न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम्

श्रवणाद्युपोद्बलितमनसैव भगवतो ज्ञानम्

उपनिषत्

न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् ।

हृदा मनीषा मनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति ॥ २. ३.९।।

भाष्यम्

प्रादुर्भावानृते विष्णुमिन्द्रियैर्नतु पश्यति ।

प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति ।

तदैव मुच्यते योगी न 'दुष्टैरिन्द्रियैः कचित् ॥

इति च ।। २.३.९ ।।

श्रीव्यासतीर्थ:

व्या- तं ज्ञात्वा मुच्यत इत्युक्तं मोक्षसाधनं भगवज्ज्ञानं न चक्षुरादिनाऽनायाससाध्यम् । किन्तु श्रवणाद्युपोद्बलितमनसैवेत्याह- न सन्दृश इति ॥ सन्दृशे सम्यज्ज्ञानायास्य रूपं न तिष्ठति । तदेव विशदयति- न चक्षुषेति ॥ अन्यैरपीन्द्रियैरेनं न गोचरयतीति शेषः । चक्षुराद्यगोचरश्चेत्कस्य गोचर इत्यत आह- हृदेति || हृदा भक्तियुक्तेन मनसा । मनीषा मनीषया । ज्ञानरूपो वा भगवानभिकॢप्तो विषयीकृतो भवतीत्यर्थः । चक्षुराद्यगोचरं भगवद्रूपमित्ययुक्तम् [ मत्स्यादेश्चक्षुरादिगोचरत्वादित्यतस्तव्याचष्टे- प्रादुर्भावानिति ।। ननु माभून्मूलरूपज्ञानम् । चक्षुरादिजन्यावतारज्ञानेन मुक्तिर्भविष्यति । तथाच श्रवणादिवैयर्थ्यमित्यत आह- प्रादुर्भावानपीति ॥ इन्द्रियैर्दृष्ट्वेति शेषः । हृदा मनीषा मनसा हरिं पश्यतीत्युक्तम् ।। २.३.९ ।।

वामनपण्डिताचार्य:

अलिङ्गत्वादननुमेयश्चेत् प्रत्यक्षगम्यः स्यादित्यत आह- न सन्दृश इति ।। अस्य रूपं सम्यग् दृष्टिविषयत्वेन न तिष्ठति । तस्मात् तं न कश्चन पश्यति । तर्ह्यज्ञेय एवास्त्वित्यत आह- हृदेति ॥ प्राकृतेन्द्रियैः अदृश्योऽपि हृदा सात्त्विकबुद्ध्या मनीषया जिज्ञासया मनसा मननेन च सम्यग् दृष्टिविषयत्वेन अभिक्लृप्तः तिष्ठति । एवं च ज्ञानदृष्ट्या तद्दर्शनादमृता भवन्ति । अत्र पुनः ‘“प्रादुर्भावेषु" इत्यादिना महावराहवचनेन किञ्चिद् दर्शयति । प्रादुर्भावेषु दुष्टेन्द्रियैरपि कथञ्चिद् विष्णुं पश्यन्ति । नच तावता मुक्तिः स्यात् । दृष्टेरपि सदोषत्वादिति भावः । निर्दोषदृष्ट्यर्थं "मनीषा मनसा’” इत्यत्र ध्यानयोगोऽप्यभिप्रेतः ।। २.३.९ ।।

श्रीवादिराजतीर्थ:

वादि- ''न सन्दृशे तिष्ठति" इत्यत्र सन्दृशे घटादिवदनायासेनैव सम्यग् ज्ञानाय । मनीषा मनसा मनीषाख्यमननसहितमनसा । मननायेच्छा मनीषेत्यर्थः । मत्स्यादिरूपाणां सर्वैर्दृश्यमानत्वान्न चक्षुषा पश्यतीति कथमिति चोद्यं बिम्बरूपदर्शनमेव दर्शनं मोक्षसाधनम्, तच्च चक्षुषा न भवतीति श्रुतेरभिसन्धिमुद्घाटयन् मत्स्यादिषु यद्दर्शनं तदपि भक्तिपूर्वकं दर्शनं चेत् न चक्षुर्मात्रेण भवति, इतरत्र दर्शनं मोक्षासाधनत्वात् न श्रुत्यभिप्रेतमिति भावेनाह- प्रादुर्भावेष्विति ॥२.३.९ ।।

श्रीवेदेशतीर्थ:

न सन्दृशे तिष्ठति रूपमस्य" इति भगवद्रूपस्य इन्द्रिया - गोचरत्वमुच्यते । तदयुक्तम् । मत्स्यादेश्चक्षुरादिगोचरत्वादित्यतस्तदभिप्रायं प्रमाणेनाह- प्रादुर्भावानिति ॥ तर्हि चक्षुरादिजन्यमत्स्याद्यवतारज्ञानेनैव मोक्षोपपत्तौ हृदेत्युक्तभक्त्यादिवैयर्थ्यं स्यात् । नच नावतारज्ञानं मोक्षसाधनं किन्तु स्वहृदिस्थस्य वा, व्याप्तस्य वा भगवतो ज्ञानमेवेति युक्तम् | ‘दृष्ट्चैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा ” (बृ.भा. ४. १ ) इत्युक्तेरवतारज्ञानेनापि केषाञ्चिन्मोक्षसद्भावादित्यत आह- प्रादुर्भावानपीति ॥ योगीत्यधिकारि- विशेषपरम् । ज्ञानदृष्ट्या हृद्युपासनेनेत्यर्थः । हृद्युपासाजन्यापरोक्षज्ञानेनेति वार्थः । यदा पश्यति विषयीकरोतीति व्याख्येयम् । उक्तञ्च ‘‘येषां बहिरुपासनेन मोक्षः तेषामपि हृद्युपासनं किञ्चित्कार्यमेव'' (बृ.भा.४.१) इति । अनेन ‘“हृदा मनीषा" इत्यादेस्तात्पर्यमुक्तम् । यथा चैतत्तथा वक्ष्यते । एवकारव्यावर्त्यमाह- नेति ॥ इन्द्रियैर्दृष्टैः प्रादुर्भावैः कापि न मुच्यत इत्यर्थः । दृष्टेरिति पाठे इन्द्रियैर्या दृष्टिर्जायते तस्याः सकाशान्न मुच्यत इत्यर्थः ।।२.३.९।।

श्रीवेदेशतीर्थखण्डार्थ:

तं ज्ञात्वेत्युक्तभगवज्ज्ञानं न चक्षुरादिनानायासेन भवति । किन्तु श्रवणाद्युपोद्बलितमनसैवेत्याह- नेति ॥ अस्य भगवतो रूपं मत्स्याद्यव- तारातिरिक्तमन्तर्याम्यादिरूपं सन्दृशे सम्यग्दर्शनाय न तिष्ठति । अनायासेन दर्शनगोचरो न भवतीत्यर्थः । कुतः कोऽपि एनं भगवन्तं चक्षुषा न पश्यति । उपलक्षणमेतत् । कथं तर्हि तज्ज्ञानमित्यत आह- हृदेति ॥ हृदा स्नेहेन स्नेहयुक्तेन मनीषा मनीषया श्रवणादिजनितज्ञानेन तत्सहकृतेन मनसा अभिक्लृप्तो विषयीकृतो ध्यातः सन्दृशे तिष्ठतीत्यर्थः । एवं ज्ञानफलमाह- य एनमिति ॥ नचावतारोपासकानां भक्त्यादिवैयर्थ्यम् । यतोऽस्य रूपं रामकृष्णाद्यवताररूपं सन्दृशे न तिष्ठति । अनायासेन मोक्षहेतुसाक्षात्कार-विषयो न भवति । कुतः कोऽपि एनं मोक्षार्थं चक्षुषा न पश्यति । किन्तु हृदा मनीषा मनसाभिक्लृप्तः सन्दृशे तिष्ठतीत्यपि व्याख्येयम् ।।२.३.९।।

ततः परमेश्वररूपाणामवतारगतानां चक्षुर्वेद्यत्वात्न चक्षुषा पश्यति " इति कथमित्यतस्तत्प्रादुर्भावेतररूपविषयमित्याह- प्रादुर्भावमिति ॥ तर्हि येषां चक्षुषा प्रादुर्भावदर्शनं तेषां किं श्रवणादिकं नापेक्षितमिति नेत्याह- प्रादुर्भावानपीति ।। इन्द्रियैः चक्षुरादिभिः परमेश्वरविषये या दृष्टिर्जायते तस्या दृष्टेः प्रभावात् मोक्षो न भवतीत्यर्थः ।। २.३.९ ।।

श्रीवरदतीर्थखण्डार्थ:

वरद. खं- अलिङ्गो अनुमापकधर्मरहितः तस्य ज्ञानं केनेन्द्रियेण भवतीत्यत आह- न सन्दृश इति ॥ तस्य विष्णो रूपं सन्दृशे सम्यग्दर्शने सम्यग्दर्शनविषयतया न तिष्ठति तत्कथमित्यत आह- न चक्षुषेति ॥ कथं तर्हि ज्ञायत इत्यत्राह- हृदेति । हृदा स्नेहयुक्तया मनीषा मनीषया प्रज्ञया मनसा मनइन्द्रियेण अभिक्लृप्तः ध्यातः सन्दृश्यत इत्यर्थः । ततश्च किमित्यत आह- य एनमिति । अनेन भक्तिरेव मुख्यसाधनमित्युक्तं भवति ।।२.३.९ ॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

तं ज्ञात्वा मुच्यते इत्युक्तं मुक्तिहेतुज्ञानं न चक्षुरादिनानायास - साध्यम्, किन्तु भक्तिश्रवणाद्युपोद्बलितेन मनसैवेत्याह- न सन्दृश इति ॥ सन्दृशे सम्यज्ज्ञानाय अस्य नानावतारनिदानभूतस्य मूलरूपस्य प्रकृतभगवतो रूपं न तिष्ठति । अव्यक्तैकस्वभावत्वात्, अचिन्त्यमहिमत्वाच्च । वस्तुस्वभावो दुर्दर्श इत्युक्तत्वात् करणान्यपि न तत्र शक्तिमन्तीत्याह - न चक्षुषेति ॥ उपलक्षणम् । चक्षुरादिकरणैः कश्चिदप्येनं न पश्यति । एतेन मत्स्यकूर्मादेश्चक्षुषा दर्शनान्न चक्षुषा पश्यतीति कथमिति परास्तम् । मूलरूपस्यैवम्भावोक्तेः । तर्हि केनेत्यत आह- हृदेति ॥ हृच्छब्दोऽत्र श्रवणमननध्यानभत्त्यादिसाधनपरः । तद्युक्तेन मनसा मनीषा ज्ञानरूपी भगवानभिलृप्तो विषयीकृतो भवति । मुच्यते मुक्तो भवतीति प्रागेकवचनोत्त्या ज्ञानिष्वेक एव मुच्यत इति प्राप्तशङ्कां वारयितुमाह- य एनमिति । एनं पुरुषम् । तथा च सूत्रंअनियमः सर्वेषाम्” (ब्र.सू.३-३-३५) इति ।। २.३.९॥