्याप्त नारायणः सर्वसामीप्यादिहकार उक्तः । अग्निः सदेन्धनादीकारः । सूर्यः उष्टितः आतपदाहादादित्य ऊकारः । नितरामाह्वयन्त्येनमिति निहव इन्द्रः, एतीत्येकारो विश्वेदेवाः सर्वे सुराः औहोयिकार उक्ताः । कथम् ? उच्चत्वादुर्विष्णुः तस्य सप्तमी औ इति तस्मिन् विष्णौ हूयन्ते स्थाप्यन्ते मुक्ताविति व्युत्पत्त्या औहोयिनः । तथाऽऽक्रियन्त इत्यौहोविकार इति ध्येयम् । प्रजापतिर्ब्रह्मा निश्चयज्ञानवत्त्वाद्धिङ्कारः । प्राणः शरीरस्थो मुख्यप्राणः स्वे विष्णौ रमयत्येनं जीवमिति स्वरः | अन्नं, अत्रा भक्षण वायुना नीयत इत्यन्नमित्युक्तान्नदेवता सरस्वती याया नित्यं गति- मत्त्व हेतुना ययिरित्युक्तं वायुं गतेति हेतोर्याया । वाक् सर्ववागात्मिका श्रीः विशेषेण राजनाद् विराट् स्तोभदेवता । अनिरुक्तः साकल्येन निर्वचनायोग्यः पः सम्यक् चरतीति सञ्चरो हरिः आहूत एव पातीति हुबित्याक्रियत इति हुप्कारः । त्रयोदशस्तोभदेवता इत्युपासीतेति सर्वत्र ध्येयम् । एतदुपास्तिफलमाह - दुग्ध इति ॥ योऽधिकारी साम्नां सामभक्तिभूतस्तोभाक्षराणामेतामुक्तविधामुपनिषदं रहस्यप्रतिपाद्यं वेद, अस्मै वेदिने यो बाचो दोहस्तं वाग्दोहं वेदादिवाग्लभ्यं फलं दुग्धे क्षरति उपासनमिति योज्यम् । यद्वा, यो वाचो दोहस्तं दोहं वाग् वाचिस्थो वाङ्नामा हरिः दुग्धे इति । द्विरुक्तिः समाप्त्यर्था ।। १३ ।।

॥ इति श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते प्रथमोऽध्यायः समाप्तः ।। १ ।।