जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्

भगवज्ज्ञानंप्राप्त्यर्थं यमेनानुष्ठितं साधनम्

उपनिषत्

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।

ततो मया नाचिकेतश्चितोऽग्निः अनित्यद्रव्यैः प्राप्तवानस्मि नित्यम् ॥१.२.१०॥

भाष्यम्

'आख्यं विष्ण्वाख्यं नित्यं शेवधिरिति जानामि । नित्यमाख्यविष्णु-

त्रिषयैर्द्रव्यैर्मन आदिभिः आख्यनित्यविषयैर्विष्ण्वाख्यनित्यविषयैर्द्रव्यैः

नित्यं भगवन्तं प्राप्तवानस्मि । ध्रुवो भगवान् अध्रुवैस्तद्भक्तिवर्जितैर्न

प्राप्यते ।। १.२.१० ॥

श्रीव्यासतीर्थ:

अहं त्वया पृष्टं जानामि । कथमित्यत आह- शेवधिरिति ॥ अनित्यं शेवधिरिति । भक्तिपूर्वकमनिश्चितः ।। १.२.१०॥

व्या.भा-जानाम्यहं शेवधिरित्यनित्यम्" इत्यन्यथाप्रतीतेर्व्याचष्टे- आख्यमिति ।। अनित्यैर्द्रव्यैरित्येतदध्रुवैरिति प्रतीतेर्व्याचष्टे - नित्यमिति ॥ नित्यं सर्वदा आख्यो विषयो येषां तान्यनित्यानि तैर्नित्यमाख्यविष्णु- विषयैरित्यर्थः । द्रव्याणि कानीत्यत आह- द्रव्यैरिति । अनित्यैरितिपदं प्रकारान्तरेण व्याकुर्वन् वाक्यं योजयति- आख्येति ॥ आख्यो नित्यो विषयो येषां तान्यनित्यानि तैरनित्यैः । स्वपदमेव विवरीतुमुक्तम्- विष्ण्वाख्यनित्यविषयैरिति ॥ अध्रुवैरनित्यैः पुरुषैः तत् धृवं न प्राप्यते हीति प्रतीयते । तदस्मदादिभिरधुवैः प्राप्यत्वाद्ब्रह्मणोऽयुक्तमतोऽन्तरितं यत्पदम् । न विद्यते ध्रुवो येषां तेऽध्रुवास्तैरध्रुवैरिति विग्रहमभिप्रेयंस्तात्पर्येण व्याचष्टे - ध्रुव इति ॥ १.२.१० ।।

वामनपण्डिताचार्य:

 ‘“अन्यं वरं वृणीष्व " इत्यादिवचनं परमात्मतत्त्वस्य गोप्यत्व- ज्ञापनायैव नतु तदुत्तमत्वापरिज्ञानादित्येतदृदयति- जानामीत्यादिना ॥ यत् अनित्यं तत् शेवधिरित्यहं जानामि इति श्रुत्यन्वयः ।आख्यम्इत्यादिना तदर्थं व्याख्याति । " अ इति ब्रह्म" इति श्रुतेः अकाराख्यं तु विष्णवाख्यं नित्यं ब्रह्म अहं शेवधिरिति जानामि । तस्यैव मुख्योपजीव्यत्वात् । अश्वायं नित्यश्चेति अनित्यो भगवान् । तद्विषयैः अनित्यैः द्रव्यैः तं नित्यं भगवन्तं प्राप्तवानस्मीत्यविरोधः । स्वस्वविषयेषु द्रवणशीलत्वान्मनआदीनां द्रव्यत्वम् । प्रकाशादिप्रकृष्टगुणवत्त्वाच ।ध्रुवो भगवान्" इत्यादिनानह्यध्रुवैःइत्यादिवाक्यशेषं व्याख्याति । ततो भक्तिसाधनत्वात् मया नाचिकेतोऽनिश्चितः ।। १.२.१० ।।

श्रीवादिराजतीर्थ:

 ‘‘आख्यं विष्णवाख्यम्" इत्यत्रअकारो विष्णुवाचकःइति वचनात् अ इत्याख्या यस्य तमाख्यमिति व्युत्पत्तिमभिप्रेत्योक्तम्- विष्णवाख्यमिति ॥ तथा च अं च तत् नित्यं चेति विग्रहः ।नित्यमाख्य- विषयैःइति वदता अः नित्यं सर्वदा विषयो येषां तान्यनित्यानीति विग्रहः सूचितः । न विद्यते ध्रुवः परमात्मा विषयो येषां ते अध्रुवाः तैरित्यर्थः । एवमव्याख्याने आपाततः प्रतीयमानार्थस्यैव कथने च अनित्यैर्नित्यं प्राप्तवानस्मि अध्रुवैर्ध्रुवं न प्राप्यत इति पूर्वोत्तरविरोधः स्यात् । तर्ह्यनित्यैरन्तःकरणादिभिर्नित्यं प्राप्तवानस्मीत्येवार्थः कुतो नेति चेन्न । एवमुक्तेऽपि न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्" इत्यनेन पूर्वोत्तरविरोधस्य तादवस्थ्यमेव । अस्माकं तु अध्रुवैः विष्णुभक्तिवर्जितैः पुरुषैः, विष्णुभक्ति- वर्जितान्तःकरणादिभिरिति यावत्, ध्रुवं नित्यं परमात्माख्यं वस्तु न प्राप्यत इति प्रागुक्तम् । इदानीं तु अनित्यैर्द्रव्यैः नित्यं सर्वदा आख्यविष्णुविषयैरन्तः- करणादिभिर्नित्यं परमात्मानं प्राप्तवानस्मीति सर्वस्यापि सामञ्जस्यात् ।। ।। १.२.१० ।।

श्रीवेदेशतीर्थ:

वे. भा.जानाम्यहं शेवधिः" इत्यादिकं परेणैवं व्याख्यातम् ।पुनरपि तुष्टयम आह- जानामीति ॥ अहं शेवधिः कर्मफललक्षणो निधिरनित्य इति जानामि । हि यस्मादधुवैरनित्यैर्द्रव्यैः यत् ध्रुवं नित्यं परमाख्यं शेवधिस्तन्न हि प्राप्यते । यस्त्वनित्यसुखात्मकः शेवधिः स एव अनित्यैर्द्रव्यैः प्राप्यते हि यतस्ततो मया अनित्यसाधनैर्नित्यं न प्राप्यत इति जानतापि अनित्यद्रव्यैः पश्वादिभिर्नाचिकेतोऽग्निः स्वर्गसुखसाधनीभूतोऽनिश्चितः तेनाह- मधिकारापन्नो नित्यमापेक्षिकनित्यं याम्यस्थानं स्वर्गाख्यं प्राप्तवानस्मीति’’ तत्र तावदादिवाक्यव्याख्यानमसत् । " न ह्यध्रुवैः" इत्युत्तरवाक्यैर्नित्यब्रह्मप्राप्तेर- नित्यद्रव्यासाध्यत्वकथनस्यासङ्गतत्वात् । तुष्टेन यमेन तत्पृष्टब्रह्मस्वरूपस्यैव वक्तव्यतया कर्मफलानित्यत्वकथनस्यासङ्गतत्वात् । तस्मादिदं ब्रह्मपरमेव । तर्हि तस्य नित्यत्वेन कथमनित्यत्वमुपपन्नं स्यात् । ज्ञापकाभावेनेदं ब्रह्मपरमेवेति वा कथं निर्धारणमित्यतस्तद्व्याचष्टे - आख्यमिति ॥ " अ इति ब्रह्मइत्यादिश्रुतेरिति भावः । नित्यं वस्त्विति शेषः । शेवधिः सुखनिधिः । नन्वेवं तर्हिततो मया नाचिकेतश्चितोऽग्निरनित्यद्रव्यैःइत्युत्तरवाक्य- मनुपपन्नम् । तर्ह्यनित्यद्रव्यैः पश्वादिभिरनुष्ठितस्यानिचयनस्य नित्यभगवत्प्राप्ति हेतुत्वमस्तीत्यतोऽनित्यद्रव्यैरित्येतद्यथावद्व्याचष्टे -- नित्यमिति ॥अनित्यद्रव्यैःइत्यत्र नित्यपदस्य व्यत्यासः । ततश्च नित्याद्रव्यैरिति लभ्यते । अस्य द्रव्याणि अद्रव्याणीति षष्ठीसमासः । षष्ठ्यर्थश्च विषयविषयिभाव इति भावेनोक्तम्- आख्यविष्णुविषयैरिति ॥ नित्यं विष्णुविषयैरिति सम्बन्धः । ततश्च नित्यत्वं षष्ठ्यर्थविषयीकरणरूपक्रियाविशेषणमित्युक्तं भवति । अन्येषां द्रव्याणां सविषयकत्वाभावान्मनआदिभिरित्युक्तम् । एवमनित्यद्रव्यैरित्यत्र नित्यपदस्य व्यत्यासेन क्रियाविशेषणत्वमभ्युपेत्य व्याख्यातम् । इदानीं तदनाश्रयेण अश्वासौ नित्यश्चानित्यः तस्य द्रव्याणीति विग्रहमभिप्रेत्य व्याचष्टे - आख्येति ॥ तदेव विशदयति- विष्ण्वाख्येति ॥ ततश्च केवलाग्निचयनमात्रस्य भगवत्प्राप्ति- हेतुत्वाभावेऽपि सर्वदा निर्दोषगुणपूर्णजीवभिन्ननित्यभगवद्विषयमन आदि- पूर्वमनुष्ठितस्य तत्प्राप्तिहेतुत्वोपपत्तिरिति भावः । नन्वनित्यद्रव्यैरिति प्रसिद्धार्थंकमेव किन्न स्यात् । नच " प्राप्तवानस्मि नित्यम्" इत्येतदनुरोधेन तथा व्याख्यायत इति वाच्यम् । नित्यमापेक्षिकनित्यं याम्यं स्थानं स्वर्गाख्यं प्राप्तवानस्मीत्यर्थोपपत्तेरित्यतस्तद्व्याचष्टे- नित्यमिति ॥ नित्यशब्दस्य मुख्यार्थग्रहणोपपत्तावमुख्यार्थग्रहणायोगात् । याम्यस्थानस्यापि ज्ञानमात्र- साध्यत्वेन विनाशिद्रव्यानुष्ठितानिचयनमात्रसाध्यत्वाभावाच्च "स्वर्ग्यमग्निम् " इत्यादावनिचयनस्य स्वर्गसाधनत्वेनोक्तत्वात् । यमस्थानप्राप्तिहेतुत्वासम्भवाच्च । नच यमस्थानं स्वर्ग इत्युच्यते । प्रमाणाभावादिति भावः । किञ्च " न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्" इति पूर्ववाक्ये ध्रुवशब्दानित्यत्वेन भगवानेव प्रस्तुतः । त्वयापि ध्रुवशब्दस्य ब्रह्मपरत्वाङ्गीकारात् । एवं चात्रापि नित्यशब्दो ब्रह्मपर एवास्त्विति भावेनाध्रुवैरित्यस्य परोक्तार्थनिरासाय तव्याचष्टे - ध्रुव इति ॥ तद्भक्तिवर्जितैस्तद्भक्तिदाढर्यशून्यैरित्यर्थः । अन्यथाऽनित्यैरेव ज्ञानादिभिः अस्मदादिभिर्वा ध्रुवस्य प्राप्यत्वादनुपपत्तिः । यद्वा अनित्यद्रव्यैरित्यस्य

नित्यमाख्यविष्णुविषयद्रव्यैर्मनआदिभिरित्यादिव्याख्यानमयुक्तम् । तथात्वे " ततो मया नाचिकेतश्चितोऽग्निरनित्यद्रव्यैः" इत्यत्र तत इत्यनेन "न ह्यध्रुवैःइति पूर्वोक्तार्थस्य हेतुत्वेन परामर्शायोगादित्यतो " न ह्यध्रुवैःइति वाक्यं व्याचष्टे - ध्रुव इति ॥ ततश्च ध्रुवो भगवानध्रुवैस्तद्भक्तिवर्जितैर्माहात्म्य- ज्ञानपूर्वकस्नेहवर्जितैर्न प्राप्यते हि यस्मात्तस्मात्ततो नित्यभगवद्विषयमन- आदिभिरेव मयानिश्चित इति हेतुहेतुमद्भावोऽपि सङ्गच्छत इति भावः । प्रत्युत त्वत्पक्ष एव हेतुहेतुमद्भावानुपपत्तिः । न ह्यनित्यैर्नित्यं न प्राप्यते यस्मात्ततो मया अनित्यद्रव्यैः पश्वादिभिरग्निश्चित इति हेतुहेतुमद्भावः सम्भवति विरोधात् ॥१.२.१०॥

श्रीवेदेशतीर्थखण्डार्थ:

नाहं त्वत्पृष्टं वक्तुमसमर्थस्त्वां विषयैः प्रलोभितवान् किन्तु त्वत्परीक्षणार्थमेव । यतस्त्वत्पृष्टं जानामीत्याह- जानामीति ॥ अनित्यं आख्यं विष्ण्वाख्यनित्यं वस्तु शेवधिः सुखनिधिरिति जानामि । तत् ध्रुवं नित्यं विष्ण्वाख्यं अध्रुवैस्तद्भक्तिदाशून्यैर्न प्राप्यते हि यस्मात्ततो मयैवं जानताऽनित्यद्रव्यैर्नित्यमाख्यविष्णुविषयद्रव्यैः मनआदिभिर्नाचिकेतोऽग्निः चितस्तेनाहं नित्यं भगवन्तं प्राप्तवानस्मीत्यर्थः ॥ १.२.१०॥

वरद -जानाम्यहं शेवधिरित्यनित्यम्" इत्येतद्दुर्गमार्थत्वाद्व्याचष्टे- आख्यमिति ॥अनित्यैर्दव्यैः प्राप्तवानस्मि नित्यम्" इत्येतद्व्याचष्टे- नित्यमिति ॥ अनेनाकारवाच्ये विष्णौ नित्यैः सर्वदा वर्तमानैः मनआदिभिरिति निर्वचनमुक्तं भवति । अनित्यैः द्रव्यैरित्यस्य प्रकारान्तरेणापि निर्वचनमाह- आख्येति ॥ अनेन अश्वासौ नित्यश्चेति भगवाननित्यः तद्विषयत्वात् द्रव्याण्यप्यनित्यद्रव्याणीति निर्वचनं सूचितं भवति ।न ह्यधृवैः प्राप्यते हि धृवं तत्" इत्यस्यार्थः- धृवो भगवानिति ॥१.२.१०॥

श्रीवरदतीर्थखण्डार्थ:

वरद. खं- अहं तु मूर्खलोकवत् ब्रह्मज्ञानरहितो न भवामीत्याह- जानाम्यहमिति ॥ १.२.१०॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

त्वया पृष्टं ब्रह्मस्वरूपमहं जानामीत्याह यमः - जानामीति ॥ अनित्यं ‘“अ इति ब्रह्म’” इति श्रुतेः " अकारस्सर्ववागात्मा परब्रह्माभि - धायकः’’(सू.भा.१.१.१.) इति स्मृतेश्व अकारो ब्रह्मवाची । अकारवाच्यं च तत् नित्यं चेति अनित्यम् । अकारवाच्यं ब्रह्म नित्यं शेवधिः निधिरिति जानाम्यहम् । अनित्यमित्यत्र अ इति भिन्नं पदं वा नपुंसकम् । अकारनामकं ब्रह्म नित्यं शेवधिः निधिसदृशं परमपुरुषार्थहेतुरिति जानाम्यहम् । ध्रुवं शाश्वतं ब्रह्म अध्रुवैः न विद्यते ध्रुवं ब्रह्म येषां तैः अध्रुवैः, ब्रह्मज्ञानभक्त्यादिहीनैः न प्राप्यते हि यस्मात् तस्मात् कारणात् मया अनित्यद्रव्यैः अः ब्रह्म नित्यं सदा येषां विषयतयाऽस्तीति वा, अकारवाच्यं ब्रह्मरूपं नित्यं वस्तु विषयतया येषामस्तीति वा तानि, अनित्यानि च तानि द्रव्याणि च मनःप्रभृतीनि तैः अग्निः इष्टकाचितिस्थोऽग्निः चितः । तेन च नित्यं शाश्वतं ब्रह्म आप्तवानस्मि, हे नचिकेत इति ।। १.२.१० ।।