ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धे
- ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धे ।
- छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः ॥ १ ॥
- यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ।
- अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ॥ २ ॥
- आत्मानं रथिनं विद्धि शरीरं रथमेव च ।
- बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥
- इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
- आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥
- यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।
- तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५ ॥
- यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।
- तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥
- यस्तवविज्ञानवान् भवत्यमनस्कः सदाशुचिः ।
- न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७ ॥
- यस्तु विज्ञानवान् भवति समनस्कः सदाशुचिः ।
- स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८ ॥
- विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः ।
- सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम् ॥ ९ ॥
- इन्द्रियेभ्यः परा ह्यर्था अथेभ्यश्च परं मनः ।
- मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥ १० ॥
- महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
- पुरुषान्न परः किञ्चित् सा काष्ठा सा परा गतिः ॥ ११ ॥
- एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
- दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥
- यच्छेद् वाङ्मनसि प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि ।
- ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि ॥ १३ ॥
- उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत ।
- क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत् कवयो वदन्ति ॥ १४ ॥
- अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ।
- अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते ॥ १५ ॥
- नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।
- उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥
- य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।
- प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पते इति ॥ १७ ॥ ॥
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धे
प्रथमाध्याये तृतीयावल्ली
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः ॥ १ ॥
आत्मान्तरात्मेति विभुरेक एव द्विधा स्थितः ।
स विष्णुः परमे वायौ परेभ्योऽप्यृद्धरूपके ॥
शुभान् पिबति भोगान् स च्छायेव विदुषां प्रभुः ।
आतपः पापिनां नित्यं ... ... ।
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ।
अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ॥ २ ॥
.... ... मर्यादा विष्णुयाजिनाम् ॥
संसारस्य च पारस्थस्स विष्णुर्द्विस्वरूपकः ॥
आत्मानं रथिनं विद्धि शरीरं रथमेव च ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५ ॥
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥
यस्तवविज्ञानवान् भवत्यमनस्कः सदाशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७ ॥
यस्तु विज्ञानवान् भवति समनस्कः सदाशुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८ ॥
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः ।
सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम् ॥ ९ ॥
इन्द्रियेभ्यः परा ह्यर्था अथेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥ १० ॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषान्न परः किञ्चित् सा काष्ठा सा परा गतिः ॥ ११ ॥
देवेभ्य इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः ।
सोमवित्तपसूर्याप्पा अश्व्ग्नीन्द्रेन्द्रसूनवः ॥
यमो दक्षश्चेन्द्रियेशास्सुपर्णी वारुणी तथा ।
उमेति चार्थमानिन्यस्तिस्रो द्विर्द्व्येकदेवताः ॥
मनोभिमानिनो रुद्रवीन्द्रशेषास्त्रयोऽपि तु ।
ते श्रेष्ठा अर्थमानिभ्यस्तेभ्यो बुद्धिः सरस्वती ॥
तस्या ब्रह्मा महानात्मा ततोऽव्यक्ताभिधा रमा ।
तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः ॥
कश्चित् कुतश्चिच्छ्रेष्ठस्तु नास्तीति किमु सा कथा॥ १०-१२ ॥
एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥
यच्छेद् वाङ्मनसि प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि ॥ १३ ॥
तस्माद्वागात्मिका देवीरुमाद्यास्तु शिवादिषु ।
शिवादीन् ब्रह्मवाय्वोस्तु नियच्छेन्महदात्मनोः ॥
तौ रमायां परानन्दे तां विष्णौ परमात्मनि ।
तद्वशत्वेन तद्ध्यानं नियमो नाम नापरः ॥
कुतस्तु मानुषो देवान्नियच्छेद्विनियामकान् ॥ इति च ॥
स्वभार्यायाः परत्वं सिद्धमिति महतः परमित्येवोक्तम् ॥ १३ ॥
उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत् कवयो वदन्ति ॥ १४ ॥
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते ॥ १५ ॥
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।
प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पते इति ॥ १७ ॥ ॥
इति प्रथमाध्याये तृतीयावल्ली ॥
इति प्रथमाध्यायः ॥