अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः

भेदप्रतिपत्तिरेवापवर्गसाधनम्

उपनिषत्

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।

तं स्वाच्छरीरात् प्रवृहेन्मुञ्जदि- 'वेषीकां धैर्येण ।

तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ।। २.३.१७ ।।

भाष्यम्

शरीरभूतो विष्णोस्तु जीवस्तद्वशगो यतः ।

अधिष्ठितश्च तेनैव विजानीयात् पृथक् ततः ॥

स्वाख्याच्छरीराज्जीबात्तु प्रवृहेद् विष्णुमव्ययम्" । इति च ।

'यस्यात्मा शरीरम् । य आत्मानमन्तरो यमयति" इति च । " जनानां हृदये" इत्युक्तत्वाच्च जीवात् पृथग् हरिरिति सिद्धम् ॥

देहाङ्गुष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि ।

जीवस्य स तु विज्ञेयो जीवाद् भेदेन मुक्तये ॥ इति च ॥

संसारिशरीरेणाभेदो वादिना केनापि नाङ्गीकृतः । न च लोकसिद्धः । जनानामिति भेदात् । न जीवोऽङ्गुष्ठमात्रः । अतो विष्णोर्जीवाद्भेद उक्तः । अत: सर्वोत्तमो विष्णुरिति सिद्धम् ॥ २.३.१७ ॥

श्रीव्यासतीर्थ:

व्या- "अनन्यप्रोक्ते गतिरत्र नास्ति" इत्यादौ निरूपितं भेदज्ञान- मेवापवर्गसाधनमित्याह- अङ्गुष्ठेति ॥ तं जीवं देहाद्भेदेन विजानीयादित्यन्यथा- प्रतीतिं निवारयन्व्याचष्टे - शरीरभूत इति ॥ जीवस्य शरीरतया भगवदधिष्ठितत्वं तद्वशत्वञ्च कुतः, येन तयोर्भेदं प्रतीम इत्यत आह- यस्येति ॥ नन्वथापि शरीराज्जीवस्यैव भेद उच्यते न जीवाद्भगवतस्तज्ज्ञापकाभावादित्यत आह जनानामिति ॥ चशब्देन " यस्यात्मा शरीरम्" इत्युक्तं बाह्यञ्च ज्ञापकं समुच्चिनोति । नन्वत्र जीवस्यैव शरीरांद्भेद उच्यते । भगवतोऽङ्गुष्ठ- मात्रत्वाभावादित्यत आह- देहेति ॥ अस्त्वत्रोच्यमानो भगवान् । तस्य शरीरादेव भेदोऽत्रोच्यत इत्यत आह- संसारीति ॥ अभेदो भगवत इति शेषः । येन संसारिशरीराद्भगवतोऽभेद उच्येतेति वाक्यशेषः । सत्यं भगवतः संसारि- शरीरादभेदः केनापि वादिना नाङ्गीकृत इति लोकसिद्धोऽभेदः ‘“स्वाच्छरीरात्इति निषिध्यत इत्यत आह- न चेति ॥ भगवतः संसारिशरीराभेद इति शेषः । भगवतो जीवाद्भेदे जनानां हृदये निविष्ट इत्युक्तामुपपत्तिं स्फुटयति जनानामिति ॥ जनानां हृदये निविष्ट इति षष्ठ्या निविष्टस्य भगवतो जीवाद्भेदप्रतीतेरित्यर्थः । इतोऽप्यत्र जीवो देहात्पृथगुच्यत इति नेत्याह- न जीव इति ॥

बालाग्रशतभागस्य शतधा भेदितस्य च ।

भागो जीव इति ज्ञेयः स चानन्त्याय कल्पते ॥

इति श्रुतेर्न जीवोऽङ्गुष्ठमात्रः । अवान्तरप्रमेयमुपसंहरति- अत इति ॥ अतो ‘‘जनानां हृदये’” इत्याद्युक्तोपपत्तेः । उक्तःअङ्गुष्ठमात्रः पुरुषोऽन्त- रात्माइत्यत्र । मुमुक्षुश्चेद्भगवत उक्तान् शोकरहितत्वाद्यभावगुणान् मुक्ता- मुक्तप्रेरकत्वादिभावगुणांश्च जानीयादित्युक्तमर्थमुपलक्षणत्वेनावधारयन्नुप-

संहरति- तं विद्यादिति || आदरार्थोऽभ्यासः ।। २.३.१७ ।।

वामनपण्डिताचार्य:

योऽसौ अङ्गुष्ठमात्रः पुरुषः पुरस्तादुक्तः स इहानूद्यते । तं स्वाच्छरीरात् प्रवृहेदिति विधीयते । तद्वाक्यं विवृणोति - "शरीरभूत... ' इत्यादिना || अयं जीवः विष्णुवशगत्वात् तेनाधिष्ठितत्वाच्च तस्य शरीरमिति उच्यते । अतः स्वात् जीवाख्यात् शरीरात् तं भगवन्तं प्रवृत् भिन्न इति जानीयात् । जीवस्य भगवच्छरीरत्वे तन्नियम्यत्वे च " यस्याऽत्मा" इति श्रुतिमाह । तदधिष्ठितत्वे "सदा जानानाम्इति । एवं तन्नियम्यत्वादिना तच्छरीरभूतः स इत्युक्तत्वाच्च जीवात् पृथगेव भगवान् हरिरिति सिद्धम् । पूर्वत्राङ्गुष्ठमात्रः पुरुषो देहमध्ये तिष्ठतीत्युक्तः । अत्र जीवस्य हृदि जीवाङ्गुष्ठमितः । स द्विरूपोऽपि जीवाद् भेदेनैव ज्ञेयः । ‘“स्वाच्छरीरात्इत्यत्र जडशरीरादित्यर्थाङ्गीकारो न युक्त इत्याह- संसारीति ॥ संसारिणो जीवस्य जडशरीरेण परस्याभेदः केनापि वादिना नाङ्गीक्रियते । नचायं लौकिकव्यवहारसिद्धः । अतो न तन्निषेधार्थत्वेन श्रुतिवाक्यं योजनीयम् । नचाङ्गुष्ठमात्रपरिमाणो जीव इति शङ्कयम् ।जनानां हृदये’” इति जीवसंस्थस्य परस्यैव तदुक्तेः । नच तावता तस्य परिच्छिन्नत्वम् ।हृद्यपेक्षया'' (ब्र.सू.१.३.२५) इत्युक्तत्वात् । तं भिन्नं भगवन्तं विष्णुं शुक्रममृतं च विद्यात् । शुक्रः शोकादिरहितः शुद्धो वा । अमृतः स्वत एव नित्यमुक्तः । शाखोक्तार्थावधारणार्थं द्विरुक्तिमनुसरन् तमर्थं निगमयतिअतः सर्वोत्तमो विष्णुरिति सिद्धम्" इति । श्रौत इतिशब्दस्तु मृत्योस्तत्त्वोपदेशोपसंहारवाचकः ।। २.३.१७ ।।

श्रीवादिराजतीर्थ:

वादि-अङ्गुष्ठमात्रः पुरुषोऽन्तरात्माइत्यत्र योऽन्तरात्मा परमात्माऽङ्गुष्ठमात्रः सूक्ष्मजीवाङ्गुष्ठप्रमाणः सन् जनानां जीवानां हृदये सन्निविष्टः तं परमात्मानं स्वाच्छरीरात् शरीरस्थानीयात् स्वस्मान्मुञ्जदिषीकान् ततोऽप्यतिसूक्ष्मतया क्रूरतया च स्वभावत एव विलक्षणानि तृणाग्राणीव प्रवृद्विभक्तं भावयेत् । स्वाच्छरीरात् स्वकीयदेहात् प्रवृहेत् विभक्तं भावयेदित्यर्थस्तु परमात्मनः जीवशरीराभेदस्य वैदिकैः कैरपि वादिभिरनङ्गी- कारेण परमात्मनः जीवशरीरस्य च भेदस्य स्वतः सिद्धत्वान्न पृथग्विधेय इति विदुषां परीक्षाक्षमत्वादुपेक्षणीय एव ।। २.३.१७ ।।

॥ इति श्रीमद्वादिराजपूज्यचरणकृत काठकोपनिषद्भाष्यटीकाप्रकाशिका समाप्ता ॥

श्रीवेदेशतीर्थ:

यदुक्तं तृतीयप्रश्नपरिहारौ भगवद्विषयाविति तदयुक्तम् ।तं स्वात्इति उपसंहारवाक्ये तं स्वात् आत्मीयाच्छरीरात्प्रवृहेत् पृथक्कुर्यात् इत्युक्तत्वेन पूर्वमपि देह भिन्नात्मस्वरूपमेव प्रश्नपरिहारविषय इत्यङ्गी- कारौचित्यादित्यतस्तत्प्रमाणेनैव शरीरभूत इति ।। विष्णोर्भिन्नदेहाभावात् विष्णुभिन्नो जीवः कथं शरीरभूत इत्यत उक्तम्- तद्वशग इति । यद्वा विष्णोरभिमानाभावात्कथं तच्छरीरभूतो जीव इत्यत उक्तम्- तद्वशग इति । प्रसिद्धशरीरवत् तद्वशगत्वादधिष्ठानत्व- गुणयोगेनैव जीवः शरीरशब्दोक्त इति भावः । एवं शरीरशब्दार्थमुक्त्वा तद्वाक्यतात्पर्यमाह - विजानीयादिति ॥ ततो जीवात् । कथमिदं तात्पर्यमनेन लब्धमित्यतस्तद्व्याचष्टे - स्वाख्यादिति ॥ " प्रवृत्" इत्यस्य पृथक्करणार्थत्वादनादितः पृथग्भूतस्येदानीं पृथक्करणायोगात् पृथक् विजानीयादिति तात्पर्यमुक्तमिति भावः । जीवस्य भगवदधिष्ठितत्व- तद्वशत्वाभ्यां भगवच्छरीरत्वे श्रुतिञ्चाह यस्येति ॥य आत्मनि तिष्ठन् " इति पूर्ववाक्यमप्युदाहर्तव्यम् । आत्मा जीवः " एष त आत्मान्तर्याम्यमृतः "

व्याख्यातुं तावच्छरीरशब्दार्थमाह-इत्युत्तरेणान्वयः ।तं स्वाच्छरीरात्प्रवृहेत्" इत्यत्र जीवाद्भगवत एव भेदोऽभिधीयत इत्यत्र युक्तिवाह जनानमिति । पूर्ववाक्ये " जनानां हृदये सन्निविष्टः’” इति जनशब्दवाच्यजीवेभ्यः तद्धृदयसन्निविष्टस्य भगवत एव भेदस्योक्तत्वादत्रापि जीवात्पृथक् हरिरित्येवोच्यते । नतु प्रसिद्धशरीराज्जीवः पृथगिति सिद्धमिति भावः । ननुजनानां हृदये सन्निविष्टःइत्युक्तत्वेऽपि कथं जीवाद्भगवतो भेदसिद्धिः । जीवस्यापि हृदयसन्निविष्टत्वोपपत्तेरिति चेन्न ।जनानां हृदये सन्निविष्टः " इति हि जीवस्वरूपभूतहृदयस्थत्वमुच्यते । जनशब्दः स्वतो जीवे क्वचिदेहे च वर्तत इति वचनेन जनशब्दस्य जीवदेहोभयपरत्वात् । नच तज्जीवस्योपपद्यते । जीवस्य देहहृदयस्थत्वेऽपि स्वहृदिस्थत्वाभावात् । नन्वेवं तर्हि अङ्गुष्ठमात्रत्वोक्तिविरोधः स्यात् । नहि जीवहृतस्याङ्गुष्ठमात्रत्वं युज्यते । जीवस्यैवाणुत्वेन अङ्गुष्ठपरिमाणकत्वा- भावादिति चेन्न । स्यादेवम् । यद्यत्र जीवहृद्गतस्य देहाङ्गुष्ठपरिमाणकत्व - मुच्यते । नचैवम् । किन्तु जीवानुष्ठपरिमाणकत्वमेवातो न विरोध इति भावेन तत्र प्रमाणमाह- देहेति ॥ देहे हृदीति सम्बन्धः । जीवस्य हृदीत्यन्वयः । नन्वस्त्वस्मिन्वाक्ये भगवत एव भेदोऽभिधीयत इति । किन्तु स्वाच्छरीरादित्युक्तसंसारिशरीरादेव । नतु जीवादिति किन्न स्यात् । शरीरशब्दस्य शरीरे मुख्यत्वात् । जीवे गौणत्वात् । नहि मुख्ये सम्भवति अमुख्यार्थाङ्गीकारे कारणमस्तीत्यत आह- संसारीति ॥ सत्यं शरीरशब्दः शरीरे मुख्य इति । तथाप्यत्र तदनङ्गीकारोऽयुक्तः । संसारिशरीरेण भगवतोऽभेदस्य केनापि वादिनानङ्गीकृतत्वेन तद्भेदप्रतिपादनस्याप्रसक्त- प्रतिषेधत्वापातात् । अतो मुख्यार्थग्रहणे बाधकसद्भावादमुख्यार्थाङ्गीकारो युक्त इति भावः । ननु वादिनानङ्गीकृतोऽपि भगवतः संसारिशरीराभेदो लोकसिद्धो भवत्येव । तथाहि । जीवे तावद्भगवदसाधारणधर्मस्य स्वातन्त्र्यादेः अध्यासाऽस्ति । एवञ्च भगवतः संसारिशरीराभेदो लोकभ्रान्तिसिद्धः ‘‘तं व्याख्यापट्कसमन्वितम् स्वाच्छरीरात्इति श्रुत्या निषिध्यत इति किन्न स्यादित्यत आह- न चेति ॥ भगवतः संसारिशरीराभेद इति शेषः । कुत इत्यत आह- जनानामिति ॥ सत्यमस्ति भगवतः संसारिशरीराभेदो लोकसिद्धः । तथापि नासावंत्र निषिध्यते । जनानां हृदय इति पूर्ववाक्य एव भगवतो जीवदेहहद्गतत्वोत्त्या संसारिशरीरभेदस्योक्तत्वेन तन्निषेधस्य जातत्वात् । अत्रापि तन्निषेधे पुनरुक्त्यापातादिति भावः । अभ्युपेत्य चेदमुदितम् । जीवे भगवद्धर्म- स्वातन्त्र्याद्यध्याससद्भावेऽपि शरीराभेदाध्यासाभावस्यान्यत्रोक्तत्वेन भगवति संसारिशरीराभेदस्य लोकसिद्धत्वाभावादिति मन्तव्यम् | भगवतः संसारिशरीराभेदो वादिनाङ्गीकृतोऽपि लोकसिद्धो निषिध्यत इति किन्न स्यादित्यत आह- न चेति ॥ भगवतो जीवाद्भेदेजनानां हृदये सन्निविष्टः " इत्युक्तामुपपत्तिं स्फुटयति जनानामिति ॥ जनानां हृदये निविष्ट इति षष्ठ्या निविष्टस्य भगवतो जीवान्देदप्रतीतेरित्यर्थ इत्यप्याहुः । ननु मास्तु "तं स्वात्" इत्यत्र भगवतः संसारिशरीराद्भेद उच्यत इति । तथापि जीवस्यैव शरीराद्भेद उच्यत इति किन्न स्यात् । जीवेश्वरशरीराभेदस्य चार्वाकादिभिरङ्गीकारात् । एवञ्च शरीरशब्दमुख्यार्थत्यागोऽपीति चेन्न । "तं स्वात्इति शब्देन पूर्वार्धप्रकृतस्यैव परामर्शात् । नच पूर्वार्धप्रकृतो जीवः । तत्र ‘“अङ्गुष्ठमात्रः'' इत्यङ्गुष्ठमात्रत्वोक्तेः । नच जीवे तद्युक्तम् तस्य अणुपरिमाणत्वेन देहाङ्गुष्ठमितत्वस्य स्वानुष्ठमितत्वस्य चासम्भवादिति भावेनाह - न जीव इति ॥ सर्वगतस्यापि विष्णोरङ्गुष्ठमात्रत्वंहृद्यपेक्षया तु मनुष्याधिकारत्वात्" इति सूत्रकृतोपपादितमनुसन्धेयम् । " तं स्वाच्छरीरात्" इति वाक्यव्याख्यानमुपसंहरति- अत इति ॥ उक्तरीत्यार्थान्तरस्यासम्भवात् इत्यर्थः । ‘“तं स्वाच्छरीरात्" इत्यत्रेति शेषः । इदानीमशेषोपनिषदर्थमुप- संहरति- अतः सर्वोत्तम इति ॥ प्रागुक्तगुणजातस्य सर्वोत्तमत्वं विनाऽसम्भवादिति भावः ।।२.३.१७।।

श्रीवेदेशतीर्थखण्डार्थ:

सर्वथा जीवेश्वरभेदज्ञानमेव मोक्षसाधनमिति भावेनाह- अङ्गुष्ठमात्र इति ॥ अङ्गुष्ठमात्रो जीवानुष्ठमितो देहाङ्गुष्ठमितो वा जनानां हृदये जीवस्वरूपहृदये बाह्यहृदये वा सदा सन्निविष्टो योऽन्तरात्मा । तं विष्णुं स्वात् स्वाख्यात् शरीरात् भगवद्वशत्वादिना. शरीररूपाज्जीवात् धैर्येण प्रमाणाभासाचलितबुद्ध्या प्रवृहेत् पृथग्जानीयात् । किमिवेत्युच्यते- बाह्यात् मुआतू अन्तस्थां इषीकामिवेति ॥ कुतोऽयं जीवाद्भेदेन ज्ञेय इत्यतो विरुद्धधर्माधिकरणत्वादिति भावेनोपसंहरति- तमिति ॥

अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिकेऽपि वा ।

विचारो यत्र सज्येत पूर्वोक्तस्यावधारणे ॥

इति वचनात् सर्वाध्यायार्थावधारणार्थाध्यायान्ते द्विरुक्तिः ।।२.३.१७ ।।

श्रीवरदतीर्थ:

वरद- भगवदपरोक्षज्ञानार्थं प्रधानसाधनं निरूप्यते - अङ्गुष्ठमात्र इति ॥ तस्य ‘“स्वाच्छरीरात्प्रवृहेत्" इति जीवस्य यद्वाह्यं शरीरं तस्माज्जीवात्मानं विवेचयेदित्यन्यथार्थनिरासार्थं व्याचष्टे शरीरेति ॥ जीवस्य विष्णुशरीरत्वे बीजमाह - तद्वशग इति || बीजान्तरञ्चाह- अधिष्ठित इति ॥ ततः शरीररूपात् जीवाद्विष्णुं पृथग्भिन्नत्वेन जानीयादित्यर्थः । तदेव विवृणोति - स्वाख्यादिति ॥ जीवस्य विष्णुशरीरत्वे तदधिष्ठितत्त्वे च प्रमाणमाह- यस्येत्यादिना ॥ इतोऽप्यत्र जीवादीश्वरस्य पृथग्भाव एवोच्यते न देहात्पृथग्भाव इत्याह- जनानामिति ॥ ननु " अङ्गुष्ठमात्रः पुरुषःइत्येतद्विष्णुपरमिति न युज्यते । सर्वगतस्य तस्याङ्गुष्ठमात्रत्वायोगादित्यत आह- देहेति ॥ सर्वगतस्यापि रूपविशेषेणाङ्गुष्ठमात्रत्वं न विरुद्ध्यत इत्यर्थः । अस्तु तर्हि जनानां हृदये सन्निविष्ट इत्युक्तत्वात् पूर्वार्धस्य विष्णुविषयत्वं तथापि तं स्वाच्छरीरात्प्रवहेत्" इत्यस्य जीवस्य देहादीश्वरं पृथक्कुर्यादित्येवार्थः किन्न स्यादित्यत आह- संसारीति ॥ विष्णोः संसारशरीरिणा भेदस्य केनापि वादिनानङ्गीकृतत्वेन तद्भेदाभिधानमसङ्गतमेव भवतीत्यर्थः । ननु विष्णोः संसारशरीरिणाभेदस्य वादिसिद्धत्वाभावेऽपि लोकसिद्धत्वात्तस्य निषेधो सम्भवति । श्रुत्यादावारोपितरजतस्येवेत्यत आह- न चेति ॥ ‘“जनानां हृदये’” इत्युक्तत्वात् । पूर्वार्धे जीवातिरिक्तं वस्तु प्रतिपाद्यत इति यदुक्तं तत्र कथं जीवातिरेकसिद्धिरित्यत आह- जनानामिति ॥ जनानां पुरुषं प्रत्याधारत्वेन पुरुषस्य च हृदये सन्निविष्ट इत्याधेयत्वेन प्रतीतेर्जीवानाञ्च अङ्गुष्ठप्रमाणकपुरुषस्य च भेदोऽवगम्यत इत्यर्थः । इतोऽपि पूर्वार्धोक्तो न जीव इत्याह- नेति ॥ अङ्गुष्ठप्रमाणत्वं हि विष्णोरेव प्रसिद्धम् । न जीवस्य । तस्य बालाग्रशतभागस्थितगोपुच्छलोमशतांशपरिमाणप्रसिद्धेः । अतश्चाङ्गुष्ठ- परिमितत्वेनोक्तो हरिरेवेति भावः । स्वव्याख्यानमुपसंहरति- अत इति ॥ अशेषोपनिषदर्थमुपसंहरति- अतस्सर्वोत्तम इति ॥ २.३.१७ ॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

अनन्यप्रोक्ते गतिरत्र नास्ति" इत्यादिनोक्तं भेदज्ञानमेव मुक्तिहेतुरित्युपसंहरति- अङ्गुष्ठमात्र इति || अन्तरात्मा अन्तर्व्याप्त इति वा, अन्तःप्रेरक इति वार्थः । जनानां मानुषादिचेतनानां हृदये सदा सम्यक् सुखेनैव निविष्टः स्थितः । तं स्वात् स्वात्मरूपात् शरीरात्, उपलक्षणम्, जीवादिति यावत्, यद्वा स्वात् स्वकीयाज्जीवरूपाच्छरीरादित्यर्थः । जीवो हि हरिवशत्वात् हरिणाधिष्ठितत्वाद्धरेः शरीरम् । धैर्येण धीरभावेन सूक्ष्मदृष्ट्येति यावत् । प्रवृहेत् विवेचयेत् भेदेन जानीयादिति यावत् । कथम् ? मुञ्जादिवेषीकां मुञ्जपदेन मौञ्जीधारणार्थं क्रियमाणरज्जुसाधनतृणविशेषः । मुञ्जात् मुञ्जपुञ्जमध्यात् इषीकाख्यविजातीयतृणविशेषमिवेति । यत्तु सुधायां " देहात्मत्वं यदि न तत्इति भक्तिपादीयानुव्याख्यानगमनिकायां देहजीव- परतया व्याख्यातम्, तत्पररीत्यैवेत्यविरोधः । मुमुक्षोः शोकराहित्यस्य अमृतत्वस्य चावश्यापेक्षितत्वात्तस्य तादृक्त्वेन भगवज्ज्ञानेनैव भाव्यत्वात्तज्ज्ञान- मावश्यकमिति भावेनाह- तमिति ॥ तं जीवाद्भिन्नं शुक्रं शोकादिदोषवर्जितम्, अमृतं नित्यमुक्तम्, अनाद्यनन्तकालं सम्पूर्णस्वरूपानन्दानुभववन्तमिति

यावत्, तादृशानुभवस्यैव मुक्तिशब्दार्थत्वात्, विद्याज्जानीयादिति । अभ्यास- स्तात्पर्यार्थः । इतिशब्दो वेदनप्रकारवाची बा, समाप्तिवाची वा ध्येयः ॥