नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा

सद्गुरूपदेशेनैव भगवत्प्राप्तिः

उपनिषत्

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।

अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ।।२.३.१२।।

भाष्यम्

अधिकस्सतोऽयं भगवान् सर्वस्मादपि केशवः ।

अस्तीति नामकस्तस्माज्ज्ञातव्यस्त तथैव च ॥

अनाधिक्यं जानतां तु कथं स उपलभ्यते ॥ २.३.१२ ।।

श्रीव्यासतीर्थ:

व्या- न चक्षुषा पश्यतीत्युपलक्षणत्वेनोक्तं विशदयति- नैव वाचेति ॥ तर्हि केनोपलभ्यते तदित्यतो व्यतिरेकेणाह - अस्तीति ॥ अस्तीति ब्रुवतो गुरोरन्यत्र तेन विनेत्यर्थः ।।२.३.१२ ।।

वामनपण्डिताचार्य:

एवं चेत् सर्वोत्तमत्वेन ध्यानयोगमन्तरेणापि वागादिभिर्भगवन्तं प्राप्य तत् फलद्वयं लभेतेत्यत आह- नैव वाचेति ॥ वागादिप्रयत्नेनापि वस्त्वन्तरवत् प्राप्तुं शक्यो न भवति । किन्तु तस्य सर्वाधिक्यज्ञानेन तत्प्रसादत एव तत्प्राप्तिः शक्येत्यभिप्रायः । अस्तीत्यनेन न विष्णोः सत्तामात्रज्ञानं विवक्षितम् । किन्तु सर्वाधिक्यज्ञानमेव । " अधिकः सतः" इति महावराह - वचनेन तथा व्याख्यानात् । अधिकः सत इति ज्ञेयत्वादस्तीतिनामकः । इकारस्य ज्ञानवाचकत्वात् ।। २.३.१२ ।।

श्रीवादिराजतीर्थ:

वादि-अधिकः सतोऽयम्" इति वदता सतः प्रपञ्चात् अः अधिको यः परमात्मा सोऽयम् ‘“अस्तिइत्यर्थः सूचितः । अग्न्याहितादिवत् विशेषणस्योपरि निपातः । निरुक्तत्वात् सदिति प्रातिपादिकस्येकारागमे सत्यस्तीतीकारान्तं सुबन्तं पदमिति ज्ञेयम् ॥ २.३.१२।।

श्रीवेदेशतीर्थ:

अस्तित्वस्य सर्वसाधारणत्वादस्तीत्येवोपलब्धव्य इति कथमुच्यते । नच देहाद्व्यतिरिक्त आत्मास्ति नवेति पृष्टत्वेन तन्निरासायात्मा देहाद्यति- रिक्तोऽस्तीत्येबोपलब्धव्य इत्युच्यत इति वाच्यम् । तृतीयप्रश्नस्योक्तरीत्या भगवन्मात्रपरत्वेन मरणानन्तरं जीवोऽस्ति नवेत्येवंपरत्वाभावात् । देहाद्यतिरिक्त इत्यश्रुतकल्पनापाताच्चेति भावेन प्रमाणेनैव व्याचष्टे - अधिक इति ॥ अकार आधिक्यवाची । अस्तीत्येतत्सत्तायुक्तवस्तुवाचीति भावः । चशब्दो यस्मादित्यर्थे । यस्मादेवमस्तीतिनामकस्तस्मात् । ननु किमर्थमस्तीत्येवोप- लब्धव्य इत्यतः एवं भगवत: सर्वाधिक्यज्ञानवत एव भगवद्याथात्म्यज्ञान- सम्भवात् । अन्यस्य तदभावादित्याह- अनाधिक्यमिति ॥ जानतां सकाशात् । तेन ‘‘अस्तीति ब्रुवतोऽन्यत्र '' इत्येतद्व्याख्यातम् ।।२.३.१२।।

श्रीवेदेशतीर्थखण्डार्थ:

 न चक्षुषा पश्यति" इत्युक्तमुपलक्षणमिति भावेनाह - नैवेति ॥ प्राप्तुं ज्ञातुम् । तर्हि कथं तज्ज्ञानं भवतीत्यतः सद्गुरूपदेशेनैवेति भावेन व्यतिरेकमाह- अस्तीति । भगवानस्ति सतोऽधिकत्वादस्तिनामक इति

 

ब्रुवतो गुरोरन्यत्रान्येषां भगवदनाधिक्यं जानतां सकाशात् कथं तद्ब्रह्मोपलभ्यते । न कथमपि । भगवदाधिक्यं जानत एव गुरोरुपदेशेन ब्रह्मज्ञानम् । न तदनाधिक्यं जानत इति भावः । यद्वा वागादिना कुतो न प्राप्तुं शक्यो भगवानित्यतो भगवदनाधिक्यज्ञानित्वादिति भावेनाह- अस्तीति ॥ अन्यत्रेत्येतत् नञर्थकं व्यत्यासेन योज्यम् । तेन नास्तीति ब्रुवत इति लभ्यते । भगवान् सतः सर्वस्मात् अधिको न भवतीति ज्ञानपुरस्सरं ब्रुवतः । कर्तरि षष्ठी । कथं तदुपलभ्यते न कथमपीत्यर्थः ।।२.३.१२।।

श्रीवरदतीर्थ:

वरद- "अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते " इत्यत्र कैरपि धर्मैर्विना अस्तित्वमात्रं यो ब्रह्मण उपदिशति तस्मादेव ब्रह्म ज्ञातुं शक्यते नान्यस्मात्सगुणब्रह्मोपदेष्टुरित्यन्यथाप्रतीतिनिरासाय तद्व्याचष्टे - अधिक इति ॥ अत्राकाराधिक्यवाची सकारः सत्तायुक्तवस्तुवाची अतोऽस्तीत्युक्ते स्वतोऽधिक इति सिद्ध्यति । न केवलमस्तीति ज्ञानमात्रेणालं किन्तु चेतनाचेतनात्मक- जगत्सष्टृत्वेन च ज्ञातव्य इत्युच्यते ॥२.३.१२।।

श्रीवरदतीर्थखण्डार्थ:

न चक्षुषा पश्यति कश्विदेनम्" इत्युक्तम् । तदुपलक्षणम् । अन्येन्द्रियैरपि तन्न पश्यतीत्याह - नैवेति ॥ कथं तर्हि तस्य ज्ञानं भवतीत्यत आह- अस्तीति ॥ तद्ब्रह्म अस्ति सर्वस्मादपि सतः उत्तम इति यो गुरुरूपदिशति तस्य सकाशादेवोपलभ्यते । नतु तस्मात्पुरुषादन्यत्रान्यतो ज्ञातुं शक्यत इति ॥२.३.१२॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

न चक्षुषा पश्यतीत्युपलक्षणत्वेनोक्तं विशदयति- नैव वाचेति ॥ प्राप्तुं ज्ञातुं न शक्यः । पुरुष इत्यनुकर्षः । केन तर्हि ज्ञेय इत्यतो हृदेत्यादिना श्रवणादिकं परमसाधनमुक्तम्, तस्य गुरुप्रसादरूपेतिकर्तव्यतां व्यतिरेकमुखेनाह- अस्तीति ।। अपराधीनतया सर्वोत्तमत्वेन अस्ति प्रकृतपुरुषनामा भगवानिति ब्रुवतः उपदिशतो गुरोः अन्यत्र, तथोपदेष्ट्रगुरुं विनेति यावत्, तद् भगवतो रूपं कथमुपलभ्यते ? न कथमपि । गुरुणा प्रीतिपूर्वमुपदेशे कृते श्रवणमननादि –

स्वप्रयत्नेन गुरुप्रदानसहितेनोपलभ्यते भगवानिति । तदाह सूत्रकारः ‘“प्रदानवदेव हि तदुक्तम्’”(ब्र.सू. ३-३-४४ ) इति ।।२.३.१२ ।।