अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति ..
उपनिषत् (खण्डः-१५)
विश्वाश्रयस्य हरेः शरीरम्
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलं स एष कोशो वसुधानस्तस्मिन् विश्वमिदं श्रितम् ॥ १ ॥
भाष्यम्
'क इत्यानन्द उद्दिष्ट उश इच्छा प्रकीर्तिता । आनन्देच्छास्वरूपोऽसौ कोशो विष्णुः प्रकीर्तितः ॥ तस्योदरेऽन्तरिक्षं च पृथिवी पादबुध्नयोः (३) । शिरोविवरगा द्यौश्च दिशो बाहुषु संस्थिताः ॥ अजरोऽयं महाविष्णुर्वसवो देवतागणाः ।
तेषां निधानं भगवांस्तस्मिन् सर्वमिदं श्रितम् ॥
पदार्थकौमुदी
"एभ्यो लोकेभ्यो ज्यायान् ' ' इति भगवान् महानित्युक्तम् । तत्राऽ- काशवदशरीरो महानिति प्रतीतिनिरासाय विग्रहेणैव महानिति दर्शयन् वायुजनकबाहुमत्त्वादिना भगवदुपास्तीराह- अन्तरिक्षोदर इत्यादिना ।। अविद्यमानमेव भावनार्थमाकारवत्तयोच्यत इति प्रतीतिवारणाय खण्डं प्रमाणेनैव व्याचक्षाणस्तावत् कोश इवानेकधर्मसादृश्यात् कोश इत्यप- व्याख्यानमिति भावेन कोशशब्दार्थमाह क इत्यादिना ॥ " अन्त- रिक्षोदरः" इत्यादिकमन्तरिक्षादेरुदराद्यभेदप्रतीतिवारणाय व्याचष्टे- तस्योदर इत्यादिना ॥ तथाचान्तरिक्षमुदरे यस्य सोऽन्तरिक्षोदरः । भूमिर्बुध्नयोर्यस्य स भूमिबुध्न इति व्यधिकरणो बहुव्रीहिरित्युक्तं भवति । "उत्तरं बिलम्" इत्यस्य तात्पर्यम् - शिरोविवरगेति ॥ अनेन "सप्तसु प्रथमा” इति सूत्राद् बिलमिति सप्तम्यर्थ इत्युक्तं भवति । स्रक्तयः कोणा इत्यप्रामाणिकमित्याशयेन " दिशो ह्यस्य स्रक्तयः " इत्येतद्व्याचष्टे दिश इति ।। “बाहुषु’” इत्यनेन " स्रक्तयः” इति प्रथमा सप्तम्यर्थ इत्युक्तं भवति । " न जीर्यति" इत्येतत्तात्पर्यमाह - अजरोऽयमिति || वसु प्राणिकर्मफलाख्यं धीयतेऽस्मिन्निति वसुधान इत्यप्रामाणिक - व्याख्याननिरासाय वसुधान इत्येतद्व्याचष्टे – वसव इति ।। " वसवः " इत्यनूद्य ‘“देवतागणाः” इति व्याख्यानम् । “ तस्मिन् सर्वमिदं श्रितम्'' इत्यस्य सर्वं समस्तं प्राणिकर्मफलं सह तत्साधनैः श्रितमिति व्याख्याने सर्वशब्दार्थसङ्कोच एव दोष इत्याशयेन तदनुवदति तस्मिन्निति ।।