एतत् श्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेनमाप्य
भेदबोधकगुरूपदेशस्यैव तत्त्वज्ञानप्रापकत्वम्
उपनिषत्
एतत् श्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेनमाप्य ।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ १.२.१३ ॥
भाष्यम्
प्रवृह्य जीवात् पृथक्कृत्य ।
'मुक्तजीवे स्थितं विष्णुं विदित्वा जीवतः पृथक् ।
मोदते मोदनीयं तं प्राप्य मुक्तस्सदैव च
" इति महावाराहे ॥ १.२.१३
श्रीव्यासतीर्थ:
ज्ञानञ्च केन भवतीति जिज्ञासायामाह - एतदिति । ब्रह्म लब्ध्वा वर्तमानं नचिकेतसं प्रति सद्म वैकुण्ठद्वारं विवृतं मन्ये ।।१.२.१३॥
व्या. भा- प्रवृह्य प्रपूर्येत्यन्यथाप्रतीतिं निवारयन्व्याचष्टे - प्रवृह्येति ॥ ‘“गह्वरेष्ठम्’” इत्यादेरुक्तोऽर्थः कुत इत्यतस्तं समर्थयन् जीवाद्भेदेनेश्वरज्ञानी मोदनीयं लब्ध्वा मोदते इत्युक्तमोदनीयस्वरूपं च निरूपयन् प्रमाणान्तरं पठति - मुक्तेति ॥ १.२.१३ ।।
वामनपण्डिताचार्य:
नन्वप्राकृतमपि हर्षं स जहातीत्याशङ्कयाऽह - एतच्छ्रुत्वेति ॥ स मर्त्यः संसारगः एतत् श्रुत्वा सम्यक् परिगृह्य एतं सूक्ष्मरूपं सर्वधारकं विष्णुं जीवात् पृथक्कृत्य ज्ञात्वा तमेव भगवन्तं मोदनीयं सम्प्राप्य नित्यशो निरन्तरं मोदते च । “बृहत् पृथग्भावे” । अत्र "मुक्तजीवे" इत्यादिमहावराहवचनं चाह । तस्मादुरुगायेऽधिकभक्तं नचिकेतसं त्वां प्रति वैकुण्ठादिकं तत्सद्म विवृतद्वारं मन्ये ।। १.२.१३ ।।
श्रीवेदेशतीर्थ:
प्रवृह्य शरीरादेः पृथकृत्येति व्याख्याननिरासाय तत्पदमनूद्य व्याचष्टे - प्रवृह्येति । पृथकृत्य पृथज्ज्ञात्वेत्यर्थः । शरीरादेः पृथक्करणञ्च किं जीवस्य, भगवतो वा । नाद्यः । एनमोप्य स मोदत इति मुक्तप्राप्यत्वव्यप- देशायोगात् । न द्वितीयः । भगवतः संसारिशरीराद्यभेदस्य केनापि वादिनानङ्गीकृतत्वेन तन्निषेधायोगादिति भावः । ननु नात्र मुक्तज्ञापकमस्ति । येनायं मुक्तप्राप्यत्वव्यपदेशः स्यादित्यतो गह्वरेष्ठं प्रवृह्येति पदद्वयस्योक्तार्थत्वे एनमाप्य स मोदते मोदनीयं लब्ध्वेत्यस्य मुक्तपरत्वे च प्रमाणमाह- मुक्तेति किञ्च नेदं प्रकरणं जीवपरम् । तथासति “सर्वे वेदा यत्पदमामनन्ति” इति सर्ववेदप्रतिपाद्यत्वोक्त्ययोगात् । तस्य " तत्तु समन्वयात् '' ( ब्र. सू. १.१.४) इति सूत्रकृता ब्रह्मण्येवोक्तत्वात् । नच जीवे समन्वयोऽभिधीयते । नचात्र जीवेशाभेदो विवक्षित इति सर्वस्याप्युपपत्तिरिति वाच्यम् । “अन्यत्र धर्मादन्यत्राधर्मात्” इति धर्माधर्मकार्यकारणभूतभविष्यद्वर्तमानप्रपञ्चभिन्न- त्वस्यैवोक्तत्वात् । नचात्र जीवाद्भेदो नोक्त इति वाच्यम् । धर्माधर्मपदाभ्यामेव पुण्यपापात्मनां जीवानां ग्रहणात् । १.२.१३ ।।
श्रीवेदेशतीर्थखण्डार्थ:
ननु हर्षशोकौ जहातीति सुखप्रहाणिरुच्यते । तदयुक्तम् । तुल्यायव्ययफलत्वेनापुरुषार्थत्वप्रसङ्गादित्याशङ्कां परिहरन् मत्वेत्युक्तमनन- साधनञ्च दर्शयन् भगवतो जीवाद्भेदेन ज्ञानमपि मोक्षसाधनमित्याह- एतच्छ्रुत्वेति ॥ यो मर्त्यो मरणशीलोऽधिकारी । न श्रवणादिविषये प्रमादितव्यमिति भावेनैतदुक्तम् । स एतत् मुक्तिनियामकभगवत्स्वरूपं श्रुत्वा कुशलानुशिष्टाचार्येभ्यः सम्परिगृह्य सम्यगवधार्य सम्यङ्मत्त्वेति यावत् । प्रवृह्य जीवात् पृथक्कृत्य पृथक्त्वेन निश्चित्य । निदिध्यासनापरोक्षज्ञानद्वारा मुक्तः सन् धर्म्यं धारकत्वाद्धर्मो धर्म एव धर्म्यः तमणुं परमसूक्ष्ममेनं भगवन्तमाप्य मोदते इत्यर्थः । वैषयिकहर्षप्रहाणिरेव प्राग्विवक्षितेति भावः । एतादृशां भगवान् त्वया पृष्टोऽतस्तवापि मोक्षो निश्चित एवेत्याह-मोदनीयमिति ॥ मोदनीयं सन्तोषणीयं भगवन्तं लब्ध्वा ज्ञात्वा स्थितं नचिकेतसं प्रति । सद्म वैकुण्ठादिस्थितब्रह्मसदनं विवृतमपावृतं हि निश्चितमिति मन्ये ॥१.२.१३॥
श्रीवरदतीर्थ:
वरद - " प्रवृह्य धर्ममणुमेनमाप्य" इत्यत्र प्रवृह्यपदस्यार्थमाह- प्रवृह्येति । अस्मिन्नेव मन्त्रार्थे प्रमाणान्तरसंवादमाह - मुक्त इति ॥ ओमित्येत- दुपदेशानन्तरमुपदिष्टवस्तुनः प्रशंसा क्रियते ॥ १.२.१३ ।।
श्रीवरदतीर्थखण्डार्थ:
“विवृतं सद्म नचिकेतसं मन्ये" इति नचिकेतसं त्वां प्रति सद्म ब्रह्मसदनं विवृतं विस्तृतं मन्य इत्यर्थः ।। १.२.१३।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
एतज्ज्ञानं केन भवतीत्यतो महतामुपदेशेनेत्याह - एतदिति ॥ यो मर्त्यः एतत् ब्रह्म महद्भयः श्रुत्वा धर्म्यं जगद्धारकम् । अणुं सूक्ष्मं भगवन्तं प्रवृह्य जीवात् पृथक्कृत्य सम्परिगृह्य सम्यक् ज्ञात्वा जीवात् भेदेन मुक्तजीवे स्थितं ज्ञात्वाऽऽस्ते स एनं भगवन्तं आप्य मोदते । हि यतो मोदनीयं लब्ध्वाssस्ते अत इति योजना । यद्वा, मोदनीयं एनं प्राप्य मोदते हि यतः अतो लब्ध्वा एनमित्यनुषङ्गः । एनं भगवन्तं लब्ध्वा ज्ञात्वा स्थितिं नचिकेतसं प्रति सद्म बैकुण्ठद्वारं विवृतं प्रकटितं मन्ये जानामि । ब्रह्मज्ञानिना त्वया सर्वकामत्यागेन विशेषतो ब्रह्मज्ञानस्यार्ध्यमानत्वात् प्रशस्तस्त्वमिति भावः ।। ।। १.२.१३।।