'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः
सर्वसंहारकत्वरूपं भगवतो माहात्म्यम्
उपनिषत्
'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ १.२.२५ ॥
॥ इति काठकोपनिषदि प्रथमाध्यायस्य द्वितीया वल्ली ॥
श्रीव्यासतीर्थ:
व्यास - पुनश्च महिमानमेवाह - यस्येत्यादिना ॥ उपसेचनं शाकम्, उपरि सेचनं घृतं वा । इत्था एवं गुणविशिष्टत्वेन । यत्र स प्रतितिष्ठति तच्च को वेदेति ।। १.२.२५ ।।
वामनपण्डिताचार्य:
अथ मुच्यमानानामितरेषां च विष्णुरेव प्रवेश्यत्वान्महाश्रय इत्याह- यस्येति ॥ हरेः ब्रह्मक्षत्रे ब्रह्मवायू प्रळयावस्थायामद्यत्वात् ओदनो भवतः । मुक्तामुक्तत्वविशेषणात् द्वैविध्यज्ञापनार्थमुभे इति विशेषणम् । यस्य ओदनस्य मृत्युरहमुपसेचनमात्रं भवामि | क एवेत्थं मुक्तामुक्तनियामकं विष्णुं वेद | क इति काक्काक्षेपः । अथवा ब्रह्मा वायुर्वा कशब्दितः । यत्र सः यस्मिन् स भगवान् विशेषेण स्थितः । एवं तावत् ब्रह्म च क्षत्रं चेति चशब्दात् चराचरं सर्वमप्यन्नमस्येत्युक्तं भवति ।। १.२.२५ ।।
श्रीवादिराजतीर्थ:
‘“यस्य ब्रह्म च क्षत्रञ्च" इत्यत्र ब्रह्म ब्राह्मणजातिः । क्षत्रं क्षत्रियजातिः । उपलक्षणं चैतत् । देवर्षिपितृगन्धर्वमनुष्यपशुपक्ष्यादि- नानाजातिविशिष्टः जीवसमुदाय इत्यपि ग्राह्यम् । सर्वमारकमृत्योरास्वादने प्रीतिविशेषो भवतीत्यतः मृत्योः पृथग्रहणम् ।। १.२.२५ ।।
श्रीवेदेशतीर्थखण्डार्थ:
भगवतः सर्वसंहारकत्वरूपं माहात्म्यं वदंस्तस्य दुर्ज्ञेयत्वमाह- यस्येति ।। यस्य भगवतो ब्रह्म च क्षत्रञ्च इत्युभे ओदनः अशने भवतः तत्र ब्रह्मशब्देन ब्राह्मणजात्यभिमानी स्वयं ब्राह्मणश्चतुर्मुखाख्यो ग्राह्यः क्षत्रशब्देन क्षत्रजात्यभिमानी स्वयं क्षत्रियो वायुः यथोक्तं "विष्णोर्ब्राह्मणजातिः सन् ब्रह्मा जज्ञे चतुर्मुखः'' (बृ.भा. ३.५.५) इत्यादि । मृत्युर्मारणात् मृत्युनामा रुद्रः । “मृत्युनामा तु संहाराद्रुद्रः" इति वचनात् । यस्य भगवत उपसेचनं व्यञ्जनं धृतं वा तं भगवन्तं इत्था उक्तप्रकारेण को वेद ? न कोऽपि । यत्र वैकुण्ठादौ स तिष्ठति तच्च को वेदेति योजना । यद्वा कश्चतुर्मुख एवेत्था वेदोक्तप्रकारेण तं वेद सोऽपि किं स्वसामर्थ्येन नेत्याह- यत्र स इति ॥ यत्र के ब्रह्मणि स परमात्मा तिष्ठति नियामकतया स इत्यन्वयः । एवञ्च स्वान्तर्गतभगवत्प्रसादादेव वेदेति लभ्यते । यद्वा क इति किंशब्दो यच्छब्दार्थः । य इत्था वेद स यत्र स भगवान् यत्र तिष्ठति तत्र तिष्ठतीत्यर्थः ।। १.२.२५ ।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
पुनस्तन्महिमोक्तिपूर्वकं तज्ज्ञानं दुर्लभमित्याह- यस्येति ॥ यस्य भगवतः ब्रह्म ब्राह्मणत्वजात्याक्रान्तं वस्तु, क्षत्रं क्षत्रियत्वजात्याक्रान्तं च, इतरेतरसमुच्चये चशब्दौ, उभे ब्रह्मक्षत्रे ओदनः अन्नं भवतः, यस्य ब्रह्मक्षत्राख्योदनवतः मृत्युः प्राणिनां मारकः उपसेचनं अद्यमानत्वे सत्यन्नादन- साधनम्, व्यञ्जनरूपमित्यर्थः, स एवं जगत्संहर्तृत्वगुणको महाबलः यत्र तिष्ठति इत्था इत्थं एवं प्रकारेण, तदिति शेषः, तस्यावस्थानं को वेद न कोऽपीति ॥ १.२.२५ ।।
॥ इति प्रथमाध्यायस्य द्वितीया वल्ली ॥